भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०१७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। शतानीक उवाच ।। ।।
ब्रूहि मे विस्त राद्ब्रह्मन्प्रतिपत्कृत्यमादरात् ।।
ब्रह्मपूजाविधानं च पूजने यच्च वै फलम्।।१।।
।। सुमंतुरुवाच ।। ।।
शृणुष्वैकमना राजन्कथयाम्येष शांतिदम् ।।
पूर्वमेकार्णवे घोरे नष्टे स्थावरजंगमे ।। २ ।।
स्वयंभूरभवद्देवः सुरज्येष्ठश्चतुर्मुखः ।।
ससर्ज लोकान्देवांश्च भूतानि विविधानि च ।।३।।
कायेन मनसा वाचा जंगमस्थावराणि च ।।
पिता यः सर्वदेवानां भूतानां च पितामहः ।। ४ ।।
तस्मादेष सदा पूज्यो यतो लोकगुरुः परः ।।
सृजत्येष जगत्कृत्स्नं पाति संहरते तथा ।।५।।
रुद्रोऽस्य मनसो जातो विष्णुर्जातोऽस्य वक्षसः ।।
मुखेभ्यश्चतुरो वेदा वेदांगानि च कृत्स्नशः ।। ६ ।।
देवाप्सरसगंधर्वाः सयक्षोरगराक्षसाः ।।
पूजयंति सदा वीर विरिंचिं सुरनायकम् ।।७।।
सर्वो ब्रह्ममयो लोकः सर्वं ब्रह्मणि संस्थितम्।।
तस्मात्समर्चयेद्ब्रह्मन्य इच्छेच्छ्रेय आत्मनः ।। ८ ।।
यो न पूजयते भक्त्या सुरज्येष्ठं सुरेश्वरम् ।।
न स नाकस्य राज्यस्य न च मोक्षस्य भाजनम् ।। ९ ।।
यस्तु पूजयते भक्त्या विरिंचिं भुवनेश्वरम् ।।
स नाकराज्यमोक्षेषु क्षिप्रं भवति भाजनम् ।। 1.17.१० ।।
तस्मात्सौम्यमना भूत्वा यावज्जीवं प्रतिज्ञया ।।
अर्चयित्वा सदा देवमापन्नोपि नरो नृप ।। ११ ।।
वरं देहपरित्यागो वरं नरकसम्भवः ।।
न त्वेवापूज्य भुंजंति देवं वै पद्मसंभवम् ।। १२ ।।
सदा पूजयते यस्तु वीर भक्त्या पितामहम् ।।
मनुष्यचर्मणा नद्धः स वेधा नात्र संशयः।।१३।।
न हि वेधोऽर्चनात्किंचित्पुण्यमभ्यधिकं भवेत् ।।
इति विज्ञाय यत्नेन पूजनी यः सदा विधिः ।। १४ ।।
यो ब्रह्माणं द्वेष्टि मोहात्सर्वदेवनमस्कृतम् ।।
नरो नरकगामी स्यात्तस्य संभाषणादपि ।। १५ ।।
ब्रह्मणोर्चां प्रतिष्ठाप्य सर्वयत्नैर्विधानतः ।।
यत्पुण्यं फलमाप्नोति तदेकाग्रमनाः शृणु ।। १६ ।।
सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम् ।।
तत्फलं कोटिगुणितं लभेद्वेधः प्रतिष्ठया ।। १७ ।।
कञ्जजं स्थापयेद्यस्तु कृत्वा शालां मनोरमाम् ।।
सर्वांगमोदित पुण्यं कोटिकोटिगुणं लभेत् ।। १८ ।।
मातृजान्पितृजांश्चैव यां चैवोद्वहते स्त्रियम् ।।
कुलैकविंशमुत्तार्य ब्रह्मलोके महीयते ।। १९ ।।
भुक्त्वा तु विपुलान्भोगान्प्रलये समुपस्थिते ।।
ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते ।। 1.17.२० ।।
अथ वा राज्यमाकांक्षेज्जायते संभवांतरे ।।
सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् ।। २१ ।।
त्रिसंध्यं यो जपेद्ब्रह्म कृत्वाष्टदल पंकजम् ।।
पौर्णमास्यां प्रतिपदि तस्य पुण्यफलं शृणु ।। २२ ।।
अनेनैव स देहेन ब्रह्मा संतिष्ठते क्षितौ ।।
पापहा सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ।। ।। २३ ।।
उद्धृत्य दिवि संस्थाप्य कुलानामेकविंशतिम् ।।
तैः कुलैः सहितो नित्यं मोदते गोगतो नृप ।। २४ ।।
अप्येकवारं यो भक्त्या पूजयेत्पद्म संभवम् ।।
पद्मस्थं मूर्तिमंतं वा ब्रह्मलोकं स गच्छति ।।२५।।
पुण्यक्षयात्क्षितिं प्राप्य भवेत्क्षितिपतिर्महान् ।।
वेदवेदांगतत्त्वज्ञो ब्राह्मणश्चापि जायते।। ।। २६ ।।
न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः ।।
गच्छेद्ब्रह्मपुरं दिव्यं मुक्त्त्वा भक्तिपरात्मकान् ।।२७।।
मृद्दार्वेष्टकशैलैर्वा यः कुर्याद्ब्रह्मणो गृहम् ।।
त्रिःसप्तकुलसंयुक्तो ब्रह्मलोके महीयते ।। २८ ।।
मृन्मयात्कोटिगुणितं फलं दार्विष्टकामये ।।
इष्टकाद्विगुण पुण्यं कृते शैलमये गृहे ।। २९ ।।
क्रीडमानोपि यः कुर्याच्छालां वै ब्रह्मणो नृप ।।
ब्रह्मलोके स लभते विमानं सर्वकामिकम् ।। 1.17.३० ।।
पुष्पमालापरिक्षिप्तं किंकिणीजालभूषितम् ।।
दोलाविक्षेपसंपन्नं घंटाचामरभूषितम् ।। ३१ ।।
मुक्तादामवितानेन शोभितं सूर्यसुप्रभम् ।।
अप्सरोगणसंकीर्णं सर्वकामसुखप्रदम् ।। ३२ ।।
तत्रोषित्वा महाभोगी क्रीडमानः सदा सुरैः ।।
पुनरागत्य लोकेस्मिन्राजा भवति धार्मिकः ।। ३३ ।।
पश्यन्परिहरञ्जन्तून्मृदुपूर्वं महीपते ।।
शनैः संमार्जनं कुर्वंश्चान्द्रायणफलं व्रजेत् ।। ३४ ।।
वस्त्रपूतेन तोयेन यः कुर्यादुपलेपनम् ।।
पश्यन्परिहरञ्जतूंश्चांद्रायणफलं लभेत् ।। ३५ ।।
नैरंतर्येण यः कुर्यात्पक्षं संमार्जनार्चनम् ।।
युगकोटिशतं साग्रं ब्रह्मलोके महीयते ।। ३६ ।।
तस्यांते स चतुर्वेदः सुरूपः प्रियदर्शनः ।।
आढ्यः सर्वगुणोपेतो राजा भवति धार्मिकः ।। ३७ ।।
कपटेनापि यः कुर्याद्ब्रह्मशालां सुमानद ।।
संमार्जनादि वै कर्म सोऽपि प्राप्नोति तत्फलम् ।। ३८ ।।
तावद्धमंति संसारे दुःखशोकभयप्लुताः ।।
न भवंति सुरश्रेष्ठे यावद्रक्ता महीपते ।। ३९ ।।
समासक्तं यथा चित्तं जन्तोर्विषयगोचरे ।।
यद्येवं ब्रह्मणि न्यस्तं को न मुच्येत बन्धनात् ।। 1.17.४० ।।
खण्डस्फुटितसंस्कारं शालायां यः करोति वै ।।
अरामावसथाद्येषु लभते मौक्तिकं फलम् ।। ४१ ।।
नास्ति ब्रह्मसमो देवो नास्ति ब्रह्मसमो गुरुः ।।
नास्ति ब्रह्मसमं ज्ञानं नास्ति वेधःसमं तपः ।। ४२ ।।
प्रतिपद्यादिसर्वेषु दिवसेषूत्सवेषु च ।।
पर्वकालेषु पुण्ये पौर्णमास्यां विशेषतः ।। ४३ ।।
शंखभेर्यादिनिर्घोषैर्महद्भिगेंयसंयुतैः ।।
कुर्यान्नीराजनं देवे सुरज्येष्ठे चतुर्मुखे ।। ४४ ।।
यावत्पर्वाणि विधिना कुर्या न्नीराजनं नृप ।।
तावद्युगसहस्राणि ब्रह्मलोके महीयते ।। ४५ ।।
स्नानकाले त्रिसंध्यं तु यः कुर्यान्नृत्यवादनम् ।।
गीतं वा मुखवाद्यं वा तस्य पुण्य फलं शृणु ।। ४६ ।।
यावन्त्यहानि कुरुते गेयनृत्यादिवादनम् ।।
तावद्युगसहस्राणि ब्रह्मलोके महीयते ।। ४७ ।।
कपिलापञ्चगव्येन कुशवारियुतेन च ।।
स्नापयेन्मंत्रपूतेन ब्राह्मं स्नानं हि तत्स्मृतम् ।। ४८ ।।
कपिलापंचगव्येन दधिक्षीरघृतेन च ।।
स्नानं शतगुणं ज्ञेयमितरेषां नराधिप ।। ४९ ।।
देवाग्निकार्यमुद्दिश्य कपिलामाहरेत्सदा ।।
ब्रह्मक्षत्रविशश्चैव न शूद्रस्तु कदाचन ।। 1.17.५० ।।
कापिलं यः पिबेच्छूद्रो देवकार्यार्थनिर्मितम् ।।
स पच्येत महाघोरे सुचिरं नरकार्णवे ।। ५१ ।।
वर्षकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ।।
सुरज्येष्ठघृताभ्यंगाद्दहेत्सर्वं न संशयः ।। ५२ ।।
कल्पकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ।।
पितामहघृतस्नानं दहत्यग्निरिवेंधनम्।५३।।
घृतस्नानं प्रतिपदि सकृत्कृत्वा तु कांजजम् ।।
कुलैकविंशमुत्तार्य विष्णुलोके मही यते ।।५४।।
अयुतं यो गवां दद्याद्भक्त्या वै वेदपारगे ।।
वस्त्रहेमादियुक्तानां क्षीरस्नानेन यत्फलम् ।।५५।।
सकृदाज्येन पयसा स्नपयेत्तु यः ।।
गांगेयेन स यानेन याति ब्रह्मसलोकताम् ।। ५६ ।।
स्नाप्य दध्ना सकृद्वीर कञ्जजं विष्णुमाप्नुयात् ।।
मधुना स्नपयित्वा तु वीरलोके महीयते ।। ५७ ।।
स्नानमिक्षुरसेनेह यो विरिंचेः समाचरेत् ।।
स याति लोकं सवितस्तु तेजसा भासयन्नभः ।। ५८ ।।
शुद्धोदकेन यो भक्त्या स्नापयेत्पद्मसंभवम् ।।
उत्सृज्य पापकलिलं स यात्येव सलोकताम् ।। ५९ ।।
वस्त्रपूतेन तोयेन स्नपयेद्यः सकृद्विभुम् ।।
स सर्वकालं तृप्तात्मा लोकवश्यत्वमा प्नुयात् ।। 1.17.६० ।।
सर्वौषधीभिर्यो भक्त्या स्नपयेत्पद्मसंभवम् ।।
कांचनेन विमानेन ब्रह्मलोके महीयते ।। ६१ ।।
गन्धचन्दनतोयेन स्नापयेद्योंबुजोद्भवम् ।।
रुद्रलोकमवाप्नोति तेजसा हेमसन्निभः ।। ६२ ।।
पाटलोत्पलपद्मानि करवीराणि सर्वदा ।।
स्नानकाले प्रयोज्यानि स्थिराणि सुरभीणि च ।। ६३ ।।
एषामेकतमं स्नानं भक्त्या कृत्वा तु वेधसि ।।
विधूय पापकलिलं विधिलोके महीयते ।। ६४ ।।
कर्पूरागरुतोयेन स्नपयेद्यस्तु कञ्जजम् ।।
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ।। ६५ ।।
गायत्रीशतजप्तेन विमलेनांभसा विभुम् ।।
स्नपयित्वा सकृद्भक्त्या ब्रह्मलोकमवा प्नुयात् ।। ६६ ।।
विभुं शीतांबुना स्नाप्य धारोष्णपयसा ततः ।।
ततः पश्चाद् घृतस्नानं कृत्वा पापैर्विमुच्यते ।। ६७ ।।
एतत्स्नानत्रयं कृत्वा पूजयित्वा तु भक्तितः ।।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।। ६८ ।।
मृत्कुंभैस्ताम्रजैः कुंभैः स्नानं शतगुणं भवेत् ।।
रौप्ये लक्षोत्तरं प्रोक्तं हैमैः कोटिगुणं भवेत् ।। ६९ ।।
ब्रह्मणो दर्शनं पुण्यं दर्शनात्स्पर्शनं परम् ।।
स्पर्शनादर्चनं श्रेष्ठं घृतस्नातमतः परम् ।। 1.17.७० ।।
वाचिकं मानसं पापं घृतस्नानेन देहिनाम् ।।
क्षिणुते पद्मजो यस्मात्तस्मात्स्नानं समाचरेत् ।। ७१ ।।
स्नपयित्वार्चयेद्भक्त्या यथा तच्छृणु भारत ।।
शुचिवस्त्रधरः स्नातः कृतन्यासश्च भारत ।। ७२ ।।
चतुर्हस्तं लिखेत्पद्मं चतुर्भागविभागितम् ।।
मध्ये तस्य लिखेच्चक्रं दलैर्द्वादशभिश्चितम् ।। ७३ ।।
सरोजानि ततो न्यस्य अक्षराणि समन्ततः ।।
अक्षरं विहितं चान्यत्पत्रभागे प्रकीर्तितम् ।। ७४ ।।
नानावर्णकसंयोगाल्लिखेच्चैवानुपूर्वशः ।।
कृष्णोत्कटं तु मध्यं स्यात्पीतरक्तं तथा परम् ।। ७५ ।।
सितं शुद्धं तु कर्त्तव्यं मध्यभागे तु वर्तुलम् ।।
प्रभाकुण्डलकैर्बाह्यैर्वेष्टयेच्चक्रनायकम् ।।७६।।
एवमालिख्य यत्नेन मूलमन्त्रं ततो न्यसेत् ।।
मूर्ध्नः पादतलं यावत्प्रणवं विन्यसेद्बुधः ।। ७७ ।।
नादरूपं न्यसेत्तावद्यावच्छब्दस्य शून्यता ।।
तत्कारं विन्यसेन्मूर्ध्नि सकारं मुखमण्डले ।। ७८ ।।
विकारं कण्ठदेशे तु तुकारं सर्वसंधिषु ।।
वकारं हृदि मध्ये तु रेकारं पार्श्वयोर्द्वयोः ।। ७९ ।।
णकारं दक्षिणे कुक्षौ यकारं वामसंज्ञके ।।
भकारं कटिनाभिस्थं र्गोकारं जानुपर्वसु ।। 1.17.८० ।।
देकारं जंघयोर्न्यस्य वकारं पादपद्मयोः ।।
स्यकारमंगुष्ठयोर्न्यस्य धीकारं चोरसि न्यसेत् ।। ८१ ।।
मकारं जानुदेशे तु हिकारं गुह्यमाश्रितम् ।।
धिकारं हृदये न्यस्य योकारं चौष्ठयो र्न्यसेत् ।। ८२ ।।
नकारं नासिकाग्रे तु प्रकारं नेत्रमाश्रितम् ।।
चोकारं तु भुवोर्मध्ये दकारं प्राणमाश्रितम् ।। ८३ ।।
याकारं विन्यसेन्मूर्ध्नि तकारं केशमाश्रितम् ।।
न्यासं कृत्वात्मनो देहे देवे कुर्यात्तथा नृप ।।
सर्वोपचारसंपन्नं कृत्वा सम्यङ् निरीक्षयेत् ।। ८४ ।।
कुंकुमागुरुकर्पूर चन्दनेन विमिश्रितम् ।।
गन्धतोयमुपस्कृत्य गायत्र्या प्रणवेन च ।।
प्रोक्षयेत्सर्वद्रव्याणि पश्चादर्चनमाचरेत् ।। ८५ ।।
चक्रग्रन्थिषु सर्वासु प्रणवं विनिवेशयेत् ।।
भूयः प्लुतं समुच्चार्य प्रणवं सर्वतोमुखम् ।। ८६ ।।
विन्यसेत्पद्ममध्ये तु पीठनिष्पत्तिहेतवे ।।
आसने पृथिवी ज्ञेया सर्वसत्त्वधरा मता ।। ८७ ।।
ह्रस्वोंकारे मता सा तु दीर्घोंकारे तु देवराट् ।।
प्लुतस्तु व्यापयेद्भावं मोक्षदं चामृतात्मकम् ।। ८८ ।।
यत्नस्थो न निवर्तेत योगी प्राणपरायणः ।।
आवाहनं ततः कुर्यादक्षरेण परेण तु ।। ८९ ।।
आवाह्य तेजोरूपं तु न्यसेन्मन्त्रवरांस्ततः ।।
ततो विभावयेद्देवं पद्मस्थं चतुराननम्।।1.17.९०।।
स्रष्टारं सर्वजगतां विष्णुरुद्रविधानगम्।।
संभाव्य गन्धपुष्पादि संभारान्क्रमात्सर्वान्प्रकल्पयेत्।।
गायत्रीमुच्चरन्मन्त्रं सर्वकर्माणि कारयेत्।।९२।।
पुष्पं धूपं तथा दीपं नैवेद्यं सुमनोहरम्।।
खंडलड्डुकश्रीवेष्टकासाराशोकवर्तिकाः।।९३।।
स्वस्तिकोल्लोपिकादुग्धतिलावेष्टतिलाढिकाः।।
फलानि चैव पक्वानि लग्नखण्डगुडानि च।।९४।।
अन्यांश्च विविधान्दद्यात्पूपानि विविधानि च।।
एवमादीनि सर्वाणि दापयेचछक्तितो नृप।।९५।।
मूलमन्त्रेण देवस्य ततो देहं विभावयेत् ।।
पूजयेच्चापि विधिना येन तं ते ब्रवीम्यहम् ।। ९६ ।।
प्राणायामत्रयं कृत्वा देहसंशोधनाय वै ।।
आवाहयेत्ततोनन्तं धारयन्तं वचः सदा ।। ९७ ।।
ध्यात्वानन्तं ततो रुद्रं पद्मकिंजल्कमध्यगम् ।।
ध्यायेद्विष्णुं ततो देवं न्यसेत्पद्मोदरोद्भवम् ।। ९८ ।।
एवं त्रिदेवतारूढं पद्ममध्येंबुजोद्भवम् ।।
पूजयेन्मूलमन्त्रेण पद्मोदरभवं नृप ।। ९९ ।।
ऋग्वेदं तु यजुर्वेदं सामवेदं च पूजयेत् ।।
ज्ञानवैराग्यमैश्वर्यं धर्मं संपूजयेद्बुधः ।। 1.17.१०० ।।
ईशानादिक्रमाद्राजन्विदिशासु समंततः ।।
शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च ।। १०१ ।।
ज्योतिषं च महाबाहो उपवेदाश्च कृत्स्नशः ।।
इतिहासपुराणानि यथायोग्यं यथाक्रमम् ।। १०२ ।।
शिक्षा कल्पो व्याकरणं देवस्य पुरतः सदा ।।
कल्पादयस्ततश्चान्ये दिशासु विदिशासु च।।१०३।।
महाव्याहृतयः सर्वाः प्रणवेन समन्विताः।।
पूर्वादिक्रमयोगेन पूजयेद्विधिना नृप।। १०४।।
शक्तयो ब्रह्मणस्त्वेता लोकरूपा व्यवस्थिताः।।
पूजनीयाः प्रयत्नेन मंत्ररूपाः स्थिताः स्वयम्।।१०५।।
अरकांतरसंस्थांश्च षट् समुद्रान्समर्चयेत् ।।
नक्षत्राणि ग्रहाश्चैव राशयश्च विशेषतः । ।
पूज्याः सर्वे यथान्यायं सुराग्रेषु व्यवस्थिताः । । १०६ ।।
नागाश्च गरुडश्चैव पूजनीयस्तथाग्रतः ।।
देवता ऋषयश्चैव सहिताः कुलपर्वताः ।।
तत्तेजोनिलयाः सर्वे पूजनीयाः प्रयत्नतः ।। १०७ ।।
आचम्य विधिवत्पूर्वं मंत्रपूतेन वारिणा ।।
हृदयादीन्न्यसेदंगान्हृदयादिषु कृत्स्नशः । । १०८ । ।
शिखा नेत्रं तथा चर्म अस्त्रं च भरतर्षभ । ।
महेंद्रादिदिशश्चैताः पूजयेद्विधिवन्नृप । । १०९ । ।
हृदयं पुरतः पूज्यं शिरो देवस्य पृष्ठतः ।।
पूर्वं संपूजयेद्देवं मूलमंत्रेण कृत्स्नशः । । 1.17.११० ।।
विसर्जयेद्दर्शयित्वा मुद्रां तु भरतर्षभ । ।
अंकुशं नरशार्दूल ह्याह्वाने कंजमादिशेत् ।। १११ । ।
यस्त्वेवं पूजयेद्देवं प्रतिपन्नित्यमेव च । ।
उपोष्य पंचदश्यां तु स याति परमं पदम् ।। ११२ ।।
।। सुमंतु रुवाच । । । ।
आपो हिष्ठेति मंत्रोऽयं हृदयं परिकीर्तितम् । ।
ऋतं सत्यं शिखा प्रोक्ता उदुत्यं नेत्रमादिशेत् । । ११३ ।।
चित्रं देवानां मस्तमिति सर्वलोकेषु विश्रुतम् । ।
वर्मणा ते च्छादयामि कवचं समुदाहृतम् । । ११४ । ।
भूर्भुवः स्वरिति तथा शिरसे परिकीर्तितम् ।।
गायत्रीमूलतंत्रस्तु साधकः सर्वकर्मणाम् । । ११ ५। ।
गायत्र्या पूजयेद्देवमोंकारेणाभिमंत्रितम्। ।
प्रणवेनापरान्सर्वानृग्वेदादीन्प्रपूजयेत् । । ११६ । ।
आह्वाने पूजने वीर विसर्गे ब्रह्मणस्तथा । ।
गायत्री परमो मंत्रो वेदमाता विभाविनी । ११७ ।।
गायत्र्यक्षरतत्त्वैस्तु पूजयेद्यस्तु देवताम् । ।
स गच्छेद्ब्रह्मणः स्थानं दुर्लभं यद्दुरा सदम् । । ११८ । । ।।

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि प्रतिपत्कल्पे ब्रह्मणोऽर्चनविधिवर्णनं नाम सप्तदशोऽध्यायः । । १७ । ।