भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०१४
पतिपरदेशवासे स्त्रीणां शृङ्गारनिषेधः
ब्रह्मोवाच
प्रेषिते मण्डनं स्त्रीणां पत्यौ मङ्गलमात्रकम् ।
निष्पादनं च यत्नेन तदारब्धस्य कर्मणः । । १
शय्यामुपार्जनमर्थानां व्ययानां परिहापणम् । । २
व्रतोपवासतात्पर्यं तद्वार्तापरिमार्गणम् ।
दैवज्ञेक्षणिकप्रश्नो देवानामुपयाचनम् । । ३
नित्यं तस्यागमाशंसा क्षेमार्थं देवपूजनम् ।
न चात्युज्ज्वलवेषत्वं न सदा तैलधारणम् । ।४
ज्ञातिवेश्म न गन्तव्यं सकामगमनेन १ च ।
गुरूणामाज्ञया यावद्भर्तुराप्तजनैः सह । । ५
तत्रापि न चिरं तिष्ठेत्स्नानादीन्वापि नाचरेत् ।
यावदर्थं क्षणं स्थित्वा ततः शीघ्रं समाचरेत् । । ६
आगते प्रकृतिस्थैव कृत्वा तात्कालिकं विधिम् ।
मुक्तप्रवासने पथ्ये स्नाते भुक्तवति प्रिये । । ७
आत्मानं समलङ्कृत्य सविशेषं मुदान्विता ।
देवपूजोपहारादीन्दद्यात्प्रागुपपादितान् । । ८
कनिष्ठामातृवज्ज्येष्ठां तदपत्यानि चात्मवत् ।
पश्येत्तत्परिवर्गं तु नित्यं स्वपरिवर्गवत् । । ९
तत्पुरोनासने तिष्ठेत्पतिं नामंत्रयेत च ।
तदभिप्रायतः कुर्यात्प्रवृत्तिं सर्वकर्मसु । । 1.14.१०
न संसृजेत तद्द्विष्टैः सख्यं कुर्वीत तत्प्रियैः ।
जनमाप्ततमं तस्य सदाभर्तुश्च मानयेत् । । ११
पैतृकात्समुपानीतं वसुसौगंधिकादिकम् ।
तस्मै निवेद्यात्मतया तदा तदुपयोजयेत् । । १२
सोपि तत्प्रीतये किंचिदादद्यादल्पमूल्यकम् ।
संगोप्य मातृवत्स्थेयं तत्तथैवोपयोजयेत् । । १३
तत्प्रीत्यर्थं गृहीतं यद्वैलक्ष्यादिनिवृत्तये ।
सविशेषं प्रसंगेन तस्यैतत्प्रतिपादयेत् १ । । १४
स्त्रीणां यदेतत्सापत्न्यं परं मात्सर्यकारणम् ।
तस्मात्तत्परिहर्तव्यं परमोदारचर्यया२ । । १५
तथा कल्पितनेपथ्या भर्तुः पर्यायवासरे ।
ह्रियमादयमानेव३ पतिं गच्छेद्विसर्जिता । । १६
गत्वा रहसि भर्तारं तत्कालोचितसंभ्रमैः ।
तद्भावानुगतैस्तैस्तैः सविशेषमुपाचरेत् । । १७
प्रतिबुध्य ततः काले सविशेषं त्रपान्विता ।
ज्येष्ठाय वसतिं गच्छेद्विशेषेण तथा पुनः । । १८
अप्रातिकूल्यं ज्येष्ठाया हितमन्यत्र योषितः ।
ततः शनैस्त्ववच्छिद्य पतिं स्ववशमानयेत् । । १९
बहिष्पाकादियोगेन चतुःषष्ट्या रहोगतम् ।
ज्येष्ठामतिशयानेव भर्तारमुपरञ्जयेत् । । 1.14.२०
प्रागल्भ्यं रहसि स्त्रीणां लज्जाधिक्यं ततोऽन्यदा ।
चित्तज्ञानानुवृत्तिश्च पत्यौ संसेवनं परम् । । २१
एवमाराध्य भर्तारं गृहमाक्रम्य च क्रमात् ।
गौरवं प्रतिपत्तिं वा ज्येष्ठादिषु न हापयेत् । । २२
गृहव्यापारदानेषु पतिं गुढं तधा वदेत् ।
अधिकुर्यादनिच्छन्ती ज्येष्ठैवेनां यथा बलात् । । २३
सापि विज्ञाय भर्तारं कनिष्ठाकृष्टमानसम् ।
विश्रामं प्रार्थयेदेनामधिकुर्यात्सुतामिव । । २४
मत्वा भर्तुरभिप्रेतं रक्षन्ती निजगौरवम् ।
कृतं भर्त्रनुकूलं स्यात्तदिष्टायानुमोदयेत् । । २५
स्थानिनो यदभिप्रेतं भृत्यैः किं क्रियतेऽन्यथा ।
क्लिश्यते तत्र मूढात्मा परतन्त्रो वृथा जनः । । २६
तस्मात्सर्वास्ववस्थासु मनोवाक्कायकर्मभिः ।
हितं स्वाम्यनुकूलत्वं नारीणां तु विशेषतः । । २७
सापि ज्येष्ठापतिं चैव गृहतन्त्रं च सर्वदा ।
समावर्ज्य १ गुणैर्धीरा प्रागवस्थां न विस्मरेत् । । २८
न सौभाग्यमदं कुर्यान्न चौद्धत्यादिविक्रियाम् ।
नितरामानतिं गच्छेत्सदानार्यभयादिव । । २९
यथा योग्यतया पत्यौ सौभाग्यमभिवर्धते ।
स्पर्धयेच्य कुलस्त्रीणां प्रश्रयोपाधिकं तथा । । 1.14.३०
एवमाराध्य भर्तारं तत्कार्येष्वप्रमादिनी ।
पूज्यानां पूजने नित्यं भृत्यानां भरणेषु च । । ३१
गुणानामर्जने नित्यं शीलवत्परिरक्षणे ।
प्रेत्य चेह च निर्द्वन्द्वं सुखमाप्नोत्यनुत्तमम् । । ३२
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीधर्मेषु सपत्नीकर्तव्यवर्णनं नाम चतुर्दशोऽध्यायः । १४ ।