भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ००४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

प्रणवार्थसावित्रीमाहात्म्योपनयनविधिवर्णनञ्च

सुमन्तुरुवाच
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर्द्वाविंशे वैश्यस्य त्र्यधिके ततः । । १
अमन्त्रिका सदा कार्या स्त्रीणां चूडा महीपते ।
संस्कारहेतोः कायस्य यथाकालं विभागशः । । २
वैवाहिको विधिः स्त्रीणां संस्कारो नैगमः स्मृतः ।
निवसेद्वा गुरोर्वापि गृहे वाग्निपरिक्रिया । । ३
एष ते कथितो राजन्नौपनायनिको विधिः ।
द्विजातीनां महाबाहो उत्पत्तिव्यञ्जकः परः । । ४
कर्मयोगमिदानीं ते कथयामि महाबल ।
उपनीय गुरुः शिष्यं प्रथमं शौचमादिशेत् । । ५
आचारमग्निकार्यं च सन्ध्योपासनमेव च ।
अध्यापयेत्तु सच्छिष्यान्सदाचान्त उदङ्मुखः । । ६
ब्रह्माञ्जलिकरो नित्यमध्याप्यो विजितेन्द्रियः ।
लघुवासास्तथैकाग्रः सुमना सुप्रतिष्ठितः । । ७
ब्रह्मारम्भेऽवसाने च पादौ पूज्यौ गुरोः सदा ।
संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः । । ८
व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः । । ९
अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः ।
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति वारयेत् । । 1.4.१०
ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।
स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते । । ११
श्रूयतां चापि राजेन्द्र यथोङ्कारं द्विजोऽर्हति ।
प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः । । १२
प्राणायामैस्त्रिभिः पूतस्ततस्त्वोङ्कारमर्हति ।
ॐकारलक्षणं चापि शृणुष्व कुरुनन्दन । । १३
अकारं चाप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयात्तु निर्गृह्य भूर्भुवः स्वरितीति च । । १४
त्रिभ्य एव तु वेदेभ्यः पादंपादमदूदुहत् ।
तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः । । १५
एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम् ।
सन्ध्ययोरुभयोर्विप्रो वेद पुण्येन युज्यते । । १६
सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः ।
महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते । । १७
एतयर्चा विसंयुक्तः काले च क्रियया स्वया ।
विप्रक्षत्रियविड्योनिर्गर्हणां याति साधुषु । । १८
शृणुष्वैकमना राजन्परमं ब्रह्मणो मुखम् ।
ॐकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । । १९
त्रिपदा चैव सावित्री विज्ञेया ब्रह्मणो मुखम् ।
योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । । 1.4.२०
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ।
एकाक्षरं परं ब्रह्म प्राणायामः परन्तप । । २१
सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते ।
तपः किया होमक्रिया तथा दानक्रिया नृप । । २२
अक्षयान्ताः सदा राजन्यथाह भगवान्मनुः ।
अवरं स्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः । । २३
विधियज्ञात्सदा राजञ्जपयज्ञो विशिष्यते ।
नानाविधैर्गुणोद्देशैः सूक्ष्माख्यातैर्नृपोत्तम । । २४
पांशुः स्याल्लक्षगुणः सहस्रो मानसः स्मृतः ।
ये पाकयज्ञाश्चत्वारो विधियज्ञेन चान्विताः । । २५
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ।
जपादेव तु संसिध्येद्द्ब्राह्मणो नात्र संशयः । । २६
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ।
पूर्वां सन्ध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् । । २७
पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ।
दिनस्यादौ भवेत्पूर्वा शर्वर्यादौ तथा परा । । २८
सनक्षत्रा परा ज्ञेया अपरा सदिवाकरा ।
जपंस्तिष्ठन्परां सन्ध्यां नैशमेनो व्यपोहति । । २९
अपरां तु समासीनो मलं हन्ति दिवाकृतम् ।
नोपतिष्ठति यः पूर्वां नोपास्ते पश्चिमां नृप । । 1.4.३०
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ।
अपां समीपे नियतो नैत्यकं विधिमास्थितः । । ३१
सावित्रीमप्यधीयीत गत्याऽरण्यं समाहितः ।
वेदोपकरणे राजन्स्वाध्याये चैव नैत्यके । । ३२
नात्र दोषोस्त्यनध्याये होममन्त्रेषु वा विभो ।
नैत्यके नास्त्वनध्यायो ब्रह्मसत्रं हि तत्कृतम् । । ३३
ब्रह्माहुतिहुतं पुष्यमनध्यायवषट्कृतम् ।
ऋगेकां यस्त्वधीयीत विधिना नियतो द्विजः । । ३४
तस्य नित्यं क्षरत्येषा पयो मेध्यं घृतं मधु ।
अग्निशुश्रूषणं भैक्षमधः शय्यां गुरोर्हितम् । । ३५
आसमावर्तनात्कुर्यात्कृतोपनयनो द्विजः ।
आचार्यपुत्रशुश्रूषां ज्ञानदो धार्मिकः शुचिः । । ३६
आप्तः शक्तोन्नदः साधुः स्वाध्याप्या दश धर्मतः ।
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः । । ३७
जानन्नपि हि मेधावी जडवल्लोक आचरेत् ।
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । । ३८
तयोरन्यतरः प्रैति विद्वेषं वा निगच्छति ।
धर्मार्थौ यत्र न स्यातां शुश्रूषा चापि तद्विधा । ।
न तत्र विद्या वप्तव्या शुभं बीजमिवोषरे । । ३९
विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।
आपद्यपि हि घोरायां न त्वेनामीरिणे वपेत् । ।1.4.४ ०
विद्या ब्राह्मणमित्याह शेवधिस्तेऽस्मि रक्ष माम् ।
असूयकाय मा प्रादास्तथा स्यां वीर्यवत्तमा । ।४ १
शेवं सुखमुशन्तीह केचिज्ज्ञानं प्रचक्षते ।
तौ धारयति वै यस्माच्छेवधिस्तेन सोच्यते । ।४२
यमेव तु शुचिं विद्यान्नियतं ब्रह्मचारिणम् ।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने । ।४ ३
ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् । । ४४
लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च ।
स याति नरकं घोरं रौरवं भीमदर्शनम् । । ४५
अणुमात्रात्मकं देहं षोडशार्धमिति स्मृतम् ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् । । ४६
सावित्रीसारमात्रोऽपि वरो विप्रः सुयन्त्रितः ।
नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी । । ४७
शय्यासनेध्याचरिते श्रेयसा न समाविशेत् ।
शय्यासनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् । । ४८
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आगते ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते । । ४९
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि सम्यग्वर्धन्ते आयुः प्रज्ञा यशो बलम् । । 1.4.५०
अभिवादपरो विप्रो ज्यायांसमभिवादयेत् ।
असौ नामाहमस्मीति स्वनाम परिकीर्तयेत् । । ५१
नामधेयस्य ये केचिदभिवादं न जानते ।
तान्प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च । । ५२
भोः शब्दं कीर्तयेदन्ते स्वस्य नाम्नोभिवादने ।
नाम्नः स्वरूपभावो हि भो भाव ऋषिभिः स्मृतः । । ५३
आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः । । ५४
यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः । । ५५
अभिवादे कृते यस्तु न करोत्यभिवादनम् ।
आशीर्वा कुरुशार्दूल स याति नरकं ध्रुवम् । । ५६
अभीति भगवान्विष्णुार्वादयामीति शङ्करः ।
द्वावेव पूजितौ तेन यः करोत्यभिवादनम् । । ५७
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु । । ५८
न वाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
भो भवत्पूर्वकत्वेन इति स्वायम्भुवोऽब्रवीत् । ५९
परपत्नी तु या राजन्नसम्बद्धा तु योनितः ।
वक्तव्या भवतीत्येवं सुभगे भगनीति च । । 1.4.६०
पितृव्यान्मातुलान्राजञ्छ्वशुरानृत्विजो गुरून् ।
असावहमिति ब्रूयात्प्रत्युत्थाय जघन्यजः । । ६१
मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा ।
सम्पूज्या गुरुपत्नी च समास्ता गुरुभार्यया । । ६२
ज्येष्ठस्य भ्रातुर्या भार्या सवर्णाहन्यहन्यपि ।
२पूजयन्प्रयतो विप्रो याति विष्णुसदो नृप । । ६३
प्रवासादेत्य सम्पूज्या ज्ञातिसम्बन्धियोषितः ।
पितुर्या भगिनी राजन्मातुश्चापि विशाम्पते । । ६४
आत्मनो भगिनी या च ज्येष्ठा कुरुकुलोद्वह ।
सदा स्वमातृवद्धृत्तिमातिष्ठेद्भारतोत्तम । । ६५
गरीयसी ततस्ताभ्यो माता ज्ञेया नराधिप ।
पुत्रमित्रभागिनेया द्रष्टव्या ह्यात्मना समाः । । ६६
दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।
अब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु । । ६७
ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता । । ६८
इत्येवं क्षत्रियपिता वैश्यस्यापि पितामहः ।
प्रपितामहश्च शूद्रस्य प्रोक्तो विप्रो मनीषिभिः । । ६९
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् । । 1.4.७०
पञ्चानां त्रिषु वर्गेषु भूयांसि गुणवन्ति च ।
यस्य स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः । । ७१
चक्रिणो दशमीस्थस्य रोगिणो भारिणः १ स्त्रियाः ।
स्नातकस्य तु राज्ञश्च पन्था देयो वरस्य च । । ७२
एषां समागमे तात पूज्यौ स्नातकपार्थिवौ ।
आभ्यां समागमे राजन्स्नातको नृपमानभाक् । । ७३
अध्यापयेद्यस्तु शिष्यं कृत्वोपनयनं द्विजः ।
सरहस्यं सकल्पं च वेदं भरतसत्तम । ।
तमाचार्यं महाबाहो प्रवदन्ति मनीषिणः । । ७४
एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते । । ७५
निषेकादीनि कार्याणि यः करोति नृपोत्तम ।
अध्यापयति चान्येन स विप्रो गुरुरुच्यते । । ७६
अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ।
यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते । । ७७
य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ ।
स माता स पिता ज्ञेयस्तं न द्रुह्येत्कथञ्चन १ । । ७८
उपाध्यायान्दशाचार्यं आचार्याणां शतं पिता ।
सहस्रेण पितुर्माता गौरवेणातिरिच्यते । । ७९
उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् । । 1.4.८०
कामान्माता पिता चैनं यदुत्पादयतो मिथः ।
सम्भूतिं तस्य तां विद्याद्यद्योनावभिजायते । । ८१
आचार्यस्तस्य तां जातिं विधिद्वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साऽजरामरा । । ८२
उपाध्यायमादितः कृत्वा ये पूज्याः कथितास्तव ।
महागुरुर्महाबाहो सर्वेषामधिकः स्मृतः । । ८३
सहस्रशतसंख्योऽसावाचार्याणामिदं मतम् ।
चतुर्णामपि वर्णानां स महागुरुरुच्यते । । ८४
शतानीक उवाच
य एते भवता प्रोक्ता उपाध्यायमुखा द्विजाः ।
विदिता एव मे सर्वे न महागुरुरेव हि । । ८५
सुमन्तुरुवाच
जयोपजीवी यो विप्रः स महागुरुरुच्यते ।
अष्टादशपुराणानि रामस्य चरितं तथा । । ८६
विष्णुधर्मादयो धर्माः शिवधर्माश्च भारत ।
कार्ष्णं वेदं पञ्चमं तु यन्महाभारतं स्मृतम् । । ८७
श्रौता १ धर्माश्च राजेन्द्र नारदोक्ता महीपते ।
जयेति नाम एतेषां प्रवदन्ति मनीषिणः । । ८८
एवं विप्रकदम्बस्य धारकः२ प्रवरः स्मृतः ।
यस्त्वेतानि समस्तानि पुराणानीह विन्दति । । ८९
भारतं च महाबाहो स सर्वज्ञो मतो नृणाम् ।
तस्मात्स पूज्यो राजेन्द्र वर्णैर्विप्रादिभिः सदा । । 1.4.९०
किं त्वया न श्रुतं वाक्यं यदाह भगवान्विभुः ।
अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । ।
तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया३ । । ९१
ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।
बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ४ । । ९२
अध्यापयामास पितॄञ्छिशुराङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य ताम् । । ९३
ते तमर्थमपृच्छन्त देवानागतमन्यवः ।
देवाश्चैतान्समेत्योचुर्न्याय्यं वै शिशुरुक्तवान् । । ९४
अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् । । ९५
पितामहेति जयदमित्यूचुस्ते दिवौकसः ।
जयो मन्त्रास्तथा वेदा देहमेकं त्रिधा कृतम् । । ९६
नहायनैर्न पलितैर्न मित्रेण न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् । । ९७
ब्राह्मणक्षत्रियविशां शूद्राणां च विशांपते ।
ज्येष्ठं वन्दन्ति राजेन्द्र सन्देहं शृणु वै यथा । । ९८
ज्ञानतो वीर्यतो राजन्धनतो जन्मतस्तथा ।
शीलतस्तु प्रधाना ये ते प्रधाना मता मम । । ९९
न तेन स्थविरो भवति येनास्य पलितं शिरः ।
यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः । । 1.4.१००
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
यश्च विप्रोऽनधीयानस्त्रयस्ते नाम १ बिभ्रति । । १०१
यथा योषाऽफला स्त्रीषु यथा गौर्गवि चाफला ।
यथा चाज्ञेऽफलं दानं यथा विप्रोऽनृचोऽफलः । । १०२
वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः ।
सर्वे तु वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः । । १०३
नानृग्ब्राह्मणो भवति न वणिङ्न कुशीलवः ।
न शूद्रः प्रेषणं कुर्वन्नस्तेनो न चिकित्सकः । । १०४
अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः ।
तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः । । १०५
सन्तुष्टो यत्र वै विप्रः साग्निकः कुरुनन्दन ।
याति साफल्यतां वेदैर्देवैरेवं हि भाषितम् । । १०६
वेदैरुक्तं यथा वीर सुरज्येष्ठमुपेत्य वै ।
वेपन्ते ब्राह्मणा भूमावभ्यस्यन्ति ह्यनग्निकाः । ।
क्लिश्यन्ते ते किमर्थं हि मूढा वै फलकाम्यया । । १०७
अनुष्ठानविहीनानामस्मानभ्यसतां भुवि ।
क्लेशो हि केवलं देव नास्मदभ्यसने फलम् । । १०८
अनुष्ठानं परं देवमस्मत्स्वभ्यसनात्सदा ।
इत्येवं राजशार्दूल वेदा ऊचुर्हि वेधसम् । ।
तस्माच्च वेदाभ्यसनादनुष्ठानं परं मतम् । । १०९
चत्वारो वा त्रयो वापि यद्ब्रूयुर्वेदपारगाः ।
स धर्म इति विज्ञेयो नेतरेषां सहस्रशः । । 1.4.११०
यद्वदन्ति तमोमूढा मूर्खा धर्ममजानतः १ ।
तत्पापं शतधा भूत्वा वक्तॄनेवानुगच्छति । । १११
शौचहीने व्रतभ्रष्टे विप्रे वेदविवर्जिते ।
दीयमानं रुदत्यन्नं कि मया दुष्कृतं कृतम् । । ११२
जपोपजीविने दत्तं यदात्मानं प्रपश्यति ।
नृत्यति स्म तदा राजन्करावुद्धृत्य भारत । । ११३
विद्यातपोभ्यां सम्पन्ने ब्राह्मणे गृहमागते ।
क्रीडन्त्यौषधयः सर्वा यास्यामः परमां गतिम् । । ११४
१अव्रतानाममन्त्राणामजपानां च भारत ।
प्रतिग्रहो न दातव्यो न शिला तारयेच्छिलाम् । । ११५
श्रोत्रियायैव देयानि हव्यकव्यानि नित्यशः ।
अश्रोत्रियाय दत्तानि न पितॄन्नापि २ देवताः । । ११६
यस्य चैव गृहे मूर्खो दूरे चापि बहुश्रुतः ।
बहुश्रुताय दातव्यं नास्ति मूर्खव्यतिक्रमः । । ११७
ब्राह्मणातिक्रमो नास्ति मूर्खे जपविवर्जिते ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते । । ११८
न चैतदेव मन्यन्ते .पितरो देवतास्तथा ।
सगुणं निर्गुणं वापि ब्राह्मणं दैवतं परम् । । ११९
नातिक्रमेद्गृहासीनं ब्राह्मणं विप्रकर्मणि ३ ।
अतिक्रमन्महाबाहो रौरवं याति भारत । । 1.4.१२०
गायत्रीमात्रसारोऽपि ब्राह्मणः पूज्यतां गतः ।
गृहासन्नो विशेषेण न भवेत्पतितस्तु सः । । १२१
धान्यशून्यो यथा ग्रामो यथा कूपश्च निर्जलः ।
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः । । १२२
यस्त्वेकपङ्क्त्यां विषमं ददाति स्नेहाद्भयाद्वा यदि वार्थहेतोः ।
वेदेषु दृष्टमृषिभिश्च गीतं तां ब्रह्महत्यां मुनयो वदन्ति । । १२३
अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् ।
वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममीप्सता । । १२४
यस्य वाङ्मनसी शुद्धे सत्यगुप्ते च भारत ।
स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् । । १२५
नारुन्तुदः स्यादार्तोऽपि न परद्रोहकर्मधीः ।
ययास्यो द्विजते लोको न तां वाचमुदीरयेत् । । १२६
यत्करोति शुभं वाचा १ प्रोच्यमाना मनीषिभिः ।
श्रूयतां कुरुशार्दूल सदा चापि तथोच्यताम् । । १२७
न तथा शशी न सलिलं न चन्दनरसो न शीतलच्छाया ।
प्रह्लादयति च पुरुषं यथा मधुरभाषिणी वाणी । । १२८
अर्हणाद्ब्राह्मणो नित्यमुद्विजेत विषादिव ।
अमृतस्येव चाकांक्षेदपमानस्य सर्वदा । । १२९
सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ।
सुखं चरति लोकेस्मिन्नवमन्ता विनश्यति । । 1.4.१३०
अनेन विधिना राजन्संस्कृतात्मा द्विजः शनैः ।
गुरौ वसन्सेचिनुयाद्ब्रह्माधिगमिदं तपः । । १३१
तपोविशेषैर्विविधैर्व्रतैश्च विविधोदितैः ।
वेदः कृत्स्नोधिगन्तव्यः सरहस्यो द्विजन्मना । । १३२
वेदमेवाभ्यसेन्नित्यं तपस्तप्यं द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते । । १३३
आहैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः सुप्तोऽपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् । । १३४
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः । । १३५
न यस्य वेदो न जपो न विद्याश्च विशाम्पते ।
स शूद्र एव मन्तव्य इत्याह भगवान्विभुः । । १३६
मातुरग्रे च जननं द्वितीयो मौञ्जिबन्धनम् ।
तृतीयो यज्ञदीक्षायां द्विजस्य विधिरीरितः । । १३७
तत्र यद्ब्रह्म जन्मास्य मौञ्जीबन्धनचिह्नितम् । । १३८
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ।
वेदप्रदानात्त्वाचार्यं पितरं मनुरब्रवीत् । । १३९
न ह्यस्य विद्यते कर्म किञ्चिदामौञ्जिबन्धनात् ।
नाभिव्याहारयेद्ब्रहम स्वधानिनयनादृते १ । । 1.4.१४०
शूद्रेण तु समं तावद्यावद्वेदे न जायते ।
कृतोपनयनस्यास्य व्रतादेशनमिष्यते । ।
ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् । । १४१
यत्सूत्रं चापि यच्चर्म या या चास्य च मेखला ।
वसनं चापि यो दण्डस्तद्वै तस्य व्रतेष्वपि । । १४२
सेवेतेमांस्तु नियमान्ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः । । १४३
वृन्दारकर्षिपितॄणां कुर्यात्तर्पणमेव हि ।
नराणां च महाबाहो नित्यं स्नात्वा प्रयत्नतः । । १४४
पुष्पं तोयं फलं चापि समिदाधानमेव ३ च ।
नानाविधानि काष्ठानि मृत्तिकां च तथा कुशान् । । १४५
वर्जयेन्मधु मांसं च गन्धमाल्यरथान्स्त्रियः ।
शुक्लानि चैव सर्वाणि प्राणिनां १ चैव हिंसनम् । । १४६
अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् ।
संकल्पं कामजं क्रोधं लोभं गीतं च वादनम् । । १४७
नर्तनं च तथा द्यूतं जनवादं तथानृतम् ।
परिवादं चापि विभो दूरतः परिवर्जयेत् । । १४८
स्त्रीणां च प्रेक्षणालम्बो रपवीतं२ परस्य च ।
पुंश्चलीभिस्तथा सङ्गं न कुर्यात्कुरुनन्दन । । १४९
एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्वचित् ।
कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतमेव तु । । 1.4.१५०
सुप्तः क्षरन्ब्रह्मचारी द्विजः शुक्रमकामतः ।
स्नात्वार्कमर्चयित्वा तु पुनर्मामित्यृचं जपेत् । । १५१
मनोरपि तथा चात्र श्रूयते परमं वचः ।
उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् । ।
आहरेद्यावदर्थान्हि भैक्षं चापि हि नित्यशः । । १५२
गृहेषु येषां कर्तव्यं ताञ्छृणुष्व नृपोत्तम ।
स्वकर्मसु रता ये वै तथा वेदेषु ये रताः । ।
यज्ञेषु चापि राजेन्द्र ये च श्रद्धासमाश्रिताः । । १५३
ब्रह्मचार्या हरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ।
गुरोः कुले न भिक्षेत् स्वज्ञातिकुलबन्धुषु । । १५४
अलाभे त्वन्यगोत्राणां पूर्वं पूर्वं विवर्जयेत् ।
सर्वं चापि चरेद्ग्रामं पूर्वोक्तानामसम्भवे । ।
अन्त्यवर्जं महाबाहो इत्याह भगवान्विभुः । । १५५
वाचं नियम्य प्रयतस्त्वग्निं शस्त्रं च वर्जयेत् ।
चातुर्वर्ण्यं चरेद्भैक्षमलाभे कुरुनन्दन । । १५६
आरादाहृत्य समिधः. सन्निदध्याद् गृहोपरि ।
सायंप्रातस्तु जुहुयात्ताभिरग्निमतन्द्रितः । । १५७
भैक्षाचरणमकृत्वा न तमग्निं समिध्य वै ।
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् । । १५८
वर्तनं चास्य भैक्षेण प्रवदन्ति मनीषिणः ।
तस्माद्भैक्षेण वै नित्यं नैकान्नादी भवेद्यती । । १५९
भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ।
दैवत्ये व्रतवद्राजन्पित्र्ये कर्मण्यथर्षिवत् । ।
काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते । । 1.4.१६०
ब्राह्मणस्य महाबाहो कर्म यत्समुदाहृतम् ।
राजन्यवैश्ययोर्नैतत्पण्डितैः कुरुनन्दन । । १६१
चोदितोऽचोदितो १ वापि गुरुणा नित्यमेव हि ।
कुर्यादध्ययने योगमाचार्यस्य हितेषु च । । १६२
बुद्धीन्द्रियाणि मनसा शरीरं वाचमेव हि ।
नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् । । १६३
नित्यमुद्धृतपाणिः स्यात्साध्वाचारस्तु संयतः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः । । १६४
वस्त्रवेषैस्तथान्नैस्तु हीनः स्याद्गुरुसन्निधौ ।
उत्तिष्ठेत्प्रथमं चास्य जघन्यं चापि संविशेत् । । १६५
प्रतिश्रवणसम्भाषे तल्पस्थो न समाचरेत् ।
न चासीनो न भुञ्जानो न तिष्ठन्न पराङ्मुखः । । १६६
आसीनस्य स्थितः कुर्यादभिगच्छंश्च तिष्ठतः ।
प्रत्युद्गन्ता तु व्रजतः पश्चाद्धावंश्च धावतः । । १६७
पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् ।
नमस्कृत्य शयानस्य निदेशे तिष्ठेत्सर्वदा । । १६८
नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।
गुरोश्च चक्षुर्विषये न यथेष्टासनो भवेत् । । १६९
नामोच्चारणमेवास्य परोक्षमपि सुव्रत ।
न चैनमनुकुर्वीत गतिभाषणचेष्टितैः । । 1.4.१७०
परीवादस्तथा निन्दा गुरोर्यत्र प्रवर्तते ।
कर्णौ तत्र पिधातव्यो गन्तव्यं वा ततोऽन्यतः । । १७१
परीवादाद्रासभः स्यात्सारमेयस्तु निन्दकः ।
परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी । । १७२
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।
यानासनगतो राजन्नवरुह्याभिवादयेत् । । १७३
प्रतिकूले समाने तु नासीत गुरुणा सह ।
अशृण्वंति गुरौ राजन्न किञ्चिदपि कीर्तयेत् । । १७४
गोश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्धं शिलाफलक नौषु च ।। १७५
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ।
गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ।। १७६
बालः समानजन्मा वा विशिष्टो यज्ञकर्मणि ।
अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति ।। १७७
उत्सादनमथाङ्गानां स्नापनोच्छिष्टभोजने ।
पादयोर्नेजन राजन्गुरुपुत्रेषु वर्जयेत् ।। १७८
गुरुवत्प्रतिपूज्यास्तु सवर्णा गुरुयोषितः ।
असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ।। १७९
अभ्यञ्जनं स स्नपनं गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ।। 1.4.१८०
गुरुपत्नीं तु युवतीं नाभिवादेत पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ।। १८१
स्वभाव एव नारीणां नराणामिह दूषणम् ।
अतोर्थान्न प्रमाद्यन्ति प्रतिपाद्य विपश्चितः ।। १८२
अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।
प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ।। १८३
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ।। १८४
राजेन्द्र गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ।। १८५
विप्रोऽस्य पादग्रहणमन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ।। १८६
यथा खनन्खनित्रेण जलमाप्नोति मानवः ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।। १८७
मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखी जटी ।
नैनं ग्रामेऽभिनिम्लोचेदर्को नाभ्युदियात्क्वचित् ।। १८८
तं चेदभ्युदियात्सूर्यः शयानं कामकारतः ।
निम्लोचेद्वाप्यभिज्ञानाज्जपन्नुपवसेद्दिनम् ।। १८९
सूर्येण ह्यभिनिर्मुक्तः शयानोभ्युदितश्च यः ।
प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा ।। 1.4.१९०
उपस्पृश्य महाराज उभे सन्ध्ये समाहितः ।
शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ।। १९१
यदि स्त्री यद्यवरजः श्रेयः किञ्चित्समाचरेत् ।
तत्सर्वमाचरेद्युक्तो यत्र वा रमते मनः ।। १९२
धर्मार्थावुच्यते श्रेयः कामार्थौ धर्ममेव च ।
अर्थ एवेह वा श्रेयस्त्रिवर्ग इति संस्थितिः ।। १९३
पिता माता तथा भ्राता आचार्याः कुरुनन्दन ।
नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ।। १९४
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माताप्यथादितेर्मूर्तिर्भ्राता स्यान्मूर्तिरात्मनः ।। १९५
यन्माता पितरौ क्लेशं सहेते सम्भवे नृणाम् ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि । । १९६
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च भारत ।
तेषु हि त्रिषु तुष्टेषु तपः सर्वं समाप्यते । । १९७
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् । । १९८
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः १ ।
त एव च त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः । । १९९
माता वै गार्हपत्याग्निः पिता वै दक्षिणः स्मृतः ।
गुरुराहवनीयश्च साग्नित्रेता गरीयसी । । 1.4.२००
त्रिषु तुष्टेषु चैतेषु त्रींल्लोकाञ्जयते गृही ।
दीप्यमानः स्ववपुषा देववद्दिवि मोदते । । २०१
इमं लोकं पितृभक्त्या मातृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया चैव गच्छेच्छक्रसलोकताम् । । २०२
सर्वे तेनादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृतास्तु येनैते सर्वास्तस्याफलाः ।।२०३
यावत्त्रयस्ते जीवेयुस्तावन्नान्यत्समाचरेत्।
तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः । । २०४
तेषामनुपरोधेन पार्थक्यं २ यद्यदाचरेत् ।
तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः । । २०५
त्रिष्वेतेष्विति कृत्यं हि पुरुषस्य समाप्यते ।
एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते । । २०६
श्रद्धधानः शुभां विद्यामाददीतावरादपि ।
अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि । । २०७
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् । । २०८
स्त्रियो रत्नं नयो विद्या धर्मः शौचं सुभाषितम् ।
विविधानि च शिल्पानि समादेयानि सर्वशः । । २०९
अब्राह्मणादध्ययनमापत्काले विधीयते ।
अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः । । 1.4.२१०
नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ।
ब्राह्मणे चाननूचाने काञ्क्षन्गतिमनुत्तमाम् । । २११
यदि त्वात्यन्तिको वासो रोचते च गुरोः कुले ।
युक्तः परिचरेदेनमाशरीरविमोक्षणात् । । २१२
आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् ।
स गच्छत्यञ्जसा विप्रो ब्राह्मणः सद्य शाश्वतम् । । २१३
न पूर्वं गुरवे किञ्चिदुपकुर्वीत धर्मवित् ।
स्नानाय गुरुणाज्ञस्तः शक्त्या गुर्वर्थमाहरेत् । । २१४
क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमेव च ।
धान्यं वासांसि शाकं वा गुरवे प्रीतमाहरेत् । । २१५
स्वर्गते गां परित्यज्य गुरौ भरतसत्तम ।
गुणान्विते गुरुसुते गुरुदारेऽथ वा नृप । ।
सपिण्डे वा गुरोश्चापि गुरुवद्वृत्तिमाचरेत् । । २१६
एतेष्वविद्यमानेषु स्थानासनविहारवान् ।
प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्सनः । ।
वीरस्य कुर्वञ्छुश्रूषां याति वीरसलोकताम् । । २१७
चरत्येवं हि यो विप्रो ब्रह्मचर्यमविप्लुतः ।
स गत्वा ब्रह्मसदनं ब्रह्मणा सह मोदते । । २१८
इत्येष कथितो धर्मः प्रथमं ब्रह्मचारिणः ।
गृहस्थस्यापि राजेन्द्र शृणु धर्ममशेषतः । । २१९
काले प्राप्य व्रतं विप्र ऋतुयोगेन भारत ।
प्रपालयन्व्रतं याति ब्रह्मसालोक्यतां विभो । । 1.4.२२०
सदोपनयनं शस्तं वसन्ते ब्राह्मणस्य तु ।
क्षत्रियस्य ततो ग्रीष्मे प्रशस्तं मनुरब्रवीत् । । २२१
प्राप्ते शरदि वैश्यस्य सदोपनयनं परम् ।
इत्येष त्रिविधः कालः कथितो व्रतयोजने । । २२२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि उपनयनविधिवर्णनं नाम चतुर्थोऽध्यायः । ४ ।