भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ३०

विकिस्रोतः तः


।। ऋषय ऊचुः।। ।।
भगवन्गुह्यजं कर्म वृत्तं प्रोक्तं पुरातनैः ।।
व्रतानां चैव सर्वेषां श्रेष्ठं नारायणव्रतम् ।। १ ।।
त्वन्मुखेन श्रुतं सूत तापत्रयविनाशनम् ।।
इदानीं श्रोतुमिच्छामि लिंगजं कर्म चोत्तमम् ।। २ ।।
सर्वेषां ब्रह्मचर्याणां ब्रह्मचर्ये हि किं परम् ।।
तन्मे वद महाप्राज्ञ सर्वंज्ञोऽसि मतौ मम ।। ३ ।।
।। सूत उवाच ।। ।।
आसीत्पुरा कलियुगे पितृशर्मा द्विजोत्तमः ।।
वेदवेदांगतत्त्वज्ञो यमलोकभयान्वितः ।। ४ ।।
ज्ञात्वा घोरतमं कालं कलि कालमधर्मजम्।।
वार्धनं यमराष्ट्रस्य तदा चिंतातुरोऽभवत् ।। ५ ।।
केनाश्रमेण वर्णेन मम श्रेयो भवेदिह ।।
कलौ संन्यासमार्गो हि दंभपाखंडखंडितः ।। ६ ।।
वानप्रस्थः कलौ नास्ति ब्रह्मचर्यं क्वचित्क्वचित् ।।
गार्हस्थ्यं कर्म सर्वेषां कर्मणां श्रेष्ठमुच्यते ।। ७ ।।
अतः स्त्री संग्राह्यो मया घोरे कलौ युगे ।।
यदि मे च भवेन्नारी मनोवृत्त्यनुसारिणी ।।
तर्हि मे सफलं जन्म मम श्रेयो भवेदिह ।। ८ ।।
इत्येवं संमतं कृत्वा शिवां मंगलदायिनीम् ।।
चंदनाद्यैश्च संपूज्य तुष्टाव मनसा पराम् ।।
विश्वेश्वरीं जगन्मूर्तिं सच्चिदानंदरूपिणीम् ।। ९ ।। ।।
।। पितृशर्मोवाच ।।
नमः प्रकृत्यै सर्वायै कैवल्यायै नमोनमः ।।
त्रिगुणैक्यस्वरूपायै तुरीयायै नमोनमः ।। 3.2.30.१० ।।
महत्तत्त्वजनन्यै च द्वंद्वकर्त्र्यै नमोनमः ।।
ब्रह्ममातर्नमस्तुभ्यं साहंकारपितामहि ।। ११ ।।
पृथग्गुणायै शुद्धायै नमो मातर्नमोनमः ।।
विद्यायै शुद्धसत्त्वायै लक्ष्म्यै सत्त्वरजोमयि ।।१२।।
नमो मातरविद्यायै ततः शुद्ध्यै नमोनमः।।
काल्यै सत्त्वतमोभूत्यै नमो मातर्नर्मोनमः ।।१३।।
स्त्रियै शुद्धरजोमूर्त्यै नमस्त्रैलोक्यवासिनि ।।
नमोरजस्तमोमूर्त्यै दुर्गायै च नमोनमः ।। १४ ।।
इति श्रुत्वा स्तवं देव्या प्रसादः स्थापितस्तया ।।
सुतायां विष्णुयशसो ब्राह्मणस्य तदा स्वयम् ।। १५ ।।
तामुद्वाह्य द्विजो देवीं नाम्ना वै ब्रह्मचारिणीम् ।।
न्यवसन्मथुरायां स कृत्वा धर्मं स्वयं हृदि ।। १६ ।।
प्रियायै स रजोवत्यै ऋतुदानं करोति हि ।।
चत्वारश्चात्मजाश्चासंश्चतुर्वेदैक्यधारिणः ।। १७ ।।
ऋग्यजुश्च तथा साम तुर्यश्चासी दथर्वणः ।।
ऋचश्च तनयो व्याडिर्न्यायशास्त्रविशारदः ।। १८ ।।
यजुषस्तु सुतो जातो मीमांसो लोकविश्रुतः ।।
पाणिनिः सामनस्यैव सुतोऽभू च्छब्दपालः ।। १९ ।।
पुत्रो वररुचिः श्रेष्ठोऽथर्वणस्य नृपप्रियः ।।
ते गता मागधेशस्य चन्द्रगुप्तस्य वै सभाम् 3.2.30.२० ।।
नृपस्तान्पूजयामास बहुमानपुरःसरम् ।।
अब्रवीत्तांस्ततो राजा ब्रह्मचर्यं हि किं परम् ।। २१ ।।
व्याडिराह महाराज यः स्तुतौ तत्परः पुमान् ।।
न्यायतोऽखिल देवानां ब्रह्मचारी हि मे मतः ।। २२ ।।
मीमांसश्चाह भो राजन्यज्ञे यो हि पुमान्परः ।।
कर्मणा यजते देवान्रोचनादिभिरर्चयेत् ।। २३ ।।
हवनं तर्पणं कृत्वा ब्रह्मादिकसुरान्प्रति ।।
तत्प्रसादं हि गृह्णीयाद्ब्रह्मचारी च स स्मृतः ।। २४ ।।
श्रुत्वेदं पाणिनिश्चाह चन्द्रगुप्त शृणुष्व भोः ।।
त्रिधा स्वरैः परं ब्रह्म शुद्धशब्दमयैः परैः ।। २५ ।।
तथैव सूत्रपाठैश्च लिंगधातुगणावृतैः ।।
यो यजेद्ब्रह्मचारी स परं ब्रह्माधिगच्छति ।। २६ ।।
श्रुत्वा वररुचिश्चाह शृणु मागधभूपते ।।
गृहीत्वा यज्ञसूत्रं यः प्राप्तो गुरुकुले वसन् ।। २७ ।।
दंडलोमनखाधारी भिक्षार्थी वेदतत्परः ।।
आज्ञया च गुरोर्वर्तेद्ब्रह्मचारी हि स स्मृतः ।। २८ ।।
इति तेषां वचः श्रुत्वा पितृशर्माब्रवीदिदम् ।।
यो गृहस्थे वसन्विप्रः पितृदेवातिथिप्रियः ।। २९ ।।
गामी पाणिगृहीतायामृतुकाले यतेंद्रियः ।।
ब्रह्मचारी हि मुख्यस्स श्रुत्वा राजाब्रवीदिदम् ।। 3.2.30.३० ।।
स्वामिन्यद्भवता चोक्तं धर्मज्ञेन यशस्विना ।।
कलौ भयंकरे प्राप्ते स धर्मो हि मतो मम ।।३१।।
इत्युक्त्वा तस्य शिष्योऽभूद्गुरुवाक्यपरायणः ।।
तथान्ते मरणं प्राप्य स्वर्गलोकं नृपो ययौ ।।३२।।
पितृशर्मापि मनसा ध्यात्वा दामोदरं हरिम् ।।
हिमालयं गिरिं प्राप्य योगध्यानपरोऽभवत् ।। ३३ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गं पर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये त्रिंशोऽध्यायः ।। ३० ।। छ ।।

अग्रिमपुटम्