भगवद्भक्तिरसायनम्/द्वितीयः उल्लासः

विकिस्रोतः तः
← प्रथमः उल्लासः भगवद्भक्तिरसायनम्
द्वितीयः उल्लासः
श्रीमधुसूदनसरस्वती
तृतीयः उल्लासः →

द्वितीयःउल्लासः

द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा ।
सा भक्तिरित्यभिहिता विशेषस्त्वधुनोच्यते ॥१॥
चित्तद्रुतें कारणानां भेदाद्भक्तिस्तु भिद्यते ।
तान्युक्तानि तु सङ्क्षेपाद्व्याख्यायन्तेऽधुना स्फुटम् ॥२॥
कामं शरीरसम्बन्धविशेषस्पृहयालुता ।
संनिधानासंनिधानभेदेन स भवेद्द्विधा ॥३॥
तज्जन्यायां द्रुतौ चित्ते या स्याच्छ्रीकृष्णनिष्ठता ।
सम्भोगविप्रयोगाख्या रतिं सा सा क्रमाद्भवेत॥४॥
क्रोध ईर्ष्यानिमित्तं तु चित्ताभिज्वलनं भवेत।
तज्जन्यायां द्रुतौ सा तु द्वेषशब्देन गृह्यते ॥५॥
अत्र चेतोव्याकुलत्वं सोपद्रावकदर्शनात।
उपद्रावकनाशार्थं तत्प्रीत्यर्थं च तद्द्विधा ॥६॥
तत्राद्यं द्वेष एव स्याद्द्वितीयं रतिशब्दभाक।
उपरिष्टात्तदुभयं मया स्पष्टीकरिष्यते ॥७॥
द्वेषाहेतुं स्वमन्तूत्थं वैक्लव्यं चित्तगं तु यत।
तज्जन्यायां द्रुतौ याऽस्ते रतिं सा भयमुच्यते ॥८॥
स्नेहं पुत्रादिविषयं पाल्यपालकलक्षणम् ।
सेव्यसेवकभावोऽन्यं सोऽप्युक्तस्त्रिविधो बुधैम् ॥९॥
भगवद्दास्यसख्याभ्यां मिश्रितं चापरं जगुम् ।
या कृष्णाकारता चित्ते तज्जन्यद्रुतिशालिनि ॥१०॥
पाल्यपालकभावेन सा वत्सलरतिर्भवेत।
सेव्यसेवकभावेन प्रेयोरतिरितीर्यते ॥११॥
हर्षश्चित्तसमुल्लासं कथ्यते स चतुर्विधम् ।
एकं परानन्दमयं श्रीशमाहात्म्यकारणात॥१२॥
तज्जन्यायां द्रुतौ शुद्धा रतिर्गोविन्दगोचरा ।
एतदन्तं हि शास्त्रेषु साधनाम्नानमिष्यते ॥१३॥
व्रीडाविकृतवाग्वेषचेष्टाऽऽदिजनितोऽपरम् ।
तज्जन्यायां द्रुतौ चेतोविकासो हास उच्यते ॥१४॥
लोकोत्तरचमत्कारिवस्तुदर्शनजं परम् ।
तज्जन्यायां द्रुतौ चेतोविकासो विस्मयो मतम् ॥१५॥
युद्धाभिपातजनितो वीराणां जायते परम् ।
ततश्चित्तस्य विस्तारो द्रुतस्योत्साह उच्यते ॥१६॥
इष्टविच्छेदजनितो यश्चित्ते क्लिष्टतोदयम् ।
तज्जन्यायां द्रुतौ विष्टा रतता शोक उच्यते ॥१७॥
दया घृणा स्याद्विषयतुच्छत्वज्ञानपूर्विका ।
तया द्रुते तु मनसि जुगुप्सा जायते त्रिधा ॥१८॥
पूतिव्रणादिविषये कथितोद्वेगिनी बुधम् ।
श्मशानोत्थपिशाचादिविषया क्षोभिणी भवेत॥१९॥
देहेन्द्रियादिदुम्खत्वविचारणपुरम्सरा ।
घृणा शुद्धेति कविभिं सा जुगुप्सा प्रकीर्तिता ॥२०॥
या तु शोच्यस्य रक्षाऽर्थे प्रवृत्तिरनुकम्पया ।
तया द्रुते तु मनसि दयोत्साहं स्मृतो बुधैम् ॥२१॥
सर्वस्वमपि दास्यामि प्रार्थयेति च यो महान।
उद्यमो द्रुतचित्तस्य दानोत्साहं स उच्यते ॥२२॥
तथा स्वधर्मरक्षाऽर्थे या प्रवृत्तिं प्रयत्नतम् ।
तया चित्तस्य विस्तारो धर्मोत्साहो द्रुतौ भवेत॥२३॥
वशीकाराख्यवैराग्यं यत्कामास्पृहताऽऽत्मकम् ।
तेन द्रुतस्य चित्तस्य प्रकाशं शम उच्यते ॥२४॥
इतोऽन्यथा तु चित्तस्य न द्रुतिर्विद्यते क्वचित।
तदभावात्तु भावो न निरुक्तान्योऽस्ति कश्चन ॥२५॥
यावत्यो द्रुतयश्चित्ते भावास्तावन्त एव हि ।
स्थायिनो रसतां यान्ति विभावादिसमाश्रयात॥२६॥
धर्मोत्साहो दयोत्साहो जुगुप्सा त्रिविधा शमम् ।
षडप्येते न विषया भगवद्विषया न हि ॥२७॥
धर्मवीरो दयावीरो बीभत्सं शान्त इत्यमी ।
अतो न भक्तिरसतां यान्ति भिन्नास्पदत्वतम् ॥२८॥
ईर्ष्याजभयजद्वेषौ भगवद्विषयावपि ।
न भक्तिरसतां यातं साक्षाद्द्रुतिविरोधतम् ॥२९॥
शुद्धो रौद्ररसस्तत्र तथा रौद्रभयानकम् ।
नास्वाद्यं सुधिया प्रीतिविरोधेन मनागपि ॥३०॥
कामजे द्वे रती शोकं प्रीतिर्भीविस्मयस्तथा ।
उत्साहो युधि दाने च भगवद्विषया अमी ॥३१॥
व्यामिश्रभावरूपत्वं यान्त्येते क्षीरनीरवत।
विभावादिसमायोगे तथा भक्तिरसा अपि ॥३२॥
शृङ्गारं करुणो हास्यस्तथा प्रीतिभयानकम् ।
अद्भुतो युद्धवीरश्च दानवीरश्च मिश्रिताम् ॥३३॥
शुद्धा च वत्सलरतिं प्रेयोरतिरिति त्रयी ।
भावान्तरामिश्रितत्वादमिश्रा रतिरुच्यते ॥३४॥
विशुद्धो वत्सलं प्रेयानिति भक्तिरसास्त्रयम् ।
रसान्तरामिश्रिततास्ते भवन्ति परिपुष्कलाम् ॥३५॥
शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरम् ।
तीव्रतीव्रतरत्वं तु रतेस्तत्रैव वीक्ष्यते ॥३६॥
केचित्केवलसङ्कीर्णां केचित्सङ्कीर्णमिश्रिताम् ।
केचित्केवलमिश्राश्च शुद्धाश्च स्युश्चतुर्विधाम् ॥३७॥
तत्र केवलसङ्कीर्णा रौद्रो रौद्रभयानकम् ।
धर्मवीरो दानवीरो बीभत्सं शान्त इत्यपि ॥३८॥
मिश्रा एवान्यविषयां प्रोक्तां सङ्कीर्णमिश्रिताम् ।
भगवद्विषयास्ते तु ख्यातां केवलमिश्रिताम् ॥३९॥
शुद्धास्त्रयं पुरेवोक्तां सङ्कीर्यन्ते न केनचित।
एवं निरूपिता भक्तिं सङ्क्षेइपादुच्यते पुनम् ॥४०॥
राजसी तामसी शुद्धसात्त्विकी मिश्रिता च सा ।
ईर्ष्याजद्वेषजाद्या स्याद्भयजद्वेषजा परा ॥४१॥
हर्षजा शुद्धसत्त्वोत्था कामशोकादिजेतरा ।
सत्त्वजत्वे तु सर्वासां गुणान्तरकृता भिदा ॥४२॥
तत्र ते रतितां नैव यातं सुखविरोधतम् ।
रतिशब्दं तु भजतं सुखमय्यौ परे द्रुती ॥४३॥
भक्तिश्चतुर्विधाऽप्येषा भगवद्विषया स्थिरा ।
दृष्टादृष्टोभयैकैकफला भक्तिस्त्रिधा भवेत॥४४॥
राजसी तामसी भक्तिरदृष्टफलमात्रभाक।
दृष्टादृष्टोभयफला मिश्रितां भक्तिरिष्यते ॥४५॥
शुद्धसत्त्वोद्भवाऽप्येवं साधकेष्वस्मदादिषु ।
दृष्टमात्रफला सा तु सिद्धेषु सनकदिषु ॥४६॥
दृष्टादृष्टफला भक्तिं सुखव्यक्तेर्विधेरपि ।
निदाघदूनदेहस्य गङ्गास्नानक्रिया यथा ॥४७॥
रजस्तमोऽभिभूतस्य दृष्टांशं प्रतिबध्यते ।
शीतवातातुरस्येव नादृष्टांशस्तु हीयते ॥४८॥
तथैव जीवन्मुक्तानामदृष्टांशो न विद्यते ।
स्नात्वा भुक्तवतां भूयो गङ्गायां क्रीडतां यथा ॥४९॥
वर्तमानतनुप्राप्यं फलं दृष्टमुदाहृतम् ।
भाविदेहोपभोग्यं यत्तददृष्टमुदीरितम् ॥५०॥
रजस्तमम्प्रचण्डत्वे सुखव्यक्तिरसत्समा ।
तीव्रवायुविनिक्षिप्तदीपज्वालेव भासते ॥५१॥
तस्मात्स्वयंप्रभाऽऽनन्दाकाराऽपि मतिसन्ततिम् ।
प्रतिबन्धकवशान्न स्यात्सुखव्यक्तिपदास्पदम् ॥५२॥
रजं प्रबलसत्त्वांशादीर्ष्याजद्वेषमिश्रिता ।
मनोवृत्तिं परानन्दे चैद्यस्य न सुखायते ॥५३॥
तमम्प्रबलसत्त्वांशाद्भीतिजद्वेषमिश्रिता ।
मनोवृत्तिं परानन्दे कंसस्य न सुखायते ॥५४॥
तयोर्भाविशरीरे तु प्रतिबन्धक्षये सति ।
सैव चित्तद्रुतिर्भक्तिरसतां प्रतिपद्यते ॥५५॥
अधुनापि भजन्तो ये द्वेषात्पाशुपतादयम् ।
तेषामप्येवमेव स्यादथवा वेनतुल्यता ॥५६॥
द्रुतौ सत्यां भवेद्भक्त्रद्रुतौ तु न किञ्चन ।
चित्तद्रुतेरभावेन वेनस्तु कतमोऽपि न ॥५७॥
रजस्तमोविहीना तु भगवद्विषया मतिम् ।
सुखाभिव्यञ्जकत्वेन रतिरित्यभिधीयते ॥५८॥
रजस्तमम्समुच्छेदतारतम्येन गम्यते ।
तुल्येऽपि साधनाभ्यासे तारतम्यं रतेरपि ॥५९॥
विरहे यादृशं दुम्खं तादृशी दृश्यते रतिम् ।
मृदुमध्याधिमात्रत्वाद्विशेषोऽपि हि वक्ष्यते ॥६०॥
वैकुण्ठे द्वारकायां च श्रीमद्वृन्दावने तथा ।
मृदुतीव्रा मध्यतीव्रा तीव्रतीव्रा च सा क्रमात॥६१॥
इयं निसर्गसंसर्गौपम्याध्यात्माभियोगजा ।
सम्प्रयोगाभिमानाभ्यां समारोपे स्थिता तथा ॥६२॥
स्पर्शे शब्दे तथा रूपे रसे गन्धे च केवले ।
समुच्चिते च सा तत्रेत्येकैका षड्विधा भवेत॥६३॥
शुद्धा व्यामिश्रिता चेति पुनरेषा द्विधा भवेत।
तत्रानुपाधिं शुद्धा स्यात्सोपाधिर्मिश्रितोदिता ॥६४॥
अनुपाधिं परानन्दमहिमैकनिबन्धना ।
भजनीयगुणानन्त्यादेकरूपैव सोच्यते ॥६५॥
कामसम्बन्धभयतं सोपाधिस्त्रिविधा भवेत।
विभावादिसमायोगे शुद्धभक्तिरसो भवेत॥६६॥
शृङ्गारमिश्रिता भक्तिं कामजा भक्तिरिष्यते ।
सम्बन्धजा रतिर्याति पूर्वोक्तां रसतां द्वयोम् ॥६७॥
एको वत्सलभक्त्याख्यं प्रेयोभक्तिस्तथाऽपरा ।
भयजा रतिरध्यास्ते रसं प्रीतिभयानकम् ॥६८॥
एकदैव यदि व्यक्तमिदं रतिचतुष्टयम् ।
तदा तु पानकरसन्यायेन परमो रसम् ॥६९॥
एकद्व्यादिरसव्यक्तिभेदाद्रसभिदा भवेत।
तस्मात्क्वचित्तदभ्यासं कुर्याद्रतिचतुष्टये ॥७०॥
व्रजदेवीषु च स्पष्टं दृष्टं रतिचतुष्टयम् ।
तच्चित्तालम्बनत्वेन स्वचित्तं तादृशं भवेत॥७१॥
रसान्तरविभावादिसङ्कीर्णा भगवद्रतिम् ।
चित्ररूपवदन्यादृग्रसतां प्रतिपद्यते ॥७२॥
रसान्तरविभावादिराहित्ये तु स्वरूपभाक।
दशमीमेति रसतां सनकादेरिवाधिकाम् ॥७३॥
रतिर्देवादिविषया व्यभिचारी तथोर्जितम् ।
भावं प्रोक्तो रसो नेति यदुक्तं रसकोविदैम् ॥७४॥
देवान्तरेषु जीवत्वात्परानन्दप्रकाशनात।
तद्योज्यं परमानन्दरूपे न परमात्मनि ॥७५॥
कान्तादिविषया वा ये रसाद्यास्तत्र नेदृशम् ।
रसत्वं पुष्यते पूर्णसुखास्पर्शित्वकारणात॥७६॥
परिपूर्णरसा क्षुद्ररसेभ्यो भगवद्रतिम् ।
खद्योतेभ्य इवादित्यप्रभेव बलवत्तरा ॥७७॥
क्रोधशोकभयादीनां साक्षात्सुखविरोधिनाम् ।
रसत्वमभ्युपगतं तथानुभवमात्रतम् ॥७८॥
इहानुभवसिद्धेऽपि सहस्रगुणितो रसम् ।
जडेनेव त्वया कस्मादकस्मादपलप्यते ॥७९॥

श्रीपरमहंसपरिव्राजकाचार्यवर्यविश्वविश्रुतसर्वतन्त्रस्वतन्त्रताक
श्रीमधुसूदनसरस्वतीविरचिते श्रीभगवद्भक्तिरसायने
भक्तिविशेषनिरूपणं नाम
द्वितीयोल्लासम्
॥२॥

 ओ)०(ओ