भगवद्भक्तिरसायनम्/तृतीयः उल्लासः
← द्वितीयः उल्लासः | भगवद्भक्तिरसायनम् तृतीयः उल्लासः श्रीमधुसूदनसरस्वती |
तृतीयःउल्लासः
ननु कोऽयं रसो नाम किं निष्ठो वा भवेदसौ ।
अस्य प्रत्यायकं को वा प्रतीतिरपि कीदृशी ॥१॥
विभावैरनुभावैश्व्यभिचारिभिरप्युत ।
स्थायी भावं सुखत्वेन व्यज्यमानो रसं स्मृतम् ॥२॥
सुखस्यात्मस्वरूपत्वात्तदाधारो न विद्यते ।
तद्व्यञ्जिकाया वृत्तेस्तु सामाजिकमनं प्रति ॥३॥
कार्यार्थनिष्ठा रत्याद्या स्थायिनं सन्ति लौकिकाम् ।
तद्बोद्धृनिष्ठास्त्वपरं तत्समा अप्यलौकिकाम् ॥४॥
बोध्यनिष्ठा यथास्वं ते सुखदुम्खादिहेतवम् ।
बोद्धृनिष्ठास्तु सर्वेऽपि सुखमात्रैकहेतवम् ॥५॥
अतो न करुणादीनां रसत्वं प्रतिहन्यते ।
भावाना;ं बोद्धृनिष्ठानां दुम्खाहेतुत्वनिश्चयात॥६॥
तत्र लौकिकरत्यादें कारणं लौकिकं च यत।
काव्योपदर्शितं तत्तु विभाव इति कथ्यते ॥७॥
लौकिकस्यैव रत्यादेर्लोके यत्कार्यमीक्षितम् ।
काव्योपदर्शितं तत्स्यादनुभावपदास्पदम् ॥८॥
लौकिकस्यैव रत्यादेर् ये भावां सहकारिणम् ।
काव्योपदर्शितास्ते तु कथ्यन्ते व्यभिचारिणम् ॥९॥
अलौकिकस्य रत्यादें सामाजिकनिवासिनम् ।
उद्बोधे कारणं ज्ञेयं त्रयमेतत्समुच्चितम् ॥१०॥
ज्ञातस्वपरसम्बन्धादन्ये साधारणात्मना ।
अलौकिकं बोधयन्ति भावं भावास्त्रयोऽप्यमी ॥११॥
भावत्रितयसंसृष्टस्थायिभावावगाहिनी ।
समूहालम्बनात्मैका जायते सात्त्विकी मतिम् ॥१२॥
सानन्तरक्षणेऽवश्यं व्यनक्ति सुखमुत्तमम् ।
तद्रसं केचिदाचार्यास्तामेव तु रसं विदुम् ॥१३॥
तेषां प्रत्येकविज्ञानं कारणत्वेन तैर्मतम् ।
स्थायी भावो रस इति प्रयोगस्तूपचारतम् ॥१४॥
एवमव्यवधानेन क्रमो यस्मान्न लक्ष्यते ।
असंलक्ष्यक्रमव्यङ्ग्यध्वनिं तस्मादिमं विदुम् ॥१५॥
व्यवधानात्क्रमो लक्ष्यो वस्त्वलङ्कारयोर्ध्वनौ ।
लक्ष्यव्यङ्ग्यक्रमं तस्माद्ध्वनिमेतं प्रचक्षते ॥१६॥
रसभावतदाभासभावशान्त्यादिरक्रमम् ।
अनन्तरक्षणे यस्माद्व्यज्यतेऽवश्यमेव सम् ॥१७॥
श्रुतिदुष्टादयो दोषा ये रसप्रतिबन्धकाम् ।
तदभावोऽपि सामग्र्यां निविष्टोऽनिष्टहानिकृत॥१८॥
या रीतयो ये च गुणास्तज्ज्ञानमपि कारणम् ।
अलङ्काराश्च विज्ञाता भवन्ति परिपोषकाम् ॥१९॥
गुणालङ्काररीतानां भावानां च निवेदकम् ।
तस्य प्रत्यायकं शब्दो वृत्त्या व्यञ्जनरूपया ॥२०॥
वृत्तिं कार्यापरोक्षास्य शब्दस्य सुखगर्भिणी ।
दशमस्त्वमसीत्यादिवाक्योत्थमतिवृत्तिवत॥२१॥
नित्यं सुखमभिव्यक्तं रसो वै स इति श्रुतेम् ।
प्रतीतिं स्वप्रकाशस्य निर्विकल्पसुखात्मिका ॥२२॥
कार्यज्ञाप्यादिवैधर्म्यं यत्तु कैश्चिन्निरूपितम् ।
तदप्येतेन मार्गेण योज्यं शास्त्राविरोधतम् ॥२३॥
परमानन्द आत्मैव रस इत्याहुरागमाम् ।
शब्दतस्तदभिव्यक्तिप्रकारोऽयं प्रदर्शितम् ॥२४॥
अर्थवादाधिकरणे वनशैलादिवर्णनम् ।
श्रोत्èणां सुखमात्रार्थमिति भट्टैरुदाहृतम् ॥२५॥
कार्यान्वितत्ववादेऽपि न विरोधोऽस्ति कश्चन ।
यस्मात्कृतीप्सितत्वेन कार्यं सुखमपीष्यते ॥२६॥
अलौकिकनियोगे तु न किंचिन्मानमीक्ष्यते ।
लोके वाचां च सर्वेषां तत्परत्वं न युज्यते ॥२७॥
प्रयोजनवदज्ञातज्ञापकत्वं च मानता ।
शब्दस्य कार्यपरता त्वाचार्यैरेव खण्डिता ॥२८॥
देवताधिकृतिन्यायात्पदैरन्यपरैरपि ।
प्रयोजनवदज्ञाताबाधितार्थमतिर्भवेत॥२९॥
तस्मादन्यपरत्वे वा स्वातन्त्र्ये वा पदानि नम् ।
व्यञ्जयन्ति परानन्दं सहकार्यानुरूप्यतम् ॥३०॥
इति श्रीपरमहंसपरिव्राजकाचार्यवर्यविश्वविश्रुतसर्वतन्त्रस्वतन्त्रताक
श्रीमधुसूदनसरस्वतीविरचिते श्रीभगवद्भक्तिरसायने
भक्तिविशेषनिरूपणं नाम
तृतीयोल्लासम्
॥३॥