भगवद्गीता/श्रद्धात्रयविभागयोगः

विकिस्रोतः तः
Jump to navigation Jump to search

सप्तदशोऽध्याय: श्रद्धात्रयविभागयोग[सम्पाद्यताम्]

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः


श्रीपरमात्मने नमः

अर्जुन उवाच
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७- १॥

व्याख्याः

शाङ्करभाष्यम्
।।17.1।। --,ये केचित् अविशेषिताः शास्त्रविधिं शास्त्रविधानं श्रुतिस्मृतिशास्त्रचोदनाम् उत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धया अन्विताः श्रद्धया आस्तिक्यबुद्ध्या अन्विताः संयुक्ताः सन्तः -- श्रुतिलक्षणं स्मृतिलक्षणं वा कञ्चित् शास्त्रविधिम् अपश्यन्तः वृद्धव्यवहारदर्शनादेव श्रद्दधानतया ये देवादीन् पूजयन्ति? ते इह ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः इत्येवं गृह्यन्ते। ये पुनः कञ्चित् शास्त्रविधिं उपलभमाना एव तम् उत्सृज्य अयथाविधि देवादीन् पूजयन्ति? ते इह ये शास्त्रविधिमुत्सृज्य यजन्ते इति न परिगृह्यन्ते। कस्मात् श्रद्धया अन्वितत्वविशेषणात्। देवादिपूजाविधिपरं किञ्चित् शास्त्रं पश्यन्त एव तत् उत्सृज्य अश्रद्दधानतया तद्विहितायां देवादिपूजायां श्रद्धया अन्विताः प्रवर्तन्ते इति न शक्यं कल्पयितुं यस्मात्? तस्मात् पूर्वोक्ता एव ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः इत्यत्र गृह्यन्ते। तेषाम् एवंभूतानां निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः? किं सत्त्वं निष्ठा अवस्थानम्? आहोस्वित् रजः? अथवा तमः इति। एतत् उक्तं भवति -- या तेषां देवादिविषया पूजा? सा किं सात्त्विकी? आहोस्वित् राजसी? उत तामसी इति।।सामान्यविषयः अयं प्रश्नः न अप्रविभज्य प्रतिवचनम् अर्हतीति श्रीभगवानुवाच --,श्रीभगवानुवाच --,
माध्वभाष्यम्
।।17.1।।सर्वगुणपूर्णाय नमः। श्रीः। गुणभेदान् प्रपञ्चयत्यनेनाध्यायेन शास्त्रविधिमुत्सृज्य अज्ञात्वैव।वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना [मनुः2।165] इति विधिरुत्सृष्टो हि तैः। ये वै वेदं न पठन्ते न चार्थं वेदोज्झांस्तान्विद्धि सानूनबुद्धीन् इति माधुच्छन्दसश्रुतिः। अन्यथा तु तामसा इत्येवोच्येत। न तु विभज्य। यदि सात्विकास्तर्हि नोत्सृष्टशास्त्राः। न हि वेदविरुद्धो धर्मः।वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् [मनुः2।6] इति हि स्मृतिः।वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः इति च भागवते [6।1।40]।
रामानुजभाष्यम्
।।17.1।।अर्जुन उवाच -- शास्त्रविधिम् उत्सृज्य श्रद्धयान्विता ये यजन्ते तेषां निष्ठा का किं सत्वम् आहो स्वित् रजः अथ तमःनिष्ठा स्थितिः? स्थीयते अस्मिन् इति स्थितिः? सत्त्वादिः एव निष्ठा इति उच्यते? तेषां किं सत्त्वे स्थितिः किं वा रजसि किं वा तमसि इत्यर्थः।एवं पृष्टः भगवान् अशास्त्रविहितश्रद्धायाः तत्पूर्वकस्य च यागादेः निष्फलत्वं हृदि निधाय शास्त्रीयस्य एव यागादेः गुणतः त्रैविध्यं प्रतिपादयितुं शास्त्रीयश्रद्धायाः त्रैविध्यं तावद् आह --
अभिनवगुप्तव्याख्या
।।17.1।।ये शास्त्रेति। शास्त्रविधिमनालंब्य ये व्यवहारमाचरन्ति [ श्रद्धया ]? तेषां का गतिरिति प्रश्नः।
जयतीर्थव्याख्या
।।17.1।।अध्यायार्थमाह -- गुणेति। गुणनिमित्ताः श्रद्धादीनां भेदाः।नान्यं गुणेभ्यः कर्तारं [14।19] इत्युक्तत्वात् प्रपञ्चयतीत्युक्तम्। सात्त्विकानां पुमर्थसाधनत्वादनुष्ठेयत्वमन्येषां तद्विरुद्धत्वाभावः। त्याज्यत्वं च ज्ञापयितुमिति शेषः। शास्त्रविधिमुत्सृज्येत्यस्य वेदविधानमप्रामाण्यबुद्ध्या परित्यज्येत्यर्थप्रतीतिं निवारयितुमाह -- शास्त्रेति। अज्ञानमेवात्रोत्सर्गः? न त्वप्रामाण्यबुद्ध्या त्याग इत्यर्थः। ननु प्राप्तपरित्याग उत्सर्गः? एवं च प्रतीतार्थ एव युक्तो न ज्ञात्वेति तत्राऽऽह -- वेद इति। अर्थज्ञानपर्यन्तोऽयं विधिः। अयं च सर्वान्द्विजन्मनः प्राप्तस्तैरज्ञानिभिरुत्सृष्टश्च अतोऽज्ञात्वेति युक्तमित्यर्थः। अत्र श्रुतिसम्मतिं चाऽऽह -- य इति। न चार्थमधिगच्छन्ति सहानूनया वेदतदर्थाधिगतियोग्यया बुद्ध्या वर्तमानान् सानूनबुद्धयोऽपि ये वेदं न पठन्त इति योज्यम्। अप्रामाण्यबुद्ध्या परित्यज्येत्येवार्थः किं न स्यात् इत्यत आह -- अन्यथेति। यद्यत्र वेदविरोधिनां बौद्धादीनां निष्ठा पृच्छ्येत तदा ते तामसा इत्येवोत्तरमुच्येत तदीयतामसत्त्वस्याविकल्पितत्वादिति भावः। न केवलं वक्तव्यानुक्तिरेव दोषः? किन्तु तद्विरुद्धोक्तिश्च स्यादिति भावेनाऽऽह -- न त्विति।त्रिविधा भवति श्रद्धा [17।2] इत्यादिना श्रद्धां विभज्योत्तरं नोच्यते इत्यर्थः। एवमुत्तरवचनेऽपि किं स्यात् इति चेत् वेदाप्रामाण्यवादिनामपि पाक्षिकं सात्त्विकत्वं स्यात्। तथा च वक्ष्यामः। तदपि स्यादिति चेत्? न सात्त्विकत्ववेदविरोधित्वयोः सहानवस्थानादित्याह -- यदीति। सहानवस्थानमपि कुतो निश्चेयं इति चेत्? सात्त्विका हि धर्ममाचरन्तिसत्त्वाद्धर्मो भवेत्पुंसाम् [भाग.11।13।2] इति वचनात्। तथा च वेदविरोधिनो धर्मिणश्चेत्युक्तं भवति। एवं च वेदविरोधी धर्म इत्याद्यापद्येत तच्चानुपपन्नमित्याह -- न हीति। कुतो न इत्यात आह -- वेद इति।
मधुसूदनसरस्वतीव्याख्या
।।17.1।।द्विविधाः कर्मानुष्ठातारो भवन्ति केचिच्छास्त्रविधिं ज्ञात्वाप्यश्रद्धया तमुत्सृज्य कामकारमात्रेण यत्किंचिदनुतिष्ठन्ति ते सर्वपुरुषार्थायोग्यत्वादसुराः। केचित्तु शास्त्रविधिं ज्ञात्वा श्रद्दधानतया तदनुसारेणैव निषिद्धं वर्जयन्तो विहितमनुतिष्ठन्ति ते सर्वपुरुषार्थयोग्यत्वाद्देवा इति पूर्वाध्यायान्ते सिद्धम्। ये तु शास्त्रीयं विधिमालस्यादिवशादुपेक्ष्य श्रद्दधानतयैव वृद्धव्यवहारमात्रेण निषिद्ध वर्जयन्तो विहितमनुतिष्ठन्ति ते शास्त्रीयविध्युपेक्षालक्षणेनासुरसाधर्म्येण श्रद्धापूर्वकानुष्ठानलक्षणेन च देवसाधर्म्येणान्विताः किमसुरेष्वन्तर्भवन्ति किंवा देवेष्वित्युभयधर्मदर्शनादेककोटिनिश्चायकादर्शनाच्च संदिहानोऽर्जुन उवाच। ये पूर्वाध्याये न निर्णीताः कोटिद्वयविलक्षणास्ते न देववच्छास्त्रानुसारिणः किंतु शास्त्रविधिं श्रुतिस्मृतिचोदनामुत्सृज्यालस्यादिवशादनादृत्य नासुरवदश्रद्दधानाः किंतु वृद्धव्यवहारानुसारेण श्रद्धयान्विता यजन्ते देवपूजादिकं कुर्वन्ति। तेषां तु शास्त्रविध्युपेक्षाश्रद्धाभ्यां पूर्वनिश्चितदेवासुरविलक्षणानां निष्ठा का कीदृशी तेषां शास्त्रविध्यनपेक्षा श्रद्धापूर्विका च। सा यजनादिक्रियाव्यवस्थितिर्हे कृष्ण भक्ताघकर्षण? किं सात्त्विकी तथा सति सात्त्विकत्वात्ते देवाः। आहो इति पक्षान्तरे। किं रजस्तमः राजसी तामसी च। तथा सति राजसत्वात्तामसत्वादसुरास्ते सत्त्वमित्येका कोटी रजस्तम इत्यपरा कोटिरिति विभागज्ञापनायाहोशब्दः।
पुरुषोत्तमव्याख्या
।।17.1।।शास्त्रविध्ययुता श्रद्धा निर्गुणैवोत्तमा मता। इति दर्शयितुं श्रद्धा त्रिविधाऽन्न निरूप्यते।।1।।पूर्वाध्याये शास्त्रविधिरहितकामकारतः कर्मसु वर्त्तमानस्य न फलमित्युक्तं? तत्र कामकाराभावे शास्त्रविधिरहितस्य श्रद्धया वर्त्तमानानामग्रे सात्त्विकत्वाद्याश्रयेण किमपि ज्ञानादिकं सत्फलं भवति न वा इति जिज्ञासुरर्जुनः पृच्छति -- ये शास्त्रेति। ये सर्वत्यागादनन्यत्वादिशास्त्रविधिं दुस्तरत्वेनोत्सृज्य परम्पराचारप्रवाहप्रवृत्तभजनादिषु श्रद्धया आदरेण युक्ताः यजन्ते देवादिपूजनं कुर्वन्ति? हे कृष्ण तेषां का निष्ठा क आश्रयः सत्त्वं आहो रजः तमो वा।अयं भावः -- पूर्वं चेत् सत्त्वाश्रयस्तदा तत एव ज्ञानोदयः? पूर्वं चेद्रजस्तदा? तथा कुर्वतोऽग्रे सात्त्विकत्वं? पूर्वं चेत्तमस्तदाऽग्रे राजसत्वं ततस्तथा कुर्वतोऽग्रे सात्त्विकत्त्वं? ततो ज्ञानोदयस्ततो निर्गुणत्वेन त्वत्प्राप्तिः। फलात्मकनामसम्बोधनेन फलाभावे तत्कारणं व्यर्थमेव तदाचारादिप्रामाण्यं निष्प्रयोजनकमतस्तेषामाश्रय स्वरूपं वक्तव्यमिति भावो व्यञ्जितः।
वल्लभाचार्यव्याख्या
।।17.1।।पूर्वाध्यायान्तेयः शास्त्रविधिमुत्सृज्य वर्त्तते कामकारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम् [16।23] इत्यनेन शास्त्रविधिमुत्सृज्य स्वच्छन्दश्रद्धातो वर्त्तमानस्य दैवासुरविभागोक्तिमुखेन प्राप्यतत्त्वज्ञानाप्तिरूपा न सिद्धिरित्युक्तं? तत्राऽऽर्जुनः पृच्छति -- अर्जुन उवाच ये शास्त्रविधिमुत्सृज्येति। त्यक्त्वा वर्त्तन्ते कामकारशब्दनिर्दिष्टया श्रद्धयाऽन्विताः तेषां निष्ठा का हे कर्षक किं सत्त्वमाहो रजस्तम इति तेषां सत्त्वविषयिणी सा रजस्तमोविषयिणी वा निष्ठा इति प्रश्नतात्पर्यम्।
आनन्दगिरिव्याख्या
।।17.1।।आस्तिकानां नास्तिकानां च शास्त्रैकचक्षुषां गतिरुक्ता संप्रत्यास्तिकानामेव शास्त्रानभिज्ञानां गतिजिज्ञासया पृच्छतीत्याह -- तस्मादिति। यजन्त इति यागग्रहणं दानादेरुपलक्षणम्। यदि वेदोक्तं विधिमपश्यन्तस्तमुत्सृजन्ति कथं तर्हि श्रद्दधाना यागादि कुर्वन्ति? नहि मानं विना श्रद्धया यागादि कर्तुं शक्यमित्याशङ्क्याह -- श्रुतीति। ननु शास्त्रीयं विधिं पश्यन्तोऽपि केचित्तमुपेक्ष्य स्वोत्प्रेक्षया यागादि कुर्वन्तो दृश्यन्ते तेषामिह ये शास्त्रविधिमुत्सृज्य इति ग्रहो भविष्यति नेत्याह -- ये पुनरिति। तेषामत्रापरिग्रहे प्रश्नपूर्वकं हेतुमाह -- कस्मादिति। शास्त्रज्ञानं तदुपेक्षावतां ग्रहेऽपि विशेषणमविरुद्धमित्याशङ्क्य व्याघातान्मैवमित्याह -- देवादीति। अश्रद्दधानतया तदुत्सृज्येति संबन्धः। शास्त्रोक्तं विधिमधिगच्छतामपि तमवधीर्य स्वेच्छया देवपूजादौ प्रवृत्तानामासुरेष्वेवान्तर्भावो यस्मादनन्तराध्याये सिद्धस्तस्मादास्तिकाधिकारे तेषां प्रसङ्गो नास्तीत्युपसंहरति -- यस्मादिति। पूर्वोक्ताः शास्त्रानभिज्ञाः। वृद्धव्यवहारानुसारिण इति यावत्। तैः श्रद्धया क्रियमाणं कर्म कुत्र पर्यवस्यतीति पृच्छति -- तेषामिति। का निष्ठेत्येतद्विवृणोति -- सत्त्वमिति। कार्याणां कारणैर्व्यपदेशमाश्रित्य तात्पर्यमाह -- एतदिति।
धनपतिव्याख्या
।।17.1।।गीताभाष्यप्राकाशेन जगदुद्धारकौ परौ। वन्दे परस्परात्मानौ देवौ श्रीकृष्णशंकरौ।।यः शास्त्रविधिमुत्सृत्य?तस्माच्छास्त्रं प्रमाणं ते इति भगवद्वाक्यात् ये शास्त्रविधिं परित्यज्य कामकारतः प्रवृत्तास्ते नास्तिका असुराः? ये तु शास्त्रविधिमनुरुध्य विहितानुष्ठानाय प्रतिषिद्धप्रहाणाय च श्रद्दधानतया प्रवृत्तास्ते आस्तिकाः सुरा इति ज्ञात्वा श्रद्धावतां शास्त्रानबिज्ञानां निष्ठां जिज्ञासुरर्जुन उवाच। ये केचिदसुराणां देवानां च विशेषणैरविशेषिताः शास्त्रविधिं श्रुतिस्भृत्यादिशास्त्रविधानमुत्सृज्यालस्यादिनाऽपश्यन्तो वृद्धव्यवहारादेव श्रद्धया आस्तिक्यबुद्य्धान्विताः संयुक्ताः सन्तो देवादीन्यजन्ति पूजयन्ति। ये तु किंचिच्छास्त्रविधिमुपलभमाना एवाश्रद्धधानतया तमुत्सृज्यायथाविधि देवादीन्पूजयन्ति तेत्र न गृह्यन्ते। श्रद्धयान्विता इति विशेणात्। तेषामेवंभूतानां निष्ठा तु का किं सत्त्वमवस्थानं श्रद्धायाः सात्त्विकत्वात्। आहो रजः किंवा तमः। क्लेशबुद्य्धा आलस्येन च शास्त्रादर्शनस्य राजसतामसत्वात्। एतदुक्तं भवति। या तेषां देवादिविषया पूजा सा किं सात्त्विकी आहोस्विद्राजस्युत तामसीति?कृषिर्भूवाचकः शब्दोण्श्च निर्वृतिवाचकः। तयोकैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते इति निरुक्तमभिप्रेत्य सर्वत्र सत्तास्फूरर्त्यादिना स्थितस्य परमात्मनस्तव किंचिदप्यविदितं न भवतीति सूचयन्संबोधयति -- कृष्णेति। मम संशयापकर्षणेति वा संबोधनार्थः।
नीलकण्ठव्याख्या
।।17.1।।तस्माच्छास्त्रं प्रमाणं ते इति प्रश्नबीजमुपलभ्यार्जुन उवाच -- य इति। ये पुरुषाः शास्त्रविधिम्। शास्त्रपदेनात्र श्रुतिसदाचारकुलाचारा गृह्यन्ते। सर्वेषां तेषां धर्मे प्रमाणत्वात्। तत्र योऽधिगतो विधिर्विधेयं तदुत्सृज्य सर्वात्मना परित्यज्य यजन्ते पूजयन्ति तातकूपादीन्। मत्पित्रा कृतोऽयं कूपो गङ्गाशतादप्यधिकोऽत्रैव स्नानपानावगाहनपरिचर्याप्रदक्षिणप्रक्रणरूपादेतत्सेवनादहमिष्टं फलमवश्यं प्राप्स्यामीति तत्र दृढतरया श्रद्धयान्विताः सन्तस्तेषां निष्ठा इयं का कीदृशी किं सत्त्वं सात्त्विकी वा पित्र्ये कूपे श्रद्धाधिक्यदर्शनात्। किं रजः राजसी वा तेषां निष्ठा शास्त्रातिक्रमेण कामकाररूपत्वात्। आहो इति प्रश्ने। किं तमः तामसी वा सा निष्ठा रङ्गे रजतधीरिवाशास्त्रीयाया अल्पे महत्त्वबुद्धेर्विपर्यासरूपाया दर्शनात्। यदपि तु भाष्ये वृद्धव्यवहारदर्शनादेव श्रद्दधानतया देवादीन्यजन्त इत्युक्तं? तत्राप्यविगीत एव वृद्धव्यवहारो ग्राह्यः। अविगीतेऽस्मिंस्तामसत्वादिशङ्काया अयोगात्।
श्रीधरस्वामिव्याख्या
।।17.1।।उक्ताधिकारहेतूनां श्रद्धा मुख्या तु सात्त्विकी। इति सप्तदशे गौणश्रद्धाभेदस्त्रिधोच्यते।।1।।पूर्वाध्यायान्तेयः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाप्नोति इत्यनेन शास्त्रोक्तविधिमुत्सृज्य कामकारेण वर्तमानस्य ज्ञानेऽधिकारो नास्तीत्युक्तम्। तत्र शास्त्रविधिमुत्सृज्य कामकारं विना श्रद्धया वर्तमानानां किमधिकारोऽस्ति नास्ति वेति बुभुत्सया अर्जुन उवाच -- य इति। अत्र शास्त्रविधिमुत्सृज्य यजन्ते इत्यनेन शास्त्रार्थं बुध्वा तमुल्लङ्घ्य वर्तमानाश्च गृह्यन्ते? तेषां श्रद्धया यजनानुपपत्तेः। आस्तिक्यबुद्धिर्हि श्रद्धा। न चासौ शास्त्रज्ञानवतां शास्त्रविरुद्धेऽर्थे संभवति। तानेवाधिकृत्यत्रिविधा भवति श्रद्धा?यजन्ते सात्त्विका देवान् इत्याद्युत्तरानुपपत्तेश्च। अतो नात्र शास्त्रातिलङ्घिनो गृह्यन्ते अपितु क्लेशबुद्ध्या आलस्याद्वा शास्त्रार्थज्ञाने प्रयत्नमकृत्वा केवलमाचारपरम्परावशेन श्रद्धया क्वतिद्देवताराधनादौ प्रवर्तमाना गृह्यन्ते। अतोऽयमर्थःये शास्त्रविधिमुत्सृज्य दुःखबुद्ध्या आलस्याद्वा अनादृत्य केवलमाचारप्रामाण्येन श्रद्धयान्विताः सन्तो यजन्ते तेषां तु का निष्ठा का स्थितिः क आश्रयः तामेव विशेषेण पृच्छति किं सत्त्वं? आहो किं वा रजः? अथवा तम इति। तेषां तादृशी देवपूजादिप्रवृत्तिः किं सत्त्वसंश्रिता रजःसंश्रिता वा तमःसंश्रिता वेत्यर्थः। श्रद्धायाः सात्त्विकत्वात्? क्लेशबुद्ध्या आलस्येन च शास्त्रानादरस्य च राजसतामसत्वात्त्रेधा संदेहः। यदि सत्त्वभावसंश्रितास्तर्हि तेषामपि सात्त्विकत्वाद्यथोक्तात्मज्ञानेऽधिकारः स्यात् अन्यथा नेति प्रश्नतात्पर्यार्थः।
वेङ्कटनाथव्याख्या
।।17.1।।उक्तशेषतया सप्तदशमवतारयितुमुक्तमुद्गृह्णाति -- देवासुरेति। प्रकृतस्य मुखभेदेन प्रपञ्चनपरतया सङ्गतिमाह -- इदानीमिति। हेयोपादेयव्यवस्थायाः शास्त्रैकमूलत्वोक्तिसमनन्तरमित्यर्थः।अशास्त्रमासुरं कृत्स्नं शास्त्रीयं गुणतः पृथक्। लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् [गी.सं.21] इति सङ्ग्रहश्लोकं विवृणोति -- अशास्त्रविहितस्येत्यादिना। अत्र सामान्यतो विशेषतश्च शास्त्रीयार्थविभजनमध्यायानुवृत्तार्थः।सप्तदशोदितम् इत्येतत्सङ्ग्रहश्लोकवाक्यत्रयेऽपि प्रत्येकमन्वेतव्यम्। एतत्सर्वं सप्तदशोदितमिति सर्वोपसंहारेण वाऽन्वयः।ज्ञात्वा शास्त्रविधानोक्तम् [16।24] इत्यस्यानन्तरंये शास्त्रविधिमुत्सृज्य इति प्रश्नः कथं सङ्गच्छते इत्यत्राऽऽहतत्रेति।अशास्त्रविहितस्य निष्फलत्वमजानन्निति।अयमभिप्रायः -- प्रेक्षावतां स्वतः प्रयोजने तदुपाये वा बुभुत्सा अतः सत्त्वादिनिष्ठाभेदबुभुत्सा तन्मूलफलविशेषपर्यन्ता न च निष्फलत्वज्ञाने फलविशेषजिज्ञासा ततश्च लोकसिद्धाः कृषिचिकित्सादयोऽपि प्रेक्षावत्प्रवृत्तिविषयाः सफला एव दृश्यन्ते? अन्यथा शास्त्रस्यापि निर्मूलत्वप्रसङ्गात्। अलौकिकेष्वप्याचारसिद्धाः कतिकति धर्माः नच ते यत्किञ्चित्फलमन्तरेण स्युः? प्रेक्षावतामप्रवृत्तिप्रसङ्गात्। न च श्रद्धापूर्वकानुष्ठानेऽङ्गवैकल्यात् फलाभावः सम्भवति नच प्रेक्षावद्भिरनन्तैर्जनैर्बहुवित्तव्ययायासादिनाऽनुष्ठीयमानेषु दृष्टप्रयोजनरहितेषु कर्मसु अदृष्टपर्यवसानमन्तरेण गतिः अतः शास्त्रविहितादस्य यदि किञ्चिद्वैषम्यमुच्यते? तदा सत्त्वादिगुणभेदप्रयुक्तफलतारतम्यमात्रमेव स्यात्। अतःयः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम् [13।23] इति पूर्वोक्तमपि प्रायशः प्रकृष्टसुखाभावविवक्षयाकामकारतः इति विशेषणं वा श्रद्धायुक्तव्यवच्छेदार्थमिति दुरुपदेशबाह्यागमस्वोत्प्रेक्षावृद्धव्यवहारमात्रकल्पिते ह्यत्र धर्माभिसन्धिश्रद्धादियोगान्नैष्फल्यनिवृत्तिर्युक्तेत्यर्जुनस्याशयः -- इति।विशिष्टस्य फलत्वशङ्कास्पदत्वाय कर्तृविशेषणं क्रियाविशेषणतया व्याख्यातम्। यागोऽत्र दानाद्युपलक्षणार्थः देवपूजात्वाविशेषात्तत्सङ्ग्रहो वा। अत्र कृष्णशब्देनकृषिर्भूवाचकः शब्दोणश्च निर्वृतिवाचकः [म.भा.5।70।5] इति सर्वापेक्षितः सिद्ध्यौपयिकीं निरुक्तिमभिप्रैति। तुशब्देन शास्त्रीयनिष्ठातः कामकारतश्च व्यावृत्तिर्विवक्षिता। विपरिणतस्य किंशब्दस्यअहो इति पदस्य वा अत्रावृत्तिमभिप्रेत्याऽऽह -- किं सत्त्वमिति। विनाशाद्यर्थव्यवच्छेदार्थं सत्त्वादिसामानाधिकरण्याय चाधिकरणव्युत्पत्तिमवतारयितुं पर्यायेण स्वरूपं व्यनक्तिनिष्ठा स्थितिरिति।तेषां निष्ठा तु का इति पृष्ट एवार्थःसत्त्वं इत्यादिना विशेष्यत इत्यभिप्रायेण फलितमाहतेषामिति।

श्रीभगवानुवाच
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७- २॥

व्याख्याः

शाङ्करभाष्यम्
।।17.2।। --,त्रिविधा त्रिप्रकारा भवति श्रद्धा? यस्यां निष्ठायां त्वं पृच्छसि? देहिनां शरीरिणां सा स्वभावजा जन्मान्तरकृतः धर्मादिसंस्कारः मरणकाले अभिव्यक्तः स्वभावः उच्यते? ततो जाता स्वभावजा। सात्त्विकी सत्त्वनिर्वृत्ता देवपूजादिविषया राजसी रजोनिर्वृत्ता यक्षरक्षःपूजादिविषया तामसी तमोनिर्वृत्ता प्रेतपिशाचादिपूजाविषया एवं त्रिविधां ताम् उच्यमानां श्रद्धां शृणु अवधारय।।सा इयं त्रिविधा भवति --,
माध्वभाष्यम्
।।17.2।।अतो विभज्याऽऽह -- त्रिविधेत्यादिना।
रामानुजभाष्यम्
।।17.2।।श्रीभगवानुवाच -- सर्वेषां देहिनां श्रद्धा त्रिविधा भवति सा च स्वभावजा -- स्वभावः स्वासाधारणो भावः? प्राचीनवासनानिमित्तः तत्तद्रुचिविशेषः? यत्र रुचिः तत्र श्रद्धा जायते। श्रद्धा हिस्वाभिमतं साधयति एतत् इतिविश्वासपूर्विका साधने त्वरा। वासना रुचिः च श्रद्धा च आत्मधर्माः गुणसंसर्गजाः।तेषाम् आत्मधर्माणां वासनादीना जनकाः देहेन्द्रियान्तः करणविषयगता धर्माः कार्यैकनिरूपणीयाः सत्त्वादयो गुणाः? सत्त्वादिगुणयुक्तदेहाद्यनुभवजा इत्यर्थः।ततः च इयं श्रद्धा सात्त्विकी राजसी तामसी च इति त्रिविधा। ताम् इमां श्रद्धां श्रृणु। सा श्रद्धा यत्स्वभावा तं स्वभावं श्रृणु इति अर्थः।
अभिनवगुप्तव्याख्या
।।17.2।।तदत्रोत्तरं श्रद्धानुसारेण दीयते श्रीभगवता ( omits श्रीभगवता ) -- त्रिविधेति। तत्र चायमाशयः -- शास्त्रं नाम किल पक्षपातारूषितबुद्धिपूर्वकत्वविहीनम् ( ? N पक्षपातादूषित -- ) ? तथा परामर्शदार्ढ्यरूपं बोधस्वातन्त्र्यादेव ( ? N? K -- रूपबोध -- ) दृढं परामृष्टं तथा,( ? N? K दृढपरामृष्ट ( ?N श्य ) तथा ) फलादिस्वभावं? शुद्धविमर्शनिष्यन्दवाक्तत्त्वपरमार्थपरब्रह्मस्वभावम् ( ? N omit परमार्थ S omits the succeeding पर -- ) ? स्वतन्त्रप्रसरतया आन्तरात् बोधस्वभावात् बहिःप्रसरपर्यन्तं? तच्च ( S? K? omits तच्च Substitutes सा च ) सुसूक्ष्मप्रणवादिरूपात् ( ? N -- प्रधानादिरूपव्यव -- ) व्यवहारप्रसिद्धप्रवा ( ? N -- प्रवाह -- )दपरंपरापर्यन्तम्। यदाह -- तद्विदां च स्मृतिशीले इति। ( गौतमधर्मसूत्रम् I? 2 )तच्च स्वत एव हिताहितोपदेशाय कार्याकार्यविवेचकम्। यस्य स्वभावत एव सत्त्वातिरेकसुकुमारं हृदयं? तेनाचरितं शास्त्रितमेव। अन्यस्तु रजस्तमःकलुषीकृतः शास्त्रोक्तमप्याचरन् न आचरति? शास्त्रार्थस्य कात्स्न्र्येन अननुष्ठानात्। शास्त्रं हि सत्त्ववतामेव फलवदिति शास्त्रमेवाह -- यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्।विद्या तपश्च शीलं च स तीर्थफलमश्नुते।।इति ( M Aranya? Ch. 80? v. 30 )नान्यः? असंयतत्वात्। तस्मात् शास्त्रार्थः परित्यक्तकामक्रोधमोहेषु सफल इति तात्पर्यम् अस्य अध्यायस्य। तदेवैतत् प्रताय्यते? स्पष्टार्थत्वाच्च न विव्रियते। किं तु ( S omits किंतु ) केवलं पाठविप्रतिपत्तिनिवारणायैव लिख्यते।
जयतीर्थव्याख्या
।।17.2।।ननुतेषां निष्ठा तु का [17।1] इति पृष्टे सात्त्विकत्वादिकं वक्तव्यम्? त्रिविधेत्यादिकं तु किमर्थमुच्यते इत्यत आह -- अत इति। यत एवमर्जुनेन वेदविधिमजानतां निष्ठा पृष्टा? अज्ञानं च भेदकं त्रयाणामपि सम्भवात्। न चाज्ञानस्य प्रभेदाः सन्ति? अतः श्रद्धयाऽन्विता इति तद्विशेषणत्वेनोक्तां श्रद्धां सात्त्विकत्वादिना विभज्य तदाश्रयेण तेषां स्वरूपमाहेत्यर्थः।
मधुसूदनसरस्वतीव्याख्या
।।17.2।।ये शास्त्रविधिमुत्सृज्य श्रद्धया यजन्ते ते श्रद्धाभेदाद्भिद्यन्ते तत्र ये सात्त्विक्या श्रद्धयान्वितास्ते देवाः शास्त्रोक्तसाधनेऽधिक्रियन्ते तत्फलेन च युज्यन्ते। ये तु राजस्या तामस्या च श्रद्धयान्वितास्तेऽसुरा न शास्त्रीयसाधनेऽधिक्रियन्ते नवा तत्फलेन युज्यन्त इति विवेकेनार्जुनस्य संदेहमपनिनीषुः श्रद्धाभेदं यथा श्रद्धयान्विताः शास्त्रविधिमुत्सृज्य यजन्ते सा देहिनां स्वभावजा। जन्मान्तरकृतो धर्माधर्मादिशुभाशुभसंस्कार इदानींतनजन्मारम्भकः स्वभावः। स त्रिविधः सात्त्विको राजसस्तामसश्चेति। तेन जनिता श्रद्धा त्रिविधा भवतिं सात्त्विकी राजसी तामसी च। कारणानुरूपत्वात्कार्यस्य। या त्वारब्धे जन्मनि शास्त्रसंस्कारमात्रजा विदुषां सा कारणैकरूपत्वादेकरूपा सात्त्विक्येव न राजसी तामसी चेति प्रथमश्चकारार्थः। शास्त्रनिरपेक्षा तु प्राणिमात्रसाधारणी स्वभावजा। सैव स्वभावत्रैविध्यात्ित्रविधेत्येवकारार्थः। उक्तविधात्रयसमुच्चयार्थश्चरमश्चकारः। यतः प्राग्भवीयवासनाख्यस्वभावस्याभिभावकं शास्त्रीयं विवेकविज्ञानमनादृतशास्त्राणां देहिनां नास्ति अतस्तेषां स्वभाववशात्ित्रधाभवन्तीं तां श्रद्धां शृणु। श्रुत्वा च देवासुरभावं स्वयमेवावधारयेत्यर्थः।
पुरुषोत्तमव्याख्या
।।17.2।।अत्रोत्तरमाह श्रीकृष्णः -- त्रिविधेति। देहिनां देहाभिमानवतां लौकिकानां श्रद्धा त्रिविधा भवति? सात्त्विकी च पुनः राजस्येव? तथा तामसी चेत्यमुना प्रकारेण त्रिविधा। सा च स्वभावजा स्वस्यौत्पत्तिकगुणजा? न तु निर्गुणा। तथाचायं भावः -- शास्त्रोक्तविद्ध्युक्तमद्भजनश्रद्धातो लौकिकादिगुणज्ञानोदयो भवति निर्गुणत्वाज्जीवस्यापि निर्गुणत्वेन सत्त्वसङ्गाभावान्मत्प्राप्तिफला श्रद्धैकरूपैव? भिन्ना गुणस्वभावजा? त्रिविधा च भिन्ना न तत्फलसाधिकेति भिन्नत्वज्ञापनाय तां त्रिविधां मयोच्यमानां श्रृणु? तच्छ्रवणादेव त्वत्सन्देहनिवृत्तिर्भविष्यतीति।
वल्लभाचार्यव्याख्या
।।17.2।।एवं पृष्टः पुनरपि द्विविधेषु त्रिगुणविवेकेनैव शास्त्रीयश्रद्धादिस्वरूपमाह -- श्रीभगवानुवाच त्रिविधेति। देहाभिमान आसुरः? तद्वतामशास्त्रविधिमुत्सृज्याननुसृत्य वर्तमानानां उभयविधानां जीवानां सा स्वभावजेति। त्रिगुणमयं स्वभावमन्यथा कर्त्तुं शक्तं हि शास्त्रीयं विज्ञानं? तत्तूक्तानां नास्तीति कामकारपदवाच्या निष्ठैव केवलं पूर्वतनस्वभावजा। श्रद्धा सा त्रिविधा भवति सात्त्विकी राजसी तामसी चेति मत्तस्तां श्रृणु।
आनन्दगिरिव्याख्या
।।17.2।।विशेषनिष्ठमुत्तरं सामान्येन वक्तुं न शक्यमित्याशयेन परिहरति -- सामान्येति। किमिति श्रद्धात्रैविध्यं प्रश्नानुपयुक्तमुच्यते तत्राह -- यस्यामिति। श्रद्धापूर्विकायां क्रियायामिति यावत्। श्रद्धात्रैविध्ये हेतुमाह -- सा स्वभावजेति। स्वभावशब्दार्थं प्रकृतोपयोगितया कथयति -- जन्मान्तरेति। कथं त्रिविधेत्यपेक्षायामाह -- सात्त्विकीत्यादिना। कथमुक्ता श्रद्धा स्वभावजेति तत्राह -- तामिति।
धनपतिव्याख्या
।।17.2।।प्रश्नानुरुपमुत्तरं श्रीभगवानुवाच। त्रिविधा त्रिप्रकारा श्रद्धा भवति? ययान्वितानां निष्ठां त्वं पृच्छसि सा देहिनं देहवतां जीवानां स्वभावजा। जन्मान्तरकृतधर्माधर्मादिसंस्कारो मरणकालेऽभिव्यक्तः स्वभाव उच्यते। तस्माज्जाता जीवानां त्रिविधात्स्वभावाज्जातत्वात् श्रद्धा त्रिविधा भवतीत्यर्थः। या तु अस्वभावजा असूनामभावोऽस्वभावः मरणमित्यर्थस्तस्मिन्समीपे सति जाता। मरणसमये व्यस्तानां समस्तानां वा गुणानामुद्भवे जन्मान्तरे तत्संस्कारवशात्तत्तद्गुणाधिक एव भवतीति व्यवस्था कारणमितीतरेषां व्याख्या। सा तुमुखमस्तीत वक्त्व्यं इतिन्यायविजृम्बितत्वादुपेक्ष्या। श्रद्धायास्त्रैविध्यमाह। एवं त्रिविधां तां श्रद्धां भयोच्यमानां श्रुणु।
नीलकण्ठव्याख्या
।।17.2।।एवं सामान्यतः पृष्टे सामान्यमेवोत्तरं श्रीभगवानुवाच -- त्रिविधेति। स्वभावः प्राग्भवीयौ धर्माधर्मौ ततो जाता स्वभावजा। यदि प्राग्भवे सात्त्विको देवतापूजादिधर्मोऽनेनानुष्ठितस्तर्हि तस्य शुद्धसात्त्विक्येव श्रद्धा भवति। यदि राजसो यक्षादिपूजारूपस्तर्हि राजस्येव। यदि तामसो भूतप्रेतादिपूजारूपस्तर्हि तामसी श्रद्धा भवति। एवं त्रिविधा श्रद्धा देहिनां देहाभिमानवतां भवति तां मया व्याख्यास्यमानां शृणु।
श्रीधरस्वामिव्याख्या
।।17.2।।अत्रोत्तरं श्रीभगवानुवाच -- त्रिविधेति। अयमर्थःशास्त्रतत्त्वज्ञानतः प्रवर्तमानानां परमेश्वरपूजाविषया सात्त्विकी एकविधैव श्रद्धा। लोकाचारमात्रेण तु प्रवर्तमानानां देहिनां या श्रद्धा सा तु सात्त्विकी राजसी तामसी चेति त्रिविधा भवति। तत्र हेतुः। स्वभावजा स्वभावः पूर्वकर्मसंस्कारस्तस्माज्जाता स्वभावजा। स्वभावमन्यथा कर्तुं समर्थं हि शास्त्रोक्तं विवेकज्ञानं तत्तु तेषां नास्ति? अतः केवलं स्वभावेनैव भवतीति श्रद्धा त्रिविधा भवति? तामिमां त्रिविधां श्रद्धां श्रृणु। तदुक्तम्व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन इत्यादिना।
वेङ्कटनाथव्याख्या
।।17.2।।श्रद्धा कतिविधा इति प्रश्नाभावेऽपि तदुक्तिवैघट्यशङ्कां परिहरन् श्रद्धात्रैविध्यकथनस्य प्रयोजनं चाऽऽह -- एवं पृष्ट इत्यादिना। पूर्वोपदिष्टविरुद्धं पृष्ट इत्यर्थः।हृदि निधायेति -- क्रमेण साक्षादुत्तरमवतारयितुमित्यर्थः। प्रश्नस्यात्यन्तानादरपरत्वज्ञापनाय वा सहसा साक्षादुत्तरानुक्तिरिति भावः।गुणतस्त्रैविध्यमिति -- गुणभेदनिमित्तफलभेदयोगित्वमिति भावः। अत्र हि श्रद्धायोगात्सात्त्विकत्वं शास्त्रोल्लङ्घनात्तामसत्वं तदुभयसमुच्चयाद्राजसत्वमाशङ्कितं तत्र तावच्छ्रद्धापूर्वकत्वं फलसाधनत्वायोपयुक्तम्? तच्छास्त्रीयेष्वेव तत्रापि श्रद्धाया न त्वैकान्तिकत्वमित्यभिप्रायेण शास्त्रीयश्रद्धायास्त्रैविध्यग्रहणम्। एतेन परिसङ्ख्यान्यायेनाशास्त्रीयेषु फलभेदनिमित्तं त्रैविध्यं प्रत्युक्तम्। अत्र श्रद्धाभेदात् सत्त्वादिनिष्ठाभेदनिर्णय इत्युक्तं भवति।देहिनां इत्यनेन तत्तद्देहानुरूपमधिकारिवैचित्र्यं विवक्षितमित्यभिप्रायेणाऽऽहसर्वेषामिति। ब्रह्मादीनामपीत्यर्थः।देहिनाम् इति सत्त्वादिगुणप्रचुरदेहविशेषानुरूपमिति भावः। साधारणेषु शास्त्रेषु तत्प्ररोचकेष्वर्थवादादिषु च कथं पुरुषभेदनियतश्रद्धाभेदः इति शङ्कायांसा स्वभावजा इति वाक्यान्तरमित्यभिप्रायेणाऽऽहसा चेति। कार्यासाधारणत्वाय कारणासाधारणत्वविवक्षामाहस्वभावः स्वासाधारणो भाव इति। कोऽसौ भावः कश्च तस्याप्यसाधारण्यहेतुः इत्यत्राऽऽह -- प्राचीनेति। भावशब्दोऽत्र धर्मविशेषपरः। नानार्थे स्वभावशब्दे कथमत्र रुचिविवक्षा इत्यत्राऽऽहयत्र रुचिरिति। रुचिश्रद्धयोः कार्यकारणभावोऽन्वयव्यतिरेकसिद्ध इत्यर्थः। रुचिव्यतिरिक्ता तत्कार्यभूता का श्रद्धा इत्यत्राऽऽहश्रद्धाहीति।श्रद्धा विश्वासकाङ्क्षयोः इति त्वरापर्यन्तविश्वासेऽपि हि श्रद्धाशब्दं नैघण्टुकाः पठन्ति। ननु कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव [बृ.उ.1।5।3] इति श्रवणात् अन्तःकरणधर्मेष्वात्मानमलिम्पत्सु श्रद्धादिषु गुणकृतत्वाच्च गुणधर्मत्वसम्भवेऽपि कथमत्र स्वशब्देन देहिशब्देन च निर्दिष्टप्रत्यगात्मनि तदन्वयोक्तिः तत्राऽऽहवासनेति। शुद्धस्वभावस्यैवात्मनः कर्ममूलगुणमयप्रकृतिसंसर्गोपाधिकधर्मभूतज्ञानपरिणतिविशेषा इत्यर्थः। श्रद्धाभेदेषु सात्त्विकादिसंज्ञानिवेशाय निर्गुणस्यात्मनः कथं सत्त्वादिमूलवासनादियोगः इति शङ्काव्युदासाय च देहिशब्दसूचितप्रक्रियया गुणसंसर्गजत्वं विवृणोतितेषामिति। यथौषधादिविशिष्टदहनादिसम्बन्धात् पार्थिवादिषु पाकजगुणारम्भः? तथाऽत्रेति भावः। तत्तत्कार्यहेतुतया शास्त्रसिद्धानामनुपलब्ध्या निराकरणमयुक्तमित्यभिप्रायेणाऽऽहकार्यैकनिरूपणीया इति। अतीन्द्रियाणामननुभूतानां कथं वासनाहेतुत्वं इत्यत्राऽऽहसत्त्वादिगुणयुक्तेति। मूलकारणापेक्षया श्रद्धायाः सात्त्विकादिसंज्ञाभेद इत्याहततश्चेति। सात्त्विकत्वादित्रैविध्येन श्रावितायां पुनःश्रृणु इति किमुच्यते इत्यत्राऽऽहसा श्रद्धा यत्स्वभावेति। स्वरूपस्य सामान्यतस्त्रैविध्यस्य च विदितत्वादविदितप्रकारविशेषाभिप्रायेणश्रृणु इत्युक्तम्।

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७- ३॥

व्याख्याः

शाङ्करभाष्यम्
।।17.3।। --,सत्त्वानुरूपा विशिष्टसंस्कारोपेतान्तःकरणानुरूपा सर्वस्य प्राणिजातस्य श्रद्धा भवति भारत। यदि एवं ततः किं स्यादिति? उच्यते -- श्रद्धामयः अयं श्रद्धाप्रायः पुरुषः संसारी जीवः। कथम् यः यच्छ्रद्धः या श्रद्धा यस्य जीवस्य सः यच्छ्रद्धः स एव तच्छ्रद्धानुरूप एव सः जीवः।।ततश्च कार्येण लिङ्गेन देवादिपूजया सत्त्वादिनिष्ठा अनुमेया इत्याह --,
माध्वभाष्यम्
।।17.3।।सत्त्वानुरूपा चित्तानुरूपा। यो यच्छ्रद्धः स एव सः? सात्त्विकश्रद्धः सात्विक इत्यादि।
रामानुजभाष्यम्
।।17.3।।सत्त्वम् अन्तःकरणम्? सर्वस्य पुरुषस्य अन्तःकरणानुरूपा श्रद्धा भवति अन्तःकरणं यादृशगुणयुक्तम्? तद्विषया श्रद्धा जायते इत्यर्थः। सत्त्वशब्दः पूर्वोक्तानां देहेन्द्रियादीनां प्रदर्शनार्थः।श्रद्धामयः अयं पुरुषः? श्रद्धामयः श्रद्धापरिणामः यो यच्छ्रद्धः? यः पुरुषो यादृश्या श्रद्धया युक्तः? स एव सः स तादृशश्रद्धापरिणामः। पुण्यकर्मविषये श्रद्धायुक्तः चेत् पुण्यकर्मफलसंयुक्तः भवति इति श्रद्धाप्रधानः फलसंयोग इति उक्तं भवति इति।तद् एव विवृणोति --
अभिनवगुप्तव्याख्या
।।17.3।।सत्त्वेति। सत्त्वानुरूपा इत्यत्र सत्त्वशब्दः स्वभावपर्यायः। अयं पुरुषः आत्मा श्रद्धया अन्यव्यापारोपरि वर्तिन्या अवश्यं संबद्धः स च तन्मय एव बोद्धव्यः।
जयतीर्थव्याख्या
।।17.3।।सात्त्विकत्वादिभेदेन श्रद्धा त्रिविधेत्युक्ता? पुनःसत्त्वानुरूपा सर्वस्य श्रद्धा भवति इति वचनं कथं न व्याहतं इत्यत आह -- सत्त्वेति। चित्तं चैतन्यम्? जीव इति यावत्। ननु श्रद्धास्वरूपमेव निरूपितम्? न तु तदाश्रित्य जीवस्वरूपं? अतो न सङ्गतमुत्तरमित्यतो येन तदुच्यते तत्पठित्वा व्याचष्टे -- य इति। इत्यादि ज्ञातव्यमिति शेषः। राजसश्रद्धो राजसः? तामसश्रद्धस्तामस इत्यर्थः।
मधुसूदनसरस्वतीव्याख्या
।।17.3।।प्राग्भवीयान्तःकरणगतवासनारूपनिमित्तकारणवैचित्र्येण श्रद्धावैचित्र्यमुक्त्वा तदुपादानकारणान्तःकरणवैचित्र्येणापि तत्त्रैविध्यमाह -- सत्त्वानुरूपेति। सत्त्वं प्रकाशशीलत्वात्सत्त्वप्रधानत्रिगुणपञ्चीकृतपञ्चमहाभूतारब्धमन्तःकरणं तच्च क्वचिदुद्रिक्तसत्त्वमेव यथा देवानां क्वचिद्रजसाभिभूतसत्त्वं? यथा यक्षादीनां क्वचित्तमसाभिभूतसत्त्वं यथा प्रेतभूतादीनाम्। मनुष्याणां तु प्रायेण व्यामिश्रमेव तच्च शास्त्रीयविवेकज्ञानेनोद्भूतसत्त्वं रजस्तमसी अभिभूय क्रियते। शास्त्रीयविवेकविज्ञानशून्यस्य तु सर्वस्य प्राणिजातस्य सत्त्वानुरूपा श्रद्धा सत्त्ववैचित्र्याद्विचित्रा भवति सत्त्वप्रधानेऽन्तःकरणे सात्त्विकी? रजःप्रधाने,तस्मिन् राजसी? तमःप्रधाने तु तस्मिंस्तामसीति। हे भारत महाकुलप्रसूत ज्ञाननिरतेति वा शुद्धसात्त्विकत्वं द्योतयति। यत्त्वया पृष्टं तेषां निष्ठा केति तत्रोत्तरं शृणु। अयं शास्त्रीयज्ञानशून्यः कर्माधिकृतः पुरुषः त्रिगुणान्तःकरणसंपिण्डितः श्रद्धामयः प्राचुर्येणास्मिन् श्रद्धा प्रस्तुतेति तत्प्रस्तुतवचने मयट् अन्नमयो यज्ञ इतिवत्। अतो यो यच्छ्रद्धो या सात्त्विकी राजसी तामसी वा श्रद्धा यस्य स एव श्रद्धानुरूप एव सः सात्त्विको राजसस्तामसो वा श्रद्धयैव निष्ठा व्याख्यातेत्यभिप्रायः।
पुरुषोत्तमव्याख्या
।।17.3।।एवं श्रोतारं श्रवणे सावधानतयाऽभिमुखीकृत्याऽऽह श्रद्धास्वरूपम् -- सत्त्वानुरूपेति। हे भारत सत्त्वानुरूपा मूलसत्त्वस्य अनुरूपा सदृशा अन्यधर्मास्फूर्तिपूर्वकसर्वसामर्थ्यस्फुरणासक्त्युत्पत्तिप्रसरणादररूपा श्रद्धा सर्वस्य सात्त्विकादित्रयस्य भवति। भारतेतिसम्बोधनं तथात्वज्ञानाधिकारित्वबोधनाय। तर्हि त्रिविधत्वं कथं इत्यत आह -- श्रद्धामय इति। अयं पुरुषो मदंशोऽपि नरात्मकः श्रद्धामयः श्रद्धाप्रचुरः? स तु यः सात्त्विकादिभेदेन यच्छ्रद्धः यस्य श्रद्धायुक्तो भवति सः स एव तद्रूप एव भवतीत्यर्थः।
वल्लभाचार्यव्याख्या
।।17.3।।तथाहिसत्त्वानुरूपेति। अन्तःकरणधर्मत्वात्सत्त्वानुरूपा अन्तःकरणानुरूपा श्रद्धा भवति पूर्वसंस्कारानुगतमन्तःकरणं यादृशं तादृशी श्रद्धा येषां शास्त्रज्ञानरहितमन्तःकरणं तेषां श्रद्धाऽपि तथा येषां न तथा तेषां श्रद्धाऽपि न तथा परन्तु एतेन शास्त्रविधित्यागात्यागतो वर्त्तते न जीवेषु दैवासुरभावः प्रतीयत इत्यवोचाम श्रद्धा कामकारवृत्तिश्चास्तिक्यमतिरेवेति। सम्प्रदायविदः तेन गुणमयत्वमुपपद्यते यो यादृशश्रद्धः स एव सः? यतोऽयं पुरुषः श्रद्धामयः।
आनन्दगिरिव्याख्या
।।17.3।।प्राचीनकर्मोद्बोधिता त्रिविधा वासना स्वभावशब्दिता त्रिविधायाः श्रद्धाया निमित्तमित्युक्तमिदानीमुपादानं तस्य दर्शयति -- सैवमिति। विशिष्टचित्तोपादाना श्रद्धा तन्त्रैविध्ये त्रिविधेति पूर्वार्धस्यार्थः। कथं निष्ठायाः सात्त्विकादिप्रश्नद्वारा श्रद्धायास्त्रैविध्यनिरूपणमुपयुक्तमिति मन्वानः शङ्कते -- यद्येवमिति। श्रद्धेयं विषयमभिध्यायंस्तया तत्रैव वर्तत इति मन्वानः परिहरति -- उच्यत इति। श्रद्धामयत्वं प्रश्नपूर्वकं कथयति -- कथमिति। श्रद्धा खल्वधिकृते पुरुषे प्राचुर्येण प्रकृतेति तस्य श्रद्धामयत्वसिद्धिरित्यर्थः।
धनपतिव्याख्या
।।17.3।।प्राचीनकर्मोद्वोधिता त्रिविधा वासना स्वभावशब्दिता त्रिविधायाः श्रद्धायाः निमित्तमित्युक्तम्। इदानीं तस्या उपादानानुरुपत्वेन त्रैविध्यं ज्ञापयन् तन्मयस्य पुरुषस्य त्रैविध्यं ज्ञापयति -- सत्त्वानुरुपेति। सर्वस्य प्राणिजातस्य सत्त्वानुरुपा सात्त्विकादिसंस्कारोपेतान्तःकरणानुरुपा त्रिविधसंस्कारोपेतचित्तोपादाना श्रद्धा त्रिविधा भवतीत्यर्थः। श्रद्धामयः श्रद्धाप्रायोऽयं पुरुषो जीवः कथं यो यच्छ्रद्धः जीवस्य या श्रद्धा स यच्छ्रद्धः स एव स श्रद्धानुरुप एव स जीवः। श्रद्धायास्त्रैविध्यात्तन्मयो जीवोऽपि त्रिविध इत्यर्थः। यथा त्वं भरतवंशोद्भवत्वाद्भारतस्तथेति संबोधनाशयः।
नीलकण्ठव्याख्या
।।17.3।।ननुश्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येत् इति श्रद्धाया आत्मदर्शने साधनेष्वन्तरङ्गत्वमुच्यते कथं तस्या राजसत्वं तामसत्वं चोच्यत इत्यत आह -- सत्त्वेति। प्राक्कर्मसंस्कारोपतं यादृशं बुद्धिसत्त्वं सात्त्विकं राजसं तामसं वा तदनुरूपैव सात्त्विक्यादिरूपा देवतादिपूजा सुफलावश्यंभावनिश्चयात्मिका श्रद्धापि भवति। तथायं पुरुषोऽपि श्रद्धामयः श्रद्धाप्रधानो यो यच्छ्रद्धो यो यया श्रद्धयोपेतः स एव स इति सात्त्विक्या श्रद्धयोपेतः सात्त्विक एव राजस्या राजसस्तामस्या तामस इति। एवं सति यदि तातकूपभक्तः पूर्वपुण्यवशात्तातं देववन्मन्यते तर्हि तं सात्त्विकं पुण्डरीकमिव देवा अनुगृह्णन्ति नित्यकर्मत्यागनिमित्तमपि दोषमस्यापनुदन्ति। यदि त्वेनं मन्त्रादिना सिद्धं पूर्ववासनावशाद्यक्षादिरूपं मन्यते तदा तं राजसं राजसा यक्षा एवानुगृह्णन्ति। नास्य कामकारवतो नित्यकर्मत्यागजं दोषमपनेतुमर्हन्ति। नहि देवतापराधी यक्षैस्त्रातुं शक्यते। यदि त्वयं प्रेतः पिता मत्कुटुम्बं माबाधिष्टेति सर्वं धर्मं त्यक्त्वा एनमस्य प्रियं कूपं पूजयामीति मन्यते तदां तं पितरि प्रेतत्वबुद्धियोगाद्विपर्यस्तं तामसं प्रेता एवानुगृह्णन्ति क्षुद्रभोगैर्देवाश्च नरके पातयन्ति।
श्रीधरस्वामिव्याख्या
।।17.3।।ननु च श्रद्धा सात्त्विक्येव सत्त्वकार्यत्वेन त्वयैव भगवता उद्धवं प्रति निर्दिष्टत्वात्। यथोक्तम -- शमो दमस्तितिक्षेज्या तपः सत्यं दया स्मृतिः। तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादिः स्वनिर्वृतिः।।इत्येताः सत्त्वस्य वृत्तयः इति। अतः कथं तस्यास्त्रैविध्यमुच्यते। सत्यम्। तथापि रजस्तमोयुक्तपुरुषाश्रयत्वेन रजस्तमोमिश्रत्वेन सत्त्वस्य त्रैविध्याच्छ्रद्धाया अपि त्रैविध्यं घटत इत्याह -- सत्त्वानुरूपेति। सत्त्वानुरूपा सत्त्वतारतम्यानुसारिणी सर्वस्य विवेकिनोऽविवेकिनो वा लोकस्य श्रद्धा भवति। तस्मादयं पुरुषो लौकिकः श्रद्धामयः श्रद्धाविकारः। त्रिविधा श्रद्धया विक्रियत इत्यर्थः। तदेवाह -- यो यच्छ्रद्धः यादृशी श्रद्धा यस्य स एव सः तादृश्या श्रद्धया युक्त एव सः। यः पूर्वं सत्त्वोत्कर्षेण सात्त्विकश्रद्धया युक्तः पुरुषः स पुनस्तादृशसत्त्वसंस्कारेण सात्त्विकश्रद्धया युक्त एव भवति। यस्तु रजस उत्कर्षेण राजसश्रद्धायुक्तः स पुनस्तादृश एव भवति। यस्तु तमस उत्कर्षेण तामसश्रद्धया युक्तः स पुनस्तादृश एव भवति इति लोकाचारमात्रेण प्रवर्तमानेष्वेवं सात्त्विकराजसतामसश्रद्धाव्यस्था। शास्त्रजनितविवेकज्ञानयुक्तानां तु स्वभावविजयेन सात्त्विक्येकैव श्रद्धेति प्रकरणार्थः।
वेङ्कटनाथव्याख्या
।।17.3।।सत्त्वानुरूपा इत्यत्र न सत्त्वगुण उच्यते सर्वस्य पुरुषस्य श्रद्धायास्तदधीनत्वे राजसतामसश्रद्धाविभागायोगात्। सहकारित्वेन सत्त्वं सर्वत्रापेक्षितमिति चेत्? न रजस्तमसोरपि तथात्वात्। त्रैगुण्यं हि परस्पराङ्गभावेन स्थित्वैव हि वातपित्तकफादिवत्सर्वं कार्यमारभते। अतोऽत्र सर्वश्रद्धासाधारणकारणत्वेन निर्दिष्टं सत्त्वं गुणत्रयोपष्टब्धमन्तःकरणमेवेत्याहसत्त्वमन्तःकरणमिति। आनुरूप्यं विवृणोतिअन्तःकरणं यादृशगुणयुक्तमिति। यद्विषयरुचिजनकवासनोत्तम्भकसत्त्वादियुक्तमित्यर्थः। पूर्वंदेहिनां सा स्वभावजा [17।2] इत्युक्तम्? इह त्वन्तःकरणहेतुकत्वमुच्यते? तदेतन्न वैकल्पिकं? सिद्धे तदयोगात् नापि पुरुषभेदेन विकल्पः? सर्वस्येत्युक्तेः नापि समुच्चयः? नैरपेक्ष्यप्रतीतेरित्यत्राऽऽह -- सत्त्वशब्द इति। सामग्रीमध्यपातिषु तत्रतत्रान्यतमनिर्देशो नानुपपन्न इति भावः।श्रद्धामयः इत्यत्र मयटः स्वार्थिकत्वे निष्प्रयोजनत्वात्प्राचुर्याद्यर्थत्वेऽपि प्रकृतानुपयोगाच्छ्रद्धाफलान्वयविवक्षया विकारार्थत्वमाहश्रद्धापरिणाम इति। एवं सामान्येन श्रद्धाजन्यफलसम्बन्धित्वमुक्तम् तत्रयो यच्छ्रद्धः इत्यादिना श्रद्धाविशेषवतः फलविशेषयोग उच्यत इत्याह -- यः पुरुष इति। श्रद्धान्तरवैधर्म्यद्योतनाय यत्तच्छब्दयोःयादृश्या इत्यादिना प्रकारपरामर्शित्वोक्तिः।आयुर्घृतम् [यजुः2।3।2।2] इत्यादिवत्कार्यकारणभावातिशयविवक्षयास एव सः इति निरूढोऽयमारोप इत्याहस तादृशश्रद्धापरिणाम इति। एतेनस एव सः इत्यत्र विधेयभेदाभावात्पुनरुक्तिशङ्काऽपि परिहृता। पुरुषस्य नित्यत्वाद्धर्मभूतज्ञानविकासादेश्चेन्द्रियद्वारा व्यवस्थितत्वात्? देहादेश्चाचित्परिणामविशेषत्वात्किमपेक्षस्य श्रद्धापरिणामत्वोक्तिरित्यत्राऽऽह -- पुण्यकर्मेति। फलभेदबुभुत्सया ह्यत्र प्रश्नोदय इति च भावः।

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७- ४॥

व्याख्याः

शाङ्करभाष्यम्
।।17.4।। --,यजन्ते पूजयन्ति सात्त्विकाः सत्त्वनिष्ठाः देवान्? यक्षरक्षांसि राजसाः? प्रेतान् भूतगणांश्च सप्तमातृकादींश्च अन्ये यजन्ते तामसाः जनाः।।एवं कार्यतो निर्णीताः सत्त्वादिनिष्ठाः शास्त्रविध्युत्सर्गे। तत्र कश्चिदेव सहस्रेषु देवपूजादिपरः सत्त्वनिष्ठो भवति? बाहुल्येन तु रजोनिष्ठाः तमोनिष्ठाश्चैव प्राणिनो भवन्ति। कथम् --,
माध्वभाष्यम्
।।17.4।।कः सात्त्विकश्रद्धः इत्यादि विभज्याऽऽह -- यजन्त इत्यादिना।
रामानुजभाष्यम्
।।17.4।।सत्त्वगुणप्रचुराः सात्त्विक्या श्रद्धया युक्ता देवान् यजन्ते।दुःखासंभिन्नोत्कृष्टसुखहेतुभूतदेवयागविषया श्रद्धा सात्त्विकी इति उक्तं भवति। राजसा जना यक्षरक्षांसि यजन्ते। अन्ये तामसाः जनाः प्रेतान् भूतगणान् यजन्ते।दुःखसंभिन्नाल्पसुखजननी राजसी श्रद्धाः? दुःखप्राया अत्यल्पसुखजननी तासमी इत्यर्थः।एवं शास्त्रीयेषु एव यागादिषु श्रद्धायुक्तेषु गुणतः फलविशेषः। अशास्त्रीयेषु दानतपोयागप्रभृतिषु मदनुशासनविपरीतत्वेन न कश्चिद् अपि सुखलवः। अपि तु अनर्थ एव इति हृदि निहितं व्यञ्जयन् आह --
अभिनवगुप्तव्याख्या
।।17.4 -- 17.6।।यजन्त इत्यादि आसुरनिश्चयानित्यन्तम्। अचेतनम् अविवेकित्त्वात्। मां च कर्शयन्तः शास्त्रार्थननुष्ठानात्। अत एव ते स्वबुद्धिविरचितां ( N स्वबुद्धिविचारिताम् ) तपश्चर्यां कुर्वणाः प्रत्युत तामसाः।
जयतीर्थव्याख्या
।।17.4।।तां शृण्विति प्रतिज्ञातं नोच्यते?यजन्ते सात्विकाः इत्यप्रस्तुतं चोच्यत इत्यत आह -- क इति। इत्यादि जिज्ञासायामिति शेषः। विभज्य श्रद्धास्वरूपम्। प्रतिज्ञातं श्रद्धात्रैविध्यमेवोच्यते अतो नासङ्गतिरिति भावः। एतेन सात्त्विका इत्यादेः सात्त्विकश्रद्धा इत्यादिरर्थ उक्तो भवति।
मधुसूदनसरस्वतीव्याख्या
।।17.4।।श्रद्धा ज्ञाता सती निष्ठां ज्ञापयिष्यति केनोपायेन सा ज्ञायतामित्यपेक्षिते देवपूजादिकार्यलिङ्गेनानुमेयेत्याह -- यजन्त इति। जनाः शास्त्रीयविवेकहीनाः ये स्वाभाविक्या श्रद्धया देवान् रुद्रादीन् सात्त्विकान् यजन्ते तेऽन्ये सात्त्विका ज्ञेयाः। ये च यक्षान्कुबेरादीन् रक्षांसि च राक्षसान्निः ऋतिप्रभृतीन् राजसान्यजन्ते तेऽन्ये राजसा ज्ञेयाः। ये च प्रेतान् विप्रादयः स्वधर्मात्प्रच्युता देहपातादूर्ध्वं वायवीयं देहमापन्ना उल्कामुखकटपूतनादिसंज्ञाः प्रेता भवन्तीति मनूक्तान्पिशाचविशेषान्वा भूतगणांश्च सप्तमातृकादींश्च तामसान् ये यजन्ते तेऽन्ये तामसा ज्ञेयाः। अन्य इति पदं त्रिष्वपि वैलक्षण्यद्योतनार्थं संबध्यते।
पुरुषोत्तमव्याख्या
।।17.4।।तदेव प्रपञ्चयति -- यजन्त इति। सात्त्विका जना देवान् सूर्येन्द्रादीन् यजन्ते पूजयन्ति राजसाः पुनः यक्षान् धनदाधिष्ठितराक्षसान् यजन्ते। अन्ये सत्त्वसम्बन्धरहितास्तामसा जनाः प्रेतान् भूतगणांश्च यजन्ते तत्तत्पूजारुच्यैव ते तद्रूपा ज्ञातव्या इत्यर्थः।
वल्लभाचार्यव्याख्या
।।17.4।।तत्र प्रथमानाह -- यजन्त इति। सात्त्विका सत्त्वश्रद्धाप्रकृतयः प्रामाणिकान्सात्त्विकान् देवान्यजन्ते। एवमन्यत्। तदेवमुक्तं भागवते [1।2।27]रजस्तमःप्रकृतयः समशीलान् भजन्ति वा इत्येते शास्त्रविधिमुत्सृज्य त्रिधा यजन्तो दैवा आसुराश्चोक्ताः।
आनन्दगिरिव्याख्या
।।17.4।।तथापि कथं सत्त्वादिनिष्ठा यथोक्तस्य पुरुषस्य ज्ञातुं शक्येत्याशङ्क्याह -- ततश्चेति। अधिकृतस्य पुरुषस्य श्रद्धाप्रधानत्वादिति यावत्? देवा वस्वादयः? यक्षाः कुबेरादयः? रक्षांसि नैः तादयः? स्वधर्मात्प्रच्युता विप्रादयो देहपातादूर्ध्वं वायुदेहमापन्नाः प्रेताः। एभ्यश्च यथायथमाराध्यदेवादयः सात्त्विकराजसतामसान्प्रकामान्प्रयच्छन्तीति सामर्थ्यादवगन्तव्यम्।
धनपतिव्याख्या
।।17.4।।एवं श्रद्धायाश्त्रैविध्येन पुरुषाणां त्रैविध्यं निरुप्य यथोक्तानां पुरुषाणां सत्त्वादिनिष्ठा कथं ज्ञातुं शक्येत्याकाङ्क्षापनुपत्तये देवादिपूजारुपकार्येण लिङ्गेन सानुमेयेत्याशयेनाह -- यजन्त इति। सात्त्विका सात्त्विकश्रद्धामयाः सत्त्वनिष्ठाः देवान्वस्वादीन्सात्त्विकान्यजन्ते पूजयन्ति। राजसाः कुबेरनिऋतिप्रमुखान्यक्षरक्षांसि राजसान्यजन्ते। अन्ये तामसा जना प्रेतान्। विप्रादयः स्वधर्मात्प्रच्युता देहपातादूर्ध्वं वायवीयं देहमापन्ना उल्कामुखकटपूतनादिसंज्ञाः प्रेता भवन्तीति मनूक्तान्पिशाचविशेषान् वा भूतगणांश्च सप्तमातृकादींश्च तामसान्यजन्ते। एवं पूजात्रैविध्येन जीवानां निष्ठात्रैविध्यं ज्ञातव्यमित्यर्थः।
नीलकण्ठव्याख्या
।।17.4।।कुत एतदेवं कल्प्यते यस्मात्सात्त्विकादयो देवादीनेव यजन्ते इत्याह -- यजन्त इति। यजन्ते पूजयन्ति।
श्रीधरस्वामिव्याख्या
।।17.4।।सात्त्विकादिभेदमेव कार्यभेदेन प्रपञ्चयति -- यजन्त इति। सात्त्विका जनाः सत्त्वप्रकृतीन्देवानेव यजन्ते पूजयन्ति। राजसास्तु रजःप्रकृतीन्यक्षान्राक्षसांश्च यजन्ते। एतेभ्योऽन्ये तु विलक्षणास्तामसा जनास्तामसानेव प्रेतान्भूतगणांश्च यजन्ते। सत्त्वादिप्रकृतीनां तत्तद्देवतानां तु पूजारुचिभिस्तत्तत्पूजकानां सात्त्विकत्वादि ज्ञातव्यमित्यर्थः।
वेङ्कटनाथव्याख्या
।।17.4।।प्रक्रान्तश्रद्धायाः सात्त्विकत्वादिविभागोऽनन्तरं सात्त्विकराजसतामसश्रद्धेयैः प्रदर्श्यत इत्यभिप्रायेणाऽऽह -- तदेव विवृणोतीति। तत् फलविशेषणानां श्रद्धाविशेषाणां श्रद्धाविशेषनिबन्धनत्वमित्यर्थः। पुरुषस्य सत्त्वादयो ह्युपचीयमानाः स्वानुरूपे विषये श्रद्धां जनयन्तीत्यभिप्रायेणाऽऽहसत्त्वगुणप्रचुरा इति। सर्वेषु त्रैगुण्यसंश्रितेषु केनचिद्विशेषेण निर्देशस्तत्प्राचुर्यात्। तत्र सात्त्विक्या श्रद्धयेति पुरुषस्य सात्त्विकत्वकथनेन अर्थसिद्धहेतुकथनम्। श्रद्धाया एव स्वरूपेण निर्दिष्टत्वात्तां श्रृणु इति श्रद्धास्वभावो हि ज्ञापयितुं विवक्षित इत्यभिप्रायेणाऽऽहदुःखासम्भिन्नेति। आराध्यसायुज्यादिर्हि आराधनानां फलमित्यभिप्रायेण दुःखासम्भिन्नत्वादिकथनम्। एवमुत्तरयोरपि भाव्यम्। तामसानामितरेभ्योऽत्यन्तवैधर्म्यज्ञापनायान्यशब्दः। भूतगणा रुद्रपार्षदादयः।

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥१७- ५॥

व्याख्याः

शाङ्करभाष्यम्
।।17.5।। --,अशास्त्रविहितं न शास्त्रविहितम् अशास्त्रविहितं घोरं पीडाकरं प्राणिनाम् आत्मनश्च तपः तप्यन्ते निर्वर्तयन्ति ये तपो जनाः ते च दम्भाहंकारसंयुक्ताः? दम्भश्च अहंकारश्च दम्भाहंकारौ? ताभ्यां संयुक्ताः दम्भाहंकारसंयुक्ताः? कामरागबलान्विताः कामश्च रागश्च कामरागौ तत्कृतं बलं कामरागबलं तेन अन्विताः कामरागबलान्विताः।।
रामानुजभाष्यम्
।।17.5।।अशास्त्रविहितम् अति घोरम् अपि तपो ये जनाः तप्यन्ते? प्रदर्शनार्थम् इदम्? अशास्त्रविहितं बह्वायासं यागादिकं ये कुर्वते? ते दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः शरीरस्थं पृथिव्यादिभूतसमूहं कर्शयन्तो मदंशभूतं जीवं च अन्तःशरीरस्थं कर्शयन्तो ये तप्यन्ते यागादिकं च कुर्वते? तान् आसुरनिश्चयान् विद्धि।
अभिनवगुप्तव्याख्या
।।17.4 -- 17.6।।यजन्त इत्यादि आसुरनिश्चयानित्यन्तम्। अचेतनम् अविवेकित्त्वात्। मां च कर्शयन्तः शास्त्रार्थननुष्ठानात्। अत एव ते स्वबुद्धिविरचितां ( N स्वबुद्धिविचारिताम् ) तपश्चर्यां कुर्वणाः प्रत्युत तामसाः।
मधुसूदनसरस्वतीव्याख्या
।।17.5 -- 17.6।।एवमनादृतशास्त्राणां सत्त्वादिनिष्ठा कार्यतो निर्णीता। तत्र केचिद्राजसतामसा अपि प्राग्भवीयपुण्यपरिपाकात्सात्त्विका भूत्वा शास्त्रीयसाधनेऽधिक्रियन्ते। ये तु दुराग्रहेण दुर्दैवपरिपाकप्राप्तदुर्जनसङ्गादिदोषेण च राजसतामसतां न मुञ्चन्ति ते शास्त्रीयमार्गाद्भ्रष्टा असन्मार्गानुसरणेनेह लोके परत्र च दुःखभागिन एवेत्याह द्वाभ्याम् -- अशास्त्रेत्यादिना। अशास्त्रविहितं शास्त्रेण वेदेन प्रत्यक्षेणानुमितेन वा न विहितं अशास्त्रेण बुद्धाद्यागमेन बोधितं वा घोरं परस्यात्मनः पीडाकरं तपस्तप्तशिलारोहणादि तप्यन्ते कुर्वन्ति ये जनाः। दम्भो धार्मिकत्वख्यापनं? अहंकारोऽहमेव श्रेष्ठ इति दुरभिमानस्ताभ्यां सम्यग्युक्ताः। योगस्य सम्यक्त्वमनायासेन योगजननासामर्थ्यं कामे काम्यमानविषये यो रागस्तन्निमित्तं बलमत्युग्रदुःखसहनसामर्थ्यं तेनान्विताः। कामो विषयेऽभिलाषः? रागः सदा तदभिनिविष्टत्वरूपोऽभिष्वङ्गः। बलमवश्यमिदं साधयिष्यामीत्याग्रहस्तैरन्विता इति वा। अतएव च बलवद्दुःखदर्शनेऽप्यनिवर्तमानाः कर्शयन्तः कृशीकुर्वन्तो वृथोपवासादिना शरीरस्थं भूतग्रामं देहेन्द्रियसङ्घाताकारेण परिणतं पृथिव्यादिभूतसमुदायं अचेतसो विवेकशून्याः मां चान्तःशरीरस्थं भोक्तृरूपेण स्थितं भोग्यस्य शरीरस्य कृशीकरणेन कृशीकुर्वन्त एव मामन्तर्यामित्वेन शरीरान्तःस्थितं बुद्धितद्वृत्तिसाक्षिभूतमीश्वरमाज्ञालङ्घनेन कर्शयन्त इति वा। तानैहिकसर्वभोगविमुखान् परत्र चाधमगतिभागिनः सर्वपुरुषार्थभ्रष्टानासुरनिश्चयानासुरो विपर्यासरूपो वेदार्थविरोधी निश्चयो येषां तान् मनुष्यत्वेन प्रतीयमानानप्यसुरकार्यकारित्वादसुरान्विद्धि जानीहि। परिहरणाय निश्चयस्यासुरत्वात्तत्पूर्विकाणां सर्वासामन्तःकरणवृत्तीनामासुरत्वमसुरत्वजातिरहितानां च मनुष्याणां कर्मणैवासुरत्वात्तानसुरान्विद्धीति साक्षान्नोक्तमिति च द्रष्टव्यम्।
पुरुषोत्तमव्याख्या
।।17.5।।अथ सात्त्विकानामपि देवादिपूजननिश्चयोऽप्यासुर एव? अनुक्तत्वादित्याह द्वयेनअशास्त्रेति। ये जनाः जननादिक्लेशेन अज्ञाः अशास्त्रविहितं अन्धपारम्पर्यागतं शास्त्रनिषिद्धं वा दम्भाहङ्कारसंयुक्ताः परप्रतारणस्वोत्तमत्वख्यापनाज्ञानाभ्यां देवताप्रसादार्थं सात्त्विकवदाभासमानं निश्चयेन तपः देहक्लेशं अभोजनादिना ये तप्यन्ते कुर्वन्ति। ये च घोरं यक्षादिप्रसादरूपं राज्यधनाद्यपेक्षार्थं तपः कुर्वन्ति। कामरागबलान्विताः? कामो विषयाभिलाषः? रागो भोगासक्तिः? बलमाग्रहस्तैरन्विताः प्रेरिताः सन्तः।
वल्लभाचार्यव्याख्या
।।17.5।।तेष्वपि पूर्ववद्विशेषमाह -- अशास्त्रविहितमिति द्वाभ्याम्। शास्त्रीयं पूर्वमुक्तम्। ये तु जना शास्त्रविधिमुत्सृज्य कामकारतः येषां कामकार एव हेतुस्तत एव तपस्तप्यन्ते शम्बुकादिवत् तानासुरनिश्चयान् विद्धीत्युत्तरेणान्वयः।
आनन्दगिरिव्याख्या
।।17.5।।ननु सत्त्वादिनिष्ठाः शास्त्रेण ज्ञातुं शक्यन्ते कुतः कार्यलिङ्गकानुमानेनेति तत्राह -- एवमिति। सत्त्वादिनिष्ठानां जन्तूनामवान्तरविशेषं प्रचुरत्वाप्रचुरत्वरूपं दर्शयति -- तत्रेत्यादिना। राजसानां तामसानां च प्राचुर्यं प्रश्नद्वारा विवृणोति -- कथमित्यादिना। कामश्च काम्यमानविषयो रागश्च तद्विषयभोगाभिलाषस्तत्कृतं तत्प्रयुक्तम्। तन्निमित्तमिति यावत्।
धनपतिव्याख्या
।।17.5।।एवं कार्यतो निर्णीतानां सत्त्वादिनिष्ठानां मध्ये देवपूजादितत्परस्य सत्त्वनिष्ठस्य दौर्लभ्यं रजस्तमोनिष्ठानां बाहुल्यं च ज्ञापयितुं आह। अशास्त्रविहितं शास्त्रविहितं श्रुतिस्मृत्यादिरुपेण शास्त्रेण विहितं न भवति तत्? शास्त्रं न भवतीत्यशास्त्रं तेन बुद्धाद्यागमेन बोधितमिति वा। घोरं प्राणिनामात्मनश्च पीडाकरं तपो ये जनास्तप्यन्ते निर्वर्तयन्ति। जनान्विशिनष्टि। दम्भाहंकारसंयुक्ताः दम्भो धर्मध्वजित्वं? अहंकारोऽहमेव सर्वोत्तम इति दुरभिमानस्ताभ्यां सम्यग्युक्ताः। कामरागबलान्विताः कामो विषयाभिलाषः कामस्य कारणीभूतो विषयाभिरञ्जनात्मको रागः कामरागाभ्यां कृतं बलं विषयसंपादनोत्साहस्तेनान्विताः? कामरागबलैरन्विता इति वा।
नीलकण्ठव्याख्या
।।17.5।।सात्त्विकानां दौर्लभ्यमभिप्रेत्याह -- अशास्त्रेति। शास्त्रं वेदादि तद्विरोधिना कौलिकाद्यागमेन विहितं घोरं स्वमांसहोमेन ब्राह्मणलोहितादिना वा देवतासंतर्पणाद्यात्मकं ये जनास्तपस्तप्यन्ते तानासुरनिश्चयान्विद्धीति द्वयोः संबन्धः। दम्भो धर्मध्वजित्वम्? अहंकारः स्वस्मिन्पूज्यताबुद्धिः ताभ्यां संयुक्ताः। कामरागो विषयाभिलाषः? बलं साहसेनापि विषयसाधने उत्साहस्ताभ्यामन्विताः।
श्रीधरस्वामिव्याख्या
।।17.5।।राजसतामसेषु पुनर्विशेषान्तरमाह -- अशास्त्रविहितमिति द्वाभ्याम्। शास्त्रविधिमजानन्तोऽपि केचित्प्राचीनपुण्यसंस्कारेणोत्तमाः सात्त्विका एव भवन्ति। केचित्तु मध्यमा राजसा भवन्ति। अधमास्तु तामसा भवन्ति। ये पुनरत्यन्तं मन्दभाग्याः गतानुगत्या पाखण्डसङ्गेन च तदाचारानुवर्तिनः सन्तः अशास्त्रविहितं घोरं भयंकरं तपस्तप्यन्ते कुर्वन्ति। तत्र हेतवःदम्भाहंकाराभ्यां संयुक्ताः तथा कामोऽभिलाषः? राग आसक्तिः? बलमाग्रहः? एतैरन्विताः सन्तः? तानासुरनिश्चयान्विद्धीत्युत्तरेणान्वयः।
वेङ्कटनाथव्याख्या
।।17.5।।एवमर्थात्प्रश्नस्य निषेधः कृतः अथ कण्ठोक्त्येत्यभिप्रायेणाऽऽह -- एवमिति।न स सिद्धिम् [16।23] इत्यादिप्रागुक्तस्मारणायन कश्चिदपि सुखलव इत्युक्तम्।अपित्वनर्थ एवेत्यनेन पूर्वोक्तनरकपतनस्मारणम्। प्रश्नवाक्यगतश्रद्धान्वितत्वानुभाषणविवक्षया तत्कार्यातिप्रयासज्ञापनपरो घोरशब्द इत्यभिप्रायेणाऽऽहअतिघोरमपीति। ननुयजन्ते श्रद्धयाऽन्विताः [9।23] इति यागविषये प्रश्ने तप्यन्त इति तपसोत्तरं कथं सङ्गच्छते इत्यत्राऽऽहप्रदर्शनार्थमिदमिति। सङ्ग्राहकाकारं दर्शयन् फलितमाहअशास्त्रविहितमिति। वेदबाह्यागमोक्तं वैदिकमप्यनधिकारिभिर्देशकालद्रव्यक्रियादिनियमानादरेणायथानुष्ठितं चाशास्त्रविहितम्। दारुणपर्यायघोरशब्दाभिप्रेतमाहबह्वायासमिति।यागादिकमित्यनेन प्रश्नेऽपि यागग्रहणं प्रदर्शनार्थमिति ज्ञापितम्। अत एव हि प्रश्नोत्तरयोरेकविषयत्वम्। शास्त्रैरचोदितानां चोदकान्तरमुच्यते -- दम्भाहङ्कारसंयुक्ता इत्यादिना। बलमत्र कामरागयुक्तत्वादसात्त्विकम्।बलं बलवतां चाहं कामरागविवर्जितम् [7।11] इति हि प्रागुक्तम्। न केवलं परत्र नरकम् अपित्विहापि कायकर्शनमित्यभिप्रायेण शरीरस्थभूतसमूहकर्शनोक्तिः।अन्तर्याम्यमृतः [बृ.उ.3।7।3 -- 23] अनश्नन्नन्यो अभिचाकशीति [मुं.उ.3।1।1]न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि [ब्र.सू.3।2।11] इत्यादिभिः परमात्मनः स्वरूपतो धर्मतो वा कर्शनासम्भवात्। सम्भवे च शास्त्रविहितोपवासादिभिरपि प्रसङ्गाच्छरीरकर्शनेन च शरीरिणां क्षेत्रज्ञानां ज्ञानसुखादिसङ्कोचरूपस्य कर्शनस्य श्रुतिस्मृतिलोकसिद्धत्वात्अन्तश्शरीरस्थम् इत्यनेन शरीरावच्छिन्नक्षेत्रज्ञत्वसूचनात्क्षेत्रज्ञं चापि मां विद्धि [13।3]ममैवांशः [15।7] इति प्रागुक्तप्रक्रियया सर्वशरीरकपरमात्मविशेषणांशभूतजीवविवक्षयाऽत्र मामिति निर्देश इत्याहमदंशभूतं जीवमिति। मच्छरीरभूतजीवपीडनं मत्पीडनतुल्यमिति दोषातिशयसूचनार्थोऽयमुपचारः। शास्त्रोल्लङ्घनेनात्मपीडनरूपमपि पापमेषामायातमित्यभिप्रायः। यज्ञस्य स्वतो याज्यभावनत्वाच्छास्त्रीयप्रकारविरहेऽपि नात्यन्तविकलता तपसस्तु स्वतः सर्वकर्शनतया शास्त्रीयप्रकाराभावे भावनत्वं न स्यादिति हैतुकप्रायाणां विभागं प्रतिक्षेप्तुमाहयागादिकं चेति। आसुरो निश्चयो येषां तेऽत्रासुरनिश्चयाः तत्र तद्धितस्येह सम्बन्धमात्रपरतामाहअसुराणामिति। तदभिप्रेतनिश्चयस्य विशेषं व्यञ्जयितुमाहअसुराहीति। आसुरनिश्चयत्वख्यापनं प्रागुक्तानर्थपर्यवसानप्रकाशनायेत्याहमदाज्ञाविपरीतकारित्वादिति।आसुरनिश्चयान् इत्येतावता कथमयमर्थः सिद्ध्येत् इत्यत्राऽऽह -- पूर्वमेवेति।

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥१७- ६॥

व्याख्याः

शाङ्करभाष्यम्
।।17.6।। --,कर्शयन्तः कृशीकुर्वन्तः शरीरस्थं भूतग्रामं करणसमुदायम् अचेतसः अविवेकिनः मां चैव तत्कर्मबुद्धिसाक्षिभूतम्,अन्तःशरीरस्थं नारायणं कर्शयन्तः? मदनुशासनाकरणमेव मत्कर्शनम्? तान् विद्धि आसुरनिश्चयान् आसुरो निश्चयो येषां ते आसुरनिश्चयाः तान् परिहरणार्थं विद्धि इति उपदेशः।।आहाराणां च रस्यस्निग्धादिवर्गत्रयरूपेण भिन्नानां यथाक्रमं सात्त्विकराजसतामसपुरुषप्रियत्वदर्शनम् इह क्रियते रस्यस्निग्धादिषु आहारविशेषेषु आत्मनः प्रीत्यतिरेकेण लिङ्गेन सात्त्विकत्वं राजसत्वं तामसत्वं च बुद्ध्वा रजस्तमोलिङ्गानाम् आहाराणां परिवर्जनार्थं सत्त्वलिङ्गानां च उपादानार्थम्। तथा यज्ञादीनामपि सत्त्वादिगुणभेदेन त्रिविधत्वप्रतिपादनम् इह राजसतामसान् बुद्ध्वा कथं नु नाम परित्यजेत्? सात्त्विकानेव अनुतिष्ठेत् इत्येवमर्थम्। आह --,
माध्वभाष्यम्
।।17.6।।भगवत्कर्शनं नामाल्पदृष्टिरेव यो वै महान्तं परमं पुमांसं नैवं द्रष्टा कर्शकः सोऽतिपापी इत्यनभिम्लानश्रुतिः। आसुरो निश्चयो येषां त आसुरनिश्चयाः। देवास्तु सात्त्विकाः प्रोक्ता दैत्या राजसतामसाः इत्याग्निवेश्यश्रुतिः।
रामानुजभाष्यम्
।।17.6।।अशास्त्रविहितम् अति घोरम् अपि तपो ये जनाः तप्यन्ते? प्रदर्शनार्थम् इदम्? अशास्त्रविहितं बह्वायासं यागादिकं ये कुर्वते? ते दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः शरीरस्थं पृथिव्यादिभूतसमूहं कर्शयन्तो मदंशभूतं जीवं च अन्तःशरीरस्थं कर्शयन्तो ये तप्यन्ते यागादिकं च कुर्वते? तान् आसुरनिश्चयान् विद्धि।असुराणां निश्चयः आसुरो निश्चयः? असुरा हि मदाज्ञाविपरीतकारिणः मदाज्ञाविपरीतकारित्वात् तेषां सुखलवसम्बन्धो न विद्यते। अपि तु अनर्थव्राते पतन्ति इति पूर्वम् एव उक्तम्।पतन्ति नरकेऽशुचौ (गीता 16।16) इति।अथ प्रकृतम् एव शास्त्रीयेषु यज्ञादिषु गुणतो विशेषं प्रपञ्चयति तत्र अपि आहारमूलत्वात् सत्त्वादिवृद्धेः? आहारत्रैविध्यं प्रथमम् उच्यते।अन्नमयं हि सोम्य मनः (छा0 उ0 6।5।4) आहारशुद्धौ सत्त्वशुद्धिः (छा0 उ0 7।26।2) इति हि श्रूयते।
अभिनवगुप्तव्याख्या
।।17.4 -- 17.6।।यजन्त इत्यादि आसुरनिश्चयानित्यन्तम्। अचेतनम् अविवेकित्त्वात्। मां च कर्शयन्तः शास्त्रार्थननुष्ठानात्। अत एव ते स्वबुद्धिविरचितां ( N स्वबुद्धिविचारिताम् ) तपश्चर्यां कुर्वणाः प्रत्युत तामसाः।
जयतीर्थव्याख्या
।।17.6।।ननु निर्विकारस्य भगवतः कथं मां चैवान्तश्शरीरस्थं कर्शयन्तः इति कर्शनमुच्यत इत्यत आह -- भगवदिति।प्रातिपदिकाद्धात्वर्थे बहुलम् इति वचनात् दृष्टिरपि णेरर्थ इति भावः। मां चैव जीवरूपेणान्तश्शरीरस्थमिति व्याख्यानं तु सम्यग्व्याख्यानेनैव परास्तम् जीवरूपत्वदर्शनस्यैव कृशीकरणत्वात्। मदनुशासनाकरणमेव मत्कर्शनमिति व्याख्याननिरासार्थमेवेत्युक्तं अशाब्दत्वात्। उक्तव्याख्याने श्रुतिसम्मतिं चाह -- य इति। नैवं महत्त्वविरुद्धम्। द्रष्टेति तृन्नन्तम्। कर्शकस्तस्योच्यत इति शेषः। कर्मधारयत्वशङ्कानिरासार्थमाह -- आसुर इति। निश्चयः श्रद्धा। कर्मधारयपक्षे हि सामानाधिकरण्यं गौणमिति कल्प्यम् मत्वर्थीयप्रत्ययो वा तथा च गौरवमिति भावः। ननु प्रकरणात्तामसनिश्चयानिति वक्तव्यम्? आसुरनिश्चयानिति कथमुक्तं इत्यत आह -- देवास्त्विति। सात्त्विका देवाः देवपर्यायवाच्याः प्रोक्ताः। राजसास्तामसाश्च दैत्याः दैत्यपर्यायवाच्याः प्रोक्ता इत्यर्थः।
मधुसूदनसरस्वतीव्याख्या
।।17.5 -- 17.6।।एवमनादृतशास्त्राणां सत्त्वादिनिष्ठा कार्यतो निर्णीता। तत्र केचिद्राजसतामसा अपि प्राग्भवीयपुण्यपरिपाकात्सात्त्विका भूत्वा शास्त्रीयसाधनेऽधिक्रियन्ते। ये तु दुराग्रहेण दुर्दैवपरिपाकप्राप्तदुर्जनसङ्गादिदोषेण च राजसतामसतां न मुञ्चन्ति ते शास्त्रीयमार्गाद्भ्रष्टा असन्मार्गानुसरणेनेह लोके परत्र च दुःखभागिन एवेत्याह द्वाभ्याम् -- अशास्त्रेत्यादिना। अशास्त्रविहितं शास्त्रेण वेदेन प्रत्यक्षेणानुमितेन वा न विहितं अशास्त्रेण बुद्धाद्यागमेन बोधितं वा घोरं परस्यात्मनः पीडाकरं तपस्तप्तशिलारोहणादि तप्यन्ते कुर्वन्ति ये जनाः। दम्भो धार्मिकत्वख्यापनं? अहंकारोऽहमेव श्रेष्ठ इति दुरभिमानस्ताभ्यां सम्यग्युक्ताः। योगस्य सम्यक्त्वमनायासेन योगजननासामर्थ्यं कामे काम्यमानविषये यो रागस्तन्निमित्तं बलमत्युग्रदुःखसहनसामर्थ्यं तेनान्विताः। कामो विषयेऽभिलाषः? रागः सदा तदभिनिविष्टत्वरूपोऽभिष्वङ्गः। बलमवश्यमिदं साधयिष्यामीत्याग्रहस्तैरन्विता इति वा। अतएव च बलवद्दुःखदर्शनेऽप्यनिवर्तमानाः कर्शयन्तः कृशीकुर्वन्तो वृथोपवासादिना शरीरस्थं भूतग्रामं देहेन्द्रियसङ्घाताकारेण परिणतं पृथिव्यादिभूतसमुदायं अचेतसो विवेकशून्याः मां चान्तःशरीरस्थं भोक्तृरूपेण स्थितं भोग्यस्य शरीरस्य कृशीकरणेन कृशीकुर्वन्त एव मामन्तर्यामित्वेन शरीरान्तःस्थितं बुद्धितद्वृत्तिसाक्षिभूतमीश्वरमाज्ञालङ्घनेन कर्शयन्त इति वा। तानैहिकसर्वभोगविमुखान् परत्र चाधमगतिभागिनः सर्वपुरुषार्थभ्रष्टानासुरनिश्चयानासुरो विपर्यासरूपो वेदार्थविरोधी निश्चयो येषां तान् मनुष्यत्वेन प्रतीयमानानप्यसुरकार्यकारित्वादसुरान्विद्धि जानीहि। परिहरणाय निश्चयस्यासुरत्वात्तत्पूर्विकाणां सर्वासामन्तःकरणवृत्तीनामासुरत्वमसुरत्वजातिरहितानां च मनुष्याणां कर्मणैवासुरत्वात्तानसुरान्विद्धीति साक्षान्नोक्तमिति च द्रष्टव्यम्।
पुरुषोत्तमव्याख्या
।।17.6।।किञ्च -- कर्षयन्त इति। भूतग्रामं पृथिव्यादिसमूहं शरीरस्थं भगवत्क्रीडार्थमास्थितं देहे कर्षयन्तः भगवत्तोषादिरहितवृथोपवासादिभिः कृशं कुर्वन्तः? अचेतसः ज्ञानशून्याः मां च स्वलीलार्थं प्रेरकत्वेन अन्तश्शरीरस्थं शरीरमध्ये स्थितं भजनादिरूपमदाज्ञोल्लङ्घनेन मदंशं कर्षयन्तः क्लेशयन्तः पूर्वोक्तरीत्या ये तपः कुर्वन्ति तान् आसुरनिश्चयान् आसुरो मत्प्रतिपक्षरूपो निश्चयो येषां तादृशान् विद्धि जानीहि। एतेन ये मत्सम्बन्धरहिततपस्यादिधर्मानपि कुर्वन्ति ते त्याज्या एवेति ज्ञापितम्।
वल्लभाचार्यव्याख्या
।।17.6।।एवं च कर्षयन्त इति। कृशं कुर्वन्तो मां च मदाज्ञोल्लङ्घनतोऽन्तश्शरीरस्थं अन्तर्यामिस्वरूपं कर्षयन्तो विदूरयन्तस्तान्निश्चयेनासुरान्विद्धीति। परनिपात ऐच्छिकः। आसुरो निश्चयो येषां तानिति वा।
आनन्दगिरिव्याख्या
।।17.6।।रजोनिष्ठान्प्राधान्येन प्रदर्श्य तमोनिष्ठान्प्राधान्येन दर्शयति -- कर्शयन्त इति। कथं शरीरादिसाक्षिणमीश्वरं प्रति कृशीकरणं प्राणिनां प्रकल्प्यते तत्राह -- मदनुशासनेति। तेषां विपर्यासनिश्चयवतां परिज्ञानं कुत्रोपयुज्यते तत्राह -- परिहरणार्थमिति।
धनपतिव्याख्या
।।17.6।।रजोनिष्टान्प्राधान्येन प्रदर्शय तमोनिष्टान्प्राधान्येन विशिनष्टि -- कर्शयन्त इति। शरीरस्थं भूतग्रामं करणसमुदायरुपेण परिणतं कर्शयन्तः कृशीकुर्वन्तः यतोऽचेतसोऽविवेकिनो मूढाः मां चैव तत्कर्मबुद्धिसाक्षिभूतमन्तःशरीरस्थं कर्शयन्तो मदनुशासनातिक्रमणं कुर्वन्तो भोक्तृरुपेणान्तःशरीरस्थम्। भोग्यस्य शरीरस्य कर्शनेन कृशीकुर्वन्त इति तु भोग्यस्य कृशीकरणेनापि निरवयवस्य भोक्तुः वास्तवं कार्श्यं न संभवतीत्यभिप्रेत्याचार्यैः नोक्तम्। य एवंविधास्तान् आसुरो निश्चयो येषां ते आसुरनिश्चयाः तान्परिहरणार्थं विद्धि विजानीहीति करुणानिधिर्भगवानुपदिशति।
नीलकण्ठव्याख्या
।।17.6।।कर्शयन्तः कृशं कुर्वन्तः। भूतग्रामं करणसमूहम्। अचेतसो मूढाः। मां चान्तःशरीरस्थं भोक्तृरूपेण शरीरान्तःस्थं मां परमेश्वरं वा भोग्यस्य शरीरस्य कृशीकरणेन मदाज्ञालङ्घनेन वा कृशीकुर्वन्तः तान्विद्ध्यासुरनिश्चयान्।
श्रीधरस्वामिव्याख्या
।।17.6।।किंच -- कर्शयन्त इति। शरीरस्थं प्रारम्भकत्वेन देहे स्थितं भूतानां पृथिव्यादीनां ग्रामं समूहं कर्शयन्तः वृथैवोपवासादिभिः कृशं कुर्वन्तोऽचेतसोऽविवेकिनः मां च अन्तर्यामितया अन्तःशरीरस्थं देहमध्ये स्थितं मदाज्ञालङ्घनेनैव कर्शयन्तः सन्त एवं ये तपश्चरन्ति तानासुरनिश्चयानासुरोऽतिक्रूरो निश्चयो येषां तान् विद्धि।
वेङ्कटनाथव्याख्या
।। 17.6 एवमर्थात्प्रश्नस्य निषेधः कृतः अथ कण्ठोक्त्येत्यभिप्रायेणाऽऽह -- एवमिति।न स सिद्धिम् [16।23] इत्यादिप्रागुक्तस्मारणायन कश्चिदपि सुखलव इत्युक्तम्।अपित्वनर्थ एवेत्यनेन पूर्वोक्तनरकपतनस्मारणम्। प्रश्नवाक्यगतश्रद्धान्वितत्वानुभाषणविवक्षया तत्कार्यातिप्रयासज्ञापनपरो घोरशब्द इत्यभिप्रायेणाऽऽहअतिघोरमपीति। ननुयजन्ते श्रद्धयाऽन्विताः [9।23] इति यागविषये प्रश्ने तप्यन्त इति तपसोत्तरं कथं सङ्गच्छते इत्यत्राऽऽहप्रदर्शनार्थमिदमिति। सङ्ग्राहकाकारं दर्शयन् फलितमाहअशास्त्रविहितमिति। वेदबाह्यागमोक्तं वैदिकमप्यनधिकारिभिर्देशकालद्रव्यक्रियादिनियमानादरेणायथानुष्ठितं चाशास्त्रविहितम्। दारुणपर्यायघोरशब्दाभिप्रेतमाहबह्वायासमिति।यागादिकमित्यनेन प्रश्नेऽपि यागग्रहणं प्रदर्शनार्थमिति ज्ञापितम्। अत एव हि प्रश्नोत्तरयोरेकविषयत्वम्। शास्त्रैरचोदितानां चोदकान्तरमुच्यते -- दम्भाहङ्कारसंयुक्ता इत्यादिना। बलमत्र कामरागयुक्तत्वादसात्त्विकम्।बलं बलवतां चाहं कामरागविवर्जितम् [7।11] इति हि प्रागुक्तम्। न केवलं परत्र नरकम् अपित्विहापि कायकर्शनमित्यभिप्रायेण शरीरस्थभूतसमूहकर्शनोक्तिः।अन्तर्याम्यमृतः [बृ.उ.3।7।3 -- 23] अनश्नन्नन्यो अभिचाकशीति [मुं.उ.3।1।1]न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि [ब्र.सू.3।2।11] इत्यादिभिः परमात्मनः स्वरूपतो धर्मतो वा कर्शनासम्भवात्। सम्भवे च शास्त्रविहितोपवासादिभिरपि प्रसङ्गाच्छरीरकर्शनेन च शरीरिणां क्षेत्रज्ञानां ज्ञानसुखादिसङ्कोचरूपस्य कर्शनस्य श्रुतिस्मृतिलोकसिद्धत्वात्अन्तश्शरीरस्थम् इत्यनेन शरीरावच्छिन्नक्षेत्रज्ञत्वसूचनात्क्षेत्रज्ञं चापि मां विद्धि [13।3]ममैवांशः [15।7] इति प्रागुक्तप्रक्रियया सर्वशरीरकपरमात्मविशेषणांशभूतजीवविवक्षयाऽत्र मामिति निर्देश इत्याहमदंशभूतं जीवमिति। मच्छरीरभूतजीवपीडनं मत्पीडनतुल्यमिति दोषातिशयसूचनार्थोऽयमुपचारः। शास्त्रोल्लङ्घनेनात्मपीडनरूपमपि पापमेषामायातमित्यभिप्रायः। यज्ञस्य स्वतो याज्यभावनत्वाच्छास्त्रीयप्रकारविरहेऽपि नात्यन्तविकलता तपसस्तु स्वतः सर्वकर्शनतया शास्त्रीयप्रकाराभावे भावनत्वं न स्यादिति हैतुकप्रायाणां विभागं प्रतिक्षेप्तुमाहयागादिकं चेति। आसुरो निश्चयो येषां तेऽत्रासुरनिश्चयाः तत्र तद्धितस्येह सम्बन्धमात्रपरतामाहअसुराणामिति। तदभिप्रेतनिश्चयस्य विशेषं व्यञ्जयितुमाहअसुराहीति। आसुरनिश्चयत्वख्यापनं प्रागुक्तानर्थपर्यवसानप्रकाशनायेत्याहमदाज्ञाविपरीतकारित्वादिति।आसुरनिश्चयान् इत्येतावता कथमयमर्थः सिद्ध्येत् इत्यत्राऽऽह -- पूर्वमेवेति।,

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥१७- ७॥

व्याख्याः

शाङ्करभाष्यम्
।।17.7।। --,आहारस्त्वपि सर्वस्य भोक्तुः प्राणिनः त्रिविधो भवति प्रियः इष्टः? तथा यज्ञः तथा तपः? तथा दानम्। तेषाम् आहारादीनां भेदम् इमं वक्ष्यमाणं श्रृणु।।
रामानुजभाष्यम्
।।17.7।।आहारः अपि सर्वस्य प्राणिजातस्य सत्त्वादिगुणत्रयान्वयेन त्रिविधः प्रियो भवति। तथा एव यज्ञः अपि त्रिविधः? तथा तपो दानं च। तेषां भेदम् इमं श्रृणु -- तेषाम् आहारयज्ञतपोदानानां सत्त्वादिगुणभेदेन इमम् उच्यमानं भेदं श्रृणु।
अभिनवगुप्तव्याख्या
।।17.7 -- 17.10।।आहारोऽपि सत्त्वादिभेदात् त्रिधा श्रद्धावत् ( S omits श्रद्धावत् ) तथा,यज्ञतपोदानानि। तदुच्यते -- आहार इत्यादि तामसप्रियम् इत्यन्तम्। याता यामाः यस्य।
मधुसूदनसरस्वतीव्याख्या
।।17.7।।ये सात्त्विकास्ते देवा ये तु राजसास्तामसाश्च ते विपर्यस्तत्वादसुरा इति स्थिते सात्त्विकानामादानाय राजसतामसानां हानाय चाहारयज्ञतपोदानानां त्रैविध्यमाह -- आहारस्त्विति। न केवलं श्रद्धैव त्रिविधा? आहारोऽपि सर्वस्य प्रियस्त्रिविध एव भवति। सर्वस्य त्रिगुणात्मकत्वेन चतुर्थ्या विधाया असंभवात्। यथा दृष्टार्थ आहारस्त्रिविधस्तथा यज्ञतपोदानान्यदृष्टार्थान्यपि त्रिविधानि। तत्रयज्ञं व्याख्यास्यामो द्रव्यं देवता त्यागः इति कल्पकारैर्देवतोद्देशेन द्रव्यत्यागो यज्ञ इति निरुक्तः। स च यजतिना जुहोतिना च चोदितत्वेन यागो होमश्चेति द्विविधः। उत्तिष्ठद्धोमा वषट्कारप्रयोगान्ता याज्यापुरोनुवाक्यावन्तो यजतय उपविष्टहोमाः? स्वाहाकारप्रयोगान्ता याज्यापुरोनुवाक्यारहिता जुहोतयः इति कल्पकारैर्व्याख्यातो यज्ञशब्देनोक्तः। तपः कायेन्द्रियशोषणं,कृच्छ्रचान्द्रायणादि। दानं परस्वत्वापत्तिफलकः स्वस्वत्वत्यागस्तेषामाहारयज्ञतपोदानानां सात्त्विकराजसतामसभेदं मया व्याख्यायमानमिमं शृणु।
पुरुषोत्तमव्याख्या
।।17.7।।एवं धर्मभेदानुक्त्वा आहारादिभेदेनापि तद्भेदज्ञानमाह -- आहारस्त्वित्याद्यैः। तु पुनः आहारोऽपि सर्वस्य त्रिविधस्य लोकस्य त्रिविधः सात्त्विकादिरूपः प्रियो भवति। तथा यज्ञो यजनं? तपः देहादिक्लेशः? दानं? तेषां भेदं अग्रे मया प्रोच्यमानमिमं शृणु।
वल्लभाचार्यव्याख्या
।।17.7।।अथ पुनरपि प्रकृतमेव शास्त्रीयेषु वैदिकेषु यागादिषु गुणभेदतोऽपि विशेषं प्रपञ्चयति लौकिकेषु त्वाहारमूलत्वात्सत्त्वादिवृद्धेरित्याह -- आहारस्त्विति। त्रिविधः प्रियः। तथा यज्ञस्तपो दानं चेति त्रितयं श्रौतशास्त्रीयं तेषां भेदमिमं वक्ष्यमाणं शृणु।
आनन्दगिरिव्याख्या
।।17.7।।उत्तरश्लोकपूर्वार्धतात्पर्यमाह -- आहाराणामिति। रस्यादिवर्गस्य सात्त्विकपुरुषप्रियत्वं? कट्वादिवर्गस्य,राजसप्रियत्वं? यातयामादिवर्गस्य तामसप्रियत्वमिति दर्शनं कुत्रोपयुज्यते तत्राह -- रस्येति। श्लोकोत्तरार्धतात्पर्यमाह -- तथेति। आहारत्रैविध्यवदिति यावत्। कथमेतेषां प्रत्येकं त्रैविध्यं तत्राह -- तेषामिति।
धनपतिव्याख्या
।।17.7।।तत्तदाहरेषु प्रीत्यतिरेकेण सात्त्वित्वादिकं यज्ञादीनामपि सत्त्वादिगुणभेदेन त्रिविधात्वं च बुद्ध्वा सात्त्विका आहारादयो ग्राह्याः राजसास्तमसाश्च परिवर्ज्या इति बोधयितुमारभते -- आहार इत्यादिना। आह्नियते इत्याहारो भक्ष्यादिरुपः सर्वस्य सात्त्विकादिभेदभिन्नस्य प्राणिजातस्य भोक्तुराहारोऽपि त्रिविधस्त्रिप्रकारः प्रिय इष्टो भवति। तथा यज्ञस्त्रिविधः तथा दानं तेषामाहारादिनामिमं वक्ष्यमाणं भेदं शृणु।
नीलकण्ठव्याख्या
।।17.7।।अत्र सात्त्विकानां श्रद्धाराध्याहारयज्ञतपोदानानां परिग्रहार्थं राजसतामसानां वर्जनार्थं च तेषां प्रत्येकं त्रैविध्यं विधीयते। तत्रापि श्रद्धात्रैविध्यं आराध्यत्रैविध्यं च प्रागेवोक्तम्। आहारादीनां त्रैविध्यं प्रतिज्ञापूर्वकमाह -- आहारस्त्विति। आह्रियत इत्याहारोऽन्नं। अतः परं प्रायेण पदार्थः स्पष्टस्तथापि क्वचित्क्वचित्किंचित्किंचिद्व्याख्यायते।
श्रीधरस्वामिव्याख्या
।।17.7।।आहारादिभेदादपि सात्त्विकादिभेदं दर्शयितुमाह -- आहारस्त्वित्यादित्रयोदशभिः। सर्वस्यापि जनस्य य,आहारोऽन्नादिः स तु यथायथं त्रिविधः प्रियो भवति। तथा यज्ञतपोदानानि च त्रिविधानि भवन्ति। तेषां च वक्ष्यमाणमिमं भेदं श्रृणु। एतच्च राजसतामसाहारयज्ञादिपरित्यागेन सात्त्विकाहारयज्ञादिसेवया सत्त्ववृद्धौ यत्नः कर्तव्य इत्येतदर्थं कथ्यते।
वेङ्कटनाथव्याख्या
।।17.7।।एवमुत्तरे प्रतिषेधरूपेऽर्थतः कण्ठोक्त्या च दत्ते पुनराहारादित्रैविध्यवर्णनमबुभुत्सितोपन्यासः स्यादित्यत्राऽऽह -- अथ प्रकृतमेवेति।अयमभिप्रायः -- अशास्त्रीयेषु सत्त्वादिनिष्ठामूलफलभेद बुभुत्सिते शास्त्रीयेष्वेवायमिति प्रत्युक्तम्। तत्र श्रद्धातद्वतां श्रद्धेयानां च गुणतो विभाग उपन्यस्तः। तच्छ्रवणादेव तत्तुल्ययोगक्षेमेषु सर्वेषु बुभुत्सा बीभत्सोर्जायते। अतएव तद्भेदोपन्यासः -- इति।प्रपञ्चयतीत्यनेन पौनरुक्त्यशङ्काऽपि परिहृता। यज्ञतपःप्रभृतिषु शास्त्रीयेषु तिष्ठत्सु रागप्राप्तस्याहारस्य प्रथमोपदेशः केनाभिप्रायेणेत्यत्राऽऽहतत्रेति।वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः [अ.हृ.सू.1।14] इत्यायुर्वेदोक्तन्यायसञ्चारादाप्यायकद्रव्यगुणानुसारेणान्तःकरणादेः सत्त्वादिवृद्धिः श्रौतीत्यभिप्रायेणअन्नमयमिति। आहारस्य सत्त्वस्य चात्र रजस्तमोराहित्यं शुद्धिः। अपिशब्दः प्रागुक्तश्रद्धेयदेवतादिभेदवत्सात्त्विकादिविभागानुकर्षणार्थः।पचाम्यन्नं चतुर्विधम् [15।14] इति प्रागुक्तचातुर्विध्याविरोधाय चतुर्विधेऽप्येतद्गुणकृतत्रैविध्यमिहोच्यत इत्यभिप्रायेणाऽऽह -- सत्त्वादिगुणत्रयान्वयेनेति।त्रिविधः इति सामान्यतो विभागेऽपि विशेषतो वक्ष्यमाणाकारापेक्षयेदमुच्यत इत्याहसत्त्वादिभेदेनेममिति। वक्ष्यमाणस्यात्रासत्त्या वर्तमानव्यपदेश इत्याहउच्यमानमिति। गुणानां स्वविशिष्टानुभवजनितवासनाद्वारा स्वानुरूपविषयरुचिजननात्तत्तदाहाराणां तत्तद्गुणविशिष्टप्रियत्वम्।

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥१७- ८॥

व्याख्याः

शाङ्करभाष्यम्
।।17.8।। --,आयुश्च सत्त्वं च बलं च आरोग्यं च सुखं च प्रीतिश्च आयुःसत्त्वबलारोग्यसुखप्रीतयः तासां विवर्धनाः आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः? ते च रस्याः रसोपेताः? स्निग्धाः स्नेहवन्तः? स्थिराः चिरकालस्थायिनः देहे? हृद्याः हृदयप्रियाः आहाराः सात्त्विकप्रियाः सात्त्विकस्य इष्टाः।।
माध्वभाष्यम्
।।17.8।।प्रीतिरनन्तरिका। हृद्यत्वं दर्शने। स्थिराश्च न तदैव पक्वा भवन्ति। तथा ह्याज्यादयः।
रामानुजभाष्यम्
।।17.8।।सत्त्वगुणोपेतस्य सत्त्वमया आहाराः प्रिया भवन्ति। सत्त्वमयाः च आहारा आयुर्विवर्धनाः पुनः अपि सत्त्वस्य विवर्धनाः। सत्त्वम् अन्तःकरणम्? अन्तःकरणकार्यं ज्ञानम् इह सत्त्वशब्देन उच्यते।सत्त्वात्सञ्जायते ज्ञानम् (गीता 14।17) इति सत्त्वस्य ज्ञानविवृद्धिहेतुवचनात्। आहारः अपि सत्त्वमयो ज्ञानविवृद्धिहेतुः।तथा बलारोग्ययोः अपि विवर्धनाः? सुखप्रीत्योः अपि विवर्धनाः। परिणामकाले स्वयम् एव सुखस्य विवर्धनाः? तथा प्रीतिहेतुभूतकर्मारम्भद्वारेण प्रीतिवर्धनाःरस्याः मधुररसोपेताः? स्निग्धाः स्नेहयुक्ताः? स्थिराः स्थिरपरिणामाः? हृद्याः रमणीयवेषाः? एवंविधाः सत्त्वमया आहाराः? सात्त्विकस्य पुरुषस्य प्रियाः।
अभिनवगुप्तव्याख्या
।।17.7 -- 17.10।।आहारोऽपि सत्त्वादिभेदात् त्रिधा श्रद्धावत् ( S omits श्रद्धावत् ) तथा यज्ञतपोदानानि। तदुच्यते -- आहार इत्यादि तामसप्रियम् इत्यन्तम्। याता यामाः यस्य।
जयतीर्थव्याख्या
।।17.8।।प्रीतिविवर्धनाः हृद्याः इत्येतयोरर्थभेदमाह -- प्रीतिरिति। अनन्तरिकेति ठन्प्रत्ययान्तम् सेवाव्यवहितकाल इत्यर्थः।प्रियं तत्कालसौख्यदं इति वचनात्। दर्शनेऽनुभवे सति पश्चादपि यन्मनोहारित्वं तद्धृद्यत्वम्।हृद्यं पश्चान्मनोहारि इति वचनादित्यर्थः। आहाराणां क्षणिकानामभावात्कथं स्थिराः इति। विशेषणमित्यत आह -- स्थिराश्चेति। चस्त्वर्थः। प्रसिद्धं स्थैर्यं व्यावर्तयति। तदैवाचिरकाल एव पक्वा निर्वृत्तपाकाश्चिरकालं देहे गुणप्रदा इत्यर्थः। असम्भवपरिहाराय तानुदाहरति तथा हीति।
मधुसूदनसरस्वतीव्याख्या
।।17.8।।आहारयज्ञतपोदानानां भेदः पञ्चदशभिर्व्याख्यायते। तत्राहारभेदस्त्रिभिः -- आयुरित्यादिना। आयुश्चिरंजीवनं? सत्त्वं चित्तधैर्यं बलवति दुःखेऽपि निर्विकारत्वापादकं? बलं शरीरसामर्थ्यं स्वोचिते कार्ये श्रमाभावप्रयोजकं? आरोग्यं व्याध्यभावः? भोजनानन्तराह्लादस्तृप्तिः प्रीतिः? भोजनकालेऽनभिरुचिराहित्यमिच्छौत्कट्यं तेषां विवर्धना विशेषेण वृद्धिहेतवः? रस्या आस्वाद्या मधुररसप्रधानाः? स्निग्धाः सहजेनागन्तुकेन वा स्नेहेन युक्ताः? स्थिरा रसाद्यंशेन शरीरे चिरकालस्थायिनः? हृद्या हृदयंगमा दुर्गन्धाशुचित्वादिदृष्टादृष्टदोषशून्याः आहाराश्चर्व्यचोष्यलेह्यपेयाः सात्त्विकानां प्रियाः। एतैर्लिङ्गैः सात्त्विका ज्ञेयाः सात्त्विकत्वमभिलषद्भिश्चैत आदेया इत्यर्थः।
पुरुषोत्तमव्याख्या
।।17.8।।एवं सावधानं कृत्वाऽऽह -- आयुरिति। आयुर्जीवितं? सत्त्वं हृदयं शुद्धम्? बलं सामर्थ्यम्? आरोग्यं रोगाभावः? सुखं मनस्तोषः? प्रीतिः स्नेहः? एतेषां विवर्द्धनाः? विशेषेण सफलतया धर्मादर्थोपयोगित्वेन वृद्धिकराः। तत्र आयुर्वृद्धिकरः पर्वयज्ञावशेषः? सत्त्वसाधको गुर्वाद्युच्छिष्टरूपः? बलकरः पितृदेवादिशेषः? आरोग्यकरो जनन्याद्युपस्कृतः? सुखकरः सन्मार्गोपार्जितः? प्रीतिकरो मित्रादिगृहस्थः। ते च स्वरूपतोऽप्येतादृशाः रस्याः रसयुक्ताः? स्निग्धाः स्नेहयुक्ताः? स्थिराः चिरकालावस्थायित्वाद्देहपोषकाः? हृद्याः हृष्टा एव हृदयानन्दकर्त्तारः। एतादृशा आहाराः सात्त्विकानां प्रियाः? भवन्तीति शेषः। एवमाहारकर्तारः सात्त्विका ज्ञेया इत्यर्थः।
वल्लभाचार्यव्याख्या
।।17.8।।तत्र प्रथममाहाराः -- आयुरिति। सत्त्वगुणोपेतस्य सत्त्वमया आहाराः प्रिया भवन्ति। ते चायुर्विवर्द्धनाः -- सत्त्वोपलक्षितं ज्ञानं तदादिवर्द्धनाश्च। रस्याः मधुरसोपेताः स्नेहयुक्ताश्च? स्थिराः स्थिरपरिणामाः? हृद्या रम्यस्वरूपाः एवंविधा अन्नरूपा आहाराः सात्त्विकप्रियाः सत्त्वजनकाः प्रियाः सात्त्विकानां वा प्रियाः? क्षेमकरा इति तात्पर्यार्थः।
आनन्दगिरिव्याख्या
।।17.8।।सात्त्विकप्रीतिविषयमाहारविशेषमुदाहरति -- आयुरिति। आयुर्जीवनं? सत्त्वं चित्तस्थैर्यं? वीर्यं वा बलं कार्यकरणसामर्थ्यम्? आरोग्यं नीरोगता? सुखमन्तराह्लादः? प्रीतिः परेषामपि संपन्नानां दर्शनात्परमो हर्षस्तासां विवर्धनाः विवर्धयन्तीति व्युत्पत्तेः। रसोपेता रसयितव्याः सरसाः। देहे चिरकालस्थायित्वं चिरशरीरोपकारहेतुत्वम्।
धनपतिव्याख्या
।।17.8।।तत्र सात्त्विकप्रीतिविषयानाहारानादावुदाहरति -- आयुरिति। आयुश्चिरजीवनं? सत्त्वमन्तःकरणधैर्यत्साहात्मकं? बलं कार्यकरणे शरीरसामर्थ्यं? आरोग्यं नीरोगता? सुखमन्तराह्लादः दर्शनमात्रेण संतोषजन्यः? प्रीतिः परेषामभिसंपन्नानां दर्शनात्परमो हर्षोऽभिरुचिर्वा। यद्वा प्रीतिस्तृप्तिजन्या प्रसन्नता। आयुःसत्त्वबलारोग्यसुखप्रीतीनां विवर्धना विशेषेण वृद्धिकाराः? रस्याः रसोपेताः शर्करादयः? स्त्रिग्धाः स्नेहवन्तो दुग्धादयः? स्थिराः देहे चिरकालस्थायिनः चिरतरशीरोपकारहेतवः? हृद्याः दृष्टादृष्टदोषशून्या हृदयप्रियाः एवंविदा आहाराः सात्त्विकस्य प्रियाः इष्टाः। एतादृशाहारप्रीतिमन्तः सात्त्विकाः ज्ञेयाः सात्त्विकत्वमभिलषद्भिश्चैत् आदेया इत्यर्थः।
नीलकण्ठव्याख्या
।।17.8।।आयुर्जीवनम्। सत्त्वमुत्साहः। बलं शक्तिः। आरोग्यं रोगराहित्यम्। सुखं चित्तप्रसादः। प्रीतिरभिरुचिः। एतेषां विवर्धनाः वृद्धिकराः ते आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः? रस्याः रसोपेताः? स्निग्धाः? स्नेहवन्तः? स्थिराः देहे रसांशेन चिरकालस्थायिनः? हृद्याः दृष्टमात्रा एव हृदयप्रियाः? आहाराः घृतक्षीरसितादयः सात्त्विकप्रियाः।
श्रीधरस्वामिव्याख्या
।।17.8।।तत्राहारत्रैविध्यमाह -- आयुरिति त्रिभिः। आयुर्जीवितम्? सत्त्वमुत्साहः? बलं शक्तिः? आरोग्यं रोगराहित्यम्? सुखं चित्तप्रसादः? प्रीतिरभिरुचिः? आयुरादीनां विवर्धनाः विशेषेण वृद्धिकरास्ते च रस्या रसवन्तः? स्निग्धाः स्नेहयुक्ताः? स्थिरा देहे सारांशेन चिरकालावस्थायिनः? हृद्या दृष्टमात्रा एव हृदयंगमाः एवंभूता आहारा भक्ष्यभोज्यादयः सात्त्विकप्रियाः।
वेङ्कटनाथव्याख्या
।।17.8।।आयुर्विवर्धनत्वादय आहारगुणाः केचिदायुर्वेदादवगन्तव्याः? केचिच्छास्त्रनिरपेक्षाः प्रत्यक्षत एव सिद्धाः पूर्वमेव सत्त्वविवृद्ध्या हि सात्त्विकाहाररुचिरित्यभिप्रायेणाऽऽह -- पुनरपीति। आयुषः सर्वपुरुषार्थनिष्पादनोपयोगित्वेन प्रथमग्रहणम् सत्त्वस्य तु विशेषतो मुमुक्षोरपेक्षितत्वात्तदनन्तरोक्तिः। आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः [छां.उ.7।26।2] इति श्रुतेरुपबृंहणार्थत्वादाहारसाध्यसत्त्वविवृद्धिज्ञानपर्यन्तेत्यभिप्रायेण ज्ञाने सत्त्वशब्दमुपचारयितुं तत्कारणे तावदवतारयति -- सत्त्वमन्तःकरणमिति।द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु [अमरः3।3।212] इति ज्ञानविशेषे च सत्त्वशब्दः प्रयुक्तचर इत्यभिप्रायेणाऽऽह -- अन्तःकरणकार्यं ज्ञानमिति।इह -- आहारशुद्धिश्रुत्युपबृंहणदशायामित्यर्थः। यथा तत्तद्द्रव्यगतानां रसादीनां शरीरधात्वादिपोषकत्वेन शास्त्राभिहिततत्तद्द्रव्याणामपि तथा व्यपदेशः तथेहापि सत्त्वगुणस्य ज्ञानविवृद्धिहेतुत्वे तदाश्रयस्याहारद्रव्यस्यापीत्यभिप्रायेणाऽऽह -- सत्त्वात्सञ्जायते ज्ञानमिति। बलारोग्ययोः सुखप्रीत्योश्च निरन्तरपाठः समुच्चित्य प्रवृत्त्या परस्पराविनाभावविवक्षयेत्यभिप्रायेणबलारोग्ययोः सुखप्रीत्योरिति द्वन्द्वविभजनम्। बलमिह प्राणाग्न्योरुपचयः आरोग्यं धातुसाम्यादि। कर्मदोषाग्निधातुवैषम्येण हि रोगाः प्रादुष्पतन्ति। तस्य रस्यत्वहृद्यत्वाभ्यां तादात्विकसुखजनकत्वसिद्धेस्तत्पौनरुक्त्यपरिहाराय सुखवर्धकत्वंपरिणामकाल इति विशेषितम्। प्रीतिवर्धकत्वाद्भेदप्रदर्शनायस्वयमेवेत्यद्वारकत्वोक्तिः। यथोन्मादादिहेतुभूतानि द्रव्याणि भक्षितानि लोकोद्वेगादिजनककर्मद्वारा पुरुषस्याप्रीतिं वर्धयन्ति तथा सत्त्वहेतुभूतान्यपि मङ्गलेषु लोकोपकारकेषु परलोकादिहितेषु च कर्मसु प्रचोद्य तद्द्वारेण प्रीतिं जनयन्तीत्यभिप्रायेणाऽऽहप्रीतिहेतुभूतकर्मारम्भद्वारेणेति।कट्वम्ल -- इत्यदिन

कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥१७- ९॥

व्याख्याः

शाङ्करभाष्यम्
।।17.9।। --,कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः इत्यत्र अतिशब्दः कट्वादिषु सर्वत्र योज्यः? अतिकटुः अतितीक्ष्णः इत्येवम्। कटुश्च अम्लश्च लवणश्च अत्युष्णश्च तीक्ष्णश्च रूक्षश्च विदाही च ते आहाराः राजसस्य इष्टाः? दुःखशोकामयप्रदाः दुःखं च शोकं च आमयं च प्रयच्छन्तीति दुःखशोकामयप्रदाः।।
रामानुजभाष्यम्
।।17.9।।कटुरसाः अम्लरसाः लवणोत्कटाः अत्युष्णाः अतितीक्ष्णाः रूक्षाः विदाहिनः च इति कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगाः तीक्ष्णाः? शोषकराः रूक्षाः? तापकरा विदाहिनः? एवंविधाः आहारा राजसस्य इष्टाः। ते च रजोमयत्वाद् दुःखशोकामयत्वाद् दुःखशोकामयवर्धनाः रजोवर्धनाः च।
अभिनवगुप्तव्याख्या
।।17.7 -- 17.10।।आहारोऽपि सत्त्वादिभेदात् त्रिधा श्रद्धावत् ( S omits श्रद्धावत् ) तथा यज्ञतपोदानानि। तदुच्यते -- आहार इत्यादि तामसप्रियम् इत्यन्तम्। याता यामाः यस्य।
मधुसूदनसरस्वतीव्याख्या
।।17.9।।कट्विति। अतिशब्दः कट्वादिषु सप्तस्वपि योजनीयः। कटुस्तिक्तः कटुरसस्य तीक्ष्णशब्देनोक्तत्वात्। तत्रातिकटुर्निम्बादि? अत्यम्लातिवणात्युष्णाः प्रसिद्धाः? अतितीक्ष्णो मरीचादिः? अतिरूक्षः स्नेहशून्यः कङ्गुकोद्रवादिः? अतिविदाही संतापको राजिकादिः? दुःखं तात्कालिकीं पीडां शोकं पश्चाद्भाविदौर्मनस्यामामयं रोगं च धातुवैषम्यद्वारा प्रददतीति तथाविधा आहारा राजसस्येष्टाः। एतैर्लिङ्गै राजसा ज्ञेयाः सात्त्विकैश्चैत उपेक्षणीया इत्यर्थः।
पुरुषोत्तमव्याख्या
।।17.9।।राजसानाह -- कट्विति। अतिशब्दः सर्वत्रानुसम्बद्ध्यते कट्वादिषु। अतिकटुः कारवेल्लादिः? अत्यम्ल आम्रातकादिः? अतिलवणः क्षारबहुलरोचकशाकादिः? अत्युष्णः सबाष्पपक्वान्नादिः? अतितीक्ष्णो मरिचादिः? अतिरूक्षश्चणकमसूरकोद्रवादिः? अतिविदाही राजकादिः। एवमेतेऽतिकट्वादयः पञ्चयज्ञादिरहिताः स्वार्थकृता आहारा राजसस्येष्टाः प्रियाः। दुःखशोकामयप्रदाः दुःखं भक्षणसमय एव रसनाविकारादिरूपं? शोको भक्षणानन्तरमजीर्णोद्गारादिना भक्षितपश्चात्तापादिरूपः? आमयो रोगो ज्वरादिः? एतानि सर्वाणि प्रददति यच्छन्तीति तथा। एतादृगाहारकर्त्तारो राजसा ज्ञेया इत्यर्थः।
वल्लभाचार्यव्याख्या
।।17.9।।कट्विति। राजसस्य प्रियाः।
आनन्दगिरिव्याख्या
।।17.9।।राजसप्रीतिविषयमाहारविशेषं दर्शयति -- कट्विति। कटुस्तिक्तः कटुकस्य तीक्ष्णशब्देनोक्तत्वात्? रूक्षो विस्नेहः? विदाही संतापकः। अतिशब्दस्य सर्वत्र योजनमेवाभिनयति -- अतिकटुरिति। दुःखं तात्कालिकी पीडा? इष्टवियोगजं दुःखं शोकः? आमयो रोगः।
धनपतिव्याख्या
।।17.9।।राजसप्रियाहारानुदाहरति -- कट्विति। अतिशब्दः कट्वादिषु सर्वेषु संबन्धनीयः। अतिकतुर्निम्बादिः? अत्यम्लं जम्बीरादि? अतिलवणं बहुक्षप्तिसैन्धवादि? अत्युष्णं मुखादिदाहकं? अतितीक्ष्णं मरीचादि? अतिरुक्षः स्नेहलेशेनापि? अत्यम्लं जम्बीरादि? अतिलवणं बहुक्षिप्तसैन्यवादि? अत्युष्णं मुखादिदाहकं? अतितीक्ष्णं मरीचादि? अतिरुक्षः स्नेहलेशेनापि रहितः कङ्गुकोद्रवादिः? अतिविदाही संतापकः सर्षपादिः? एवंविधा अतिकट्वादयो दुःखं तात्कालिकी पीडा? पश्चादुत्पन्नरोगे तज्जन्यं दौर्म नस्यं शोकः आमयो रोगः तान्प्रयच्छन्तीति दुःखशोकामयप्रदाः आहारा राजसप्रिया राजसस्येष्टा एतादृशाहारप्रतिमन्तो राजसा ज्ञातव्याः श्रेयोर्थिभिश्चैवंविधा आहाराः परिहरणीया इत्यर्थः।
नीलकण्ठव्याख्या
।।17.9।।कट्विति। अतिशब्दः सर्वत्र संबध्यते। अतिकटु निम्बादि? अत्यम्लातिलवणात्युष्णाः प्रसिद्धाः? अतितीक्ष्णो मरीचादि? अतिरूक्षः स्नेहशून्यः कङ्गुकोद्रवादिः? अतिविदाही राजिकादिः? दुःखं तात्कालिकी पीडा? शोकः पश्चाद्भाविदौर्मनस्यम्? आमयो धातुवैषम्यापादनेन रोगस्तत्प्रदाः।
श्रीधरस्वामिव्याख्या
।।17.9।।तथा  -- कट्विति।  अतिशब्दः कट्वादिषु सप्तस्वपि संबध्यते। अतिकटुर्निम्बादिः। अत्यम्लोऽतिलवणोऽत्युष्णश्च प्रसिद्धः? अतितीक्ष्णो मरीचादिः? अतिरूक्षः कङ्गुकोद्रवादिः? अतिविदाही सर्षपादिः? अतिकट्वादय आहारा राजसस्येष्टाः प्रियाः। दुःखं तात्कालिकं हृदयसंतापादि? शोकः पश्चाद्भाविदौर्मनस्यं? आमयो रोगः? एतान् प्रददति प्रयच्छन्तीति तथा।
वेङ्कटनाथव्याख्या
ा [17.9] रसान्तराणामसात्त्विकत्वेन वक्ष्यमाणत्वात्तत्प्रयोगप्राचुर्यानुसाराच्च अत्र रसशब्दो रसविशेषविषय इत्याह -- मधुररसोपेता इति। अनेन प्रत्ययस्यात्र सम्बन्धमात्रोपलक्षकतापि दर्शिता। रस्यन्त इति वा रस्याः। तत्रमधुररसोपेता इति कारणोक्तिः। माधुर्यं हि रसान्तरेभ्यः शरीरस्थितौ विशेषेण हेतुर्भवति। यथोक्तं वाग्भटेन -- रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः। षड्द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः [अ.हृ.सू.1।1415] इति। भोजनं च स्वस्थस्य मधुररसप्रायतया नियम्यते -- षड्रसान्मधुरप्रायान्नातिद्रुतविलम्बितम् [अ.हृ.सू.7।36] इति। सायनादि कालेषु च मधुर एवै को विधीयते। एवं स्नेहयुक्तआहारोऽपि रौक्ष्यविरोधी रूक्षेण वायुना शरीरस्यापि विशरारुतां वारयतीत्यप्यायुर्वेदावसितम्। अद्यमान आहारे स्वरूपस्थैर्यस्यासम्भवादगुणत्वाच्च शरीराख्यसङ्घातस्थैर्यहेतुभूतरसरुधिर मांसमेदोस्थिमज्जाशुक्राख्यधातुसप्तकरूपपरिणामस्य बलादेश्च स्वसाध्यस्य चिरकालस्थायित्वलक्षणं स्थैर्यं विवक्षितमित्याह -- स्थिरपरिणामा इति। उपयोगात्पूर्वमेव जुगुप्सनीयसन्निवेशरूपविशेषादिविरहात्सन्दर्शनमात्रेणापि प्रीतिजनकत्वमिह हृद्यत्वमित्याहरमणीयविशेषा इति। येषु धर्मशास्त्रायुर्वेदयोरुभयोरपि साङ्गत्यं? तेषां सर्वेषामिदमुपलक्षणमित्यभिप्रायेणाऽऽहएवंविधा इति। एतेन प्रागुक्तयुक्ताहारत्वं च विवृतम्।,।।17.9।।कट्वम्लशब्दयोस्त्रिकटुकतिन्तिण्यादिषु विशेषतः प्रयोगादिह तावन्मात्रविवक्षाव्युदासायाऽह -- कटुरसा अम्लरसा इति। सात्त्विकस्यापि व्रतादिव्यतिरिक्तकालेषु रुचिमात्रार्थलवणयोगानुमतेः स्वरूपतो लवणस्याहारत्वासम्भवात्प्रत्यक्षलवणस्य गोमांसतुल्यतया स्फुटनिषेधाच्चात्र तद्व्यतिरिक्तापेक्षया लवणशब्द इत्यभिप्रायेणाऽऽह -- लवणोत्कटा इति।स्निग्धमुष्णं (सात्म्यमल्पं) च भोजनम् [अ.हृ.सू.7।47] इति कोष्णस्य भोजनस्य विहितत्वात्अत्युष्णेति विशेषितम्।कट्वादीनां विदाहिनः इति भ्रमव्युदासायात्र समासोक्तिः। तीक्ष्णस्यापि मरीच्यादेस्तत्तद्द्रव्यरोचनार्थं मात्रयाऽनुमतेस्तत्राप्युपसर्गस्यान्वयो दर्शितः। उष्णस्य पृथगुपात्तत्वादत्र तीक्ष्णशब्दो न तत्पर्यायः आशुकारिषु मरीच्यादिष्वायुर्वेदे तीक्ष्णत्वमुच्यते अतोऽत्र प्रयोगक्षणप्रभृति प्रतिकूलतमानि द्रव्याणि तीक्ष्णानीत्यभिप्रायेणोदाहरति -- अतिशैत्येति। स्नेहप्रतिपक्षभूतो गुणो रौक्ष्यमनुशिष्यत इत्यभिप्रायेणाऽऽह -- शोषकरा रूक्षा इति। वातकोपनत्वमनेन सिद्धम्। अत्र विदाहिशब्दे प्रकृतिप्रत्यययोर्विवक्षितं व्यनक्ति -- तापकरा इति। पित्तकोपना इत्यर्थः।एवंविधा इति पूर्ववत्।तृष्णाशोकसमुद्भवम् [14।7] इत्यादि प्रागुक्तं स्मारयति -- रजोमयत्वादिति। कटुप्रभृतीनां दुःखादिहेतुत्वं च प्रायशोऽन्वयव्यतिरेकयोग्यमायुर्वेदविशोधितं च। दुःखप्रदत्वं धातुवैषम्यादिद्वारा शोकप्रदत्वं तत्परामर्शजपश्चात्तापादिना आमयः कालक्रमेण। न केवलमत्रैव तमोवद्दुःखादिहेतुत्वम् अपितु परम्परया परलोके देहान्तरेऽपीत्यभिप्रायेण सत्त्ववर्धकसात्त्विकाहारसमानन्यायसिद्धमर्थमाह -- रजोवर्धनाश्चेति।

यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१७- १०॥

व्याख्याः

शाङ्करभाष्यम्
।।17.10।। --,यातयामं मन्दपक्वम्? निर्वीर्यस्य गतरसशब्देन उक्तत्वात्। गतरसं रसवियुक्तम्? पूति दुर्गन्धि? पर्युषितं च पक्वं सत् रात्र्यन्तरितं च यत्? उच्छिष्टमपि च भुक्तशिष्टम् उच्छिष्टम्? अमेध्यम् अयज्ञार्हम्? भोजनम् ईदृशं तामसप्रियम्।।अथ इदानीं यज्ञः त्रिविधः उच्यते --,
रामानुजभाष्यम्
।।17.10।।यातयामं चिरकालावस्थितम्? गतरसं त्यक्तस्वाभाविकरसम्? पूतिदुर्गन्धोपेतम्? पर्युषितं कालातिपत्त्या रसान्तरापन्नम्? उच्छिष्टं गुर्वादिभ्यः अन्येषां भुक्तशिष्टम्? अमेध्यम् अयज्ञार्हम्? अयज्ञशिष्टम् इत्यर्थः एवविधं तमोमयं भोजनं तामसप्रियं भवति। भुज्यते इत्याहार एव भोजनम्? पुनश्च तमसो वर्धनम्। अतो हितैषिभिः सत्त्ववृद्धये सात्त्विकाहार एव सेव्यः।
अभिनवगुप्तव्याख्या
।।17.7 -- 17.10।।आहारोऽपि सत्त्वादिभेदात् त्रिधा श्रद्धावत् ( S omits श्रद्धावत् ) तथा यज्ञतपोदानानि। तदुच्यते -- आहार इत्यादि तामसप्रियम् इत्यन्तम्। याता यामाः यस्य।
मधुसूदनसरस्वतीव्याख्या
।।17.10।।यातयाममिति। यातयाममर्धपक्वम्। निर्वीर्यस्य गतरसपदेनोक्तत्वादिति भाष्यम्। गतरसं विरसतां प्राप्तं शुष्कं यातयामं पक्वं सत्प्रहरादिव्यवहितमोदनादि शैत्यं प्राप्तम्? गतरसमुद्धृतसारम्? मथितदुग्धादीत्यन्ये। पूति दुर्गन्धं? पर्युषितं पक्वं सद्रात्र्यन्तरितं? चेतसस्तत्कालोन्मादकरं धत्तूरादिसमुच्चयीयते यदतिप्रसिद्धं दुष्टत्वेन। उच्छिष्टं भुक्तावशिष्टम्? अमेध्यमयज्ञार्हमशुचि मांसादि। अपिचेति वैद्यकशास्त्रोक्तमपथ्यं समुच्चीयते। एतादृशं यद्भोजनं भोज्यं तत्तामसस्य प्रियं सात्त्विकैरतिदूरादुपेक्षणीयमित्यर्थः। एतादृशभोजनस्य दुःखशोकामयप्रदत्वमतिप्रसिद्धमिति कण्ठतो नोक्तम्। अत्र च क्रमेण रस्यादिवर्गः सात्त्विकः? कट्वादिवर्गो राजसः? यातयामादिवर्गस्तामस इत्युक्तमाहारवर्गत्रयं? तत्र सात्त्विकवर्गविरोधित्वमितरवर्गद्वये द्रष्टव्यम्। तथा ह्यतिकटुत्वादिकं रस्यत्वविरोधि? तादृशस्यानास्वाद्यत्वाद्रूक्षत्वं स्निग्धत्वविरोधि? तींक्ष्णत्वविदाहित्वे धातुपोषणविरोधित्वात्स्थिरत्वविरोधिनी? अत्युष्णत्वादिकं हृद्यत्वविरोधि? आमयप्रदत्वमायुःसत्त्वबलारोग्यविरोधि? दुःखशोकप्रदत्वं सुखप्रीतिविरोधि? एवं सात्त्विकवर्गविरोधित्वं राजसवर्गे स्पष्टम्। तथा तामसवर्गेऽपि गतरसत्वयातयामत्वपर्युषितत्वानि यथासंभवं रस्यत्वस्निग्धत्वस्थिरत्वविरोधीनि? पूतित्वोच्छिष्टत्वामेध्यत्वानि हृद्यत्वविरोधीनि? आयुःसत्त्वादिविरोधित्वं तु स्पष्टमेव राजसवर्गे दृष्टविरोधमात्रं? तामसवर्गे तु दृष्टादृष्टविरोध इत्यतिशयः।
पुरुषोत्तमव्याख्या
।।17.10।।अथ तामसमाह -- यातयाममिति। यातो व्यतीतो यामः प्रहरो यस्य तादृशं पक्वान्नकृषिरादिकं? शैत्यादिना भक्षणायोग्यमित्यर्थः। गतरसं शुष्कं? पूति दुर्गन्धं? पर्युपितं व्यतीतरात्रम्? उच्छिष्टं अन्यभुक्तावशिष्टम्? अमेध्यं कलिङ्गमूलकबिम्बादिकम्। एतादृशं भोजनं तामसानां प्रियम्। एतस्य फलकीर्तनं स्वरूपत एव दुष्टत्वात्। एवंभोजनप्रियो तामसो ज्ञेय इत्यर्थः। निर्गुणाहारकैर्मदुच्छिष्टभोक्तृभिः पूर्वोक्तत्रिविधमभोजनं तद्भोजिनश्च त्याज्या इत्यर्थश्चैतन्निरूपणेन ज्ञापितः।
वल्लभाचार्यव्याख्या
।।17.10।।यातयाममिति। चिरकालावस्थितं तामसप्रियम्।
आनन्दगिरिव्याख्या
।।17.10।।तामसप्रियमाहारमुदाहरति -- यातयाममिति। ननु निर्वीर्यं यातयाममुच्यते न पुनः सामिपक्वमिति नेत्याह -- निर्वीर्यस्येति।
धनपतिव्याख्या
।।17.10।।तामसप्रीतिविषयं भोजनमुदाहरति। यातयामं मन्पक्कं निर्वीर्यस्य गतरसपदेनोक्तत्वात्। यातो यामः प्रहरो यस्य पक्कस्योदनादेः तद्यातयाममिति तु पाकानन्तरं किंचित्कालातिक्रान्त्या निर्वीर्यतां प्राप्तन्नं यातयाममुच्यते नतु याममात्रातिक्रान्त्या। एतएवायातयामत्वं वेदानामपि विशेषणं संगच्छत इत्याभिप्रेत्याचार्यैर्न व्याख्यातम्। गतरसं रसविमुक्तं निर्वीर्यमोदनादि। पूतिर्दुर्गन्धि लशुनपलाण्डावदि? पर्युषितं स्नेहानक्तं पक्कंसत् रात्र्यभिप्रेत्याचार्यैर्न च?अन्न पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् इति याज्ञवल्क्यस्मृत्या स्नेहाक्तस्य चिरसंस्थितस्याप्यन्नस्य भक्ष्यवत्वप्रतिपादनात्। उच्छिष्टं स्वपरभुक्तावशिष्टमपि चेति वैद्यकशास्त्रोक्तमपथ्यं समुच्चीयते। अमेध्यमपवित्रज्ञार्ह कलञ्चकलिङ्गादि ईदृशं भोजनं तामसस्य प्रियमिष्टम्। एवंविधभोजनप्रीतिमन्तस्तामसा ज्ञेयाः श्रेयोर्थिभिश्च तामसं भोजनं हेयमित्यर्थः। तामसभोजनकृतदोषास्तु प्रसिद्धत्वादसंख्यत्वाच्च नोक्ताः।
नीलकण्ठव्याख्या
।।17.10।।यातयामं प्रहरात्प्राक्कृतं शीतलतां गतमित्यर्थः। यातयामं अर्धपक्वं निर्वीर्यस्य गतरसेनैवोक्तत्वादिति भाष्यम्। गतरसं रसविमुक्तम्? पूति दुर्गन्धि? पर्युषितं पक्वं सद्रात्र्यन्तरितम्? उच्छिष्टं भुक्तावशिष्टम्? अमेध्यं यज्ञानर्हम्? भोजनं अन्नं तामसप्रियम्।
श्रीधरस्वामिव्याख्या
।।17.10।।तथा -- यातयाममिति। यातो यामः प्रहरो यस्य पक्वस्योदनादेस्तद्यातयामम्? शैत्यावस्थां प्राप्तमित्यर्थः। गतरसं निष्पीडितसारम्? पूति दुर्गन्धं? पर्युषितं दिनान्तरपक्वम्? उच्छिष्टमन्यभुक्तावशिष्टम्? अमेध्यमभक्ष्यं कलञ्जादि? एवंभूतं भोजनं भोज्यं तामसस्य प्रियम्।
वेङ्कटनाथव्याख्या
।।17.10।।सात्त्विकराजसाहारयोर्गुणकार्यकथनेऽपि तामसे गुणमात्रकथनमदूरविप्रकर्षेण राजससमानकार्यत्वात् सर्वेष्वाहारेषु यामातिक्रमणमात्रेण दोषाभावात्तेषु तेषु द्रव्येषु यावता कालेन दुष्टता? तावद्विवक्षामाह -- यातयामं चिरकालावस्थितमिति। यामः श्रेष्ठोंऽशः यथाघृतात्परं मण्डमिवातिसूक्ष्मम् इति केचित्। तेन निर्वीर्यत्वमुक्तं भवति। तदपिचिरकालावस्थितमित्यनेन अर्थसिद्धम्। अम्मयेषु पृथिवीमयेषु च आहारेषु तत्तत्पाकभेदेनापि कदाचिदपि सर्वरसत्यागाभावात्तत्तद्रव्यस्वभावतयाऽनुशिष्टरसत्यागेन रसान्तरापत्तिरिह गतरसशब्देन,विवक्षितेत्याहत्यक्तस्वाभाविकरसमिति। एतेन गतरसशब्देन निर्वीर्यस्योक्ततयायातयामं मन्दपक्वम् इति व्याख्या निरस्ता।यद्यपि पूतिशब्दोऽसात्त्विकतया भगवच्छास्त्रादिसिद्धे करञ्जादिद्रव्येऽपि प्रयुज्यते तथापि अत्र द्रव्यविशेषोपादानप्रकरणाभावाद्गुणादिमुखेन सर्वाहारोपलक्षणप्रकरणाच्चात्र पूतिशब्देन हेयतया लोकशास्त्रप्रसिद्धगुणविवक्षामाह -- दुर्गन्धोपेतमिति। कालातिपत्तिमात्रस्य यातयामशब्देन ग्रहणात् रसत्यागस्यगतरसम् इत्युक्तत्वात् येषु कालातिपत्तौ दोषः? क्षीरादिष्विवातञ्चनादिभिश्च रसान्तरापत्तिः? तत्र कालातिक्रमणमात्रेण रसान्तरापन्नत्वमिह विवक्षितमित्याह -- कालातिपत्त्यारसान्तरापन्नमिति। हेयविकृत्यन्तरादीनामुपलक्षणमिदम्। अत एव पक्वानामविकलानामपि जलादीनां रात्र्यन्तरितानां त्यागः। एतेन यातयामशब्दोऽत्र रसान्तरापत्तिरहितकालातिक्रममात्रदुष्टविषय इति दर्शितम्।उच्छिष्टविशेषस्य शास्त्रानुमतेराचार्योच्छिष्टस्य च पापविशेषप्रायश्चित्ततया पवित्रत्वेनापि ग्रहणात्तद्व्यतिरिक्तविषयोऽत्र उच्छिष्टशब्द इत्याह -- गुर्वादिभ्योऽन्येषामिति।गुर्वादीत्यादिशब्देन पितुः ज्येष्ठस्य भ्रातुः भार्याविषये भर्तुश्च ग्रहणम्। यत्तु अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत्। तस्या उच्छेषणमददुः। तत्प्राश्नात्। सा रेतोऽधत्त इत्यादौ उच्छेषणप्राशनमाम्नायते तद्ब्रह्मौदनादिविधिपरत्वादन्यपरम्। भुक्तावशिष्टपाकपात्रस्थौदनविषयत्वेऽप्यविरुद्धम्। अप्राप्तत्वाद्विधिपरत्वस्वीकारेऽपि अदितिसाध्यदेवसंव्यवहारमात्रविषयम्। न तावता अद्यतनानामनुष्ठानप्राप्तिः प्राप्तावपि तथाविधकर्मनियतम्। नचात्र विधिस्तत्कल्पनावकाशश्चेत्यप्राप्तिरेव। यत्तु भगवता नारदेन जातिस्मरेण प्राचीनशूद्रजन्मानुष्ठानमनुसृत्योक्तम्उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः [भाग.1।5।25] इत्यादि तदपि तस्मिन् जन्मनि नारदस्तेषां शिष्यः शूद्रश्चेति तादृशेष्वेव तत्प्राप्नोति नान्यादृशेषु। तथा सति हि वाक्यान्तरमपि न विरुध्यते। न च वचनविरोधे लिङ्गदर्शनमात्रेणानुष्ठानक्लृप्तिः। प्रतिषेधति ह्याचार्यपुत्रादेरप्युच्छिष्टम् -- उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः [आ.ध.1।2।7।30] इत्यादिना। किमुतान्येषाम् भागवतस्य तु आचार्यव्यतिरिक्तसमस्तोच्छिष्टभक्षणेऽपि तीव्राणि प्रायश्चित्तान्यनुशिष्यन्ते। यथा सनत्कुमारीयसंहितायामुदाहृतमित्यागमप्रामाण्ये भगवद्यामुनाचार्यैरुपात्तं -- निर्माल्यं भक्षयित्वैवमुच्छिष्टमगुरोरपि। मासं पयोव्रतो भूत्वा जपन्नष्टाक्षरं सदा। ब्रह्मकूर्चं ततः पीत्वा इत्यादि।भाष्ये चात्र गुरुशब्द आचार्यविषयः? पितृविषयो वेत्ययुक्तम्? गुरुशब्दार्थोपाध्यायाद्युच्छिष्टग्रहणशास्त्राभावात्। नच यत्किञ्चिदुपदेशमात्रेऽप्याचार्यत्वम्?उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः। सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते [मनुः 2।140] इत्यादिभिस्तल्लक्षणात्? अन्यत्र प्रयोगस्योपचारादपि सम्भवात्। यश्चोपनेता प्रणवादिमात्रमुपदिश्य विरतः? यश्च केवलं रहस्यशब्दनिर्दिष्टा मोक्षसाधनभूता विद्यास्तत्तच्छ्रुतिमुखेन शिक्षयति तयोरप्याचार्यत्वादिकं वचनबलादङ्गीक्रियते। उक्तं च गुर्वादिलक्षणं भगवता याज्ञवल्क्येन -- स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति। उपनीय तु तद्वेदमाचार्यः स उदाहृतः। एकदेशमुपाध्यायः [1।3435] इति। यत्तुएकाक्षरप्रदातारमाचार्यं योऽवमन्यते (यो गुरुं नाभिमन्यते) [अत्रिस्मृ.10] इत्यादि? तदवमतिनिवारणाद्यर्थमाचार्यदृष्टिमात्रेणोच्यते न तावता आचार्यत्वप्रयुक्तसर्वोपनिपातः। यद्यप्याचार्यशब्दो निरुक्त्याद्यनुसारादस्त्रशस्त्रादिशिक्षकेषु द्रोणकृपादिषु प्रयोगप्रौढ्या च यथाप्रयोगं सर्वत्र मुख्य इति कैश्चिदङ्गीक्रियेत? तथाप्युच्छिष्टभक्षणानुमतिनिदानमाचार्यत्वं प्रणवादित्रिकपूर्वकपरविद्योपदेष्टर्येव तथैव शास्त्रैर्नियमाच्छिष्टाचाराच्च।प्रत्यक्षश्रुत्यादिविरुद्धस्तु भ्रान्तानामभिप्रायान्तरेण शास्त्रोल्लङ्घिनामप्याचारो न शिष्टाचारः। यदपि कैश्चित्पठ्यतेनारायणैकनिष्ठस्य या या वृत्तिस्तदर्चनम्। यो यो जल्पः स स जपस्तद्ध्यानं यन्निरीक्षणम्। तत्पादाम्ब्वतुलं तीर्थं तदुच्छिष्टं सुपावनम्। तदुक्तिमात्रं मन्त्राग्र्यं तत्पृष्टमखिलं शुचि इति। इदमपि नारायणैकनिष्ठप्रशंसापरम् न तु स्वयं विधायकम्। अन्यतः प्राप्तेरेव ह्यत्र प्रशंसा। तत्र प्रथमश्लोकः स्वभावप्राप्तमर्थप्राप्तं चानुवदति यच्च शास्त्रप्राप्तम् न तु पुनः शास्त्रान्तरनिषिद्धपरामर्शि।,प्रमाणप्राप्तविषयत्वादेव हिअतुलं सुपावनमग्र्यमखिलम् इति विशेषणेषु संरम्भः।ब्राह्मणाः पादतो मेध्याः इत्यादिभिर्विप्रपादोदकस्य सामान्यतः पावनत्वप्राप्तौ भागवतत्वावस्थायां अतुलं तीर्थमिति विशेष्यते। एवमनेकान्तिनोऽप्युपनेतृप्रभृतेरुच्छिष्टे पावनत्वेन प्राप्ते तस्य नारायणैकनिष्ठत्वदशायां सुपावनत्वं विधीयते। तथा महापुरुषकृतस्तुत्यादेर्मङ्गलतमत्वे सिद्धेतदुक्तिमात्रं मन्त्राग्र्यम् इति भगवदनन्यप्रणीतस्य गाथागीतादेरपि मन्त्राग्र्यवत्फलादिहेतुत्वं प्रतिपाद्यते।एवं शुद्धानां शोधकापेक्षायां निर्णेजनादिवन्महात्मनां स्पर्शोऽपि माहात्म्यविशेषवशादिच्छाशोधकतया प्राप्तःतत्स्पृष्टमखिलं शुचि इत्यनेन सर्वस्यापि द्रव्यस्य पृथक्चोदितशोधकभेदस्य भेदस्य भागवतस्पर्श एकः शोधको भवितुमर्हतीत्युच्यते। अन्यथा भागवतेन यदृच्छादिस्पृष्टचण्डाललशुनगृञ्जनाद्यशुद्धग्रहणेनालेपकपादवत्स्पृश्यास्पृश्यभक्ष्याभक्ष्याद्यद्वैतप्रसङ्गः। एतेन परमाप्तस्य भक्ताङ्ग्रिरेणोर्भाषागाथापि निर्व्यूढा। एवं हि सा संस्कृतेन विपरिणंस्यते -- दिव्यैरवेद्यविभवेति यदि ब्रुवन्ति माध्वीमनोज्ञतुलसीक यदीति चाहुः। ऊनक्रिया अपि परानपि कारयन्तो भुक्ताधिकं ददति चेन्ननु तत्पवित्रम् इति। इदमपि सङ्कीर्तनप्रशंसापरमिति प्रकरणात्स्ववाक्यस्वारस्याच्च सुव्यक्तम्। भुक्तशेषशब्दश्च पाकपात्रस्थविषयत्वेऽपि न विरुद्धः यथाअन्नशेषः किं क्रियताम् इत्यत्र अवशिष्टम्। भुक्तशिष्टं तु पाकपात्रस्थमपि त्याज्यमेव। तत्परिहारार्थोऽयं प्रतिप्रसवः। अन्यथापि प्रमाणान्तराविरोधायाचार्याद्युच्छिष्टविषयमेव स्यात्। तथाहिऊनो हीनः परिस्रस्तो नष्टः इति विकलभागवतान् दुष्कर्मतारतम्याच्चतुर्धा रहस्याम्नायविदः समामनन्ति। तत्रोनत्वाद्यवस्थायामाचार्योच्छिष्टस्यापवित्रत्वं प्रसक्तम् तत्र यद्यनन्यत्वस्थैर्यव्यञ्जनसङ्कीर्तनं स्यात्? तदा तदुच्छिष्टमपवित्रं न भवतीति अनन्यत्वभङ्गे ह्याचार्यस्यापि सर्वथा वर्जनं तत्रैवाम्नातमित्यलमतिप्रसङ्गेन।मेधाविरोधिन्यप्यमेध्यशब्दप्रयोगात्तस्य च दृष्टप्रत्यवायमात्रपर्यवसानात्ततोऽपि दोषातिशयसूचनाय मेधोऽत्र यज्ञः? तदर्हं मेध्यं? तद्विपरीतममेध्यमित्याह -- अयज्ञार्हमिति। ननु यज्ञार्हस्यापि द्रव्यस्याभक्षणीयत्वं मन्वादिभिरुच्यते यथा -- वृथा कृसरसंयावं पायसापूपमेव च। अनुपाकृतमांसानि देवान्नानि हवींषि च [मनुः5।7] इति। तत्राऽऽह -- अयज्ञशिष्टमित्यर्थ इति। एतेन सात्त्वतादिशास्त्रेषुनानिवेद्य हरेः किञ्चित्समश्नीयात्तु पावनम् इत्यादिकमप्यत्रानुसंहितम्। आह्रियन्त इत्याहारास्तत्तद्द्रव्याणि प्रतीयन्ते? न च भोजनक्रियामात्रे यातयामत्वाद्युक्तिरन्वेति नापि मुख्ये सम्भवति लक्षणा न्याय्या। अतःकृत्यल्युटो बहुलम् [अष्टा.3।3।113] इति कर्मणि ल्युडन्ततामाह -- भुज्यत इति।पुनश्च तमसो वर्धनमिति -- पूर्ववत्। आहारत्रैविध्योक्तेरभिप्रेतमाह -- अत इति। पथ्यापथ्यविभागोक्तौ पथ्यग्रहणवदिति भावः। एवमेव यज्ञादित्रैविध्योक्तावप्यन्ततोऽभिप्रायो ग्राह्यः।

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥१७- ११॥

व्याख्याः

शाङ्करभाष्यम्
।।17.11।। --,अफलाकाङ्क्षिभिः अफलार्थिभिः यज्ञः विधिदृष्टः शास्त्रचोदनादृष्टो यः यज्ञः इज्यते निर्वर्त्यते? यष्टव्यमेवेति यज्ञस्वरूपनिर्वर्तनमेव कार्यम् इति मनः समाधाय? न अनेन पुरुषार्थो मम कर्तव्यः इत्येवं निश्चित्य? सः सात्त्विकः यज्ञः उच्यते।।
रामानुजभाष्यम्
।।17.11।।फलाकाङ्क्षारहितैः पुरुषैः विधिदृष्टः शास्त्रदृष्टः मन्त्रद्रव्यक्रियादिभिः युक्तः। यष्टव्यम् एव इति भगवदाराधनत्वेन स्वयंप्रयोजनतया यष्टव्यम् इति मनः समाधाय यो यज्ञ इज्यते स सात्त्विकः।
अभिनवगुप्तव्याख्या
।।17.11 -- 17.13।।अफलेत्यादि परिचक्षते इत्यन्तम्। मनः समाधाय निश्चयेनानुसंधाय। दम्भार्थमपीति -- दंभः लोको ( N लोके ) मामेवं -- विधं जानीयादिति। विधिहीनमिति -- शास्त्रोक्तक्रियाविहीनम् तदेवासृष्टान्नादिभिर्विशेषणैर्वितन्यते।
मधुसूदनसरस्वतीव्याख्या
।।17.11।।इदानीं क्रमप्राप्तं त्रिविधं यज्ञमाह -- अफलेत्यादिना। अग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धज्योतिष्टोमादिर्यज्ञो द्विविधः काम्यो नित्यश्च। फलनिश्चयेन चोदितः काम्यः। सर्वाङ्गोपसंहारेणैव मुख्यकल्पेनानुष्ठेयः फलसंयोगं विना जीवनादिनिमित्तसंयोगेन चोदितसर्वाङ्गोपसंहारासंभवे प्रतिनिध्याद्युपादानेनामुख्यकल्पेनाप्यनुष्ठेयो नित्यः? तत्र सर्वाङ्गोपसंहारासंभवेऽपि प्रतिनिधिमुपादायावश्यं यष्टव्यमेव प्रत्यवायपरिहारायावश्यकजीवनादिनिमित्तेन चोदितत्वादिति मनः समाधाय निश्चित्याफलाकाङ्क्षिभिरन्तःकरणशुद्ध्यर्थितया काम्यप्रयोगविमुखैर्विधिदृष्टो यथाशास्त्रं निश्चितो यो यज्ञ इज्यतेऽनुष्ठीयते स यथाशास्त्रमन्तःकरणशुद्ध्यर्थमनुष्ठीयमानो नित्यप्रयोगः सात्त्विको ज्ञेयः।
पुरुषोत्तमव्याख्या
।।17.11।।आहारानन्तरं यज्ञस्य प्रतिज्ञातत्वात् [17।7] त्रिविधयज्ञरूपमाह -- अफलेति। न विद्यतेऽन्यत्फलं यस्मात्तादृशः स्वयमेव फलरूपो भगवत्प्रसादस्तदाकाङ्क्षिभिः पुरुषैः विधिना अवश्यकर्त्तव्यत्वेन दृष्टो बोधितो यो यज्ञो भगवदाज्ञप्तत्वात्यष्टव्यमेव? न तु फलानुसन्धानेन इति मनः समाधाय निश्चलं कृत्वा इज्यते अनुष्ठीयते स यज्ञः सात्त्विक इत्यर्थः। एतादृग्यज्ञकर्ता सात्त्विको ज्ञेयः।
वल्लभाचार्यव्याख्या
।।17.11।।शास्त्रीययज्ञस्य च त्रैविध्यं त्रिभिः स्पष्टम् -- अफलेति।
आनन्दगिरिव्याख्या
।।17.11।।हानादानार्थमाहारत्रैविध्यमेवं विभज्य क्रमप्राप्तं यज्ञत्रैविध्यं कथयति -- अथेति। तत्र सात्त्विकं यज्ञं ज्ञापयति -- अफलेति। फलाभिसन्धिं विना यज्ञस्वरूपमेव भाव्यमिति बुद्ध्या शास्त्रतोऽनुष्ठीयमानो यज्ञः सात्त्विक इत्यर्थः।
धनपतिव्याख्या
।।17.11।।एवमाहारत्रैक्िध्यं विभज्य क्रमप्राप्तं यज्ञत्रैविध्यं विभजन्नादावुपादेयं सात्त्विकं यज्ञमाह। अफलाकाङ्क्षिभिः फलकाङ्क्षावर्जितैरग्निष्टोंमादिः विधिदृष्टः शास्त्रचोदनादृष्टो यो यज्ञो यष्टव्यमेव यज्ञस्वरुपनिर्वर्तनमेव कर्तव्यमिति बुद्य्धा मनःसामधाय नानेन पुरुषार्थो मम कर्तव्य इति निश्चित्येज्यते निर्वर्त्यते स सात्त्विको यज्ञ उच्यते। स एव श्रेयोर्थिभिरुपादेय इत्यर्थः।
नीलकण्ठव्याख्या
।।17.11।।यज्ञत्रैविध्यमाह -- अफलेति। विधिदृष्टः आवश्यकतया विहितः। यष्टव्यमेव न तु यज्ञाद्दृष्टमदृष्टं वा फलं प्राप्तव्यमिति मनः समाधाय समाहितं कृत्वा यो यज्ञ इज्यते स सात्त्विकः।
श्रीधरस्वामिव्याख्या
।।17.11।।यज्ञोऽपि त्रिविधः तत्र सात्त्विकं यज्ञमाह   -- अफलाकाङ्क्षिभिरिति त्रिभिः।  फलाकाङ्क्षारहितैः पुरुषैर्विधिना दृष्ट आवश्यकतया विहितो यो यज्ञ इज्यतेऽनुष्ठीयते स सात्त्विको यज्ञः। कथमिज्यते यष्टव्यमेवेति यज्ञानुष्ठानमेव कार्यं नान्यत्फलं साधनीयमित्येवं मनः समाधाय। एकाग्रं कृत्वेत्यर्थः।
वेङ्कटनाथव्याख्या
।।17.11।।अफलस्य कस्यचिदाकाङ्क्षाप्रतीतिव्युदासायाऽऽह -- फलाकाङ्क्षारहितैरिति। परमात्मप्रीत्यतिरिक्तनिरपेक्षैरित्यर्थः।विधिदृष्टः इत्युक्ते प्रजापतिना दृष्टत्वं प्रतीयेत स हि सर्वेषां यज्ञानां द्रष्टेत्यामनन्ति न चात्र प्रजापतिदृष्टत्वोक्त्याऽनुष्ठाने कश्चिदुपकारः अतो विधायकशास्त्रमेवात्र विधिशब्देन विवक्षितमित्याहशास्त्रदृष्ट इति। शास्त्रैकप्रमाणतया प्रसिद्धे शास्त्रदृष्टत्वोक्तिरनपेक्षितेत्यत्र यथाशास्त्रकरणादवैकल्यं? तद्विवक्षितमाह -- मन्त्रेति।यज देवपूजायाम् [धा.पा.1।1027] इति धात्वर्थानुसारेणाऽऽह -- भगवदाराधनत्वेनेति। अवधारणाभिप्रेतमाह -- स्वयम्प्रयोजनतयेति।अयमभिप्रायः -- यद्यपि प्रयोजनमनुद्दिश्य न प्रवृत्तिः? तथापि प्रागुक्तसुहृत्समाराधनन्यायेन यज्ञादिप्रवृत्तेरेव प्रयोजनत्वाभिसन्धिः सम्भवति -- इति।मनः समाधायेति प्रकारान्तराद्विनिवार्य प्रस्तुतप्रक्रियायामेकाग्रं कृत्वेत्यर्थः। यज्ञ इज्यते यज्ञः क्रियत इत्यर्थः।

अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१७- १२॥

व्याख्याः

शाङ्करभाष्यम्
।।17.12।। --,अभिसंधाय तु उद्दिश्य फलं दम्भार्थमपि चैव यत् इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्।।
रामानुजभाष्यम्
।।17.12।।फलाभिसन्धियुक्तैः दम्भगर्भो यशःफलः च यः यज्ञ इज्यते? तं यज्ञं राजसं विद्धि।
अभिनवगुप्तव्याख्या
।।17.11 -- 17.13।।अफलेत्यादि परिचक्षते इत्यन्तम्। मनः समाधाय निश्चयेनानुसंधाय। दम्भार्थमपीति -- दंभः लोको ( N लोके ) मामेवं -- विधं जानीयादिति। विधिहीनमिति -- शास्त्रोक्तक्रियाविहीनम् तदेवासृष्टान्नादिभिर्विशेषणैर्वितन्यते।
मधुसूदनसरस्वतीव्याख्या
।।17.12।।अभिसंधायेति। फलं काम्यं स्वर्गाद्यभिसंधायोद्दिश्य नत्वन्तःकरणशुद्धिं। तुर्नित्यप्रयोगवैलक्षण्यसूचनार्थः। दम्भो लोके धार्मिकत्वख्यापनं तदर्थमपि चैवेति विकल्पसमुच्चयाभ्यां त्रैविध्यसूचनार्थौ। पारलौकिकं फलमभिसंधायैव दम्भार्थत्वेऽपि पारलौकिकफलानभिसंधानेऽपि दम्भार्थमेवेति विकल्पेन द्वौ पक्षौ। पारलौकिकफलार्थमप्यैहिकलौकिकदम्भार्थमपीति समुच्चयेनैकः पक्षः। एवं,दृष्टादृष्टफलाभिसन्धिनान्तःकरणशुद्धिमनुद्दिश्य यदिज्यते यथाशास्त्रं यो यज्ञोऽनुष्ठीयते तं यज्ञं राजसं विद्धि,हानाय। हे भरतश्रेष्ठेति योग्यत्वसूचनम्।
पुरुषोत्तमव्याख्या
।।17.12।।राजसमाह -- अभिसन्धायेति। तु पुनः फलं स्वर्गादिकमभिसन्धाय उद्दिश्य दम्भार्थं लोके स्वख्यापनार्थं चाप्येव यत्तु इज्यतेऽनुष्ठीयते तं यज्ञं राजसं विद्धि। तत्कर्त्तारश्च राजसा ज्ञेयाः।
वल्लभाचार्यव्याख्या
।।17.12।।Sri Vallabhacharya did not on this sloka.
आनन्दगिरिव्याख्या
।।17.12।।राजसं यज्ञं हानार्थं दर्शयति -- अभिसंधायेति। स्वर्गाद्युद्दिश्य धार्मिकत्वख्यापनार्थं च यद्यजनं क्रियते तं यज्ञं रजसा निर्वृत्तं त्याज्यमवगच्छेत्यर्थः।
धनपतिव्याख्या
।।17.12।।राजसं यज्ञं ज्ञापयति -- अभिसंधाय तु फलं स्वर्गादिफलमुद्दिश्य दम्भार्थमपि चैव इह धार्मिकत्वख्यापनार्थं च यदिज्यते यद्यजनं क्रियते तं यज्ञं राजसं रजसा निवृत्तं परिहरणार्थ विद्धि जानिहि। भरतश्रेष्ठेति संबोधयन् राजसयज्ञे तव योग्यता नास्तीति सूचयति।
नीलकण्ठव्याख्या
।।17.12।।राजसं यज्ञमाह -- अभिसंधायेति। विधिहीनं शास्त्रोक्तविधिहीनम्। असृष्टं न दत्तमन्नं यस्मिन् तं असृष्टान्नम्।
श्रीधरस्वामिव्याख्या
।।17.12।।राजसं यज्ञमाह -- अभिसंधायेति। फलमभिसंधायोद्दिश्य यस्त्विज्यते यज्ञः क्रियते? दम्भार्थं स्वमहत्त्वख्यापनार्थं? यज्ञं राजसं विद्धि।
वेङ्कटनाथव्याख्या
।।17.12।।दम्भहेतुकत्वमिह दम्भार्थशब्देन विवक्षितमित्याह -- दम्भगर्भ इति। दाम्भिकत्वख्यापनाभिसन्धिरहित इत्यर्थः। केवलं दम्भगर्भस्तु तामसः। अत ऐहिकामुष्मिकफलसम्भेदमात्रमिह राजसत्वं विवक्षितत्वमित्यभिप्रायेणाऽऽह -- यशःफलश्चेति। दम्भानुसाराद्वा दृष्टैकफलत्वोक्तिः।भरतश्रेष्ठ,इति त्वं तु सात्त्विकयज्ञाद्यधिकारीत्यभिप्रायः।

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७- १३॥

व्याख्याः

शाङ्करभाष्यम्
।।17.13।। --,विधिहीनं यथाचोदितविपरीतम्? असृष्टान्नं ब्राह्मणेभ्यो न सृष्टं न दत्तम् अन्नं यस्मिन् यज्ञे सः असृष्टान्नः तम् असृष्टान्नम्? मन्त्रहीनं मन्त्रतः स्वरतो वर्णतो वा वियुक्तं मन्त्रहीनम्? अदक्षिणम् उक्तदक्षिणारहितम्? श्रद्धाविरहितं यज्ञं तामसं परिचक्षते तमोनिर्वृत्तं कथयन्ति।।अथ इदानीं तपः त्रिविधम् उच्यते --,
रामानुजभाष्यम्
।।17.13।।विधिहीनं ब्राह्मणोक्तविधिहीनं सदाचारयुक्तैः विधिविद्भिः ब्राह्मणैः यजस्य इति उक्तिहीनम् इत्यर्थः। असृष्टान्नम् अचोदितद्रव्यम्। मन्त्रहीनम् अदक्षिणं श्रद्धाविरहितं च यज्ञं तामसं परिचक्षते।अथ तपसो गुणतः त्रैविध्यं वक्तुं तस्य शरीरवाङ्मनोभिः निष्पाद्यतया तत्स्वरूपभेदं तावद् आह --
अभिनवगुप्तव्याख्या
।।17.11 -- 17.13।।अफलेत्यादि परिचक्षते इत्यन्तम्। मनः समाधाय निश्चयेनानुसंधाय। दम्भार्थमपीति -- दंभः लोको ( N लोके ) मामेवं -- विधं जानीयादिति। विधिहीनमिति -- शास्त्रोक्तक्रियाविहीनम् तदेवासृष्टान्नादिभिर्विशेषणैर्वितन्यते।
मधुसूदनसरस्वतीव्याख्या
।।17.13।।विधिहीनमिति। यथाशास्त्रबोधितविपरीतमन्नदानहीनं स्वरतो वर्णतश्च मन्त्रहीनं यथोक्तदक्षिणाहीनमृत्विग्द्वेषादिना श्रद्धारहितं तामसं यज्ञं परिचक्षते शिष्टाः। विधिहीनत्वाद्येकैकविशेषणः पञ्चविधः सर्वविशेषणसमुच्चयेन चैकविध इति षट् द्वित्रिचतुर्विशेषणसमुच्चयेन च बहवो भेदास्तामसयज्ञस्य ज्ञेयाः। राजसे यज्ञेऽन्तःकरणशुद्ध्यभावेऽपि फलोत्पादकमपूर्वमस्ति यथाशास्त्रमनुष्ठानात्? तामसे त्वयथाशास्त्रानुष्ठानान्न किमप्यपूर्वमस्तीत्यतिशयः।
पुरुषोत्तमव्याख्या
।।17.13।।तामसमाह -- विधिहीनमिति। वेदोक्तविधिरहितम्? असृष्टान्नं पात्रान्नरहितं? मन्त्रैर्देवताह्वानादिरूपैर्हीनं शून्यम्? अदक्षिणं वैधदक्षिणारहितं? श्रद्धया आदरेण विरहितं शून्यं यज्ञं तामसं परिचक्षते कथयन्ति महान्त इति शेषः।
आनन्दगिरिव्याख्या
।।17.13।।तामसं यज्ञं हानार्थमेवोदाहरति -- विधीति।
धनपतिव्याख्या
।।17.13।।एवं फलाभिसंधिपूर्वकमनुष्ठीयमानत्वात् चित्तशुद्य्धजनकत्वेऽपि यथाशास्त्रमनुष्ठीयमानत्वात् स्वर्गादिफलोत्पादकं लोके धार्मिकत्वाख्यातिकरं च राजसयज्ञमुक्त्वा दृष्टादृष्टफलशून्यमयथाशास्त्रमनुष्ठीयमानं सर्वथा हेयं तामसं यज्ञमाह -- विधिहीनं यथाचोदितविपरीतं शास्त्रोक्तविधितो विपर्ययेणानुष्ठीयमानं? असृष्टान्नं ब्राह्मणेभ्यो न सृष्टं न निष्पादितमन्नं यस्मिस्तं? मन्त्रहीनं स्वरतो वर्णतश्च मन्त्रैर्वियुक्तं? मन्त्रैर्वियुक्तं? अदक्षिणं यथोक्तदक्षिणावर्जितं श्रद्धया भक्त्यास्तिक्यलक्षणया विरहितं यज्ञं तामसं परिचक्षते शिष्टाः कथयन्ति।
नीलकण्ठव्याख्या
।।17.13।।विधिहीनं शास्त्रोक्तविधिहीनम्। असृष्टं न दत्तमन्नं यस्मिन् तं असृष्टान्नम्।
श्रीधरस्वामिव्याख्या
।।17.13।।तामसं यज्ञमाह -- विधिहीनमिति। विधिहीनं शास्त्रोक्तविधिशून्यम्। असृष्टान्नं ब्राह्मणादिभ्यो न सृष्टं न निष्पादितमन्नं यस्मिंस्तम्। मन्त्रहीनं यथोक्तदक्षिणारहितं च श्रद्धाशून्यं यज्ञं तामसं परिचक्षते कथयन्ति शिष्टाः।
वेङ्कटनाथव्याख्या
।।17.13।।असृष्टान्नत्वमन्त्रहीनत्वाद्युक्त्यैव चोदितप्रकारविहीनत्वसिद्धेरत्रविधिहीनम् इत्ययथाशास्त्रत्वं न विवक्षितम् अन्यस्य चावश्यापेक्षितस्य हानिरिह सूचयितुमुचितेत्यभिप्रायेणाऽऽह -- ब्राह्मणोक्तिहीनमिति। शास्त्रोदित एवार्थः सद्भिरनुशिष्टोऽनुष्ठेय इतीममर्थं विवृणोति -- सदाचारेति। लोभातिशयाद्दक्षिणाया अप्यभावे अन्नदानाभावस्य कैमुत्यसिद्धत्वात्अदक्षिणम् इत्यनेनैवान्नादानादेरुपलक्षणात् असृष्टशब्दस्वारस्याद्दोषातिशयख्यापनोपयोगाच्च। असृष्टान्नशब्देन शूद्रप्रतिग्रहादिविवक्षामाहअचोदितद्रव्यमिति। यज्ञार्थं सृष्टमिह सृष्टशब्देन विवक्षितम् न्यायागतमित्यर्थः। तदन्यदसृष्टं? यथा -- न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत धर्मवित्। यजमानो हि भिक्षित्वा प्रेत्य चण्डालतां व्रजेत् इति।

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१७- १४॥

व्याख्याः

शाङ्करभाष्यम्
।।17.14।। --,देवाश्च द्विजाश्च गुरवश्च प्राज्ञाश्च देवद्विजगुरुप्राज्ञाः तेषां पूजनं देवद्विजगुरुप्राज्ञपूजनम्? शौचम्? आर्जवम् ऋजुत्वम्? ब्रह्मचर्यम् अहिंसा च शरीरनिर्वर्त्यं शारीरं शरीरप्रधानैः सर्वैरेव कार्यकरणैः कर्त्रादिभिः साध्यं शारीरं तपः उच्यते। पञ्चैते तस्य हेतवः (गीता 18।15) इति हि वक्ष्यति।।
रामानुजभाष्यम्
।।17.14।।देवद्विजगुरुप्राज्ञानां पूजनम्? शौचं तीर्थस्नानादिकम्? आर्जवं यथावाङ्मनःशारीरवृत्तम् ब्रह्मचर्यं योषित्सु भोग्यताबुद्धियुक्तेक्षणादिरहितत्वम्? अहिंसा अप्राणिपीडा? एतत् शारीरं तप उच्यते।
अभिनवगुप्तव्याख्या
।।17.14 -- 17.16।।देवेत्यादि मानसमुच्यते इत्यन्तम्। आर्जवम् -- ऋजुता। अगोप्यविषया धृष्टता सत्यमिति अस्यैव स्वरूपनिरूपणं प्रियहितम् इत्यनेन क्रियते। प्रियं च तत्काले हितं च कालान्तरे। ईदृशं च वाक्यं सत्यमित्युच्यते न तु यथावृत्तकथनमात्रम् ( N यथावद्वृत्त -- )। भावःआशयः? तस्य सम्यक् शुद्धिः भावसंशुद्धिः ( S??N omit भावसंशुद्धिः )।
मधुसूदनसरस्वतीव्याख्या
।।17.14।।क्रमप्राप्तस्य तपसः सात्त्विकादिभेदं कथयितुं शारीरवाचिकमानसभेदेन तस्य त्रैविध्यमाह त्रिभिः -- देवद्विजेत्यादिना। देवा ब्रह्मविष्णुशिवसूर्याग्निदुर्गादयः? द्विजा द्विजातयो ब्राह्मणाः? गुरवः पितृमात्राचार्यादयः? प्राज्ञाः पण्डिता विदितवेदतदुपकरणार्थास्तेषां पूजनं प्रणामशुश्रूषादि यथाशास्त्रं? शौचं मृज्जलाभ्यां शरीरशोधनं? आर्जवमकौटिल्यं भावशुद्धिशब्देन मानसे तपसि वक्ष्यति? शारीरं त्वार्जवं विहितप्रतिषिद्धयोरेकरूपप्रवृत्तिनिवृत्तिशालित्वं? ब्रह्मचर्यं निषिद्धमैथुननिवृत्तिः? अहिंसाऽशास्त्रप्राणिपीडनाभावः। चकारादस्तेयापरिग्रहावपि। शारीरं शरीरप्रधानैः कर्त्रादिभिः साध्यं नतु केवलेन शरीरेण। पञ्चैते तस्य हेतव इति हि वक्ष्यतीत्थं शारीरं तप उच्यते।
पुरुषोत्तमव्याख्या
।।17.14।।अथ यज्ञानन्तरं तपसः प्रतिज्ञातत्वात् तपसस्त्रैविध्यं वक्तुं? तस्य च शरीरवाङ्मनोभेदेन त्रिविधत्वात्तत्ित्रतयनिरूपणपूर्वकं त्रैविध्यकथनार्थं शारीरादिकत्रयमाह -- देवद्विजेति त्रयेण। देवाः ब्रह्माद्याः? द्विजाः वेदैकनिष्ठाः? गुरवः सरहस्यमन्त्रोपदेष्टारः? प्राज्ञाः पण्डिताः शास्त्रपरिनिष्ठितबुद्धयः? तेषां पूजनं यथाविधि। शौचं मृदादिना? आर्जवं ऋजुता? ब्रह्मचर्यं इन्द्रियनिग्रहः? अहिंसा परद्रोहराहित्यं? चकारेणेर्प्यादयः। एतत्सर्वं शारीरं शरीरसम्बन्धि तप उच्यते कथ्यते इत्यर्थः।
वल्लभाचार्यव्याख्या
।।17.14।।तपसः सात्त्विकादिभेदं दर्शयितुं प्रथमं तावच्छरीरादिभेदमाह त्रिभिः देवेति। देवेत्यारभ्य मानसमुच्यते इत्यन्तं सुगमम्।
आनन्दगिरिव्याख्या
।।17.14।।सात्त्विकादिभावं निरूपयितुं सर्वस्य तपसः स्वरूपं त्रिविधं निरूपयति -- अथेति। तत्र शारीरं तपो निर्दिशति -- देवेति। देवा ब्रह्मविष्णुशिवादयः? द्विजाः पूज्यपूज्यत्वाद्विजोत्तमाः? गुरवः पित्रादयः? प्राज्ञाः पण्डिता विदितवेदितव्यास्तेषां पूजनं प्रणामशुश्रूषादि शौचं मृज्जलाभ्यां शरीरशोधनम्? आर्जवमृजुत्वं विहितप्रतिषिद्धयोरेकरूपप्रवृत्तिनिवृत्तिमत्त्वं? ब्रह्मचर्यं मैथुनासमाचरणम्? अहिंसा प्राणिनामपीडनम्। शरीरमात्रनिर्वर्त्यत्वमस्य तपसः संभवतीति मत्वा विशिनष्टि -- शारीरेति। कथं कर्त्रादिसाध्यत्वे तपसः शारीरत्वं शारीरत्वे वा कथं कर्त्रादिसाध्यत्वमित्याशङ्क्याह -- पञ्चेति।
धनपतिव्याख्या
।।17.14।।एवं हानादानार्थ यज्ञत्रैविध्यं विभज्य तपसः सात्त्विकादिभावं निरुपयितुं सर्वस्य तस्य त्रिविधं स्वरुपं प्रथममाह त्रिभिः। देवाः ब्रह्मविष्णुशिवादयः? द्विजाः पूज्यत्वात् द्विजोत्तमाः? गुरवः पित्राचार्यादयः? प्राज्ञाः पण्डिताः विदितवेद्याः तेषां,प्रणामशुश्रूषादिना पूजनम्? शौचं मृज्जलाभ्यां शरीरशोधनं? आर्जवं ऋजुत्वं विहितनिषिद्धयोरेकरुपप्रवृत्तिनिवृत्तित्वम्? ब्रह्मचर्यं प्रतिषिद्धमैथुनासमाचरणम्? अहिंसा प्राणिनामपीडनम्। चकालोऽस्तेयादिसमुच्चयार्थः। शरीरनिर्वर्त्यं शारीरं शरीरप्रधानैः सर्वैरेव कर्त्रादिभिः साध्यं शारीरं तप उच्यते।अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पृथक्टेष्टा दैवं चैवात्र पञ्चमम्।।शरीरवाङ्गनोभिर्यत्कर्म प्रारभते नरः। न्याध्यं वा विपरीतं वा पञ्चैते तस्य हेतवः इति वक्ष्यमाणत्वात्।
नीलकण्ठव्याख्या
।।17.14।।देवाः विष्ण्वाद्याः? द्विजा ब्राह्मणाः? गुरवो मातृपित्राचार्यादयः? प्राज्ञाः ब्रह्मनिष्ठाः? तेषां पूजनम्। आर्जवमकौटिल्यम्।
श्रीधरस्वामिव्याख्या
।।17.14।।तपसः सात्त्विकादिभेदं दर्शयितुं प्रथमं तावच्छरीरादिभेदेन तस्य त्रैविध्यमाह -- देवद्विजेति त्रिभिः। प्राज्ञा गुरुव्यतिरिक्ता अन्येऽपि तत्त्वविदः। देवब्राह्मणादिपूजनं शौचादिकं शारीरं शरीरनिवर्त्यं तप उच्यते।
वेङ्कटनाथव्याख्या
।।17.14।।आहारादीनां सात्त्विकत्वादित्रैविध्ये प्रक्रान्ते तपसः करणभेदेन त्रैविध्योक्तिः किमर्था इत्यत्राऽऽह -- अथेति। देवद्विजगुरुप्राज्ञानां सन्निधौ तत्तदुचितः शास्त्रोदित आचार इह पूजनमित्युच्यते। यथा -- प्रशस्तमङ्गल्यदेवायतनचतुष्पथादिप्रदक्षिणमावर्तेत मनसा वा तत्समग्रम् इत्यादि। तथा -- प्रदक्षिणं व्रजेद्विप्रान् गामश्वत्थं हुताशनम् इति।आसनेभ्यः समुत्तस्थुर्मानयन्तः पुरोहितम्उर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आगते (आयति)। अभ्यु(प्रत्यु)त्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते [मनुः2।120] इत्यादिना। तथा -- न हायनैर्न पलितैर्न वित्तैर्न (वित्तेन न) च बन्धुभिः। ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् [मनुः2।154] इति। शुद्धिरूपस्य फलभूतस्य शौचस्य तपस्त्वेन विभजनायोगात्तद्धेतुमाहतीर्थस्नानादिकमिति। आर्जवस्य शारीरतपस्त्वेन व्यपदेशार्थं वाङ्मनःकायानामैकरूप्यं शरीरप्रधानतया व्यपदिशतियथा वाङ्मनश्शारीरवृत्तमिति।ब्रह्मचर्यं च योषित्सु भोग्यताबुद्धिवर्जनम् इत्याद्यनुसारेणाऽऽह -- योषित्स्विति। तादृशप्रेक्षणादिकमपिस्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् [द.स्मृ.7।31] इत्यादिना मैथुनत्वेन विभज्य स्मरन्तीति प्रागेव दर्शितम्। अत्रापीक्षणादिरहितत्व ग्रहणं ब्रह्मचर्यस्य शारीरतपस्त्वज्ञापनाय।

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७- १५॥

व्याख्याः

शाङ्करभाष्यम्
।।17.15।। --,अनुद्वेगकरं प्राणिनाम् अदुःखकरं वाक्यं सत्यं प्रियहितं च यत् प्रियहिते दृष्टादृष्टार्थे। अनुद्वेगकरत्वादिभिः धर्मैः वाक्यं विशेष्यते। विशेषणधर्मसमुच्चयार्थः चशब्दः। परप्रत्ययार्थं प्रयुक्तस्य वाक्यस्य सत्यप्रियहितानुद्वेगकरत्वानाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा हीनता स्याद्यदि? न तद्वाङ्मयं तपः। तथा सत्यवाक्यस्य इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनतायां न वाङ्मयतपस्त्वम्। तथा प्रियवाक्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य न वाङ्मयतपस्त्वम्। तथा हितवाक्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य न वाङ्मयतपस्त्वम्। किं पुनः तत् तपः यत् सत्यं वाक्यम् अनुद्वेगकरं प्रियं हितं च? तत् तपः वाङ्मयम् यथा शान्तो भव वत्स? स्वाध्यायं योगं च अनुतिष्ठ? तथा ते श्रेयो भविष्यति इति। स्वाध्यायाभ्यसनं चैव यथाविधि वाङ्मयं तपः उच्यते।।
रामानुजभाष्यम्
।।17.15।।परेषाम् अनुद्वेगकरं सत्यं प्रियहितं च यद् वाक्यं स्वाध्यायभ्यसनं च इति एतद् वाङ्मयं तप उच्यते।
अभिनवगुप्तव्याख्या
।।17.14 -- 17.16।।देवेत्यादि मानसमुच्यते इत्यन्तम्। आर्जवम् -- ऋजुता। अगोप्यविषया धृष्टता सत्यमिति अस्यैव स्वरूपनिरूपणं प्रियहितम् इत्यनेन क्रियते। प्रियं च तत्काले हितं च कालान्तरे। ईदृशं च वाक्यं सत्यमित्युच्यते न तु यथावृत्तकथनमात्रम् ( N यथावद्वृत्त -- )। भावःआशयः? तस्य सम्यक् शुद्धिः भावसंशुद्धिः ( S??N omit भावसंशुद्धिः )।
मधुसूदनसरस्वतीव्याख्या
।।17.15।।अनुद्वेगेति। अनुद्वेगकरं न कस्यचिद्दुःखकरं? सत्यं प्रमाणमूलमबाधितार्थं? प्रियं श्रोतुस्तत्कालश्रुतिसुखं? हितं परिणामे सुखकरं? चकारो विशेषणानां समुच्चयार्थः। अनुद्वेगकरत्वादिविशेषणचतुष्टयेन विशिष्टं नत्वेकेनापि विशेषणेन न्यूनं यद्वाक्यं यथा शान्तो भव वत्स स्वाध्यायं योगं चानुतिष्ठ तथा ते श्रेयो भविष्यतीत्यादि तद्वाङ्मयं वाचिकं तपः शारीरवत्स्वाध्यायाभ्यसनं च यथाविधिवेदाभ्यासश्च वाङ्मयं तप उच्यते। एवकारः प्राक् विशेषणसमुच्चयावधारणे व्याख्यातः।
पुरुषोत्तमव्याख्या
।।17.15।।वाचिकमाह -- अनुद्वेगेति। उद्वेगं भयं नोत्पादयति कस्यापि तादृशं वाक्यं? सत्यं लोभादिराहित्येन यथार्थभाषणरूपं? यत् प्रियं परलोकसाधकं? हितं लौकिकादिसाधकम्। चकारेण लौकिकस्यानावश्यकत्वेऽपि वक्तव्यता सूचिता। स्वाध्यायस्य वेदस्य अभ्यसनमभ्यासः। चकारेण स्मृतीनामपि। एवकारेण वेदाविरोधेन स्मृत्याद्यभ्यासः। एतत्सर्वं वाङ्मयं वाचः सम्बन्धि तप उच्यते।
आनन्दगिरिव्याख्या
।।17.15।।संप्रति वाङ्मयं तपो व्यपदिशति -- अनुद्वेगकरमिति। सत्यं यथादृष्टार्थवचनं? प्रियं श्रुतिसुखं? हितं परिणामपथ्यम्। प्रियहितयोर्विधान्तरेण विभागमाह -- प्रियेति। कथमत्र विशेषणविशेष्यत्वं तदाह -- अनुद्वेगेति। विशेषणानां धर्माणामनुद्वेगकरत्वादीनां विशेषणवाक्येन समुदितानां परस्परमपि समुच्चयद्योती चकार इत्याह -- विशेषणेति। किमिति वाक्यमेतैर्विशेष्यते किमिति वा तेषां मिथः समुच्चयस्तत्राह -- परेति। यद्यपि (विधायक) वाक्यमात्रस्याविशेषितस्य वाङ्मयतपस्त्वानुपपत्तिस्तथापि सत्यवाक्यस्य विशेषणान्तराभावेऽपि वाङ्मयतपस्त्वमित्याशङ्क्याह -- तथेति। तथापि परिणामपथ्यं वाक्यमात्रं तथा भविष्यति नेत्याह -- तथा हितेति। कीदृक् तर्हि तपोवाङ्मयमिति प्रश्नपूर्वकं विशदयति -- किं पुनरिति। विशिष्टे वाङ्मये तपसि दृष्टान्तमाह -- यथेति। प्राङ्मुखत्वं पवित्रपाणित्वमित्यादिविधानमनतिक्रम्य स्वाध्यायस्यावर्तनमपि वाङ्मये तपस्यन्तर्भवतीत्याह -- स्वाध्यायेति। वाक्प्राचुर्येण प्रस्तुतास्मिन्निति वाङ्मयं वाक्प्रधानमित्यर्थः।
धनपतिव्याख्या
।।17.15।।शारीरं तप उक्त्वा वाक्प्रधानैः कर्त्रादिभिः साध्यं तदाह -- अनुद्वेगकरमिति। कस्याप्युद्वेगकरं दुःखजनकं न भवतीति तत् सत्यं यथादृष्टार्थप्रतिपादकं प्रियं दृष्टार्थं उच्चारणकाले श्रोतुः श्रुतिसुखं? हितमदृष्टार्थं परिणामपथ्यं विशेषणधर्माणामनुद्वेगकरत्वादीनां विशेष्येण वाक्येन समुच्चितानां परस्परसमुच्चयद्योतनार्थश्चकारः। सत्यप्रियहितानुद्वेगकरत्वानामन्यतमेन द्वाभ्यां त्रिभिर्वा हीनतारहितं सत्यत्वादिविशेषणचतुष्टयेन विशिष्टं वाक्यं यथा -- शान्तो भव वत्स स्वाध्यायं योगं चानुतिष्ठ तथा ते श्रेयोभविष्यतीति। स्वाध्यायाभ्यसनं चैव प्राङ्युखत्वं पवित्रपाणित्वमित्यादिविधानमनतिक्रम्य स्वाध्यायस्यावर्तनं च वाङ्गयं वाक्प्राचुर्येण प्रस्तुतास्मिन्निति वाङ्ग्यं वाक्प्रधानमित्यर्थः।
नीलकण्ठव्याख्या
।।17.15।।प्रियं च तत् हितं च प्रियहितम्। श्रवणकाले परिणामे च सुखदमित्यर्थः।
श्रीधरस्वामिव्याख्या
।।17.15।।वाचिकं तप आह -- अनुद्वेगेति। उद्वेगं भयं न करोतीत्यनुद्वेगकरं वाक्यं? सत्यं च श्रोतुःप्रियं च हितं च परिणामे सुखकरम्? स्वाध्यायाभ्यसनं वेदाभ्यासश्च वाङ्मयं वाचा निर्वर्त्यं तपः।
वेङ्कटनाथव्याख्या
।।17.15।।अनुद्वेगकरमित्यादि -- पुरुषमर्मोद्धट्टनापरिवादादिराहित्यादनुद्वेगकरत्वम्। भयादेरहेतुभूतमित्यर्थः। सत्यं यथादृष्टार्थविषयभूतहितवाक्यमिति प्रागेव दर्शितम्। [10।416।2?7] प्रियत्वमत्र स्वागतधर्मानुमोदनादिरूपेण अप्राप्तविषयस्तुत्यादिरूपप्रियवचनस्य निषिद्धत्वात्तत्परिहाराय हितत्ववचनं पुरुषार्थपर्यवसायीत्यभिहितम्।स्वाध्यायाभ्यसनम् इति जपयज्ञोक्तिः।

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१७- १६॥

व्याख्याः

शाङ्करभाष्यम्
।।17.16।। --,मनःप्रसादः मनसः प्रशान्तिः? स्वच्छतापादनं मनसः प्रसादः? सौम्यत्वं यत् सौमनस्यम् आहुः -- मुखादिप्रसादादिकार्योन्नेया अन्तःकरणस्य वृत्तिः। मौनं वाङ्नियमोऽपि मनःसंयमपूर्वको भवति इति कार्येण कारणम् उच्यते मनःसंयमो मौनमिति। आत्मविनिग्रहः मनोनिरोधः सर्वतः सामान्यरूपः आत्मविनिग्रहः? वाग्विषयस्यैव मनसः संयमः मौनम् इति विशेषः। भावसंशुद्धिः परैः व्यवहारकाले अमायावित्वं भावसंशुद्धिः। इत्येतत् तपः मानसम् उच्यते।।यथोक्तं कायिकं वाचिकं मानसं च तपः तप्तं नरैः सत्त्वादिगुणभेदेन कथं त्रिविधं भवतीति? उच्यते --,
माध्वभाष्यम्
।।17.16।।सौम्यत्वमक्रौर्यम्।अक्रूरः सौम्य उच्यते इत्यभिधानम्। मौनं मननशीलत्वम्। बाल्यं च पाण्डित्यं निर्विद्याथ मुनिः [बृ.उ.3।5।1] इति हि श्रुतिः। एतेन हीदं सर्वं (अनन्तं) मतं यदनेन हीदं सर्वं मतं तस्मान्मुनिस्तस्मान्मुनिरित्याचक्षते इति भाल्लवेयश्रुतिः। कथं चान्यथा मानसं तपः स्यात्।
रामानुजभाष्यम्
।।17.16।।मनःप्रसादः -- मनसः क्रोधादिरहितत्वम्? सौम्यत्वं मनसः परेषाम् अभ्युदयप्रावण्यम्? मौनं मनसा वाक्प्रवृत्तिनियमनम्? आत्मविनिग्रहः -- मनोवृत्तेः ध्येयविषये अवस्थापनम्? भावसंशुद्धिः आत्मव्यतिरिक्तविषयचिन्तारहितत्वम्? एतत् मानसं तपः।
अभिनवगुप्तव्याख्या
।।17.14 -- 17.16।।देवेत्यादि मानसमुच्यते इत्यन्तम्। आर्जवम् -- ऋजुता। अगोप्यविषया धृष्टता सत्यमिति अस्यैव स्वरूपनिरूपणं प्रियहितम् इत्यनेन क्रियते। प्रियं च तत्काले हितं च कालान्तरे। ,ईदृशं च वाक्यं सत्यमित्युच्यते न तु यथावृत्तकथनमात्रम् ( N यथावद्वृत्त -- )। भावःआशयः? तस्य सम्यक् शुद्धिः भावसंशुद्धिः ( S??N omit भावसंशुद्धिः )।
जयतीर्थव्याख्या
।।17.16।।नन्वङ्गसौष्ठवं सौम्यत्वम्? तत्कथं मानसं तप उच्यते इत्यत आह -- सौम्यत्वमिति।मौनं वाङ्नियमनं इत्यन्यथाप्रतीतिनिरासार्थमाह -- मौनमिति। कुत एतत् इत्यत आह -- बाल्यमिति। युक्तिबलोपेतत्वं बाल्यम्। आगमज्ञत्वं पाण्डित्यम्। अथ मुनिर्मननशीलो भवतीत्यर्थः। एतेन हीदं इत्युक्तमर्थं यदनेन इति हेतुत्वेनोपादत्ते। यस्मादेवं मुनिस्तस्मात्तं मुनिरित्याचक्षते।मन ज्ञाने [धा.पा.4।70] इत्यत इकारप्रत्ययः उपधाया उकारश्च? मुनेर्भावश्च मौनम्? तच्च मननशीलत्वाख्यमागमार्थस्य युक्तिभिरनुसन्धानम्। उक्तार्थानङ्गीकारे बाधकमाह -- कथमिति। मौनमिति शेषः। वाङ्नियम एव न मौनं किन्त्वत्र तत्कारणमनोनियमो लक्ष्यत इति कश्चित् तदसत्? आत्मविनिग्रह इति पुनरुक्तिदोषात्। कथञ्चित् तत्परिहारेऽपि मुख्यार्थसम्भवे लक्षणाश्रयणस्यैव दोषत्वात्।
मधुसूदनसरस्वतीव्याख्या
।।17.16।।मनःप्रसाद इति। मनसः प्रसादः स्वच्छता विषयचिन्ताव्याकुलत्वराहित्यं? सौम्यत्वं सौमनस्यं सर्वलोकहितैषित्वं प्रतिषिद्धाचिन्तनं च? मौनं मुनिभाव एकाग्रतयात्मचिन्तनं निदिध्यासनाख्यं वाक्संयमहेतुर्मनःसंयमो मौनमिति भाष्यम्? आत्मविनिग्रह आत्मनो मनसो विशेषेण सर्ववृत्तिनिग्रहो निरोधः? समाधिरसंप्रज्ञातः? भावस्य हृदयस्य शुद्धिः कामक्रोधलोभादिमलनिवृत्तिः पुनरशुद्ध्युत्पादराहित्येन सम्यक्त्वेन विशिष्टा सा भावशुद्धिः परैः सह व्यवहारकाले मायाराहित्यं सेति भाष्यं इत्येतदेवंप्रकारं तपो मानसमुच्यते।
पुरुषोत्तमव्याख्या
।।17.16।।मानसमाह -- मनःप्रसाद इति। मनःप्रसादः मनस्स्वच्छता सत्परिचिन्तनं? सौम्यत्वमक्रूरता? मौनं मननम्? आत्मविनिग्रहः आत्मनो विषयेभ्य आकर्षणं? भावसंशुद्धिः स्नेहादिविषयेषु कापट्याभावः। इति अमुना प्रकारेणैतत्सर्वं मानसं मनस्सम्बन्धि तप उच्यते।
वल्लभाचार्यव्याख्या
।।17.16।।Sri Vallabhacharya did not on this sloka.
आनन्दगिरिव्याख्या
।।17.16।।मानसं तपः संक्षिपति -- मन इति। प्रशान्तिफलमेव व्यनक्ति -- स्वच्छतेति। मनसः स्वाच्छ्यमनाकुलता। नैश्चिन्त्यमित्यर्थः। सौमनस्यं सर्वेभ्यो हितैषित्वमहिताचिन्तनं च। तत् कथं गम्यते तत्राह, -- मुखादीति। तस्य स्वरूपमाह -- अन्तःकरणस्येति। ननु मौनं वाङ्नियमनं वाङ्मये तपस्यन्तर्भवति तत्कथं मानसे तपसि व्यपदिश्यते तत्र वाचः संयमस्य कार्यत्वान्मनःसंयमस्य कारणत्वात् कार्येण कारणग्रहणान्मानसे तपसि मौनमुक्तमित्याह -- वागिति। यद्वा मौनं मुनिभावो मननमात्मनो मनसो विनिग्रहो निरोधः। नन्वेनं मौनस्य मनोनिग्रहस्य च मनःसंयमत्वेनैकत्वात्पौनरुक्त्यं नेत्याह -- सर्वत इति। भावस्य हृदयस्य संशुद्धी रागादिमलविकलतेति व्याचष्टे -- परैरिति। मानसं मनसा प्रधानेन निर्वर्त्यमित्यर्थः।
धनपतिव्याख्या
।।17.16।।एवं वाक्प्रधानं तप उक्त्वा मनःप्रधानं तदाह -- मनःप्रसादो मनसः शान्तिः स्वच्छतापदनं चिन्ताव्याकुलत्वादिहीनतासंपादनमितियावत्? सौम्यत्वं? सुखादिप्रसादकार्यगम्यं सौमनस्यं? मौनं वाक्यसंयमस्य मनसः संयमपूर्वकत्वात्। वाग्विषयो मनसः संयमो मौनं? सर्वतः समान्यरुपो मनोनिरोध आत्मविनिग्रह इति विशेषः। ननु मुनेर्भावो मौनमेकाग्रतया आत्मचिन्तनं निदिध्यासनाख्यमिति मौनशब्दार्थ आचार्यैः कुतो न दर्शित इतिचेत्त्वदुक्तमुनि भावस्य राजसत्वाद्यभावेन राजसतामसतपोभ्यामस्याग्रहणापत्तेरिति गृहाण। भावसंशुद्धिः परैर्व्यवहारकालेऽमायावित्त्वम्। यत्तु भावस्य हृदयस्य शुद्धिः कामक्रोधलोभादिमलनिवृत्तिः पुनरशुद्य्धुत्पादराहित्येन सम्यक्त्वेन विशिष्टा सा भावसंशुद्धिरित तन्नोपादेयमाचार्यैरनुक्तत्वात्। राजसे तामसे च तपस्येतादृशभावसंशुद्धेरसंभवाच्च इत्येतत्तपो मानसं मनसा प्रधानेन निर्वर्त्यमुच्यते।
नीलकण्ठव्याख्या
।।17.16।।मनःप्रसादः रागद्वेषादिराहित्यम्। सौम्यत्वं परहितैषित्वम्। मौनं वाक्संयमः। आत्मविनिग्रहो मनोनिरोधः। भावशुद्धिः परैर्व्यवहारकाले मायाराहित्यम्? इति एवंप्रकारं अन्यद्दयादिकं एतन्मानसं तप उच्यते।
श्रीधरस्वामिव्याख्या
।।17.16।।मानसं तप आह -- मनःप्रसाद इति। मनसः प्रसादः स्वस्थता? सौम्यत्वमक्रूरता? मौनं मुनेर्भावः। मननमित्यर्थः। आत्मनो मनसो विनिग्रहः विषयेभ्यः? प्रत्याहारः? भावसंशुद्धिर्व्यवहारे मायाराहित्यमित्येतन्मानसं तपः।
वेङ्कटनाथव्याख्या
।।17.16।।मनःप्रसादसौम्यत्वशब्दाभ्यां परेष्वहिताभिप्रायरूपकालुष्यनिवृत्तिः? हिताभिप्राययोगश्च विवक्षित इत्याहमनसः क्रोधादिरहितत्वमित्यादिना।वसति हृदि सनातने च तस्मिन् भवति पुमाञ्जगतोऽस्य सौम्यरूपः [वि.पु.3।7।24] इत्यादिनोक्तमाकारसौम्यत्वमपि मनस्सौम्यत्वफलमेव। अत एव हि तेन मनसः सौम्यत्वमुन्नीयते। इह च मानसतपोविभजनान्मनस इति बुद्ध्या निष्कृष्यानुषञ्जितम्। मौनस्यापि मानसतपस्त्वाय मनोव्यापारप्राधान्यमाहमनसा वाक्प्रवृत्तिनियमनमिति।आत्मविनिग्रहः इति अप्राप्तविषयविनिवारणं हि प्राप्तविषयैकाग्र्यार्थमित्यभिप्रायेणाऽऽहध्येयविषयेऽवस्थापनमिति।भावसंशुद्धिः इत्यस्य मनःप्रसादादिभिः पुनरुक्तिपरिहारायाऽऽहआत्मव्यतिरिक्तविषयचिन्तारहितत्वमिति। भावशब्दोऽत्राभिप्रायार्थः। तस्य संशुद्धिः समस्तेतरवर्जनम्। एतेन परदारादिषु मनसो रहस्यपि प्रवृत्तिर्दूरतो निरस्ता। अत्र तपसः शारीरत्वादिविभागः? तत्र शरीरादिप्राधान्यात् अन्यथापञ्चैते तस्य हेतवः [18।15] इत्यनेन विरोधात्।

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७- १७॥

व्याख्याः

शाङ्करभाष्यम्
।।17.17।। --,श्रद्धया आस्तिक्यबुद्ध्या परया प्रकृष्टया तप्तम् अनुष्ठितं तपः तत् प्रकृतं त्रिविधं त्रिप्रकारं त्र्यधिष्ठानं नरैः अनुष्ठातृभिः अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः युक्तैः समाहितैः यत् ईदृशं तपः? तत् सात्त्विकं सत्त्वनिर्वृत्तं परिचक्षते कथयन्ति शिष्टाः।।
रामानुजभाष्यम्
।।17.17।।अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः। युक्तैः परमपुरुषाराधनरूपम् इदम् इति चिन्तायुक्तैः नरैः परया श्रद्धया यत् त्रिविधं तपः कायवाङ्मनोभिः तप्तं तत् सात्त्विकं परिचक्षते।
अभिनवगुप्तव्याख्या
।।17.17 -- 17.19।।श्रद्धयेत्यादि तामसमुदाहृतम् इत्यन्तम्। त्रिविधेऽपि तपसि श्रद्धा। सात्त्विकस्य हि तन्मयी एव श्रद्धा। राजसस्य तु रजसि दम्भादावेव श्रद्धा। तमोनिष्ठस्य पुनः परोत्सादनादावेव श्रद्धा। इति त्रिविधमपि तपः श्रद्धयोपेतमिति मुनिराह।
मधुसूदनसरस्वतीव्याख्या
।।17.17।।शारीरवाचिकमानसभेदेन त्रिविधस्योक्तस्य तपसः सात्त्विकादिभेदेन त्रैविध्यमिदानीं दर्शयति त्रिभिः -- श्रद्धयेत्यादिभिः। तत्पूर्वोक्तं त्रिविधं शारीरं वाचिकं मानसं च तपः श्रद्धयास्तिक्यबुद्ध्या परया प्रकृष्टया अप्रामाण्यशङ्काकलङ्कशून्यया फलाभिसन्धिशून्यैर्युक्तै समाहितैः सिद्ध्यसिद्ध्योर्निर्विकारैर्नरैरधिकारिभिस्तप्तमनुष्ठितं सात्त्विकं परिचक्षते शिष्टाः।
पुरुषोत्तमव्याख्या
।।17.17।।एवं शारीरादित्रैविध्यं तपस उक्त्वा सात्त्विकादिभेदत्रैविध्यमाह -- श्रद्धयेति। तत्तपः त्रिविधं शारीरादिकं? परया श्रद्धया अनन्यादरेण? अफलाकाङ्क्षिभिः फलापेक्षारहितैः युक्तैः शास्त्राज्ञाकारिभिः तप्तं सात्त्विकं परिचक्षते कथयन्ति।
वल्लभाचार्यव्याख्या
।।17.17।।त्रिविधस्य तस्य तपसः सात्विकादिभेदेन त्रैविध्यमाह -- श्रद्धयेति त्रिभिः।
आनन्दगिरिव्याख्या
।।17.17।।त्रिविधस्य तपसो यथासंभवं सात्त्विकादिभावेन तन्त्रैविध्यमाकाङ्क्षाद्वारा निक्षिपति -- यथोक्तमिति। अधिष्ठानं देहवाङ्मनोनिर्वर्त्यमित्यर्थः। समाहितैः सिद्ध्यसिद्ध्योर्निर्विकारैरिति यावत्।
धनपतिव्याख्या
।।17.17।।यथोक्तं कायिकादिभेदेन त्रिविधं तपस्तप्तं सात्त्विकादिभेदेन कथं त्रिविधं भवतीत्याकाङ्क्षायां तत्रैविध्यं प्रदर्शयन्नादौ सात्त्विकं तदाह -- श्रद्धयेति। तत्पूर्वोक्तं कायिकवाचिकमानसभेदेन त्रिविधं श्रद्धया आस्तिक्यबुद्य्धा परयोत्कृष्टया भक्तियुक्तया अफलाकाङ्क्षिभिः फलाकाङ्क्षावर्जितैर्युक्तैः समाहितैः सिद्य्धसिद्य्धोर्निकारैर्नरैरनुष्ठातृभिः तप्तमनुष्ठितं सात्त्विकं परिचक्षते शिष्टाः कथयन्ति।
नीलकण्ठव्याख्या
।।17.17।।त्रिविधं कायिकवाचिकमानसभेदेन। युक्तैरवहितैः।
श्रीधरस्वामिव्याख्या
।।17.17।।तदेवं शरीरवाङ्मनोभिर्निर्वर्त्यं त्रिविधं तपो दर्शितम्। त्रिविधस्यापि तपसः सात्त्विकादिभेदेन त्रैविध्यमाह -- श्रद्धयेति त्रिभिः। त्रिविधमपि तपः श्रेष्ठया श्रद्धया फलाकाङ्क्षाशून्यैर्युक्तैरेकाग्रचित्तैर्नरैस्तप्तं तत्सात्त्विकं कथयन्ति।
वेङ्कटनाथव्याख्या
।।17.17।।एवं शारीरवाचिकमानसरूपेण त्रिविधस्यापि तपसः सत्त्वादिगुणभेदेन त्रैविध्यमुच्यतेश्रद्धया इत्यादिना। फलाकाङ्क्षानिषेधेन सह पठितो युक्तशब्दस्तदुपयुक्तभगवत्प्रीतिविलक्षणफलान्तरध्यानपर इत्यभिप्रायेणाऽऽहपरमपुरुषाराधनेति। पुनरुक्तिशङ्कापरिहाराय सत्कारमानपूजाशब्दानां क्रमान्मनोवाक्कायनिष्पाद्यसम्भावनापरत्वोक्तिः।

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१७- १८॥

व्याख्याः

शाङ्करभाष्यम्
।।17.18।। --,सत्कारः साधुकारः साधुः अयं तपस्वी ब्राह्मणः इत्येवमर्थम्? मानो माननं प्रत्युत्थानाभिवादनादिः तदर्थम्? पूजा पादप्रक्षालनार्चनाशयितृत्वादिः तदर्थं च तपः सत्कारमानपूजार्थम्? दम्भेन चैव यत् क्रियते तपः तत् इह प्रोक्तं कथितं राजसं चलं कादाचित्कफलत्वेन अध्रुवम्।।
रामानुजभाष्यम्
।।17.18।।मनसा आदरः सत्कारः? वाचा प्रशंसा मानम्? शारीरो नमस्कारादिः पूजा। फलाभिसन्धिपूर्वकं सत्काराद्यर्थं च दम्भेन हेतुना यत् तपः क्रियते तद् इह राजसं प्रोक्तम् स्वर्गादिफलसाधनत्वेनास्थिरत्वात् चलम् अध्रुवम् चलत्वं पातभयेन चलनहेतुत्वम् अध्रुवत्वं क्षयिष्णुत्वम्।
अभिनवगुप्तव्याख्या
।।17.17 -- 17.19।।श्रद्धयेत्यादि तामसमुदाहृतम् इत्यन्तम्। त्रिविधेऽपि तपसि श्रद्धा। सात्त्विकस्य हि तन्मयी एव श्रद्धा। राजसस्य तु रजसि दम्भादावेव श्रद्धा। तमोनिष्ठस्य पुनः परोत्सादनादावेव श्रद्धा। इति त्रिविधमपि तपः श्रद्धयोपेतमिति मुनिराह।
मधुसूदनसरस्वतीव्याख्या
।।17.18।।सत्कारेति। सत्कारः साधुरयं तपस्वी ब्राह्मण इत्येवमविवेकिभिः क्रियमाणा स्तुतिः मानः प्रत्युत्थानाभिवादनादिः? पूजा पादप्रक्षालनार्चनदानादिस्तदर्थं दम्भेनैव च केवलं धर्मध्वजित्वेनैव च न त्वास्तिक्यबुद्ध्या यत्तपः क्रिये तद्राजसं प्रोक्तं शिष्टैः इहास्मिन्नेव लोके फलदं न पारलौकिकं चलमत्यल्पकालस्थायि फलमध्रुवं फलजनकतानियमशून्यम्।
पुरुषोत्तमव्याख्या
।।17.18।।राजसमाह -- सत्कारेति। तत् त्रिविधं तपः इह लोकेषु सत्कारः साधुत्वादिशब्दः? मानः उत्तमत्वेन सभादिषूच्चोपवेशनादिरूपः पूजालाभः। एतदर्थं दम्भेनैव च परप्रतारणरूपेण यत्क्रियते तु चलं पूर्वोक्ताभावे अध्रुवं परलोकादिसाधनरहितं तत्तपः राजसं प्रोक्तं शास्त्रेषु कथितमित्यर्थः।
आनन्दगिरिव्याख्या
।।17.18।।राजसं तपो निर्दिशति -- सत्कारेति। साधुकारमेवास्फोरयति -- साधुरिति। दम्भेन चैव नास्तिक्येन केवलधर्मध्वजित्वेनेत्यर्थः। तदिह प्रोक्तमस्मिन्नेव लोके फलप्रदमित्यर्थः। कादाचित्कफलवत्वमध्रुवमनियतमनैकान्तिकफलमिति यावत्।
धनपतिव्याख्या
।।17.18।।सात्त्विकं तप उदाहृत्य राजसं तदुदाहरति। सत्कारः साधुरयं तपस्वीत्येवं स्तुतिरुपः साधुकारः। मानो माननं प्रत्युत्थानाभिवादनादि। पूजा पादप्रक्षालनार्चनान्नधनाद्यनाद्यर्पणादि तदर्थं। दम्भेन चैव नास्तिक्येन केवलधर्मध्वजित्वेन यत्तपः क्रियते तदिहास्मिन्नेव लोके सत्कारादिफलप्रदं राजसं प्रोक्तं कथितम्। चलं क्षणिकफलमध्रुवमनियतफलं? यद्वा चलं कादाचित्कफलं दाम्भिकोऽयमित्यापरिज्ञानकाले कस्मिंश्चित्सत्कारादिफलप्रदं नतु सर्वदेतियवात्। अतएवाध्रुवं सत्कारादिप्राप्तिपर्यन्तं स्थायि नतु सदैवेत्यर्थः।
नीलकण्ठव्याख्या
।।17.18।।सत्कारः लोके साधुरयमिति वाक्पूजा। मानोऽभ्युत्थानाभिवादनादिकायिकी पूजा। पूजा लाभादि। एतदर्थं दम्भेन च यत्तपः क्रियते तद्राजसन्। चलं विनाशि। अध्रुवमनिश्चितफलम्।
श्रीधरस्वामिव्याख्या
।।17.18।।राजसं तप आह -- सत्कार इति। सत्कारः साधुकारः साधुरयमिति तापस इत्यादि वाक्पूजा? मानः प्रत्युत्थानाभिवादनादिः दैहिकीपूजाऽर्थलाभादिः? एतदर्थं दम्भेन च यत्तपः क्रियते अतएव चलं अनियतं अध्रुवं च क्षणिकं। यदेवंभूतं तपस्तदिह राजसं प्रोक्तम्।
वेङ्कटनाथव्याख्या
।।17.18।।अफलाकाङ्क्षिभिः [17।17] इति सात्त्विकस्य तपसो विशेषणादिह फलाकाङ्क्षा अर्थसिद्धेत्यभिप्रायेणाऽऽह -- फलाभिसन्धिपूर्वकमिति।स्वर्गादिफलसाधनत्वेनास्थिरत्वादिति अस्थिरस्वर्गादिफलसाधनत्वादित्यर्थः। स्वरूपतः कादाचित्कोक्तेरनुपयोगात्फलद्वाराऽत्र चलत्वमध्रुवत्वं च। तत्राध्रुवशब्देन फलानित्यत्वोक्तेश्चलशब्दः फलस्य विद्यमानदशाभाविदोषपरः। विद्यते च तत्र चलयतीति व्युत्पत्त्या चलशब्दशक्तिरित्यभिप्रायेणाऽऽहपातभयेन चलनहेतुत्वमिति। अत्र चलशब्देन अनित्यफलत्वम्? अध्रुवशब्देन प्रतिबन्धसम्भवादनैकान्तिकफलत्वं चोच्यत इत्ययुक्तम्? अन्यत्राऽपि प्रतिबन्धसम्भवस्याविशेषादिति भावः।

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१७- १९॥

व्याख्याः

शाङ्करभाष्यम्
।।17.19।। --,मूढग्राहेण अविवेकनिश्चयेन आत्मनः पीडया यत् क्रियते तपः परस्य उत्सादनार्थं विनाशार्थं वा? तत् तामसं तपः उदाहृतम्।।इदानीं दानत्रैविध्यम् उच्यते --,
रामानुजभाष्यम्
।।17.19।।मूढाः -- अविवेकिनः मूढग्राहेण मूढैः कृतेन अभिनिविशेन आत्मनः शक्त्यादिकम् अपरीक्ष्य आत्मपीडया यत् तपः क्रियते परस्य उत्सादनार्थं च यत् तपः क्रियते? तत् तामसम् उदाहृतम्।
अभिनवगुप्तव्याख्या
।।17.17 -- 17.19।।श्रद्धयेत्यादि तामसमुदाहृतम् इत्यन्तम्। त्रिविधेऽपि तपसि श्रद्धा। सात्त्विकस्य हि तन्मयी एव श्रद्धा। राजसस्य तु रजसि दम्भादावेव श्रद्धा। तमोनिष्ठस्य पुनः परोत्सादनादावेव श्रद्धा। इति त्रिविधमपि तपः श्रद्धयोपेतमिति मुनिराह।
मधुसूदनसरस्वतीव्याख्या
।।17.19।।मूढेति। मूढग्राहेणावेवेकातिशयकृतेन दुराग्रहेणात्मनो देहेन्द्रियसंघातस्य पीडया यत्तपः क्रियते परस्योत्सादनार्थं वान्यस्य विनाशार्थमभिचाररूपं वा तत्तामसमुदाहृतं शिष्टैः।
पुरुषोत्तमव्याख्या
।।17.19।।तामसमाह -- मूढेति। मूढग्राहेण मूर्खताजनितदुराग्रहेण आत्मना जीवस्य पीडया यत्तपः क्रियते? वा परस्योत्सादनार्थं अन्यस्य विनाशार्थं तत्तामसमुदाहृतं? सम्यक् न युक्तमित्यर्थः।
आनन्दगिरिव्याख्या
।।17.19।।तामसं तपः संगृह्णाति -- मूढेति। मूढोऽत्यन्ताविवेकी तस्य ग्राहो नामाग्रहोऽभिनिवेशस्तेनेत्याह -- अविवेकेति। आत्मनः स्वस्य देहादेरित्यर्थः।
धनपतिव्याख्या
।।17.19।।एवं राजसं तप उक्त्वा तामसं तदाह। मूढग्राहेण अविवेकनिश्चयेन यद्येते तपश्चरन्ति तर्ह्यहमप्येतत्तपसोऽधिकं करिष्यामीत्येवमादिरुपेणात्मनः पीडया परस्योत्सादनार्थं वा एतादृशोऽयं कायिकवाचिकमानसतपोयुक्तोऽतोऽस्याज्ञापालनेनास्मदीयं कार्यं सर्वं सेत्स्यतीति बुद्धिं राजादीनामुत्पाद्य परस्य शत्रोर्नाशार्थं वा यत्तपः क्रियते तत्तामसमुदाहृतं शिष्टैः।
नीलकण्ठव्याख्या
।।17.19।।मूढग्राहेणाविवेककृतेन दुराग्रहेण। आत्मनः शरीरस्य उत्सादनार्थं विनाशार्थम्।
श्रीधरस्वामिव्याख्या
।।17.19।।तामसं तप आह -- मूढेति। मूढग्राहेणाविवेककृतेन दुराग्रहेणात्मनः पीडया यत्तपः क्रियते परस्योत्सादनार्थं वाऽन्यस्य विनाशार्थमभिचाररूपं तत्तामसमुदाहृतं कथितम्।
वेङ्कटनाथव्याख्या
।।17.19।।अहितप्रवृत्तिहेतुभूतमूढत्वमहितेष्वेव हितत्वभ्रम इत्यभिप्रायेणाऽऽह -- अविवेकिन इति। मूढानामभिनिवेशेनेति समासार्थः। तत्र कर्तरि षष्ठीति सुव्यक्त्यर्थमाहमूढैः कृतेनाभिनिवेशेनेति। सामान्येनोक्तमनुष्ठातरि विशिष्याऽऽहआत्मनः शक्त्यादिकमपरीक्ष्येति। आदिशब्देन शास्त्रपर्युदस्तत्वम्?अशक्यानि दुरन्तानि समव्ययफलानि च। असाध्यानि च वस्तूनि नारभेत विचक्षणाः। इत्याद्युक्तविषयदोषाश्च संगृहीताः। अयथाबलारम्भादिरिहात्मपीडा? तेनाल्पपीडाकरयथाबलवतादिव्यवच्छेदः। यथोक्तंसन्निरीक्ष्य बलाबलम् इति। स्मरन्ति चदेशं कालं तथाऽऽत्मानं द्रव्याद्रव्यं प्रयोजनम्। उपपत्तिमवस्थां च ज्ञात्वा शौचं समाचरेत् इत्यादि।

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७- २०॥

व्याख्याः

शाङ्करभाष्यम्
।।17.20।। --,दातव्यमिति एवं मनः कृत्वा यत् दानं दीयते अनुपकारिणे प्रत्युपकारासमर्थाय? समर्थायापि निरपेक्षं दीयते? देशे पुण्ये कुरुक्षेत्रादौ? काले संक्रान्त्यादौ? पात्रे च षडङ्गविद्वेदपारग इत्यादौ? तत् दानं सात्त्विकं स्मृतम्।।
रामानुजभाष्यम्
।।17.20।।फलाभिसन्धिरहितं दातव्यम् इति देशे काले पात्रे च अनुपकारिणे यद् दानं दीयते तद् दानं सात्त्विकं स्मृतम्।
अभिनवगुप्तव्याख्या
।।17.20 -- 17.22।।दातव्यमित्यादि उदाहृतमित्यन्तम्। दातव्यमिति -- दद्यादिति नियोगमात्रं पालनीयमिति दोषाभिसंधानाय ( S येषामभिसन्धाय? दोषासन्धाय )। परिक्लिष्टं मितादिदोषात्। दानस्य चासत्करणं तत्संप्रदानाद्यसत्करणात्। एवं लौकिकानां सात्त्विकादित्रिप्रकाराशयानुसारेण क्रिया व्याख्याता।
मधुसूदनसरस्वतीव्याख्या
।।17.20।।इदानीं क्रमप्राप्तस्य दानस्य त्रैविध्यं दर्शयति त्रिभिः -- दातव्यमित्यादिभिः। दातव्यमेव,शास्त्रचोदनावशादित्येवं निश्चयेन नतु फलाभिसन्धिना यद्दानं तुलापुरुषादि दीयते अनुपकारिणे,प्रत्युपकाराजनकाय? देशे पुण्ये कुरुक्षेत्रादौ? काले च पुण्ये सूर्योपरागादौ? पात्रे चेति चतुर्थ्यर्थे सप्तमी। कीदृशायानुपकारिणे दीयते पात्राय च विद्यातपोयुक्ताय? पात्रे रक्षकायेति वा। विद्यातपोभ्यामात्मनो दातुश्च पालनक्षम एव प्रतिगृह्णीयादिति शास्त्रादिति। तदेवंभूतं दानं सात्त्विकं स्मृतम्।
पुरुषोत्तमव्याख्या
।।17.20।।अथ पूर्वप्रतिज्ञातदानत्रैविध्यमाह -- दातव्यमिति।धनं मूलमनर्थानां इत्यादिवाक्यैः सञ्चितानर्थकारित्वज्ञानपूर्वकदत्तेष्टभक्त्यादिसाधकत्वज्ञानेन दातव्यमिति ज्ञात्वा अनुपकारिणे प्रत्युपकारासमर्थाय दीनायसीदत्कुटुम्बेभ्यः इत्याद्युक्तधर्मविशिष्टाय यद्दानं दीयते? देशे कुरुक्षेत्रादौ ग्रहणादौ चकारेण अकाले विवाहाद्युपस्थितौ याचमानाय पात्रे वेदविशारदाय चकारेण अपात्रे बुभुक्षिताय यत्तद्दानं सात्त्विकं स्मृतं प्रसिद्धमित्यर्थः।
वल्लभाचार्यव्याख्या
।।17.20।।पूर्वप्रतिज्ञातं दानस्य त्रैविध्यमाह त्रिभिः -- दातव्यमिति। सुबोधार्थः।
आनन्दगिरिव्याख्या
।।17.20।।क्रमप्राप्तं दानस्य गुणनिमित्तभेदमाह -- इदानीमिति। दातव्यमित्येवं मनः कृत्वा दानमेव मया भाव्यं न फलमित्यभिसंधायेत्यर्थः।
धनपतिव्याख्या
।।17.20।।एवं तपस्त्रैविध्यं विभज्य क्रमप्राप्तं दानत्रैविध्यं विभजन्नादौ सात्त्विकं दानमुदाहरति। दातव्यमित्येवं मनः कृत्वा यद्दानं देयवस्तु दीयतेऽनुपकारिणे प्रत्युपकारासमर्थायापि निरपेक्षं दीयते पुण्य देशे कुरुक्षेत्रादौ काले संक्रान्यत्यादौ पात्रे च यद्दानं समर्पणं षडङ्गविद्वेदपारगे इत्यादौ तद्दानं सात्त्विकं स्मृतम्। तथाच प्रथमदानशब्दः कर्मव्यत्पत्त्या देयवस्तुपरः। चकारनुकृष्टस्तु भावव्युत्पत्त्या समर्पणपरः। तेन यो देयद्रव्यवाची द्वितीयान्तस्तत्संयोगात्संप्रदाने चतुर्थ्यपेक्षा। द्वितीयस्तु त्यागवाची प्रथमान्तः। तेन तत्र पात्रभूते पुंसि न चतुर्थ्यर्थे सप्तमी। कीदृशायानुपकारिणे दीयते पात्राय च विद्यातपोयुक्ताय च पात्रे कर्मविभक्त्यभावेनाप्रवृत्तेः एतेन पात्रे चेति चतुर्थ्यर्थे सप्तमी। कीदृशायानुपकारिणे दीयते पात्राय च विद्यातपोयुक्ताय च पात्रे रक्षकायेति वा विद्यातपोभ्यामात्मनो दातुश्च पालनक्षमएव प्रतिगृह्णीयादिति शास्त्रादिति कल्पनं व्यर्थमेवेति बोध्यम्।
नीलकण्ठव्याख्या
।।17.20।।दातव्यमेवेति बुद्ध्या यद्दानं प्रदेयद्रव्यं दीयते न तु फलमुद्दिश्य दीयते। कस्मै अनुपकारिणे प्रत्युपकारासमर्थाय। देशे कुरुक्षेत्रादौ काले संक्रान्त्यादौ यद्दीयते तत्सात्त्विकमिति संबन्धः। यच्च पात्रे दानं समर्पणं तदपि सात्त्विकमिति योजना। अत्र आद्यो दानशब्दः कर्मणि व्युत्पन्नः प्रदेयद्रव्यवाची कर्मभूतः। तत्संयोगात्संप्रदाने चतुर्थ्यपेक्षा। द्वितीयस्तु भावव्युत्पन्नस्त्यागमात्रवाची। तेन तत्र पात्रभूते पुंसि न चतुर्थ्यपेक्षाकर्मणा यमभिप्रैति स संप्रदानम् इति हि पारिभाषिक्याः संप्रदानसंज्ञाया अत्र कर्मविभक्त्यभावेनाप्रवृत्तेः तेन पात्रे इति चतुर्थ्यर्थे सप्तमीति वा? पातृशब्दस्य चतुर्थीयमिति वा कल्पनं व्यर्थमेव। दानशब्दस्यावृत्त्या च देशकालानुपकारित्वविशिष्टे दानमित्येका कोटिः। पात्रे दानमित्यपरा। उभयसमुच्चये तु महान्गुण इति भावः।
श्रीधरस्वामिव्याख्या
।।17.20।।पूर्वं प्रतिज्ञातमेव दानस्य त्रैविध्यमाह -- दातव्यमिति। दातव्यमित्येवं निश्चयेन यद्दानं दीयते? अनुपकारिणे,प्रत्युपकारासमर्थाय। देशे कुरुक्षेत्रादौ? काले ग्रहणादौ? पात्रे चेति देशकालादिसाहचर्यात्सप्तमी प्रयुक्ता। पात्रभूताय तपःश्रुतादिसंपन्नाय ब्राह्मणायेत्यर्थः। यद्वा पात्र इति चतुर्थ्येवैषा। पात्रे इति तृजन्तं। रक्षकायेत्यर्थः। स हि सर्वस्मादापद्गणाद्दातारं पातीति। यदेवंभूतं दानं तत्सात्त्विकम्।
वेङ्कटनाथव्याख्या
।।17.20।।राजसे दानेफलमुद्दिश्य इति विशेषणादत्र स्वर्गादिफलसङ्गनिवृत्तिरुक्ता।अनुपकारिणे इत्येतत् दृष्टफलाभिसन्धिरहिताभिप्रायम्।दातव्यम् इत्येतत्सात्त्विकतपःप्रभृतिष्विवाभिसन्ध्यन्तरव्युदासार्थमित्याह -- फलाभिसन्धिरहितमिति। यद्यप्यत्र पात्रमेवार्थतोऽनुपकारित्वेन विशेष्यते? तथापि सम्प्रदानत्वद्रव्यप्रतिष्ठाधिकरणत्वयोर्विवक्षया चतुर्थीसप्तम्योः सह प्रयोगः। पात्रे सिद्धेऽनुपकारिणे तस्मा इति वाऽन्वयः। पात्रे दीयते? तच्चानुपकारिणे दीयत इति वा वाक्यभेदो ग्राह्यः। देशकालशब्दावत्र दानार्हतया चोदितपुण्यदेशकालविषयौ। पात्रं तुन विद्यया केवलया जन्मना (तपसा) वापि पात्रता। यस्य वृत्तमिमे चोक्ते तद्धि पात्रं प्रचक्षते [या.स्मृ.1।200] इत्यादिभिर्विवक्षितम्।

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१७- २१॥

व्याख्याः

शाङ्करभाष्यम्
।।17.21।। --,यत्तु दानं प्रत्युपकारार्थं काले तु अयं मां प्रत्युपकरिष्यति इत्येवमर्थम्? फलं वा अस्य दानस्य मे भविष्यति अदृष्टम् इति? तत् उद्दिश्य पुनः दीयते च परिक्लिष्टं खेदसंयुक्तम्? तत् दानं राजसं स्मृतम्।।
रामानुजभाष्यम्
।।17.21।।प्रत्युपकारकटाक्षगर्भं फलम् उद्दिश्य च परिक्लिष्टम् अकल्याणद्रव्यकं यद् दानं दीयते तद् राजसम् उदाहृतम्।
अभिनवगुप्तव्याख्या
।।17.20 -- 17.22।।दातव्यमित्यादि उदाहृतमित्यन्तम्। दातव्यमिति -- दद्यादिति नियोगमात्रं पालनीयमिति दोषाभिसंधानाय ( S येषामभिसन्धाय? दोषासन्धाय )। परिक्लिष्टं मितादिदोषात्। दानस्य चासत्करणं तत्संप्रदानाद्यसत्करणात्। एवं लौकिकानां सात्त्विकादित्रिप्रकाराशयानुसारेण क्रिया व्याख्याता।
मधुसूदनसरस्वतीव्याख्या
।।17.21।।यत्त्विति। प्रत्युपकारार्थं कालान्तरे मामयमुपकरिष्यतीत्येवं दृष्टार्थं फलं वा स्वर्गादिकमुद्दिश्य यत्पुनर्दानं सात्त्विकविलक्षणं दीयते परिक्लिष्टं च कथमेतावद्व्ययितमिति पश्चात्तापयुक्तं यथा भवत्येवं च यद्दीयते तद्दानं राजसं स्मृतम्।
पुरुषोत्तमव्याख्या
।।17.21।।यत्त्विति। तुशब्देन तादृग्दानस्यानुचितत्वं ज्ञाप्यते। यत्तु प्रत्युपकारार्थं महाराजकृपापात्रब्राह्मणाय अग्रे स्वोपकारकादित्वोद्देशेन दानं वा पुनः फलधर्मादिचतुष्टयमुद्दिश्य परिक्लिष्टं चित्तक्लेशयुक्तं फलोपकारासन्देहेन दीयते तत् दानं राजसमुदाहृतं? कथितमित्यर्थः।
आनन्दगिरिव्याख्या
।।17.21।।राजसतामसदानविभजनं स्पष्टार्थम्।
धनपतिव्याख्या
।।17.21।।सात्त्विकं दानमुक्त्वा राजसं तदाह -- यत्तु प्रत्युपकारार्थं कालन्तरे त्वयं मां प्रत्युपकरिष्यतीत्येवं दृष्टार्थं फलमुद्दिश्यास्य दानस्यादृष्टस्वर्गादिफलं मे भविष्यतीति तद्वोद्दिश्य पुनर्दीयते च परिक्लिष्टं खेदसंयुक्तं कथमेतवाद्दीयत इति पश्चात्तापयुक्तं यथा स्यादित्येवं च तद्राजसमुदाहृतम्।
नीलकण्ठव्याख्या
।।17.21।।परिक्लिष्टं कथमेतावद्द्रव्यव्ययः कर्तव्य इत्याकुलतायुक्तं यथा स्यात्तथा दीयत इति क्रियाविशेषणम्।
श्रीधरस्वामिव्याख्या
।।17.21।।राजसं दानमाह -- यत्त्विति। कालान्तरेऽयं मां प्रत्युपकारं करिष्यतीत्येवमर्थम्? फलं वा स्वर्गादिकमुद्दिश्य यत्पुनर्दानं दीयते परिक्लिष्टं चित्तक्लेशयुक्तं यथा भवत्येवंभूतं तद्दानं राजसमुदाहृतं कथितम्।
वेङ्कटनाथव्याख्या
।।17.21।।प्रत्युपकारकटाक्षगर्भमिति -- प्रत्युपकाराभिप्रायपूर्वकमित्यर्थः। एतेन पूर्वकृतप्रत्युपकाररूपता भाविप्रत्युपकारप्रयोजकता च सङ्गृहीता। द्रव्यरागात्परिक्लेशेन त्यजन् हि पुरुषः कल्याणमंशं स्वस्मै स्थापयित्वा अन्यत्परस्मै समर्पयतीत्यभिप्रायेणाऽऽहअकल्याणद्रव्यकमिति। अश्रद्धाहतत्वाद्वा द्रव्यस्याकल्याणत्वमिह परिक्लिष्टशब्दार्थ इति भावः।

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥१७- २२॥

व्याख्याः

शाङ्करभाष्यम्
।।17.22।। --,अदेशकाले अदेशे अपुण्यदेशे म्लेच्छाशुच्यादिसंकीर्णे अकाले पुण्यहेतुत्वेन अप्रख्याते संक्रान्त्यादिविशेषरहिते अपात्रेभ्यश्च मूर्खतस्करादिभ्यः? देशादिसंपत्तौ वा असत्कृतं च प्रियवचनपादप्रक्षालनपूजादिरहितम् अवज्ञातं पात्रपरिभवयुक्तं च यत् दानम्? तत् तामसम् उदाहृतम्।।यज्ञदानतपःप्रभृतीनां साद्गुण्यकरणाय अयम् उपदेशः उच्यते --,
रामानुजभाष्यम्
।।17.22।।अदेशकाले अपात्रेभ्यः च यद् दानं दीयते? असत्कृतं पादप्रक्षालनादिगौरवरहितम्? अवज्ञातं सावज्ञम्? अनुपचारयुक्तं यद् दीयते तत् तामसं उदाहृतम्।एवं वैदिकानां यज्ञतपोदानानां सत्त्वादिगुणभेदेन भेद उक्तः। इदानीं तस्य एव वैदिकस्य यज्ञादेः प्रणवसंयोगेन तत्सच्छब्दव्यपदेश्यतया च लक्षणम् उच्यते --
अभिनवगुप्तव्याख्या
।।17.20 -- 17.22।।दातव्यमित्यादि उदाहृतमित्यन्तम्। दातव्यमिति -- दद्यादिति नियोगमात्रं पालनीयमिति दोषाभिसंधानाय ( S येषामभिसन्धाय? दोषासन्धाय )। परिक्लिष्टं मितादिदोषात्। दानस्य चासत्करणं तत्संप्रदानाद्यसत्करणात्। एवं लौकिकानां सात्त्विकादित्रिप्रकाराशयानुसारेण क्रिया व्याख्याता।
मधुसूदनसरस्वतीव्याख्या
।।17.22।।अदेशेति। अदेशे स्वतो वा दुर्जनसंसर्गाद्वा पापहेतावशुचिस्थाने? अकाले पुण्यहेतुत्वेनाप्रसिद्धे यस्मिन् कस्मिंश्चिदशौचकाले वा? अपात्रेभ्यश्च विद्यातपोरहितेभ्यो नटविटादिभ्यो यद्दानं दीयते? देशकालपात्रसंपत्तावप्यसत्कृतं प्रियभाषणपादप्रक्षालनपूजादिसत्कारशून्यं अवज्ञातं पात्रपरिभवयुक्तं च तद्दानं तामसमुदाहृतम्।
पुरुषोत्तमव्याख्या
।।17.22।।तामसमाह -- अदेश इति। अदेशे कीकटादौ म्लेच्छादिसन्निधाने वा? अकाले अश्रद्धावस्थायामाशौचादौ? अपात्रेभ्यः गणिकाचारणबन्दिभ्यो यद्दानं दीयते तत्तामसं फलादिरहितमुदाहृतम्। च पुनः देशादिसम्पत्तौ पात्रेभ्योऽपि यत् असत्कृतं सत्कारपूजादिरहितं अवज्ञातं स्वरूपज्ञानपूर्वकतिरस्कारं यद्दीयते तदपि तथेत्यर्थः। एवं यज्ञादीनां त्रैविध्यनिरूपणेनैतत्त्रैविध्यरहितं निर्गुणमेव तत्सर्वं यज्ञादिकं कर्त्तव्यमिति ज्ञापितम्। तथाहि भगवदिच्छायां सत्यां तज्ज्ञानपूर्वकं भगवद्विभूतियागो भक्त्यङ्गत्वेन कार्यो युधिष्ठिरवत्यक्ष्ये विभूतीर्भवतः [भागः10।72।3] इत्यादिविज्ञापनपूर्वकम्। तपोऽपि भगवदर्थकसर्वसुखपरित्यागपूर्वकक्लेशादिसहनरूपे৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷. ज्ञानरूपं वा कार्यम्। दानं च भक्तिसिद्ध्यर्थं भगवद्भक्ताय वेदविदे ब्राह्मणाय दातव्यम्।
आनन्दगिरिव्याख्या
।।17.22।।राजसतामसदानविभजनं स्पष्टार्थम्।
धनपतिव्याख्या
।।17.22।।राजसं दानमुक्त्वा तामसं तदुदाहरति -- अदेशकालेऽपुण्यदेशे म्लेच्छाशुच्यादिसंकीर्णे अकाले अपुण्यहेतुत्वेन प्रख्यातेऽशौचकाले संक्रान्यत्यादिविशेषरहिते वा अपात्रेभ्यश्च मूर्खनटतस्कादिभ्यो देशादिसंपत्तावपि प्रियवचनपादप्रक्षालनपूजादिसत्काररहितमवज्ञातं पात्रपरिभवयुक्तं च यद्दानं तद्दानं तामसमुदाहृतम्।
नीलकण्ठव्याख्या
।।17.22।।असत्कृतं प्रियभाषणपादप्रक्षालनादिपूजासत्कारस्तद्रहितम्। अवज्ञातं पात्रपरिभवयुक्तम्। दानं प्रदेयं हिरण्यादि।
श्रीधरस्वामिव्याख्या
।।17.22।।तामसं दानमाह -- अदेशेति। अदेशे अशुचिस्थाने? अकाले अशौचसमये? अपात्रेभ्यो विटनटनर्तकादिभ्यो यद्दानं दीयते। देशकालपात्रसंपत्तावपि असत्कृतं पादप्रक्षालनादिसत्कारशून्यम्? अवज्ञातं तिरस्कारयुक्तं। एंवभूतं दानं तामसमुदाहृतम्।
वेङ्कटनाथव्याख्या
।।17.22।।अदेशः कलिङ्गकीकटादिः। अकालो रात्र्यादिः। अपात्राणि पङ्क्तिदूषकमूर्खतस्करकितवबन्दिवैतालिकादयः। सत्कृतं सत्करणं तद्रहितमसत्कृतम् तदाहपादप्रक्षालनेति। प्रतिग्रहीतृपुरुषावज्ञैव क्रियापर्यन्तप्रसारात्तद्विशेषणतया व्यपदिश्यत इत्यभिप्रायेणाऽऽहसावज्ञमिति। अवज्ञाया वाचिकादिविषयत्वमाहअनुपचारयुक्तमिति। शास्त्रप्रामाण्यानिश्चयेन सन्दिग्धपरलोकत्वात् पात्रेभ्यः स्वत्वोत्कर्षाभिमानोच्चासत्कारावज्ञे। देशादिसम्पत्तावप्यसत्कृतत्वादि परिहर्तव्यम्।

ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥१७- २३॥

व्याख्याः

शाङ्करभाष्यम्
।।17.23।। --, तत् सत् इति एवं निर्देशः? निर्दिश्यते अनेनेति निर्देशः? त्रिविधो नामनिर्देशः ब्रह्मणः स्मृतः चिन्तितः वेदान्तेषु ब्रह्मविद्भिः। ब्राह्मणाः तेन निर्देशेन त्रिविधेन वेदाश्च यज्ञाश्च विहिताः निर्मिताः पुरा पूर्वम् इति निर्देशस्तुत्यर्थम् उच्यते।।
माध्वभाष्यम्
।।17.23।।पुनश्च कर्मादीतिकर्तव्यताविधानार्थमर्थवादमाह -- तत्सदित्यादिना। परस्य ब्रह्मणो ह्येतानि नामानि। ओतं जगद्यत्र स्वयं च पूर्णो वेदोक्तरूपोऽनुपचारतश्च। सर्वैः शुभैश्चाभियुतो न चान्यैः तत्सदित्येनमतो वदन्ति इति हि ऋग्वेदखिलेषु। द्वितीयपादस्तच्छब्दार्थः। सदेव सोम्येदमग्र आसीत् [छां.उ.6।2।1] इति च। मिति ब्रह्म [तैति.1।8।1ना.प.8।2] इति च। तेन ब्रह्मणा आत्मपूजार्थं वेदविधिर्व्यञ्जनम्। मा तूक्ता पुरस्तात्।
रामानुजभाष्यम्
।।17.23।। तत् सत् इति त्रिविधः अयं निर्देशः शब्दः ब्रह्मणः स्मृतः? ब्रह्मणः अन्वयी भवति।ब्रह्म च वेदः वेदशब्देन वैदिकं कर्म उच्यते वैदिकं यज्ञादिकम् यज्ञादिकं कर्म तत् सद् इति शब्दान्वितं भवति।ओम् इति शब्दस्य अन्वयो वैदिककर्माङ्गत्वेन प्रयोगादौ प्रयुज्यमानतयातत् सत् इति शब्दयोः अन्वयः पूज्यत्वाय वाचकतया।तेन त्रिविधेन शब्देन अन्विता ब्राह्मणा वेदान्वयिनः त्रैवर्णिकाः वेदाः च यज्ञाः च पुरा विहिताः पुरा मया एव निर्मिता इत्यर्थः।त्रयाणाम् तत् सत् इति शब्दानाम् अन्वयप्रकारो वर्ण्यते। प्रथमम्ओम् इति शब्दस्य अन्वयप्रकारम् आह --
अभिनवगुप्तव्याख्या
।।17.23 -- 17.27।।इदानीं ये गुणत्रितयसंकटोत्तीर्णधियः ते क्रियां कथमाचरन्ति इति तादृक़्प्रकार उच्यते -- ओमित्यादि अभिधीयते इत्यन्तम्। ओं तत् सत् इत्येभिस्त्रिभिः शब्दैर्ब्रह्मणो निर्देशः? संमुखीकरणम्। तत्र ओम् इत्यनेन शास्त्रार्थोऽयमादेहसंबन्धमूरीकार्य इति सूच्यते।तत् इति सर्वनामपदेन सामान्यमात्राभिधायिना विशेषपरामर्शमात्रासमर्थेन फलानभिसंधानं ब्रह्मण्युच्यते अभिसंधानस्य विशेषपरिग्रहमन्तरेण अभावात् सकलविशेषानुग्राहित्वेऽपि सकलफलसंधाने सर्वकर्तृतायामपि विशिष्टफलायोगात्।सत् इत्यमुया श्रुत्या प्रशंसा अभिधीयते। क्रियमाणमपि इदं यज्ञादिकं दुष्टम् इति बुद्ध्या क्रियमाणं तामसतामेति। विशिष्टफलाभिसंधानेन च क्रियमाणं न च सत्? बन्धाधायकमेवेति। तस्मात् कर्तव्यमिदम् इति मन्वानाः [ फलविशेषमनभिसंदधानाः ] यज्ञादि कुर्वाणा अपि न बध्यन्ते। अनेनैवाभिप्रायेण आदिपर्वण्युक्तम् -- तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः।प्रसह्य वित्ताहरणं न कल्क स्तान्येव भावोपहतानि कल्कः।।( M? Adi? Ch? 1? verse 210 ) इति।कल्कः? बन्धकः। स्वाभाविक इति -- ब्राह्मणेन निष्कारणं षडङ्गं ( omits षडङ्गम् ) वेदादि अध्येतव्यम् इति। प्रसह्य? शास्त्रलोकप्रसिद्धोचितया चेष्टया। भावेन? सत्त्वादिगुणत्रययोगिना चित्तेन उपहतान्येतान्येव,( ?N?K उपहतान्येव ) बन्धकानि? नान्यथा इति तात्पर्यम्। अतो यज्ञादि यावच्छरीरभावितया कार्यमेव। तदर्थे [ च ] हितं ( N?K विहितम् ) कर्म अर्जनादि।यदि वा ओम् इत्यनेन समुपशान्तसमस्तप्रपञ्चम् तत् इत्यनेनोद्भिद्यमानविश्वतरङ्गपरामर्शमात्रात्मकेच्छास्वातन्त्र्य -- स्वभावम् सत् इत्यनेन इच्छास्वातन्त्र्यभरविजृम्भमाणभेदकम्? पूर्णत्वेऽपि तावच्चित्रस्वभावतया भवनमिति प्रतिपाद्यते। तथाचोक्तम्,सद्भावे साधुभावे च इति। तेन परमं प्रशान्तं ( S परमप्रशान्तरूपं ) रूपं पुरस्कृत्य दित्सायियक्षातितप्सात्मकेच्छातरङ्गसंगतं च मध्येकृत्य दानयज्ञतपःक्रियाकारककलापपरिपूर्णं यच्चरमं वपुः इदमुल्लसितम्? एतत् खलु समं त्रितयमनर्गलस्य स्वाभाविकं रूपम् इति कस्य किं कथं कुतः क्व ( N omits क्व ) केन फलं स्यादिति।
जयतीर्थव्याख्या
।।17.23।।ओमित्यादिकं तु प्रकृतासङ्गतं कथमुच्यते इत्यत आह -- पुनश्चेति। कर्मेति यज्ञ उच्यते? आदिपदेन तपोदाने। इतिकर्तव्यता इत्थम्भावः। विधानार्थं प्रतिपादनार्थम्। अफलाकाङ्क्षिभिरित्यादिनोक्तत्वात्पुनश्चेत्युक्तम्। यज्ञतपोदानानां सात्त्विकत्वादिहेतवोऽसाधारणा धर्माः प्रागुक्ताः? साधारणांस्तु वक्तुं पुराकल्पादिरूपमर्थवादमाहेत्यर्थः। ब्रह्मशब्दस्य हिरण्यगर्भाद्यर्थतां निर्देशशब्दस्य च भावार्थतां वारयितुं व्याख्याति -- परस्येति। निर्दिश्यतेऽनेनेति निर्देशो नाम। कुत एतत् इत्यतो हीत्युक्तम्। भावार्थत्वेओम् तत्सत् इत्येतैः सामानाधिकरण्यानुपपत्तेर्नामार्थत्वमेवाङ्गीकार्यम्। ओमादिकं च परब्रह्मनामत्वेन प्रसिद्धमित्यर्थः। तामेव प्रसिद्धिं दर्शयति -- ओतमिति। ओतं प्रविष्टम्। आश्रितं यत्र परमेश्वरे यः स्वयं च जगत्योतः प्रविष्टः पूर्णः अनुपचारतो मुख्यया वृत्त्या। अत्र ओतं जगद्यत्र इत्यादिना ओंशब्दस्य निमित्तद्वयेन भगवति वृत्तिर्दर्शिता।अवतेष्टिलोपश्च [वार्ति. ] इति वचनात्। सर्वैरित्यनेन सच्छब्दस्य।साधुभावे च [17।26] इति वक्ष्यमाणत्वात्। तच्छब्दस्य तु न केनापि। अतःओं तत्सत् इत्येतमित्ययुक्तमित्यत आह -- द्वितीयेति। वेदोक्तेति द्वितीयपादस्तच्छब्दार्थव्याख्यानपरः। तदिति हि नित्यपरोक्षत्वमुच्यते। न चेश्वरस्वरूपमनुमातुं शक्यम् अतो वेदैकवेद्यत्वात्तत् इत्युच्यत इति भावः। सदोंशब्दयोः परब्रह्मनामत्वे श्रुत्यन्तरं चाऽऽह -- सदेवेति। तेनेति निर्देशपरामर्श इति कश्चित्? तदसदिति भावेनाऽऽह -- तेनेति। कुत एतत् निर्देशस्य ब्राह्मणादिविधानायोगात्। निर्देशस्तुत्यर्थमिदमुच्यत इति चेत्? न भूतोक्तिसम्भवेन तदयोगात्। ब्रह्मणोऽपि ब्राह्मणादिविधानानुपपत्तिः। प्रयोजनाभावादित्यत आह -- आत्मेति। आत्मपूजया प्राणिनां सुखार्थं ब्राह्मणादयो विहिता इति सम्बन्धः। ब्राह्मणादिवद्वेदानामपि विधानं निर्माणमेवेति प्रतीतिनिरासार्थमाह -- वेदेति। व्यञ्जनमेव विधानं? न निर्माणमित्यर्थः। सकृच्छ्रुतस्य विहितशब्दस्य द्विधाऽर्थकल्पनं कुतः इति चेत्? वेदापौरुषेयत्वस्य प्रमितत्वात्। किं तत्प्रमाणं इत्यत आह -- मा त्विति। परमेश्वरस्य वेदव्यञ्जनं नाध्यापकवत्। किन्तु स्वातन्त्र्यमप्यस्तीति ज्ञापयितुं विधिग्रहणं कृतम्। वेदो हि विध्यात्माऽस्ति विधिः प्रेरणं? नियोग इति चानर्थान्तरम्। न च नियोक्तारमन्तरेण नियोगः सम्भवति। न च शब्दादीनां नियोक्तृत्वं सम्भवति? लोकविरोधात्। न चोच्चारक एव नियोक्ता मामुपासीतेत्यादावव्यवस्थापातात्। तस्मात्स्वतन्त्रेण वक्त्रा भाव्यम्। न चैवं पौरुषेयत्वापत्तिः? अनादिसिद्धेनैव शब्दार्थसम्बन्धेन तस्य नियोक्तृत्वाभ्युपगमादिति।
मधुसूदनसरस्वतीव्याख्या
।।17.23।।तदेवमाहारयज्ञतपोदानानां त्रैविध्यकथनेन सात्त्विकानि तान्यादेयानि राजसतामसानि तु परिहर्तव्यानीत्युक्तं तत्राहारस्य दृष्टार्थत्वेन नास्त्यङ्गवैगुण्येन पुण्येन फलाभावशङ्का यज्ञतपोदानानां त्वदृष्टार्थानामङ्गवैगुण्यादपूर्वानुत्पत्तौ फलाभावः स्यादिति सात्त्विकानामपि तेषामानर्थक्यं प्रमादबहुलत्वादनुष्ठातृ़णां अतस्तद्वैगुण्यपरिहाराय तत्सदिति भगवन्नामोच्चारणरूपं सामान्यप्रायश्चित्तं परमकारुणिकतयोपदिशति भगवान् -- मिति। तत्सदित्येवंरूपो ब्रह्मणः परमात्मनो निर्देशो निर्दिश्यतेऽनेनेति निर्देशः प्रतिपादकः शब्दः नामेति यावत्। त्रिविधस्तिस्रो विधा अवयवा यस्य स त्रिविधः स्मृतो वेदान्तविद्भिः। एकवचनावयवमेकं नाम प्रणववत्। यस्मात्पूर्वैर्महर्षिभिरयं ब्रह्मणो निर्देशः स्मृतस्तस्मादिदानींतनैरपि स्मर्तव्य इति विधिरत्र कल्प्यतेवषट्कर्तुः प्रथमभक्षः इत्यादिष्विव। वचनानित्वपूर्वत्वादिति न्यायाद्यज्ञदानतपःक्रियासंयोगाच्चास्य तदवैगुण्यमेव फलं नष्टाश्वदग्धरथवत् परस्पराकाङ्क्षया कल्प्यते।प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत्। स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिः इति स्मृतेस्तथैव शिष्टाचाराच्च ब्रह्मणो निर्देशः स्तूयते कर्मवैगुण्यपरिहारसामर्थ्यकथनाय। ब्राह्मणा इति त्रैवर्णिकोपलक्षणं। ब्राह्मणाद्याः कर्तारो वेदाः करणानि यज्ञाः कर्माणि तेन ब्रह्मणो निर्देशेन करणभूतेन पुरा विहिताः प्रजापतिना तस्माद्यज्ञादिसृष्टिहेतुत्वेन तद्वैगुण्यपरिहारसमर्थो महाप्रभावोयं निर्देश इत्यर्थः।
पुरुषोत्तमव्याख्या
।।17.23।।ननु देशकालाद्यभावकृतानां यज्ञानां यदि तामसत्वं तदा निर्गुणेष्वपि समः समाधिः इत्याशङ्क्य तेषां देशकालादिसम्पत्त्यभावेऽपि तत्सम्पत्तिर्भवतीत्याशयेनाऽऽह -- ओं तत्सदिति।ओं तत्सत् इत्येवरूपो ब्रह्मणः पुरुषोत्तमस्य त्रिविधो निर्द्देशो नामव्यपदेशः स्मृतो भक्तैः तत्रओमित्येकाक्षरं ब्रह्म [8।13] इत्यादिभिःम् इति ब्रह्मणः संज्ञा नामेति। यतो वाचो निवर्तन्ते [तै.उ.2।42।9] आनन्दमात्रमितियत् इत्यारभ्य,ततो न ज्ञायते तु तत् इत्यन्तादिवाक्येभ्यस्तदित्यपि ब्रह्मण एव नाम। मूलसत्तावाचकत्वेन सच्छब्दोऽपि ब्रह्मवाचक एव। एतत्ित्रविधमपि ब्रह्मणो नाम। स्वरूपज्ञानपूर्वकं सर्वत्र यज्ञादिक्रियासु आदौ विनियुक्तं सर्वदेशादिसम्पत्तिसाधकमिति ज्ञापनाय पूर्वसिद्धं तथात्वमाह -- ब्राह्मणा इति। येन त्रिविधनिर्देशेन ब्राह्मणा ब्रह्मज्ञा ब्रह्मप्रापका वा वेदाः ब्रह्मस्वरूपास्तज्ज्ञा वा चकारेण सशब्दार्थाः। यज्ञाः यजनात्मकाः? चकारेण साधिदैवाः। पुरा सृष्ट्यादौ विहिता विधात्रा निर्मिताः? अतः पूर्वमेतदुदाहरणात्सर्वं सम्पद्यत इति भावः। अथवा तेन ब्रह्मणोऽयं त्रिविधो निर्देशस्तेन ब्रह्मणा पूर्वमेते निर्मिताः स्वार्थं? ततस्तत्स्वरूपं ज्ञानपूर्वकनामत्रयोदाहरणसंसूचनात्मकेन निर्गुणानां सर्वं सम्पत्स्यत इति भावः।
वल्लभाचार्यव्याख्या
।।17.23।।एवं श्रुतिसिद्धानां यागतपोदानानां सत्त्वादिगुणभेदेन भेद उक्तः इदानीं तस्य श्रौतस्यैव यज्ञादेर्देशकालादिसम्पत्त्यभावेऽपि तत्सम्पत्तिप्रकारमाह -- तत्सदिति। ब्रह्मणः वेदस्य पुरुषोत्तमस्य च त्रिविधो नाम व्यपदेशः स्मृतो ब्रह्मवादिभिः भक्तैश्च।ओमित्येकाक्षरं ब्रह्म [18।13] इत्यादिभिरोमिति संज्ञा ब्रह्मणः। तदिति संज्ञा यतो वाचो निवर्तन्ते [तै.उ.2।4]आनन्दमात्रमिति यत् इत्यारभ्यततो न ज्ञायते तत् इत्यन्तादिवाक्यैः। सदिति च नाम ब्रह्मणःसद्ब्रह्मास्ति ब्रह्म इति च वेदवादिभिरित्येत्ित्रविधं सर्वत्र यज्ञादौ विनियुक्तं सर्वदेशकालादिसम्पत्तिसाधकमिति ज्ञापनाय पूर्ववृत्तमाह -- ब्राह्मणास्तेनेति स्पष्टम्। अन्ये तु यज्ञादेः प्रणवयोगेन तत्सच्छब्दनिर्देश्यतया च लक्षणमाहुः इति। तत्सत् इति त्रिविधोऽयं निर्देशो ब्रह्मणः परस्य शाब्दस्य चान्वयी स्मृतः ब्रह्मशब्देन ब्रह्मात्मकं सर्वमक्षरादिकमक्षरपदवाक्यादिकमत्रोच्यते। तत्तत्सत् इतिशब्दान्वितं भवति तत्र प्रयोगादावाद्यःप्रणवश्छन्दसामिव इति सम्मत्या प्रणवस्यान्वयः श्रौतनामसु विधितः प्रयुज्यमानतयातत्सत् इतिशब्दयोश्च तत्रान्वयः पूर्णभावप्रयोजकशक्त्या भवतीत्यर्थः। तेनतत्सत् इतिनिर्देशेन ब्रह्मणा वा ब्राह्मणा वेदास्त्रिकाण्डा यज्ञाश्च एकैकेन वा विहिताः विशेषेण हिता वा मया पुरा सर्गादावित्यर्थः। अत्र इत्युच्चारकतया ब्राह्मणाःतत् इति ब्रह्मपरतया वेदाःसत् इति तदर्थीयकर्मतया यज्ञाः कृता इति विवेचनीयमिति केचिदाहुः। वयं तु उच्चारकतया ब्राह्मणाः उच्चार्यतया वेदाः कार्यतया यज्ञा विहिताः पुरा वेदाधिकृतानामित्येव ब्रूमः।
आनन्दगिरिव्याख्या
।।17.23।।विहितानां कर्मणां प्रमादयुक्ते वैगुण्ये कथं परिहारः स्यादित्याशङ्क्याह -- यज्ञेति।मिति ब्रह्म इत्यादिश्रुतेः ओमिति तावद्ब्रह्मणो नामनिर्देशः?तत्त्वमसि इति श्रुतेःतदित्यपि ब्रह्मणो नामनिर्देशः?सदेव सोम्येदम् इति श्रुतेः सदित्यपि तस्य नामेति मत्वाह -- ओमिति। कथं निर्देशेन तेषां विधानमित्याशङ्क्याह -- निर्दिश्यत इति। यज्ञादीनां वैगुण्यप्रतीतिकाले यथोक्तनाम्नामन्यतमोच्चारणादवैगुण्यं सिध्यतीति भावः। कर्मसाद्गुण्यकारणं त्रिविधं नाम स्तौति -- ब्राह्मणा इति। पूर्वं सर्गादौ निर्माणं च प्रजापतिकर्तृकम्।
धनपतिव्याख्या
।।17.23।।एवं आहारादीनां वैगुण्ये कथं परिहारः स्यादित्याकाङ्क्षायां तेषां साद्गुण्यकरणाय करुणानिधिर्मगवान्प्रायाश्चित्तमुपदिशति। ऊँतत्सदिति एष निर्देषः निर्दिश्यतेऽनेनेति निर्देशो ब्रह्मणस्त्रिविधो नामनिर्देशः ऊँमिति ब्रह्म? तत्त्वमसि? सदेव सोम्येत्यादिवेदान्तेषु ब्रह्मविद्धिः स्मृतश्चिन्तितः यज्ञादिसाद्गुण्यसिद्य्धर्थ अवश्यमिदं प्रायश्चित्तमनुष्ठेयमिति बोधनाय निर्देशं स्तौति। ब्राह्मणाः कर्तारो द्विजाः वेदाः करणानि यज्ञाः कर्माणि पुरा पूर्वं प्रजापतिना तेन निर्देशन विहता निर्मिताः। तथाच कर्त्रादीनां त्रयाणमपि कारणभूतात्वादस्य वैगुण्यनिवारकत्वं युक्तमेवेति भावः।
नीलकण्ठव्याख्या
।।17.23।।अदृष्टार्थानां यज्ञदानतपःप्रभृतीनां वैकल्यशङ्कायां साद्गुण्यसिद्ध्यर्थं प्रायश्चित्तमुपदिश्यते -- तत्सदिति। ओमिति तदिति सदिति च त्रिविधस्त्रिप्रकारोऽयं ब्रह्मणो निर्देशो नाम्नां पाठः। यथा सहस्रनाम्नां पाठे सहस्रं नामानि एवमस्मिन्नपि नामपाठे त्रीण्येव नामानीत्यर्थः।ओमिति ब्रह्म इति तैत्तिरीयके?तदिति वा एतस्य महतो भूतस्य नाम भवति इत्यैतरेयके?सदेव सोम्येदमग्र आसीत् इति छान्दोग्ये च एतेषां शब्दानां ब्रह्मनामत्वप्रसिद्धेः। तेन नामत्रयेण ब्राह्मणादयो विहिताः। पुरा सर्गादौ ब्राह्मणाः एतन्नामत्रयोच्चारणसामर्थ्येनैव विधात्रा विप्रादयो विहिताः। प्रकाशिता इत्यर्थः।
श्रीधरस्वामिव्याख्या
।।17.23।।ननु चैवं विचार्यमाणे सर्वमपि यज्ञतपोदानादि राजसतामसप्रायमेवेति व्यर्थो यज्ञादिप्रयास इत्याशङ्क्य तथाविधस्यापि सात्त्विकत्वापादनप्रकारं दर्शयितुमाह -- ओमिति। ऊँतत्सदित्येवं त्रिविधो ब्रह्मणाः परमात्मनो निर्देशो नाम व्यपदेशः स्मृतः शिष्टैः। तत्र तावत्ओमिति त्रिवृद्ब्रह्म इत्यादिश्रुतिप्रसिद्धेरोमिति ब्रह्मणो नाम? जगत्कारणत्वेनातिप्रसिद्धत्वात्? अविदुषां परोक्षत्वाच्च। तच्छब्दोऽपि ब्रह्मणो नाम। परमार्थसत्त्वसाधुत्वप्रशस्तत्वाभिः सच्छब्दो ब्रह्मणो नामसदेव सोम्येदमग्र आसीत् इत्यादिश्रुतेः। अयं त्रिविधोऽपि नामनिर्देशो विगुणमपि सगुणीकर्तुं समर्थ इत्याशयेन स्तौति। तेन त्रिविधेन ब्रह्मणो निर्देशेन ब्राह्मणाश्च वेदाश्च यज्ञाश्च पूर्वं सृष्ट्यादौ विहिताः विधात्रा निर्मिताः सगुणीकृता वा। यद्वा यस्यायं त्रिविधो निर्देशस्तेन परमात्मना ब्राह्मणादयः पवित्रतमाः सृष्टाः। तस्मात्तस्यायं त्रिविधो निर्देशोऽतिप्रशस्त इत्यर्थः।
वेङ्कटनाथव्याख्या
।।17.23।।उक्तत्रैविध्यवदुपर्यपि त्रैविध्यान्तरोक्तिरिति शङ्काव्युदासाय उक्तसमस्तलक्षणपरतयोत्तरमवतारयति -- एवमित्यादिना। त्रैविध्यविधिरनपेक्षितः? लक्ष्येषूद्दिष्टेषु लक्षणविधिस्त्वपेक्षित इत्यभिप्रायेणब्रह्मणः स्मृतः इत्यन्वयो दर्शितः। वक्ष्यमाणप्रकारेण त्रिष्वति निर्देशेषु कर्मत्वेनान्वयायोगात् -- ब्रह्मणोऽन्वयी भवतीति सम्बन्धसामान्यार्थतोक्तिः। ननुओं तत्सत् इति वैदिकस्य यज्ञादेर्लक्षणमुच्यत इत्युक्तमयुक्तं? ब्रह्मशब्दस्य तद्वाचकत्वाभावान्मुख्यार्थबाधाभावाच्च। त्रयाणां च साक्षात्परब्रह्मनामत्वं श्रुतिसिद्धं तत्ते पदं सङ्ग्रहेण ब्रवीमि ओमित्येतत् [कठो.1।2।15] इति वा एतस्य महतो भूतस्य नाम भवति? योऽस्यैतदेव नाम वेद ब्रह्म भवतीति सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः [छां.उ.6।8।6] इत्यादिषु। अतः शास्त्रप्रधानप्रतिपाद्यपरब्रह्मनिर्देशप्रकारोऽयमुपासकसंव्यवहारार्थमुपदिश्यत इति युक्तम्। द्विगुणमपि हि कर्म,ब्रह्मणोऽभिधानत्रयप्रयोगेण सगुणं सम्पादितं भवति। कर्मणि कर्मान्तरेण लौकिकवाचा निद्राप्रमादादिभिश्च व्यवाये सन्तः सर्वत्रओं तत्सत् इत्युदाहरेयुः। अतएव चाध्यायाद्यन्तेषु सर्वेष्वयमेव त्रिविधो निर्देशः पठ्यत इति शङ्कायां -- कर्मणि ब्रह्मशब्दमवतारयितुं तत्प्रतिपादके प्रयोगस्तावत्सिद्ध इत्यभिप्रायेणाऽऽहब्रह्म च वेद इति। वेदाभिधानस्य पूर्वापरवशात्तदर्थपरतामभिप्रेत्याऽहवेदशब्देनेति। वेदनिरूढप्रयोगेण शब्देनेत्यर्थः।ब्रह्मशब्देन इति केषाञ्चित्पाठः।अयमभिप्रायः -- यद्यपिओं तत्सत् इति शब्दानां साक्षात्परब्रह्मनामत्वं प्रसिद्धं? तथाप्यत्र तद्विवक्षा न युक्ता अध्याये तत्प्रश्नाद्यभावात्? अनन्तरं चब्राह्मणास्तेन इत्यादिनाऽनन्वयप्रसङ्गाच्च अतो वेदेनोपलक्षणेन वैदिकस्यैवायं त्रिधा निर्देशः -- इति। एतदेव विवृणोति -- वैदिकमिति। त्रयाणामन्वयप्रकारेऽवान्तरभेदं वक्ष्यमाणमुपक्षिपतिओमिति। करणाद्यर्थासम्भवादुपलक्षणतृतीयार्थमाह -- तेन त्रिविधेन शब्देनान्विता इति। ब्राह्मणशब्दोऽत्र ब्रह्मशब्दविवक्षितवेदान्वयात् त्रैवर्णिकविषयः।ब्रह्मवादिनाम्

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१७- २४॥

व्याख्याः

शाङ्करभाष्यम्
।।17.24।। --,तस्मात् ओम् इति उदाहृत्य उच्चार्य यज्ञदानतपःक्रियाः यज्ञादिस्वरूपाः क्रियाः प्रवर्तन्ते विधानोक्ताः शास्त्रचोदिताः सततं सर्वदा ब्रह्मवादिनां ब्रह्मवदनशीलानाम्।।
रामानुजभाष्यम्
।।17.24।।तस्माद् ब्रह्मवादिनां वेदवादिनां त्रैवर्णिकानां यज्ञदानतपःक्रियाः विधानोक्ताः वेदविधानोक्ताः आदौ ओम् इति उदाहृत्य सततं सर्वदा प्रवर्तन्ते। वेदाः चओम् इति उदाहृत्य आरभ्यन्ते।एवं वेदानां वैदिकानां च यज्ञादीनां कर्मणाम् इति शब्दान्वयो वर्णितः। ओम् इतिशब्दान्वितवेदधारणात् तदन्वितयज्ञादिकर्मकरणात् च ब्राह्मणशब्दनिर्दिष्टानां त्रैवर्णिकानाम् अपिओम् इति शब्दान्वयो वर्णितः।अथ एतेषांतत् इतिशब्दान्वयप्रकारम् आह --
अभिनवगुप्तव्याख्या
।।17.23 -- 17.27।।इदानीं ये गुणत्रितयसंकटोत्तीर्णधियः ते क्रियां कथमाचरन्ति इति तादृक़्प्रकार उच्यते -- ओमित्यादि अभिधीयते इत्यन्तम्। ओं तत् सत् इत्येभिस्त्रिभिः शब्दैर्ब्रह्मणो निर्देशः? संमुखीकरणम्। तत्र ओम् इत्यनेन शास्त्रार्थोऽयमादेहसंबन्धमूरीकार्य इति सूच्यते।तत् इति सर्वनामपदेन सामान्यमात्राभिधायिना विशेषपरामर्शमात्रासमर्थेन फलानभिसंधानं ब्रह्मण्युच्यते अभिसंधानस्य विशेषपरिग्रहमन्तरेण अभावात् सकलविशेषानुग्राहित्वेऽपि सकलफलसंधाने सर्वकर्तृतायामपि विशिष्टफलायोगात्।सत् इत्यमुया श्रुत्या प्रशंसा अभिधीयते। क्रियमाणमपि इदं यज्ञादिकं दुष्टम् इति बुद्ध्या क्रियमाणं तामसतामेति। विशिष्टफलाभिसंधानेन च क्रियमाणं न च सत्? बन्धाधायकमेवेति। तस्मात् कर्तव्यमिदम् इति मन्वानाः [ फलविशेषमनभिसंदधानाः ] यज्ञादि कुर्वाणा अपि न बध्यन्ते। अनेनैवाभिप्रायेण आदिपर्वण्युक्तम् -- तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः।प्रसह्य वित्ताहरणं न कल्क स्तान्येव भावोपहतानि कल्कः।।( M? Adi? Ch? 1? verse 210 ) इति।कल्कः? बन्धकः। स्वाभाविक इति -- ब्राह्मणेन निष्कारणं षडङ्गं ( omits षडङ्गम् ) वेदादि अध्येतव्यम् इति। प्रसह्य? शास्त्रलोकप्रसिद्धोचितया चेष्टया। भावेन? सत्त्वादिगुणत्रययोगिना चित्तेन उपहतान्येतान्येव,( ?N?K उपहतान्येव ) बन्धकानि? नान्यथा इति तात्पर्यम्। अतो यज्ञादि यावच्छरीरभावितया कार्यमेव। तदर्थे [ च ] हितं ( N?K विहितम् ) कर्म अर्जनादि।यदि वा ओम् इत्यनेन समुपशान्तसमस्तप्रपञ्चम् तत् इत्यनेनोद्भिद्यमानविश्वतरङ्गपरामर्शमात्रात्मकेच्छास्वातन्त्र्य -- स्वभावम् सत् इत्यनेन इच्छास्वातन्त्र्यभरविजृम्भमाणभेदकम्? पूर्णत्वेऽपि तावच्चित्रस्वभावतया भवनमिति प्रतिपाद्यते। तथाचोक्तम्,सद्भावे साधुभावे च इति। तेन परमं प्रशान्तं ( S परमप्रशान्तरूपं ) रूपं पुरस्कृत्य दित्सायियक्षातितप्सात्मकेच्छातरङ्गसंगतं च मध्येकृत्य दानयज्ञतपःक्रियाकारककलापपरिपूर्णं यच्चरमं वपुः इदमुल्लसितम्? एतत् खलु समं त्रितयमनर्गलस्य स्वाभाविकं रूपम् इति कस्य किं कथं कुतः क्व ( N omits क्व ) केन फलं स्यादिति।
मधुसूदनसरस्वतीव्याख्या
।।17.24।।इदानीमकारोकारमकारव्याख्यानेन तत्समुदायोंकारव्याख्यानवदोंकारतच्छब्दसच्छब्दव्याख्यानेन तत्समुदायरूपं ब्रह्मणो निर्देशं स्तुत्यतिशयाय व्याख्यातुमारभते चतुर्भिः। तत्र प्रथममोंकारं व्याचष्टे -- तस्मादिति। यस्मादोमिति ब्रह्मेत्यादिषु श्रुतिष्वोमिति ब्रह्मणोनाम प्रसिद्धं तस्मादोमित्युदाहृत्य ओंकारोच्चारणानन्तरं विधानोक्ता विधिशास्त्रबोधिताः ब्रह्मवादिनां वेदवादिनां यज्ञदानतपःक्रियाः सततं प्रवर्तन्ते प्रकृष्टतया वैगुण्यराहित्येन वर्तन्ते। यस्यैकावयवोच्चारणादप्यवैगुण्यं किं पुनस्तस्य सर्वस्योच्चारणादिति स्तुत्यतिशयः।
पुरुषोत्तमव्याख्या
।।17.24।।यत एतदुदाहरणेन सर्वं सम्पद्यते तत्तस्मात् त्रिगुणानां भक्तानां मुमुक्षूणां च लौकिके सतां चैतन्नामत्रितयं साधकमित्याह -- तस्मादिति। तस्मात्कारणाद्ब्रह्मवादिनां भगवद्भक्तानां यज्ञदानतपःक्रियाः भगवदर्थिकाःओम् इत्युदाहृत्य ताः सततं निरन्तरं विधानोक्ताः भगवत्प्रीत्यर्थं प्रवर्त्तन्ते प्रकर्षेण वर्त्तन्ते भवन्तीत्यर्थः।
वल्लभाचार्यव्याख्या
।।17.24।।त्रयाणामन्वयप्रकारं वदन्प्रथमंओं इत्यस्यान्वयप्रकारमाह -- तस्मादिति। स्पष्टम्।
आनन्दगिरिव्याख्या
।।17.24।।यस्माद्ब्राह्मणादीनां कारणं यस्माच्च ब्रह्मणो निर्देशस्तस्मादित्युपसंहरति -- तस्मादिति। ब्रह्मवादिनामित्यत्र ब्रह्म वेदः।
धनपतिव्याख्या
।।17.24।।यस्मार्देतस्सदिति ब्रह्मणो निर्देशो यस्माच्च ब्राह्णादीनां कारणं तस्मादोमित्युदाहृत्योच्चार्य ब्रह्मवादिनां वेदवादिनां यज्ञदानतपःक्रियाः विधानोक्ताः शास्त्रचोदिताः सततं सर्वदा प्रवर्तन्ते।
नीलकण्ठव्याख्या
।।17.24।।यस्मादेतन्नामत्रयपूर्वकं एतेषां विधानं सर्गादौ दृष्टं तस्मात्ित्रष्वेतेषु नामसु ओमित्येकमेव नाम उदाहृत्य ब्रह्मवादिनां वैदिकानां विधानोक्ताः वेदोक्ताः यज्ञादयः क्रियाः सततं प्रवर्तन्ते। तथा च श्रुतिःमिति ब्रह्मा प्रसौति मिति शास्त्राणि शंसन्ति मित्यध्वर्युः प्रतिगरं प्रतिगृणाति मिति सामानि गायन्ति इति यज्ञे सर्वेषामृत्विजां क्रिया कारपूर्विक इत्येतद्दर्शयति।
श्रीधरस्वामिव्याख्या
।।17.24।।इदानीं प्रत्येकमोंकारादीनां प्राशस्त्यं दर्शयिष्यन्नोंकारस्य तदेवाह -- तस्मादिति। यस्मादेवं ब्रह्मणो निर्देशः प्रशस्तस्तस्मादोमित्युदाहृत्य उच्चार्य कृता वेदवादीनां यज्ञाद्याः शास्त्रोक्ताः क्रियाः सततं सर्वदा अङ्गवैकल्येऽपि प्रकर्षेण वर्तन्ते। सगुणा भवन्तीत्यर्थः।
वेङ्कटनाथव्याख्या
[17.24] इति ह्यनन्तरमुच्यते। तेनैव प्रणवान्वयप्रकारोऽपि सूचित इत्यभिप्रायेणाऽऽह -- वेदान्वयिनस्त्रैवर्णिका इति।विहिताः इत्यस्य कर्त्रपेक्षायांचातुर्वर्ण्यं मया सृष्टम् [4।13] इत्यादिपरामर्शेनाऽऽहपुरा मयैव निर्मिता इति। वेदानां विहितत्वं यथापूर्वं प्रवर्तितत्वं? यो वै वेदांश्च प्रहिणोति तस्मै [श्वे.उ.6।18]अनादिनिधना ह्येषा वागुत्सृष्टा [म.भा.12।232।24कू.पु.पू.2।30] इत्यादिश्रुतिस्मृतिभिस्तन्नित्यत्वसिद्धेः।।।17.24।।तस्मात् इत्यादीनां चतुर्णां श्लोकानां प्रकृतप्रपञ्चनरूपतामाह -- त्रयाणामिति। ब्राह्मणवेदयज्ञानामित्यर्थः। यज्ञशब्दोऽत्र तपोदानादीनामुपलक्षकः? यज्ञतपःक्रिया इत्यादि ह्यनन्तरमुच्यते। अनुष्ठानस्वरूपानुप्रवेशात्तत्रापि प्राथम्याच्चात्रापि प्रथममोङ्कारस्योक्तिरित्यभिप्रायेणाऽऽहप्रथममिति।तस्मादिति -- सर्वस्रष्ट्रा मया तदैव तदन्वितत्वेन विहितत्वादित्यर्थः। करणव्युत्त्पत्त्या विधानमिह वैदिकं विधायकवाक्यमित्याहवेदविधानोक्ता इति। यज्ञदानादीनामोङ्कारपूर्वकत्वं तत्तद्विधायकैः सिद्धमित्यभिप्रायेणाऽऽह -- आदाविति। ओमित्युदाहरणं चात्र श्रुतवेदान्तानां सर्वान्तरपरब्रह्मानुसन्धानेन तत्समाराधनबुद्ध्याऽनुसन्धाय। स्मरति च भगवाञ्छौनकःहरिमेव स्मरेन्नित्यं कर्मपूर्वापरेषु च [वि.ध.] इति अश्रुतवेदान्तानामपि तद्वाचकशब्दाभिधानान्मङ्गलादिलाभोऽर्थसिद्धः। एवं च प्रणवस्य वैदिकसमस्तान्वयसिद्धिः। यद्यपि वसन्ते वसन्ते ज्योतिषा यजेत शरदि वाजपेयेन यजेत इत्यादिभिः कालविशेषनियताः क्रिया विधीयन्ते तथापि सर्वासां क्रियाणां प्रणवपूर्वकत्वे तु न कालविशेषनियम इति सततशब्दतात्पर्यमित्यभिप्रायेणाऽऽहसर्वदेति। स्वर्गसाधनत्वेनानुष्ठाने अपवर्गसाधनत्वेनानुष्ठाने च प्रणवान्वयः साधारण इति भावः। अत्र श्लोके वेदानामनुपादानेऽपि पूर्वश्लोकेब्राह्मणास्तेन वेदाश्च [17।23] इत्युक्तत्वात् यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृतिलीनस्य यः परः स महेश्वरः [तै.ना.6।10।24]ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा। स्रवत्यनोंकृतं पूर्वम् [मनुः2।74] इत्याद्यनुसारेणाऽऽह -- वेदाश्चेति।विधानोक्ताः इत्यनेन ब्रह्मवाचिशब्देन च वेदानामप्यत्र श्लोके प्रणवान्वयः सूचित इत्यभिप्रायेणाऽऽह -- एवमिति। ओमित्युदाहरणकर्तृत्वव्यपदेशेन तदन्वितब्रह्मवादित्वव्यपदेशेन च ब्राह्मणानामप्योमितिशब्देनान्वयः प्रदर्शित एवेत्याह -- ओमितिशब्दान्वितवेदधारणादिति।

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥१७- २५॥

व्याख्याः

शाङ्करभाष्यम्
।।17.25।। --,तम् इति अनभिसंधाय? तत् इति ब्रह्माभिधानम् उच्चार्य अनभिसंधाय च यज्ञादिकर्मणः फलं यज्ञतपःक्रियाः यज्ञक्रियाश्च तपःक्रियाश्च यज्ञतपःक्रियाः दानक्रियाश्च विविधाः क्षेत्रहिरण्यप्रदानादिलक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्षकाङ्क्षिभिः मोक्षार्थिभिः मुमुक्षुभिः।।ओंतच्छब्दयोः विनियोगः उक्तः। अथ इदानीं सच्छब्दस्य विनियोगः कथ्यते --,
माध्वभाष्यम्
।।17.25।।तत्फलं मे स्यादित्यनभिसन्धाय।
रामानुजभाष्यम्
।।17.25।।फलम् अनभिसंधाय वेदाध्ययनयज्ञतपोदानक्रियाः मोक्षकाङ्क्षिभिः त्रैवर्णिकैः याः क्रियन्ते? ताः ब्रह्मप्राप्तिसाधनतया ब्रह्मवाचिना तत् इतिशब्दनिर्देश्याः।सवः कः किं यत्तत्पदमनुत्तमम् (वि0 सह0 ना0 91) इति तच्छब्दो हि ब्रह्मवाची प्रसिद्धः।एवं वेदाध्ययनयज्ञादीनां मोक्षसाधनभूतानां तच्छब्दनिर्देश्यतया तत् इति शब्दान्वय उक्तः। त्रैवर्णिकानाम् अपि तथाविधवेदाध्ययनाद्यनुष्ठानाद् एव तच्छब्दान्वय उपपन्नः।अथ एषांसत् शब्दान्वयप्रकारं वक्तुं लोके सच्छब्दस्य व्युत्पत्तिप्रकारम् आह --
अभिनवगुप्तव्याख्या
।।17.23 -- 17.27।।इदानीं ये गुणत्रितयसंकटोत्तीर्णधियः ते क्रियां कथमाचरन्ति इति तादृक़्प्रकार उच्यते -- ओमित्यादि अभिधीयते इत्यन्तम्। ओं तत् सत् इत्येभिस्त्रिभिः शब्दैर्ब्रह्मणो निर्देशः? संमुखीकरणम्। तत्र ओम् इत्यनेन शास्त्रार्थोऽयमादेहसंबन्धमूरीकार्य इति सूच्यते।तत् इति सर्वनामपदेन सामान्यमात्राभिधायिना विशेषपरामर्शमात्रासमर्थेन फलानभिसंधानं ब्रह्मण्युच्यते अभिसंधानस्य विशेषपरिग्रहमन्तरेण अभावात् सकलविशेषानुग्राहित्वेऽपि सकलफलसंधाने सर्वकर्तृतायामपि विशिष्टफलायोगात्।सत् इत्यमुया श्रुत्या प्रशंसा अभिधीयते। क्रियमाणमपि इदं यज्ञादिकं दुष्टम् इति बुद्ध्या क्रियमाणं तामसतामेति। विशिष्टफलाभिसंधानेन च क्रियमाणं न च सत्? बन्धाधायकमेवेति। तस्मात् कर्तव्यमिदम् इति मन्वानाः [ फलविशेषमनभिसंदधानाः ] यज्ञादि कुर्वाणा अपि न बध्यन्ते। अनेनैवाभिप्रायेण आदिपर्वण्युक्तम् -- तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः।प्रसह्य वित्ताहरणं न कल्क स्तान्येव भावोपहतानि कल्कः।।( M? Adi? Ch? 1? verse 210 ) इति।कल्कः? बन्धकः। स्वाभाविक इति -- ब्राह्मणेन निष्कारणं षडङ्गं ( omits षडङ्गम् ) वेदादि अध्येतव्यम् इति। प्रसह्य? शास्त्रलोकप्रसिद्धोचितया चेष्टया। भावेन? सत्त्वादिगुणत्रययोगिना चित्तेन उपहतान्येतान्येव,( ?N?K उपहतान्येव ) बन्धकानि? नान्यथा इति तात्पर्यम्। अतो यज्ञादि यावच्छरीरभावितया कार्यमेव। तदर्थे [ च ] हितं ( N?K विहितम् ) कर्म अर्जनादि।यदि वा ओम् इत्यनेन समुपशान्तसमस्तप्रपञ्चम् तत् इत्यनेनोद्भिद्यमानविश्वतरङ्गपरामर्शमात्रात्मकेच्छास्वातन्त्र्य -- स्वभावम् सत् इत्यनेन इच्छास्वातन्त्र्यभरविजृम्भमाणभेदकम्? पूर्णत्वेऽपि तावच्चित्रस्वभावतया भवनमिति प्रतिपाद्यते। तथाचोक्तम्,सद्भावे साधुभावे च इति। तेन परमं प्रशान्तं ( S परमप्रशान्तरूपं ) रूपं पुरस्कृत्य दित्सायियक्षातितप्सात्मकेच्छातरङ्गसंगतं च मध्येकृत्य दानयज्ञतपःक्रियाकारककलापपरिपूर्णं यच्चरमं वपुः इदमुल्लसितम्? एतत् खलु समं त्रितयमनर्गलस्य स्वाभाविकं रूपम् इति कस्य किं कथं कुतः क्व ( N omits क्व ) केन फलं स्यादिति।
जयतीर्थव्याख्या
।।17.25।।तदित्यनभिसन्धाय इति वाक्यं ब्रह्मणीव यज्ञादावपि तच्छब्दस्य प्रवृत्तिं प्रतिपादयतीति ज्ञापयितुं योजयति -- तदिति। वेदोक्तं स्वर्गादिकम्।
मधुसूदनसरस्वतीव्याख्या
।।17.25।।द्वितीयं तच्छब्दं व्याचष्टे -- तदिति। तत्त्वमसीत्यादिश्रुतिप्रसिद्धं तदिति ब्रह्मणो नामोदाहृत्य फलमनभिसंधायान्तःकरणशुद्ध्यर्थं यज्ञतपःक्रिया दानक्रियाश्च विविधा मोक्षकाङ्क्षिभिः क्रियन्ते तस्मादतिप्रशस्तमेतत्।
पुरुषोत्तमव्याख्या
।।17.25।।भक्तानामुक्त्वा ज्ञानिनां द्वितीयनामसम्बन्धिफलमाह -- तदिति।तत् इति उदाहृत्य तद्ब्रह्मत्वाज्ञापरिपालनेन प्रीयादित्युदाहृत्य फलं स्वर्गादिसुखरूपम्? अनभिसन्धाय फलाभिलाषं मनस्यकृत्वा मोक्षकाङ्क्षिभिर्निर्दोषैर्यज्ञतपःक्रियाः यज्ञः अग्निहोत्रादिः? तपः कृच्छ्रादि? तदादयः क्रियाः क्रियन्ते। तच्छब्दोदाहणात्ताश्च सम्पन्ना भूत्वा मोक्षसम्पादिका भवन्तीत्यर्थः।
वल्लभाचार्यव्याख्या
।।17.25।।तदिति। तत्पदवाच्यं हि ब्रह्म? तत्सवितुरितिसर्वः कः किं यत्तत्पदमनुत्तमं [13।149।93] इति भारतसहस्रनामोक्तेः ब्रह्मैव फलमिति लौकिकं यत्तत्फलमनभिसन्धायात्र ब्रह्मवाचिना तदितिशब्देन निर्देश्या यज्ञादिक्रियाः क्रियन्ते मोक्षकाङ्क्षिभिरेव। अन्यैस्त्वन्यथेति निर्णयः।
आनन्दगिरिव्याख्या
।।17.25।।शब्दस्य विनियोगमुक्त्वा तच्छब्दस्य विनियोगमाह -- तदित्यादिना।
धनपतिव्याख्या
।।17.25।।ओमिति नाम्नो विनियोगमुक्त्वा तदित्यस्य विनियोगमाह -- तदिति। फलमनभिसंधाय मोक्षकाङ्क्षिभिः मुमुक्षुभिः यज्ञतपः क्रिया दानक्रियाश्च विविधाः क्षेत्रहिरण्यप्रदानादिलक्षणाः तदिति ब्रह्माभिधानमुच्चार्य क्रियन्ते निर्वर्त्यन्ते।
नीलकण्ठव्याख्या
।।17.25।।मिति नाम्नः काम्याकाम्यकर्मसाधारण्येन यज्ञादौ विनियोगमुक्त्वा तदिति नाम्नो निष्कामेषु मुमुक्षुकर्मसु विनियोगं दर्शयति -- तदिति। मोक्षकाङ्क्षिभिः फलमनभिसंधाय विविधाः यज्ञतपःक्रियाः दानक्रियाश्च क्रियन्ते इति योजना। ननु फलं चेन्नाभिसंधीयते तर्हि किमभिसंधाय क्रियन्त इत्याकाङ्क्षायामाह -- तदिति। क्रियन्ते इति। सर्वाः क्रियास्तदिति ब्रह्मेति क्रियन्ते। यथा ब्रह्मवादिभिःब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना इत्युक्तदिशा सर्वाः ससाधनफलाः क्रियाः ब्रह्मैवेदं सर्वमितिबुद्ध्या क्रियन्ते तथा मुमुक्षुभिरपीत्यर्थः। यदेव हि मुक्तानां स्वाभाविकं शीलं तदेव मुमुक्षूणां शास्त्रेण विधीयत इति प्रसिद्धेः। फलमनभिसंधायेति सान्निध्यात्तदितीत्यत्रापि सामर्थ्यादभिसंधायेति लभ्यते। तेन फलमनभिसंधाय तदित्यभिसंधाय क्रियाः प्रवर्तन्त इत्यन्वयोऽपि सुलभ एव। तदिति ब्रह्माभिधानमुच्चार्येति भाष्येऽपि उदाहृत्येति पूर्वश्लोकोक्तक्रियानुवृत्त्या योजनमस्मदुक्ताभिप्रायेणैव व्याख्येयम् उच्चारणस्यापि ब्रह्मानुसंधानार्थत्वादिति दिक्।
श्रीधरस्वामिव्याख्या
।।17.25।।द्वितीयं नाम प्रस्तौति -- तदिति। तदित्युदाहृत्येति पूर्वस्यानुषङ्गः। तदित्युदाहृत्य शुद्धचित्तैर्मोक्षकाङक्षिभिपुरुषैः फलाभिसंधिमकृत्वा यज्ञाद्याः क्रियाः क्रियन्ते अतश्चित्तशोधनद्वारेण फलसंकल्पत्याजनेन मुमुक्षुत्वसंपादकत्वात्तच्छब्दनिर्देशः प्रशस्त इत्यर्थः।
वेङ्कटनाथव्याख्या
।।17.25।।एवं स्वर्गापवर्गसाधनसमस्तवैदिकसाधारणं प्रणवान्वयरूपं लक्षणमुक्तम् अथ तत्सच्छदौ मोक्षसाधनानां त्रिवर्गसाधनानां च विशेषलक्षणतयोच्येते। वक्ष्यति चैतदष्टादशारम्भे [रा.भा.श्लो.1]वैदिकस्य च कर्मणः सामान्यलक्षणं प्रणवान्वयः तत्र मोक्षाभ्युदयसाधनयोर्भेदः तत्सच्छब्दनिर्देश्यत्वेन इति।एतेषामिति त्रयाणां परामर्शः। उक्तानां यज्ञादीनामुपलक्षणतया वेदेष्वपि तच्छब्दप्रवृत्तिज्ञापनाय वेदाध्ययनोपादानम्।मोक्षकाङ्क्षिभिः इत्यनेनसूचितमाब्रह्मप्राप्तिसाधनतयेति। तदिति -- फलमनभिसन्धायेत्यन्वयः। तच्छब्दाभिधेयब्रह्मप्राप्तिसाधनतया तच्छब्दोपचार्यतया बुद्ध्वा फलान्तरमनभिसन्धायेत्यर्थः। इति करणसामर्थ्यात्उदाहृत्य इति पदं वा पूर्वश्लोकादनुषञ्जनीयमित्यभिप्रायेणाऽऽहतदितिशब्दनिर्देश्या इति। तच्छब्दस्य ब्रह्मनामत्वे सिद्धे हि तेन तत्प्राप्तिसाधनतयेति लक्षणा? तदेव कुतः इत्यत्र तदिति श्रुतेरुपबृंहणेन विशदीकृतत्वमभिप्रेत्याऽऽहसव इति। भगवन्नामसहस्रेयानि नामानि गौणानि विख्यातानि महात्मनः [म.भा.13।149।13वि.स.ना.15] इति प्रक्रमात्नाम्नां सहस्रम् [म.भा.13।149।121वि.स.ना.157] इति निगमनाच्च यत्तदादिशब्दानां सर्वनामतया व्यापिनामपि विशेषतः साक्षात्परब्रह्मनामत्वं सिद्धमिति भावः। श्लोकेऽनुक्तस्यापि वेदाध्ययनस्य प्रयोजकेन सङ्गृहीतत्वमाहएवमिति। तथापि त्रयाणामन्वयो न सिध्यति? ब्राह्मणशब्दनिर्दिष्टानां त्रैवर्णिकानां मोक्षसाधनत्वनिबन्धनतच्छब्दनिर्देश्यत्वाभावादित्यत्राऽऽहत्रैवर्णिकानामपीति।मोक्षकाङ्क्षिभिः क्रियन्ते इत्यनेन परम्परया तदन्वयः सूचित इति भावः।

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥१७- २६॥

व्याख्याः

शाङ्करभाष्यम्
।।17.26।। --,सद्भावे? असतः सद्भावे यथा अविद्यमानस्य पुत्रस्य जन्मनि? तथा साधुभावे च असद्वृत्तस्य असाधोः सद्वृत्तता साधुभावः तस्मिन् साधुभावे च सत् इत्येतत् अभिधानं ब्रह्मणः प्रयुज्यते अभिधीयते। प्रशस्ते कर्मणि विवाहादौ च तथा सच्छब्दः पार्थ? युज्यते प्रयुज्यते इत्येतत्।।
माध्वभाष्यम्
।।17.26।।सद्भावशब्देन प्रजननं सूचितम्। मित्युक्त्वाऽनभिसन्धाय फलं यज्ञदानतपआदिकृतामतिप्रीतेर्नामसाम्याद्ब्रह्मैव निष्पादितं भवतीत्याशयः।
रामानुजभाष्यम्
।।17.26।।सद्भावे विद्यमानतायां साधुभावे कल्याणभावे च सर्ववस्तुषु सद् इति एतत् पदं प्रयुज्यते लोकवेदयोः। तथा केनचित् पुरुषेण अनुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्कर्म इदम् इति सच्छब्दो युज्यते प्रयुज्यते इत्यर्थः।
अभिनवगुप्तव्याख्या
।।17.23 -- 17.27।।इदानीं ये गुणत्रितयसंकटोत्तीर्णधियः ते क्रियां कथमाचरन्ति इति तादृक़्प्रकार उच्यते -- ओमित्यादि अभिधीयते इत्यन्तम्। ओं तत् सत् इत्येभिस्त्रिभिः शब्दैर्ब्रह्मणो निर्देशः? संमुखीकरणम्। तत्र ओम् इत्यनेन शास्त्रार्थोऽयमादेहसंबन्धमूरीकार्य इति सूच्यते।तत् इति सर्वनामपदेन सामान्यमात्राभिधायिना विशेषपरामर्शमात्रासमर्थेन फलानभिसंधानं ब्रह्मण्युच्यते अभिसंधानस्य विशेषपरिग्रहमन्तरेण अभावात् सकलविशेषानुग्राहित्वेऽपि सकलफलसंधाने सर्वकर्तृतायामपि विशिष्टफलायोगात्।सत् इत्यमुया श्रुत्या प्रशंसा अभिधीयते। क्रियमाणमपि इदं यज्ञादिकं दुष्टम् इति बुद्ध्या क्रियमाणं तामसतामेति। विशिष्टफलाभिसंधानेन च क्रियमाणं न च सत्? बन्धाधायकमेवेति। तस्मात् कर्तव्यमिदम् इति मन्वानाः [ फलविशेषमनभिसंदधानाः ] यज्ञादि कुर्वाणा अपि न बध्यन्ते। अनेनैवाभिप्रायेण आदिपर्वण्युक्तम् -- तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः।प्रसह्य वित्ताहरणं न कल्क स्तान्येव भावोपहतानि कल्कः।।( M? Adi? Ch? 1? verse 210 ) इति।कल्कः? बन्धकः। स्वाभाविक इति -- ब्राह्मणेन निष्कारणं षडङ्गं ( omits षडङ्गम् ) वेदादि अध्येतव्यम् इति। प्रसह्य? शास्त्रलोकप्रसिद्धोचितया चेष्टया। भावेन? सत्त्वादिगुणत्रययोगिना चित्तेन उपहतान्येतान्येव,( ?N?K उपहतान्येव ) बन्धकानि? नान्यथा इति तात्पर्यम्। अतो यज्ञादि यावच्छरीरभावितया कार्यमेव। तदर्थे [ च ] हितं ( N?K विहितम् ) कर्म अर्जनादि।यदि वा ओम् इत्यनेन समुपशान्तसमस्तप्रपञ्चम् तत् इत्यनेनोद्भिद्यमानविश्वतरङ्गपरामर्शमात्रात्मकेच्छास्वातन्त्र्य -- स्वभावम् सत् इत्यनेन इच्छास्वातन्त्र्यभरविजृम्भमाणभेदकम्? पूर्णत्वेऽपि तावच्चित्रस्वभावतया भवनमिति प्रतिपाद्यते। तथाचोक्तम्,सद्भावे साधुभावे च इति। तेन परमं प्रशान्तं ( S परमप्रशान्तरूपं ) रूपं पुरस्कृत्य दित्सायियक्षातितप्सात्मकेच्छातरङ्गसंगतं च मध्येकृत्य दानयज्ञतपःक्रियाकारककलापपरिपूर्णं यच्चरमं वपुः इदमुल्लसितम्? एतत् खलु समं त्रितयमनर्गलस्य स्वाभाविकं रूपम् इति कस्य किं कथं कुतः क्व ( N omits क्व ) केन फलं स्यादिति।
जयतीर्थव्याख्या
।।17.26।।सद्भावे सत्तायां इति प्रतीतिनिरासार्थमाह -- सद्भावेति। प्रजननं प्रागसतः सत्तापादनम्। यद्यपि सद्भावशब्दः सत्तामात्रवाची तथाप्यत्र ब्रह्मणो जगज्जनकत्वस्य विवक्षितत्वात्सत्ताविशेषप्रजननपर इति ज्ञायत इति प्रतिपादयितुं सूचितमित्युक्तम्। नन्वनेन यज्ञादीनां केतिकर्तव्यता प्रतिपादिता भवता इत्यत आह -- ओमिति। उक्तोङ्कारार्थज्ञानपूर्वकं अनभिसन्धाय फलं ब्रह्माभिसन्धाय च ब्रह्मज्ञानभक्तिपूर्वकं तद्विषयत्वेन निष्ठया वेदोक्तप्रकारेण ब्राह्मणैः सहेत्यपि ग्राह्यम्। आदिपदेन जपादिग्रहणम्। षष्ठी तृतीयार्थे? नामसाम्यात्। नामसाम्येनावगतात्तत्प्रतिमात्वात्। घटादीनामपि ब्रह्मप्रतिमात्वसाम्यात्को विशेषो यज्ञादेः इत्यत उक्तमतिप्रीतेरिति। ब्रह्मणः यज्ञादिषु निष्पादितं प्रतिष्ठापितम्। अत एवं क्रियमाणे यज्ञादिकं,सात्त्विकमन्यद्राजसं तामसं वेत्येवमितिकर्तव्यता प्रतिपादितेति वाक्यशेषः। अत्र हिओं तत्सत् [17।23] इत्यनेन ब्रह्मणो यन्नामत्रयं तद्यज्ञादेरपि वाचकमिति प्रतिपादितम्। तेन यज्ञादेर्ब्रह्मप्रतिमात्वं सूचितम्।ब्राह्मणाः इत्यादिनोङ्कारं ब्रह्मणि यज्ञादौ च व्युत्पाद्य तदुच्चारणाचार उक्तः। तेनार्थस्मरणपूर्वकमोङ्कारमुच्चार्य वेदोक्तप्रकारेण ब्राह्मणैः सह यज्ञादिकं कार्यमिति सूचितम्।तत् इत्यनेन तच्छब्दो यज्ञादौ ब्रह्मणि च व्युत्पादितः। तेन फलमनभिसन्धाय ब्रह्माभिसन्धाय चेति लब्धम्।सद्भावः इत्यनेन सच्छब्दो ब्रह्मणि व्याख्यातः। तेन ब्रह्मज्ञानपूर्वकमिति लभ्यते।
मधुसूदनसरस्वतीव्याख्या
।।17.26।।तृतीयं सच्छब्दं व्याचष्टे द्वाभ्यां -- सद्भाव इति।सदेव सोम्येदमग्र आसीत् इत्यादि श्रुतिप्रसिद्धं सदित्येतद्ब्रह्मणो नाम सद्भावेऽविद्यमानत्वशङ्कायां विद्यमानत्वे साधुभावे चासधुत्वशङ्कायां साधुत्वे च प्रयुज्यते शिष्टैः। तस्माद्वैगुण्यपरिहारेण यज्ञादेः साधुत्वं तत्फस्य च विद्यमानत्वं कर्तुं क्षममेतदित्यर्थः। तथा सद्भावसाधुभावयोरिव प्रशस्तेऽप्रतिबन्धेनाशुसुखजनके माङ्गलिके कर्मणि विवाहादौ सच्छब्दो हे पार्थ?,युज्यते प्रयुज्यते तस्मादप्रतिबन्धेनाशु फलजनकत्वं वैगुण्यपरिहारेण यज्ञादेः समर्थमेतन्नामेति,प्रशस्ततरमेतदित्यर्थः।
पुरुषोत्तमव्याख्या
।।17.26।।लौकिकसत्सु सदिति नाम तत्सम्पादकं भवतीत्याह -- सद्भाव इति। सद्भावे आस्तिक्यभावे साधुभावे उत्तमत्वभावे चसत् इत्येतन्नाम प्रयुज्यते तथा प्रशस्ते कर्मणि भगवदर्थके कर्मणि हे पार्थसत् इतिशब्दो युज्यते युक्तो भवतीति भावः।
वल्लभाचार्यव्याख्या
।।17.26।।सदित्यस्यान्वयप्रकारं लोके शब्दव्युत्पत्तिसिद्ध्या दर्शयति -- सद्भाव इति। अस्तीति सत् तस्मिन्भावे। अत्र भावो नाम वस्तु अन्यथा तत्रान्वस्थितिः स्यात् तेनसद्भावः इत्यत्र सत्पदेनाविर्भूतं भावो वस्त्वित्यभिधीयते। साधुभावे साधुत्वे च सदिति प्रयुज्यते। प्रशस्ते कर्मणि च सतो व्यापकस्य ब्रह्मणः,सर्वत्वश्रवणादेव तथा तथा प्रयोगः सर्वत्रोपपद्यते।
आनन्दगिरिव्याख्या
।।17.26।।वृत्तमनूद्यानन्तरश्लोकतात्पर्यमाह -- तच्छब्दयोरिति।
धनपतिव्याख्या
।।17.26।।तृतीयनाम्नो विनियोगमाह द्वाभ्यां -- सदिति। सतः सद्भावे यथाऽविद्यमानस्य पुत्रस्य जन्म तथा साधुभावेऽसदृत्तस्यासाधोः सदृत्तिता साधुमावस्तस्मिन्साधुभावे च सदित्येतत् ब्रह्मणोऽभिधानं प्रयुज्यतेऽभिधीयते। तथा प्रश्ते कर्मणि विवाहादौ च स सच्छब्दः प्रयुज्यते? पृथापुत्रे पार्थशब्दो यथेति सचयन्नाह -- पार्थेति।
नीलकण्ठव्याख्या
।।17.26।।तच्छब्दयोर्विनियोगमुक्त्वा सच्छब्दस्य विनियोगमाह द्वाभ्याम् -- सद्भावे इति। सद्भावे अस्तित्वे साधुभावे समीचीनत्वे सच्छब्दः सदिदं कर्मेति प्रशस्ते कर्मणि सत्सत्त्वं वेदोक्तत्वादस्त्येवेति सच्छब्दः प्रयुज्यते आस्तिकैः।
श्रीधरस्वामिव्याख्या
।।17.26।।सच्छब्दस्य प्राशस्त्यमाह -- सद्भाव इति द्वाभ्याम्। सद्भावे अस्तित्वे देवदत्तस्य पुत्रादिकमस्तीत्यस्मिन्नर्थे? साधुभावे च साधुत्वे देवदत्तस्य पुत्रादिश्रेष्ठमित्यस्मिन्नर्थे सदित्येतत्पदं प्रयुज्यते। प्रशस्ते माङ्गलिके विवाहादिकर्मणि च सदिदं कर्मेति सच्छब्दो युज्यते प्रयुज्यते संगच्छत इति वा।
वेङ्कटनाथव्याख्या
।।17.26।।त्रयाणां त्रिभिरन्वये प्रतिपिपादयिषितेसद्भावे साधुभावे च इत्यप्रस्तुतोपन्यासः किमर्थः इत्यत्राऽऽह -- अथैषामिति। यथा प्रयोगबलाद्विद्यमानत्वादिषु सच्छब्दप्रवृत्तिरङ्गीक्रियते? एवं प्रस्तुतेऽपीत्यभिप्रायेणानेकार्थोदाहरणंविद्यमानतायामिति असद्विलक्षणत्वरूपसत्त्वविषयो वा? वर्तमानत्वविषयो वा सद्भावशब्द इति भावः। साधुकारी साधुर्भवति [बृ.उ.4।4।5] इत्यादिष्विवात्रापि साधुशब्दः पुण्यादिरूपत्वपर इत्याहकल्याणभाव इति तच्छब्दान्वयेमोक्षकाङ्क्षिभिः इति विशेषणात्। इह तुप्रशस्ते कर्मणि इति प्रशस्ततामात्रनिमित्तवचनान्मोक्षेतरपुरुषार्थसाधनलक्षणतया सच्छब्दोऽत्र व्युत्पाद्यत इति भावः। अत्यन्तविजातीयेष्वप्युक्तोपाधिद्वययोगे सच्छब्दोऽनुवृत्त इत्यभिप्रायेणाऽऽह -- सर्ववस्तुष्विति।प्रयुज्यते इत्यविशेषनिर्देशात् प्रयोगस्य सार्वत्रिकत्वेन दार्ढ्यं सूच्यत इत्याहलोकवेदयोरिति।तथा इति प्रस्तुतासन्ने लौकिकोदाहरणार्थम् अन्यथा पुनरुक्तिप्रसङ्गात्? इत्यभिप्रायेणाऽऽहलौकिक इति।साधुभावे इति निर्दिष्टमेव निमित्तं प्रकृतासन्नोदाहरणान्तरे प्रशस्तशब्देनावतार्यत इत्यभिप्रायेणाऽऽह -- कल्याण इति। धातुलीनार्थव्यञ्जनमात्रमुपसर्गेण क्रियते। अतोऽत्र श्लोकेयुज्यतेप्रयुज्यते इतिपदद्वयमेकार्थमित्याहप्रयुज्यत इत्यर्थ इति।

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७- २७॥

व्याख्याः

शाङ्करभाष्यम्
।।17.27।। --,यज्ञे यज्ञकर्मणि या स्थितिः? तपसि च या स्थितिः? दाने च या स्थितिः? सा सत् इति च उच्यते विद्वद्भिः। कर्म च एव तदर्थीयं यज्ञदानतपोऽर्थीयम् अथवा? यस्य अभिधानत्रयं प्रकृतं तदर्थीयं यज्ञदानतपोऽर्थीयम् ईश्वरार्थीयम् इत्येतत् सत् इत्येव अभिधीयते। तत् एतत् यज्ञदानतपआदि कर्म असात्त्विकं विगुणमपि श्रद्धापूर्वकं ब्रह्मणः अभिधानत्रयप्रयोगेण सगुणं सात्त्विकं संपादितं भवति।।तत्र च सर्वत्र श्रद्धाप्रधानतया सर्वं संपाद्यते यस्मात्? तस्मात् --,
रामानुजभाष्यम्
।।17.27।।अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सद् इति उच्यते। कर्म च तदर्थीयं त्रैवर्णिकार्थीयं यज्ञदानादिकं सद् इति एव अभिधीयते।तस्माद् वेदा वैदिकानि कर्माणि ब्राह्मणशब्दनिर्दिष्टाः त्रैवर्णिकाः चओं तत् सत् इति शब्दान्वयरूपलक्षणेन अवेदेभ्यः च अवैदिकेभ्यः च व्यावृत्ता वेदितव्याः।
अभिनवगुप्तव्याख्या
।।17.23 -- 17.27।।इदानीं ये गुणत्रितयसंकटोत्तीर्णधियः ते क्रियां कथमाचरन्ति इति तादृक़्प्रकार उच्यते -- ओमित्यादि अभिधीयते इत्यन्तम्। ओं तत् सत् इत्येभिस्त्रिभिः शब्दैर्ब्रह्मणो निर्देशः? संमुखीकरणम्। तत्र ओम् इत्यनेन शास्त्रार्थोऽयमादेहसंबन्धमूरीकार्य इति सूच्यते।तत् इति सर्वनामपदेन सामान्यमात्राभिधायिना विशेषपरामर्शमात्रासमर्थेन फलानभिसंधानं ब्रह्मण्युच्यते अभिसंधानस्य विशेषपरिग्रहमन्तरेण अभावात् सकलविशेषानुग्राहित्वेऽपि सकलफलसंधाने सर्वकर्तृतायामपि विशिष्टफलायोगात्।सत् इत्यमुया श्रुत्या प्रशंसा अभिधीयते। क्रियमाणमपि इदं यज्ञादिकं दुष्टम् इति बुद्ध्या क्रियमाणं तामसतामेति। विशिष्टफलाभिसंधानेन च क्रियमाणं न च सत्? बन्धाधायकमेवेति। तस्मात् कर्तव्यमिदम् इति मन्वानाः [ फलविशेषमनभिसंदधानाः ] यज्ञादि कुर्वाणा अपि न बध्यन्ते। अनेनैवाभिप्रायेण आदिपर्वण्युक्तम् -- तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः।प्रसह्य वित्ताहरणं न कल्क स्तान्येव भावोपहतानि कल्कः।।( M? Adi? Ch? 1? verse 210 ) इति।कल्कः? बन्धकः। स्वाभाविक इति -- ब्राह्मणेन निष्कारणं षडङ्गं ( omits षडङ्गम् ) वेदादि अध्येतव्यम् इति। प्रसह्य? शास्त्रलोकप्रसिद्धोचितया चेष्टया। भावेन? सत्त्वादिगुणत्रययोगिना चित्तेन उपहतान्येतान्येव,( ?N?K उपहतान्येव ) बन्धकानि? नान्यथा इति तात्पर्यम्। अतो यज्ञादि यावच्छरीरभावितया कार्यमेव। तदर्थे [ च ] हितं ( N?K विहितम् ) कर्म अर्जनादि।यदि वा ओम् इत्यनेन समुपशान्तसमस्तप्रपञ्चम् तत् इत्यनेनोद्भिद्यमानविश्वतरङ्गपरामर्शमात्रात्मकेच्छास्वातन्त्र्य -- स्वभावम् सत् इत्यनेन इच्छास्वातन्त्र्यभरविजृम्भमाणभेदकम्? पूर्णत्वेऽपि तावच्चित्रस्वभावतया भवनमिति प्रतिपाद्यते। तथाचोक्तम्,सद्भावे साधुभावे च इति। तेन परमं प्रशान्तं ( S परमप्रशान्तरूपं ) रूपं पुरस्कृत्य दित्सायियक्षातितप्सात्मकेच्छातरङ्गसंगतं च मध्येकृत्य दानयज्ञतपःक्रियाकारककलापपरिपूर्णं यच्चरमं वपुः इदमुल्लसितम्? एतत् खलु समं त्रितयमनर्गलस्य स्वाभाविकं रूपम् इति कस्य किं कथं कुतः क्व ( N omits क्व ) केन फलं स्यादिति।
जयतीर्थव्याख्या
।।17.27।।यज्ञे तपसि ৷৷. कर्म चैव इत्यनेन यज्ञादिषु सच्छब्दो व्याख्यातः। तेन ब्रह्मविषयत्वेन निष्ठया चेति लब्धम्।
मधुसूदनसरस्वतीव्याख्या
।।17.27।।यज्ञे तपसि दाने च या स्थितिस्तत्परतयावस्थितिर्निष्ठा सापि सदित्युच्यते विद्वद्भिः। कर्म चैव तदर्थीयं तेषु यज्ञदानतपोरूपेष्वर्थेषु भवं तदनुकूलमेव च कर्म अथवा यस्य ब्रह्मणो नामेदं प्रस्तुतं तदेवार्थो विषयो यस्य तदर्थं शुद्धब्रह्मज्ञानं तदनुकूलं कर्म तदर्थीयं भगवदर्पणबुद्ध्या क्रियमाणं कर्म वा तदर्थीयं सदित्येवाभिधीयते तस्मात्सदिति नाम कर्मवैगुण्यापनोदनसमर्थं प्रशस्ततरं यस्यैकैकोऽवयवोऽप्येतादृशः किमु वक्तव्यं तत्समुदायस्योंतत्सदिति निर्देशस्य माहात्म्यमिति संपिण्डितार्थः।
पुरुषोत्तमव्याख्या
।।17.27।।अथ भगवत्परत्वं सर्वत्रैव सच्छब्दे एवोच्यते इत्याह -- यज्ञे तपसीति। यज्ञे अग्निहोत्रादौ? तपसि कृच्छ्रादौ? दाने तुलापुरुषादौ या स्थितिः भगवदेकनिष्ठतया करणं तद्रूपा च सा सदिति उच्यते। च पुनः। तदर्थीयमेव कर्म यस्यैतन्नामत्रयं तस्य भगवत एव अर्थीयं सेवादिसामग्री सम्पादनरूपं सदित्येव अभिधीयते।
वल्लभाचार्यव्याख्या
।।17.27।।किञ्च यज्ञ इति। तपसि दाने च स्थितिः सदिति चोच्यते। स्थादिधातुगणे भुवो व्यापकत्वं? तदनुकृञश्चेति यज्ञपत्युपाध्यायाः प्रोचुः। अतएवोक्तं -- सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः। तस्यापि भगवानेष किमतद्वस्तु रूप्यताम् इति। तथा सति सत्पदं (श्रेयोवचनं) निष्ठावचनमुक्तम्। कर्म चैव तदर्थीयं सदुत्तममित्येवाभिधीयते। एतेनमां विधत्तेऽभिधत्ते मां [भाग.11।21।43] इति प्राक्तनकर्मसदाचारपरिपाटी दर्शिता।
आनन्दगिरिव्याख्या
।।17.27।।प्रकारान्तरेण सच्छब्दस्य विनियोगमाह -- यज्ञ इति। नामत्रयोच्चारणेन साद्गुण्यं सिध्यतीति प्रकरणार्थमुपसंहरति -- तदेतदिति।
धनपतिव्याख्या
।।17.27।।यज्ञे यज्ञकर्मणि या स्तिथिस्तथा तपसि या स्थितिः दाने च या स्थितिः सा च विद्वद्भिः सदित्युच्यते। तदर्थीयं यज्ञदानतपोर्थीयं अथवा यस्याभिधानत्रयं प्रकृतं तदर्थीयमीश्वरार्थीयमित्येतत्सदित्येवाभिधीयते। तदेतद्यज्ञतपआदिकर्म असात्त्विकं विगुणमभक्तिपूर्वकमपि ब्रह्मणोऽभिधानत्रयेण सात्त्विकं सगुणं सभिक्तकं संपादितं भवत्यतोऽवश्यमोंतत्सदिति ब्रह्मणोऽभिधानत्रयमुदाहृत्य यज्ञादि प्रवर्तननीयमिति प्रकरणार्थः।
नीलकण्ठव्याख्या
।।17.27।।किंच यज्ञादौ स्थितिर्निष्ठा सदिति समीचीनेति उच्यते। तदर्थः सच्छब्दार्थो ब्रह्म तदीयं तदर्थं कृतं तदर्थीयं परमेश्वरप्राप्त्यर्थं कृतं कर्म सदित्येव समीचीनमित्येवाभिधीयते लोके। तदेवं असात्त्विकं विगुणं वा यज्ञादिकं श्रद्धापूर्वकं ब्रह्मणोऽभिधानत्रयोच्चारणेन सात्त्विकं सद्गुणं च संपादितं भवति।
श्रीधरस्वामिव्याख्या
।।17.27।।किंच -- यज्ञ इति। यज्ञादिषु च या स्थितिस्तात्पर्येणावस्थानं तदपि सदित्युच्यते। यस्य चेदं नामत्रयं स एव परमात्मा अर्थः फलं यस्य तत्तदर्थं कर्म पूजोपहारगृहाङ्गणपरिमार्जनोपलेपरङ्गमाङ्गलिकादिक्रियास्तत्सिद्धये यदन्यत्कर्म क्रियते उद्यानशालिक्षेत्रधनार्जनादिविषयं तत्कर्म तदर्थीयं। तच्चातिव्यवहितमपि सदित्येवाभिधीयते। यस्मादेवमतिप्रशस्तमेतन्नामत्रयं तस्मादेतत्सर्वकर्मसाद्गुण्यार्थं कीर्तयेदिति तात्पर्यार्थः। अत्र चार्थवादानुपपत्त्या विधिः कल्प्यतेविधेयं स्तूयते वस्तु इति न्यायात्। अपरे तुप्रवर्तन्ते विधानोक्ताः? क्रियन्ते मोक्षकाङ्क्षिभिः इत्यादि वर्तमानोपदेशःसमिधो यजति इत्यादिवद्विधितया परिणमनीय इत्याहुः। तत्तुसद्भावे साधुभावे च इत्यादिषु प्राप्तार्थत्वान्न संगच्छत इति पूर्वोक्तक्रमेण विधिकल्पनैव ज्यायसी।
वेङ्कटनाथव्याख्या
।।17.27।।एवं सच्छब्दस्य व्युत्पत्तिप्रकारं प्रयोगं चोदाहृत्य तदुपजीवनेनानन्तरं लिलक्षयिषिते ब्राह्मणादित्रिके तत्प्रयोगोपपत्तिरुपसंह्रियत इत्यभिप्रायेणाऽऽहअत इति। स्थितिमुखेन स्थातृ़णां स्थापकानां च वेदानां सच्छब्दार्थान्वयोऽर्थादुच्यत इत्यभिप्रायेणाऽऽहवैदिकानामिति। अध्यायान्तेषुओं तत्सत् इति पाठात्स्थितिशब्दोऽत्र अन्तपर इति व्याख्यान्तरं प्रकृतोपयुक्तप्रसिद्धतमार्थे सम्भवत्ययुक्तमिति भावः। स्थितिशब्देन बुद्धावुपस्थापिताः स्थातारस्तच्छब्देन परामृश्यन्त इत्यभिप्रायेणाऽऽहत्रैवर्णिकार्थीयमिति। त्रिविधनिर्देशविषयतयाप्रकृतेश्वरार्थीयम् इति(शां) व्याख्यान्तरमतिव्यवहितपरामर्शात्सर्वेषां यज्ञादीनामतदर्थीयत्वाच्च अयुक्तमिति भावः। यज्ञाद्यर्थीयसाधनसम्पादनरूपकर्मणि सच्छब्दनिर्देशवचनादपि प्रक्रान्ते यज्ञादावेव तदुक्तिरिहोपपन्नेत्यभिप्रायेणाऽऽहयज्ञदानादिकमिति।तदर्थीयम् इति सामान्यसङ्ग्रहावलम्बिना आदिशब्देनाध्ययनादिग्रहणाद्वेदानामपि सच्छब्दान्वयोऽत्र प्रदर्शित एव। भवत्वेवं त्रयाणां त्रिभिरन्वयः? तदुक्तिरिह किमर्था इत्यत्र लक्षणोक्तिप्रयोजनभूतविविक्तानुसन्धानप्रतिपादनमुखेनओं तत्सत् इत्यादिश्लोकैः फलितं वदन्नुपसंहरतितस्मादिति। यत्तु -- कैश्चित्ओं तत्सत् इत्यमीषां वाक्यत्वकल्पनेन वाक्यार्थवर्णनं? यत्फलाभिसन्धिरहितं कर्म? तच्छोभनमिति युक्तम् तदोंतदेवेत्यर्थ इति एतदेवं विवक्षितमित्यत्र न कश्चिद्धेतुः न चोपयोगः लक्षणत्वाभिधानं त्वनुष्ठानोक्तमिति भावः।

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥१७- २८॥

व्याख्याः

शाङ्करभाष्यम्
।।17.28।। --,अश्रद्धया हुतं हवनं कृतम्? अश्रद्धया दत्तं ब्राह्मणेभ्यः? अश्रद्धया तपः तप्तम् अनुष्ठितम्? तथा अश्रद्धयैव कृतं यत् स्तुतिनमस्कारादि? तत् सर्वम् असत् इति उच्यते? मत्प्राप्तिसाधनमार्गबाह्यत्वात् पार्थ। न च तत् बहुलायासमपि प्रेत्य फलाय नो अपि इहार्थम्? साधुभिः निन्दितत्वात् इति।।इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य,श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्येसप्तदशोऽध्यायः।।
माध्वभाष्यम्
।।17.28।।तथाच ऋग्वेदखिलेषु -- यज्ञाद्या निष्फलं कर्म तत्स्यात्सद्वै तदर्थकं कर्म वदन्ति देवाः। तच्छब्दानां सन्निधेर्ब्रह्मप्रीतेस्तद्रूपत्वाज्जनितं ब्रह्म तस्य इति।
रामानुजभाष्यम्
।।17.28।।अश्रद्धया कृतं शास्त्रीयम् अपि होमादिकम् असद् इति उच्यते। कुतः न च तत् प्रेत्य नो इह? न मोक्षाय न सांसारिकाय च फलाय इति।
अभिनवगुप्तव्याख्या
।।17.28।।इदानीमश्रद्धावतः तामसं कर्म सर्वथा ( S सर्वथैव ) निष्फलं कारककलापसंयोजनसमुपजनितप्रयासमात्रफलमेव ( Nसंयोजनमुपजनित -- ) ? इति सर्वथैव ( S सर्वथा ) अश्रद्धावता न भाव्यमित्युच्यते -- अश्रद्धयेति। असदिति -- अप्रशस्तम्। तस्मात् प्रशस्ते कर्मणि यतमानानां सुखेनैव भवति शिवम् इति।।।शिवम्।।अत्र संग्रहश्लोकः -- स एव कारकावेशः क्रिया सैवाविशेषिणी।तथापि विज्ञानवतां मोक्षार्थे पर्यवस्यति।।।।इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे सप्तदशोऽध्यायः।।
जयतीर्थव्याख्या
।।17.28।।अश्रद्धया इत्यनेन ब्रह्मभक्तिरपीति अत्र श्रुतिसम्मतिमाह -- तथा चेति। ओं यज्ञाद्याः वेदाद्योतत्वात्। निष्फलं फलोद्देशरहितत्वात्तदर्थं ब्रह्मविषयम्। एवं तच्छब्दानां ब्रह्मशब्दानाम्। यज्ञादिषु सन्निधेरवगततद्रूपत्वात् तत्प्रतिमात्वात् तस्योक्तप्रकारेण यज्ञादीनामनुष्ठातुः।
मधुसूदनसरस्वतीव्याख्या
।।17.28।।यद्यालस्यादिना शास्त्रीयं विधिमुत्सृज्य श्रद्दधानस्यैव वृद्धव्यवहारमात्रेण यज्ञतपोदानादि कुर्वतां प्रमादाद्वैगुण्ये प्राप्ते तत्सदिति ब्रह्मनिर्देशेन तत्परिहारस्तर्ह्यश्रद्दधानतया शास्त्रीयं विधिमुत्सृज्य कामकारेण यत्किंचिद्यज्ञादि कुर्वतामसुराणामपि तेनैव वैगुण्यपरिहारः स्यादिति कृतं श्रद्धया सात्त्विकत्वहेतुभूतयेत्यत आह -- अश्रद्धयेति। अश्रद्धया यद्धुतं हवनं कृतमग्नौ दत्तं यद्ब्राह्मणेभ्यो यत्तपस्तप्तं यच्चान्यत्कर्म कृतं स्तुतिनमस्कारादि तत्सर्वमश्रद्धया कृतमसदसाध्वित्युच्यते। अत ओंतत्सदिति निर्देशेन न तस्य साधुभावः शक्यते कर्तुं सर्वथा तदयोग्यत्वाच्छिलाया इवाङ्कुरस्तत्कस्मादसदित्युच्यते शृणु हे पार्थ? चो हेतौ। यस्मात्तदश्रद्धाकृतं न प्रेत्य परलोके फलति विगुणत्वेनापूर्वाजनकत्वान्नो इह नापीह लोके यशः साधुभिर्निन्दितत्वात्। अत ऐहिकामुष्मिकफलविकलत्वादश्रद्धाकृतस्य सात्त्विक्या श्रद्धयैव सात्त्विकं यज्ञादि कुर्यादन्तःकरणशुद्धये। तादृशस्यैव श्रद्धापूर्वकस्य सात्त्विकस्य यज्ञादेर्दैवाद्वैगुण्यशङ्कायां ब्रह्मणो नामनिर्देशेन साद्गुण्यं संपादनीयमिति परमार्थः। श्रद्धापूर्वकसात्त्विकमपि यज्ञादि विगुणं ब्रह्मणो नामनिर्देशेन सात्त्विकं च संपादितं भवतीति भाष्यम्। तदेवमस्मिन्नध्याये आलस्यादिनाऽनादृतशास्त्राणां श्रद्धापूर्वकं वृद्धव्यवहारमात्रेण प्रवर्तमानानां शास्त्रानादरेणासुरसाधर्म्येण श्रद्धापूर्वकानुष्ठानेन च देवसाधर्म्येण किमसुरा अमी देवावेत्यर्जुनसंशयविषयाणां राजसतामसश्रद्धापूर्वकं राजसतामसयज्ञादिकारिणोऽसुराः। शास्त्रीयज्ञानसाधनानधिकारिणः सात्त्विकश्रद्धापूर्वकं सात्त्विकयज्ञादिकारिणस्तु देहाः शास्त्रीयज्ञानसाधनाधिकारिण इति श्रद्धात्रैविध्यप्रदर्शनमुखेनाहारादित्रैविध्यप्रदर्शनेन च भगवता निर्णयः कृत इति सिद्धम्।
पुरुषोत्तमव्याख्या
।।17.28।।अथैतदतिरिक्तं श्रद्धाविहीनमेतदपि असदित्युच्यत इत्याह -- अश्रद्धयेति। अश्रद्धया श्रद्धां विना हुतं हवनादिकं? दत्तं दानादि? तप्तं तपः? च पुनः यत्किञ्चित् कृतं कर्म यागतीर्थस्नानादिकं? हे पार्थ मद्भक्त तत्सर्वं असदित्युच्यते? तच्च प्रेत्य परलोके न फलति मत्सम्बन्धाभावात्। इह लोके न फलं? सदनादृतत्वात्। अतो मत्सम्बन्ध्येव लौकिकालौकिकं फलतीति तदेव कर्त्तव्यमिति निरूपितम्।निष्फलं त्रिगुणं कर्म सश्रद्धमपि यत्कृतम्। सफलं निर्गुणं चातः कर्त्तव्यमिति रूपितम्।
वल्लभाचार्यव्याख्या
।।17.28।।किञ्च यज्ञादिकं हुतादिकं च यत्कृतं अश्रद्धया शास्त्रीयश्रद्धाराहित्येन तदसद्व्यर्थमित्यर्थः। कुतः न च तत्प्रेत्य नो इहेति उभयलोकसुखासाधकत्वादित्यर्थः।
आनन्दगिरिव्याख्या
।।17.28।।अश्रद्धान्वितस्यापि कर्मणो नामत्रयोच्चारणादवैगुण्ये श्रद्धाप्राधान्यं न स्यादित्याशङ्क्याह -- तत्र चेति। सप्तमीभ्यां प्रकृतं यज्ञादि गृह्यते सर्वं यज्ञादि सगुणमिति शेषः। तस्यासत्त्वं साधयति -- मत्प्राप्तीति। ऐहिकामुष्मिकं वा फलमश्रद्धितेनापि कर्मणा संपत्स्यते कुतोऽस्यासत्त्वमित्याशङ्क्याह -- नचेति। तस्योभयविधफलाहेतुत्वे हेतुमाह -- साधुभिरिति। निन्दन्ति हि साधवः श्रद्धारहितं कर्मातो नैतदुभयफलौपयिकमित्यर्थः। तदनेन शास्त्रानभिज्ञानमपि श्रद्धावतां श्रद्धया सात्त्विकत्वादित्रैविध्यभाजां राजसतामसाहारादित्यागेन सात्त्विकाहारादिसेवया सत्त्वैकशरणानां प्राप्तमपि यज्ञादिवैगुण्यं ब्रह्मनामनिर्देशेन,परिहरतां परिशुद्धबुद्धीनां श्रवणादिसामग्रीसंजाततत्त्वसाक्षात्कारवतां मोक्षोपपत्तिरिति स्थितम्।इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दगिरिकृतौ सप्तदशोऽध्यायः।।17।।
धनपतिव्याख्या
।।17.28।।तत्र सर्वत्रास्तिक्यलक्षणायाः श्रद्धायाः प्रधानतया सर्वं तथैव संपाद्यते यस्मात्तस्मांदश्रद्धया हुतं हव्यवहनं कृतं दत्तं च ब्राह्णेब्यो यत्तपस्तप्तं यच्चान्यत्कर्म स्तुतिनमस्कारादिकृतं तत्सर्वमसदित्युच्यते सत्प्राप्तिमार्गादास्तिदास्तिक्यलक्षणाद्वाह्यत्वात्। असत्त्वमेव प्रतिपादयति। नच तद्वह्वायासमपि प्रेत्य मृत्वा नापीह यशोरुपफलाय साधुभिर्निन्दितत्वात्। हुतमित्युक्त्या विहिते कर्मणि श्रद्धावनधिकारी प्रतिषिद्धे तु श्रद्धारहितोऽपीति बोधितम्। एतेन निषेधलङ्गिनो नास्तिकस्य प्रत्यवायाभावप्रसङ्गो निरस्तः। ननुयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इति श्रुत्या श्रद्धया कुतं वीर्यवत्तरं चेत् श्रद्धारहितमपि वीर्यवदित्यर्थाद्वोधितमिति कथं भगवता प्रोक्तमसदित्युच्यत इति। नैष दोषः। यतः श्रुतिस्तश्रद्धापदं भक्तिरुपश्रद्धापरं स्मृतिस्थं तु विश्वसात्मकश्रद्धापरम्। एवंच नास्तिक्यबुद्य्धा कृतं सर्वं निरर्थकमेवातो नास्तिक्यं श्रेयोर्थिभिः सर्वथैव हेयमिति भावः। पृथा पुत्रस्य तव तु कदापि तन्नेचितमिति सूचयन्संबोधयति पार्थेति।तदनेन सप्तदशाध्यायेन श्रद्धादित्रैविध्यं निरुपयता शास्त्रानभिज्ञानामपि सात्त्विकश्रद्धावतां राजसतामसाहारदिपरिवर्जनेन सात्त्विकाहारादिसेवया सत्त्वैकशरणानां प्राप्तमपि यज्ञादिवैगुण्यं ब्रह्मनामनिर्देशेन परिहरतां परिशुद्धबुद्धीनां श्रवणादिना ब्रह्मात्मसाक्षात्कारो भवतीति प्रदर्शितम्।।इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीबालस्वामिश्रीपादशिष्यदत्तवंशावतंसरामकुमारसूनुधनपतिविदुषा विरचितायां श्रीकीताभाष्योत्कर्षदीपिकायां सप्तदशोऽध्यायः।।17।।
नीलकण्ठव्याख्या
।।17.28।।सर्वत्र श्रद्धैव साद्गुण्यहेतुरिति व्यतिरेकमुखेनाह -- अश्रद्धयेति। हुतं होमः। दत्तं दानम्। तपस्तप्तमनुष्ठितम् कृतमश्रद्धया विहितं भगवन्नामस्मरणमपि यच्चान्यत्तत्सर्वमसत् अभावभूतमित्युच्यते। पार्थ? अतएव तत् प्रेत्य मृत्वा परलोके नोपयुज्यते। इहास्मिन् लोके वा नो नैवोपयुज्यते। तस्मात् श्रद्धैव सात्त्विकी मातेव सुखकामैः शरणीकरणीयेति भावः।
श्रीधरस्वामिव्याख्या
।।17.28।।इदानीं सर्वकर्मसु श्रद्धयैव प्रवृत्त्यर्थमश्रद्धाकृतं सर्वं निन्दति -- अश्रद्धयेति। अश्रद्धया हुतं हवनं? दत्तं दानं? तप्तं निर्वर्तितं तपः। यच्चान्यदपि कृतं कर्म तत्सर्वमसदित्युच्यते। यतस्तत्प्रेत्य लोकान्तरे न फलति विगुणत्वात्। नो इह न चास्मिंल्लोके फलति? अयशस्करत्वात्।
वेङ्कटनाथव्याख्या
।।17.28।।शास्त्रविधिमुत्सृज्य [16।27] इत्यादिना अध्यायारम्भे प्रश्नोत्तरमुखेन श्रद्धायुक्तस्याप्यशास्त्रीयस्यासुरत्वेनासत्त्वं प्रतिपाद्य शास्त्रीयस्य ततो व्यावृत्तिर्दर्शिता इदानीं व्यतिरेकेण प्रकृतानां सदिति निर्देशार्हत्वदृढीकरणाय शास्त्रीयस्यापि श्रद्धारहितस्यासत्त्वमुच्यते। विशिष्टव्यतिरेकस्य विशेषणाभावे विशेष्याभावे च समानत्वादित्यभिप्रायेणाऽऽहअश्रद्धया कृतं शास्त्रीयमपीति। कृतशब्दस्य हुतदत्तयोरन्वयः।तप्तम् इत्यनेन तपसः कृतत्वसिद्धेर्हुतदत्तशब्दावत्र भावार्थौ। एवं कृतशब्दस्य विशेषणतयाऽन्वयेऽपेक्षिते सामान्यविषयपरोपकारादिविषयत्वक्लृप्तिरयुक्तेति च भावः। यद्यप्यशास्त्रीयवन्निरयपतनैकहेतुत्वं नास्ति? तथापि तत्तद्वाक्योदितफलाभावादसत्त्वमुपपद्यत इत्यभिप्रायेण हेत्वाकाङ्क्षां दर्शयतिकुत इति।येयं प्रेते [कठो.1।1।20] इति श्रुत्यविरोधेन प्रेत्यशब्दस्य मुक्तदशाविषयत्वोपपत्तौमोक्षकाङ्क्षिभिः [17।25] इत्याद्युक्तफलव्यतिरेकस्यन च तत्प्रेत्य इत्यादिना विवक्षितत्वमाहन मोक्षायेति। परिशेषसिद्धमिहशब्दस्यार्थमाहन सांसारिकाय फलायेति।,श्रद्धायुक्तमप्यवैदिकं? वैदिकमपि श्रद्धाहीनं दृष्टादृष्टप्रयोजनविरहादननुष्ठेयम् उभयविधप्रयोजनयोगाद्वैदिकमेव श्रद्धापूतमेवानुष्ठेयमित्यध्यायसार इति भावः।इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु भगवद्रामानुजविरचितश्रीमद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायां सप्तदशोऽध्यायः।।17।।

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥१७॥