ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७ ब्रह्माण्डपुराणम्/पूर्वभागः
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →

सूत उवाच
ततोभिध्यायतस्तस्य मानस्यो जज्ञिरे प्रजाः ।
तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह ॥ १,८.१ ॥

क्षेत्रज्ञाः समवर्त्तन्त क्षेत्रस्यैतस्य धीमतः ।
ततो देवासुरपितॄन्मनुष्यांश्च चतुषृयम् ॥ १,८.२ ॥

सिसृक्षुरयुतातानि स चात्मानमयूयुजत् ।
युक्तात्मनस्ततस्तस्य तमोमात्रासमुद्भवः ॥ १,८.३ ॥

तदाभिध्यायतः सर्गं प्रयत्नोऽभूत्प्रजापतेः ।
ततोऽस्य जघ नात्पूर्वमसुरा जज्ञिर सुताः ॥ १,८.४ ॥

असुः प्राणः स्मृतो विज्ञैस्तज्जन्मानस्ततोऽसुराः ।
सृष्टा यया सुरास्तन्वा तां तनुं स व्यपोहत ॥ १,८.५ ॥

सापविद्धा तनुस्तेन सद्यो रात्रिरजायत ।
सा तमोबहुला यस्मात्ततो रात्रिस्त्रियामिका ॥ १,८.६ ॥

आवृतास्तमसा रात्रौ प्रजा स्तस्मात्स्वयं पुनः ।
सृष्ट्वासुरांस्ततः सोऽथ तनुमन्यामपद्यत ॥ १,८.७ ॥

अव्यक्तां सत्त्वबहुलां ततस्तां सोऽभ्ययुञ्जत ।
ततस्तां युञ्ज मानस्य प्रियमासीत्प्रभोः किल ॥ १,८.८ ॥

ततो मुखात्समुत्पन्ना दीव्यतस्तस्य देवताः ।
यतोऽस्य दीव्यतो जातास्तेन देवाः प्रकीर्त्तिताः ॥ १,८.९ ॥

धातुर्दिव्येति यः प्रोक्तः क्रीडायां स विभाव्यते ।
तस्मात्तन्वास्तु दिव्याया जज्ञिरे तेन देवताः ॥ १,८.१० ॥

देवान् सृष्ट्वा ततः सोऽथ तनुं दिव्यामपोहत ।
उत्सृष्टा सा तनुस्तेन अहः समभवत्तदा ॥ १,८.११ ॥

तस्मादहःकर्मयुक्ता देवताः समुपासते ।
देवान्सृष्ट्वा ततः सोऽथ तनुमन्यामपद्यत ॥ १,८.१२ ॥

सत्त्वमात्रात्मिकामेव ततोऽन्यामभ्ययुङ्क्त वै ।
पितेव मन्यमानस्तान्पुत्रान्प्रध्याय स प्रभुः ॥ १,८.१३ ॥

पितरो ह्यभवंस्तस्या सध्ये रात्र्यहयोः पृथक् ।
तस्मात्ते पितरो देवाः पितृत्वं तेषु तत्स्मृतम् ॥ १,८.१४ ॥

ययासृष्टास्तु पितरस्तां तनुं स व्यपोहत ।
सापविद्धा तनुस्तेन सद्यः संध्या व्यजायत ॥ १,८.१५ ॥

तस्मादहर्देवतानां रात्रिर्या साऽसुरी स्मृता ।
तयोर्मध्ये तु वै पैत्री या तनुः सा गरीयसी ॥ १,८.१६ ॥

तस्माद्देवासुराश्चैव ऋषयो मानवास्तथा ।
युक्तास्तनुमुपासंते उषाव्युष्ट्योर्यदन्तरम् ॥ १,८.१७ ॥

तस्माद्रात्र्यहयोः संधिमुपासंते तथा द्विजाः ।
ततोऽन्यस्यां पुनर्ब्रह्मा स्वतन्वामुपपद्यत ॥ १,८.१८ ॥

रजोमात्रात्मिका या तु मनसा सोऽसृजत्प्रभुः ।
मनसा तु सुतास्तस्य प्रजनाज्जज्ञिरे प्रजाः ॥ १,८.१९ ॥

मननाच्च मनुषयास्ते प्रजनात्प्रथिताः प्रजाः ।
सृष्ट्वा पुनः प्रजाः सोऽथ स्वां तनुं स व्यपोहत ॥ १,८.२० ॥

सापविद्धा तनुस्तेन ज्योत्स्ना सद्यस्त्वजायत ।
तस्माद्भवन्ति संहृष्टा ज्योत्स्नाया उद्भवे प्रजाः ॥ १,८.२१ ॥

इत्येतास्तनवस्तेन ह्यपविद्धा महात्मना ।
सद्यो रात्र्यहनी चैवसंध्या ज्योत्स्ना च जज्ञिरे ॥ १,८.२२ ॥

ज्योत्स्ना संध्याहनी चैव सत्त्वमात्रात्मकं त्रयम् ।
तमोमात्रात्मिका रात्रिः सा वै तस्मान्नियामिका ॥ १,८.२३ ॥

तस्माद्देवा दिव्यतन्वा तुष्ट्या सृष्टा सुखात्तु वै ।
यस्मात्तेषां दिवा जन्म बलिनस्तेन ते दिवा ॥ १,८.२४ ॥

तन्वा यदसुरान्रत्र्या जघनादसृजत्प्रभुः ।
प्राणेभ्यो रात्रिजन्मानो ह्यजेया निशि तेन ते ॥ १,८.२५ ॥

एतान्येव भविष्याणां देवानामसुरैः सह ।
पितॄणां मानुषाणां च अतीताना गतेषु वै ॥ १,८.२६ ॥

मन्वन्तरेषु सर्वेषु निमित्तानि भवन्ति हि ।
ज्योत्स्ना रात्र्यहनी संध्या चत्वार्येतानि तानि वा ॥ १,८.२७ ॥

भान्ति यस्मात्ततो भाति भाशब्दो व्याप्तिदीप्तिषु ।
अंभांस्येतानि सृष्ट्वा तु देवदानवमानुषान् ॥ १,८.२८ ॥

पितॄंश्चैव तथा चान्यान्विविधान्व्य सृजत्प्रजाः ।
तामुत्सृज्य ततो च्योत्स्नां ततोऽन्यां प्राप्य स प्रभुः ॥ १,८.२९ ॥

मूर्त्तिं रजस्तमोद्रिक्तां ततस्तां सोऽभ्ययुञ्जत ।
ततोऽन्याः सोंऽधकारे च क्षुधाविष्टाः प्रजाः सृजन् ॥ १,८.३० ॥

ताः सृष्टास्तु क्षुधाविष्टा अम्भांस्यादातुमुद्यताः ।
अम्भांस्येतानि रक्षाम उक्तवन्तस्तु तेषु ये ॥ १,८.३१ ॥

राक्षसास्ते स्मृतास्तस्मात्क्षुधात्मानो निशाचराः ।
येऽब्रुवन् क्षिणुमोऽम्भांसि तेषां त्दृष्टाः परस्परम् ॥ १,८.३२ ॥

तेन ते कर्मणा यक्षा गुह्यकाः क्रूरकर्मिणः ।
रक्षेति पालने चापि धातुरेष विभाव्यते ॥ १,८.३३ ॥

य एष क्षीतिधातुर्वै क्षपणे स निरुच्यते ।
रक्षणाद्रक्ष इत्युक्तं क्षपणाद्यक्ष उच्यत ॥ १,८.३४ ॥

तान्दृष्ट्वा त्वप्रियेणास्य केशाः शीर्णाश्च धीमतः ।
ते शीर्णा व्युत्थिता ह्यूर्द्धमारो हन्तः पुनः पुनः ॥ १,८.३५ ॥

हीना ये शिरसो बालाः पन्नाश्चैवापसर्पिणः ।
बालात्मना स्मृता व्याला हीनत्वादहयः स्मृताः ॥ १,८.३६ ॥

पन्नत्वात्पन्नगाश्चापि व्यपसर्पाच्च सर्प्पता ।
तेषां लयः पृथिव्यां यः सूर्याचन्द्रमसौ घनाः ॥ १,८.३७ ॥

तस्य क्रोधोद्भवो योऽसावग्निगर्भः सुदारुणः ।
स तान्सर्प्पान् सहोत्पन्नानाविवेश विषात्मकः ॥ १,८.३८ ॥

सर्प्पान्सृष्ट्वा ततः क्रोधात्क्रोधात्मानो विनिर्मिताः ।
वर्णेन कपिशेनोग्रास्ते भूताः पिशिताशनाः ॥ १,८.३९ ॥

भूतत्वात्ते रमृता भूताः पिशाचा पिशिताशनात् ।
गायतो गां ततस्तस्य गन्धर्वा जज्ञिरे सुताः ॥ १,८.४० ॥

धयेति धातुः कविभिः पानार्थे परिपठ्यते ।
पिबतो जज्ञिरे वाचं गन्धर्वास्तेन ते स्मृताः ॥ १,८.४१ ॥

अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः ।
छन्दतश्चैव छन्दासि वयांसि वयसासृजत् ॥ १,८.४२ ॥

पक्षिणस्तु स सृष्ट्वा वै ततः पशुगणान्सृजन् ।
मुखतोजाः सृजन्सोऽथ वक्षसश्चाप्यवीः सृजन् ॥ १,८.४३ ॥

गावश्चैवोदराद्ब्रह्मा पाश्वीभ्यां च विनिर्ममे ।
पादतोऽश्वान्समातङ्गान् रासभान् गवयान्मृगान् ॥ १,८.४४ ॥

उष्ट्रांश्चैव वराहांश्च शुनोऽन्यांश्चैव जातयः ।
ओषध्यः फल मूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥ १,८.४५ ॥

एवं पञ्चौषधीः सृष्ट्वा व्ययुञ्जत्सोऽध्वरेषु वै ।
अस्य त्वादौ तु कल्पस्य त्रेतायुगमुखेपुरा ॥ १,८.४६ ॥

गौरजः पुरुषोऽथाविरश्वाश्वतरगर्दभाः ।
एते ग्राम्याः समृताः सप्त आरण्याः सप्त चापरे ॥ १,८.४७ ॥

श्वापदो द्वीपिनो हस्ती वानरः पक्षिपञ्चमः ।
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥ १,८.४८ ॥

महिषा गवयोष्ट्राश्च द्विखुराः शरभो द्विषः ।
मर्कटः सप्तमो ह्येषां चारण्याः पशवस्तु ते ॥ १,८.४९ ॥

गायत्रीं च ऋचं चैव त्रिवृत्स्तोमरथन्तरे ।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ १,८.५० ॥

यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा ।
बृहत्साम तथोक्तं च दक्षिणात्सोऽसृजन्मुखात् ॥ १,८.५१ ॥

सामानि जगतीं चैव स्तोमं सप्तदशं तथा ।
वैरूप्यमतिरात्रं च पश्चिमात्सोऽसृजन्मखात् ॥ १,८.५२ ॥

एकविंशमथर्वाणमाप्तोर्यामं तथैव च ।
अनुष्टुभं सवैराजं चतुर्थादसृजन्मुखात् ॥ १,८.५३ ॥

विद्युतोऽशनिमेघांश्व रोहितेद्रधनूंषि च ।
सृष्ट्वासौ भगवान्देवः पर्जन्यमितिविश्रुतम् ॥ १,८.५४ ॥

ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ।
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ १,८.५५ ॥

ब्रह्मणास्तु प्रजासर्गं सृजतो हि प्रजापतेः ।
सृष्ट्वा चतुष्टयं पूर्वं देवर्षिपितृमानवान् ॥ १,८.५६ ॥

ततोऽसृजत भूतानि चराणि स्थावराणि च ।
सृष्ट्वा यक्षपिशाचांश्च गन्धर्वप्सरसस्तदा ॥ १,८.५७ ॥

नरकिन्नररक्षांसि वयःपशुमृगोरगान् ।
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥ १,८.५८ ॥

तेषां ये यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ।
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनःपुनः ॥ १,८.५९ ॥

हिंस्राहिंस्रे सृजन् क्रूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ १,८.६० ॥

महाभूतेषु नानात्वमिन्द्रियार्तेषु मूर्तिषु ।
विनियोगं च भूतानां धातैव व्यदधात्स्वयम् ॥ १,८.६१ ॥

केचित्पुरुषकारं तु प्राहुः कर्म च मानवाः ।
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः ॥ १,८.६२ ॥

पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः ।
न चैव तु पृथग्भावमधिकेन ततो विदुः ॥ १,८.६३ ॥

एतदेवं च नैवं च न चोभे नानुभे न च ।
स्वकर्मविषयं ब्रूयुः सत्त्वस्थाः समदर्शिनः ॥ १,८.६४ ॥

नानारूपं च भूतानां कृतानां च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ॥ १,८.६५ ॥

आर्षाणि चैव नामानि याश्च देवेषु दृष्टयः ।
शर्वर्यन्ते प्रसूतानां पुनस्तेभ्यो दधात्यजः ॥ १,८.६६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे मानससृष्टिवर्णनं नामाष्टमोऽध्यायः