ब्रह्मसूत्रम्/द्वितीयः अध्यायः/चतुर्थः पादः

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← तृतीयः पादः ब्रह्मसूत्रम्
द्वितीयाध्याये चतुर्थः पादः
वेदव्यासः

प्राणोत्पत्त्यधिकरणम्[सम्पाद्यताम्]

तथा प्राणाः । ( ब्रसू-२,४.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

तथा प्राणा इति। कथं पुनरत्र तथा इत्यक्षरानुलोम्यम् प्रकृतोपमानाभावात् सर्वगतात्मबहुत्ववादिदूषणम् अतीतानन्तरपादान्ते प्रकृतम् तत्तावन्नोपमानं संभवति सादृश्याभावात् सादृश्ये हि सति उपमानं स्यात् यथा सिंहस्तथा बलवर्मेति अदृष्टसाम्यप्रतिपादनार्थमिति यद्युच्येत यथा अदृष्टस्य सर्वात्मसंनिधावुत्पद्यमानस्यानियतत्वम् एवं प्राणानामपि सर्वात्मनः प्रत्यनियतत्वमिति तदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् न च जीवेन प्राणा उपमीयेरन् सिद्धान्तविरोधात् जीवस्य हि अनुत्पत्तिराख्याता प्राणानां तु उत्पत्तिराचिख्यासिता तस्मात्तथा इत्यसंबद्धमिव प्रतिभाति न उदाहरणोपात्तेनाप्युपमानेन संबन्धोपपत्तेः अत्र प्राणोत्पत्तिवादिवाक्यजातमुदाहरणम् एतस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति इत्येवंजातीयकम् तत्र यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते तथा प्राणा अपीत्यर्थः तथा एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम्। अथवा पानव्यापच्च तद्वत् इत्येवमादिषु व्यवहितोपमानसंबन्धस्याप्याश्रितत्वात् यथा अतीतानन्तरपादादावुक्ता वियदादयः परस्य ब्रह्मणो विकाराः समधिगताः तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम्। कः पुनः प्राणानां विकारत्वे हेतुः श्रुतत्वमेव ननु केषुचित्प्रदेशेषु न प्राणानामुत्पत्तिः श्रूयत इत्युक्तम् तदयुक्तम् प्रदेशान्तरेषु श्रवणात् न हि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहते तस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्त इति सूक्तम्।।

गौण्यसंभवात् तत्प्राक् श्रुतेश् च । ( ब्रसू-२,४.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति तत्प्रत्याह गौण्यसंभवादिति गौण्या असंभवो गौण्यसंभवः न हि प्राणानामुत्पत्तिश्रुतिर्गौणी संभवति प्रतिज्ञाहानिप्रसङ्गात् कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति हि एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्साधनायेदमाम्नायते एतस्माज्जायते प्राणः इत्यादि सा च प्रतिज्ञा प्राणादेः समस्तस्य जगतो ब्रह्मविकारत्वे सति प्रकृतिव्यतिरेकेण विकाराभावात्सिध्यति गौण्यां तु प्राणानामुत्पत्तिश्रुतौ प्रतिज्ञा इयं हीयेत। तथा च प्रतिज्ञातार्थमुपसंहरति पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् इति ब्रह्मैवेदं विश्वमिदं वरिष्ठम् इति च तथा आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् इत्येवंजातीयकासु श्रुतिषु एषैव प्रतिज्ञा योजयितव्या। कथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम् नैतन्मूलप्रकृतिविषयम् अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः इति मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वावधारणात् अवान्तरप्रकृतिविषयं त्वेतत् स्वविकारापेक्षं प्रागुत्पत्तेः प्राणानां सद्भावावधारणमिति द्रष्टव्यम् व्याकृतविषयाणामपि भूयसीनामवस्थानां श्रुतिस्मृत्योः प्रकृतिविकारभावप्रसिद्धेः। वियदधिकरणे हि गौण्यसंभवात् इति पूर्वपक्षसूत्रत्वात् गौणीजन्मश्रुतिः असंभवात् इति व्याख्यातम् प्रतिज्ञाहान्या च तत्र सिद्धान्तोऽभिहितः इह तु सिद्धान्तसूत्रत्वात् गौण्या जन्मश्रुतेरसंभवात् इति व्याख्यातम् तदनुरोधेन तु इहापि गौणी जन्मश्रुतिः असंभवात् इति व्याचक्षाणैः प्रतिज्ञाहानिरुपेक्षिता स्यात्।।

तत्पूर्वकत्वाद् वाचः । ( ब्रसू-२,४.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

इतश्च आकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुतिः यत् जायते इत्येकं जन्मवाचिपदं प्राणेषु प्राक्श्रुतं सत् उत्तरेष्वाकाशादिष्वनुवर्तते एतस्माज्जायते प्राणः इत्यत्र आकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितम् तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति न हि एकस्मिन्प्रकरणे एकस्मिंश्च वाक्ये एकः शब्दः सकृदुच्चरितो बहुभिः संबध्यमानः क्वचिन्मुख्यः क्वचिद्गौण इत्यध्यवसातुं शक्यम् वैरूप्यप्रसङ्गात्। तथा स प्राणमसृजत प्राणाच्छ्रद्धाम् इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्युत्पत्तिमत्सु श्रद्धादिष्वनुषज्यते। यत्रापि पश्चाच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः संबध्यते तत्राप्येष एव न्यायः यथा सर्वाणि भूतानि व्युच्चरन्ति इत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः संबध्यते।।

सप्तगत्त्यधिकरणम्[सम्पाद्यताम्]

सप्त गतेर् विशेषितत्वाच् च । ( ब्रसू-२,४.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

उत्पत्तिविषयः श्रुतिविप्रतिषेधः प्राणानां परिहृतः संख्याविषय इदानीं परिह्रियते। तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति संप्रति तु कति इतरे प्राणा इति संप्रधारयति। श्रुतिविप्रतिपत्तेश्चात्र विशयः क्वचित्सप्त प्राणाः संकीर्त्यन्ते सप्त प्राणाः प्रभवन्ति तस्मात् इति क्वचिदष्टौ प्राणा ग्रहत्वेन गुणेन संकीर्त्यन्ते अष्टौ ग्रहा अष्टावतिग्रहाः इति क्वचिन्नव सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ इति क्वचिद्दश नव वै पुरुषे प्राणा नाभिर्दशमी इति क्वचिदेकादश दशेमे पुरुषे प्राणा आत्मैकादशः इति क्वचिद्द्वादश सर्वेषां स्पर्शानां त्वगेकायनम् इत्यत्र क्वचित्त्रयोदश चक्षुश्च द्रष्टव्यं च इत्यत्र एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः। किं तावत्प्राप्तम् सप्तैव प्राणा इति। कुतः गतेः यतस्तावन्तोऽवगम्यन्ते सप्त प्राणाः प्रभवन्ति तस्मात् इत्येवंविधासु श्रुतिषु विशेषिताश्चैते सप्त वै शीर्षण्याः प्राणाः इत्यत्र। ननु प्राणा गुहाशया निहिताः सप्त सप्त इति वीप्सा श्रूयते सा सप्तभ्योऽतिरिक्तान्प्राणान्गमयतीति नैष दोषः पुरुषभेदाभिप्रायेयं वीप्सा प्रतिपुरुषं सप्त सप्त प्राणा इति न तत्त्वभेदाभिप्राया सप्त सप्त अन्येऽन्ये प्राणा इति। नन्वष्टत्वादिकापि संख्या प्राणेषु उदाहृता कथं सप्तैव स्युः सत्यमुदाहृता विरोधात्त्वन्यतमा संख्या अध्यवसातव्या तत्र स्तोककल्पनानुरोधात्सप्तसंख्याध्यवसानम् वृत्तिभेदापेक्षं च संख्यान्तरश्रवणमिति मन्यते।।

अत्रोच्यते

हस्तादयस् तु स्थितेऽतो नैवम् । ( ब्रसू-२,४.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः श्रूयन्ते हस्तो वै ग्रहः स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोति इत्येवमाद्यासु श्रुतिषु स्थिते च सप्तत्वातिरेके सप्तत्वमन्तर्भावाच्छक्यते संभावयितुम् हीनाधिकसंख्याविप्रतिपत्तौ हि अधिका संख्या संग्राह्या भवति तस्यां हीना अन्तर्भवति न तु हीनायामधिका अतश्च नैवं मन्तव्यम् स्तोककल्पनानुरोधात्सप्तैव प्राणाः स्युरिति। उत्तरसंख्यानुरोधात्तु एकादशैव ते प्राणाः स्युः तथा च उदाहृता श्रुतिः दशेमे पुरुषे प्राणा आत्मैकादशः इति आत्मशब्देन च अत्र अन्तःकरणं परिगृह्यते करणाधिकारात्। नन्वेकादशत्वादप्यधिके द्वादशत्रयोदशत्वे उदाहृते सत्यमुदाहृते न त्वेकादशभ्यः कार्यजातेभ्योऽधिकं कार्यजातमस्ति यदर्थमधिकं करणं कल्प्येत शब्दस्पर्शरूपरसगन्धविषयाः पञ्च बुद्धिभेदाः तदर्थानि पञ्च बुद्धीन्द्रियाणि वचनादानविहरणोत्सर्गानन्दाः पञ्च कर्मभेदाः तदर्थानि च पञ्च कर्मेन्द्रियाणि सर्वार्थविषयं त्रैकाल्यवृत्ति मनस्तु एकम् अनेकवृत्तिकम् तदेव वृत्तिभेदात् क्वचिद्भिन्नवद्व्यपदिश्यते मनो बुद्धिरहंकारश्चित्तं च इति तथा च श्रुतिः कामाद्या नानाविधा वृत्तीरनुक्रम्याह एतत्सर्वं मन एव इति। अपि च सप्तैव शीर्षण्यान्प्राणानभिमन्यमानस्य चत्वार एव प्राणा अभिमताः स्युः स्थानभेदाद्ध्येते चत्वारः सन्तः सप्त गण्यन्ते द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वाक् इति न च तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुम् हस्तादिवृत्तीनामत्यन्तविजातीयत्वात्। तथा नव वै पुरुषे प्राणा नाभिर्दशमी इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते न प्राणतत्त्वभेदाभिप्रायेण नाभिर्दशमी इति वचनात् न हि नाभिर्नाम कश्चित्प्राणः प्रसिद्धोऽस्ति मुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमिति अतो नाभिर्दशमी इत्युच्यते। क्वचिदुपासनार्थं कतिचित्प्राणा गण्यन्ते क्वचित्प्रदर्शनार्थम् तदेवं विचित्रे प्राणेयत्ताम्नाने सति क्व किं परम् आम्नानमिति विवेक्तव्यम् कार्यजातवशात्त्वेकादशत्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम्।।

इयमपरा सूत्रद्वययोजना सप्तैव प्राणाः स्युः यतः सप्तानामेव गतिः श्रूयते तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इत्यत्र। ननु सर्वशब्दोऽत्र पठ्यते तत्कथं सप्तानामेव गतिः प्रतिज्ञायत इति विशेषितत्वादित्याह सप्तैव हि प्राणाश्चक्षुरादयस्त्वक्पर्यन्ता विशेषिता इह प्रकृताः स यत्रैव चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारूपज्ञो भवति एकीभवति न पश्यतीत्याहुः इत्येवमादिना अनुक्रमणेन प्रकृतगामी च सर्वशब्दो भवति यथा सर्वे ब्राह्मणा भोजयितव्या इति ये निमन्त्रिताः प्रकृता ब्राह्मणास्त एव सर्वशब्देनोच्यन्ते नान्ये एवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते नान्य इति। नन्वत्र विज्ञानमष्टममनुक्रान्तम् कथं सप्तानामेवानुक्रमणम् नैष दोषः। मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदेऽपि सप्तत्वोपपत्तेः। तस्मात्सप्तैव प्राणा इति एवं प्राप्ते ब्रूमः हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः प्रतीयन्ते हस्तो वै ग्रहः इत्यादिश्रुतिषु ग्रहत्वं च बन्धनभावः गृह्यते बध्यते क्षेत्रज्ञः अनेन ग्रहसंज्ञकेन बन्धनेनेति स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते शरीरान्तरेष्वपि तुल्यत्वाद्बन्धनस्य तस्माच्छरीरान्तरसंचारि इदं ग्रहसंज्ञकं बन्धनम् इत्यर्थादुक्तं भवति। तथा च स्मृतिः पुर्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते। तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च इति प्राङ्मोक्षात् ग्रहसंज्ञकेन बन्धनेन अवियोगं दर्शयति आथर्वणे च विषयेन्द्रियानुक्रमणे चक्षुश्च द्रष्टव्यं च इत्यत्र तुल्यवद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामति हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च इति तथा दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति इत्येकादशानां प्राणानामुत्क्रान्तिं दर्शयति। सर्वशब्दोऽपि च प्राणशब्देन संबध्यमानोऽशेषान्प्राणानभिदधानो न प्रकरणवशेन सप्तस्वेवावस्थापयितुं शक्यते प्रकरणाच्छब्दस्य बलीयस्त्वात् सर्वे ब्राह्मणा भोजयितव्याः इत्यत्रापि सर्वेषामेव अवनिवर्तिनां ब्राह्मणानां ग्रहणं न्याय्यम् सर्वशब्दसामर्थ्यात् सर्वभोजनासंभवात्तु तत्र निमन्त्रितमात्रविषया सर्वशब्दस्य वृत्तिराश्रिता इह तु न किंचित्सर्वशब्दार्थसंकोचने कारणमस्ति तस्मात्सर्वशब्देन अत्र अशेषाणां प्राणानां परिग्रहः। प्रदर्शनार्थं च सप्तानामनुक्रमणमित्यनवद्यम्। तस्मादेकादशैव प्राणाः शब्दतः कार्यतश्चेति सिद्धम्।।

प्राणाणुत्वाधिकरणम्[सम्पाद्यताम्]

अणवश् च । ( ब्रसू-२,४.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोति। अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः अणुत्वं चैषां सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वम् कृत्स्नदेहव्यापिकार्यानुपपत्तिप्रसङ्गात् सूक्ष्मा एते प्राणाः स्थूलाश्चेत्स्युः मरणकाले शरीरान्निर्गच्छन्तः बिलादहिरिव उपलभ्येरन् म्रियमाणस्य पार्श्वस्थैः परिच्छिन्नाश्चैते प्राणाः सर्वगताश्चेत्स्युः उत्क्रान्तिगत्यागतिश्रुतिव्याकोपः स्यात् तद्गुणसारत्वं च जीवस्य न सिध्येत्। सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत् न वृत्तिमात्रस्य करणत्वोपपत्तेः यदेव हि उपलब्धिसाधनम् वृत्तिः अन्यद्वा तस्यैव नः करणत्वम् संज्ञामात्रे विवादः इति करणानां व्यापित्वकल्पना निरर्थिका। तस्मात्सूक्ष्माः परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः।।

प्राणश्रैष्ठयाधिकरणम्[सम्पाद्यताम्]

श्रेष्ठश् च । ( ब्रसू-२,४.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

मुख्यश्च प्राण इतरप्राणवद्ब्रह्मविकारः इत्यतिदिशति। तच्च अविशेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम् एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च इति सेन्द्रियमनोव्यतिरेकेण प्राणस्योत्पत्तिश्रवणात् स प्राणमसृजत इत्यादिश्रवणेभ्यश्च। किमर्थः पुनरतिदेशः अधिकाशङ्कावारणार्थः नासदासीये हि ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः। आनीदवातं स्वधया तदेकं तस्माद्धान्यन्नपरः किंचनास इति आनीत् इति प्राणकर्मोपादानात् प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति तस्मादजः प्राण इति जायते कस्यचिन्मतिः तामतिदेशेनापनुदति। आनीच्छब्दोऽपि न प्रागुत्पत्तेः प्राणसद्भावं सूचयति अवातम् इति विशेषणात् अप्राणो ह्यमनाः शुभ्रः इति च मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वस्य दर्शितत्वात् तस्मात्कारणसद्भावप्रदर्शनार्थ एवायम् आनीच्छब्द इति। श्रेष्ठः इति च मुख्यं प्राणमभिदधाति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च इति श्रुतिनिर्देशात् ज्येष्ठश्च प्राणः शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात् न चेत्तस्य तदानीं वृत्तिलाभः स्यात् योनौ निषिक्तं शुक्रं पूयेत न संभवेद्वा श्रोत्रादीनां तु कर्णशष्कुल्यादिस्थानविभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठत्वम्। श्रेष्ठश्च प्राणः गुणाधिक्यात् न वै शक्ष्यामस्त्वदृते जीवितुम् इति श्रुतेः।।

वायुक्रियाधिकरणम्[सम्पाद्यताम्]

न वायुक्रिये पृथगुपदेशात् । ( ब्रसू-२,४.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

स पुनर्मुख्यः प्राणः किंस्वरूप इति इदानीं जिज्ञास्यते। तत्र प्राप्तं तावत् श्रुतेः वायुः प्राण इति एवं हि श्रूयते यः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः इति। अथवा तन्त्रान्तरीयाभिप्रायात् समस्तकरणवृत्तिः प्राण इति प्राप्तम् एवं हि तन्त्रान्तरीया आचक्षते सामान्या करणवृत्तिः प्राणाद्या वायवः पञ्चेति।।

अत्रोच्यते न वायुः प्राणः नापि करणव्यापारः कुतः पृथगुपदेशात् वायोस्तावत् प्राणस्य पृथगुपदेशो भवति प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च इति न हि वायुरेव सन् वायोः पृथगुपदिश्येत। तथा करणवृत्तेरपि पृथगुपदेशो भवति वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात् वृत्तिवृत्तिमतोरभेदात् न हि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येत। तथा एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुः इत्येवमादयोऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः। न च समस्तानां करणानामेका वृत्तिः संभवति प्रत्येकमेकैकवृत्तित्वात् समुदायस्य च अकारकत्वात् ननु पञ्जरचालनन्यायेन एतद्भविष्यति यथा एकपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः संभूय एकं पञ्जरं चालयन्ति एवमेकशरीरवर्तिन एकादशप्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः संभूय एकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इति नेत्युच्यते युक्तं तत्र प्रत्येकवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः संभूय एकं पञ्जरं चालयेयुरिति तथा दृष्टत्वात् इह तु श्रवणाद्यवान्तरव्यापारोपेताः प्राणा न संभूय प्राण्युरिति युक्तम् प्रमाणाभावात् अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य। तथा प्राणस्य श्रेष्ठत्वाद्युद्धोषणम् गुणभावोपगमश्च तं प्रति वागादीनाम् न करणवृत्तिमात्रे प्राणेऽवकल्पते। तस्मादन्यो वायुक्रियाभ्यां प्राणः। कथं तर्हीयं श्रुतिः यः प्राणः स वायुः इति उच्यते वायुरेवायम् अध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते न तत्त्वान्तरम् नापि वायुमात्रम् अतश्चोभे अपि भेदाभेदश्रुती न विरुध्येते।।

स्यादेतत् प्राणोऽपि तर्हि जीववत् अस्मिन् शरीरे स्वातन्त्र्यं प्राप्नोति श्रेष्ठत्वात् गुणभावोपगमाच्च तं प्रति वागादीनामिन्द्रियाणाम् तथा हि अनेकविधा विभूतिः प्राणस्य श्राव्यते सुप्तेषु वागादिषु प्राण एवैको जागर्ति प्राण एवैको मृत्युना अनाप्तः प्राणः संवर्गो वागादीन् संवृङ्क्ते प्राण इतरान्प्राणान्रक्षति मातेव पुत्रान् इति तस्मात्प्राणस्यापि जीववत् स्वातन्त्र्यप्रसङ्गः तं परिहरति

चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः । ( ब्रसू-२,४.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्दः प्राणस्य जीववत् स्वातन्त्र्यं व्यावर्तयति। यथा चक्षुरादीनि राजप्रकृतिवत् जीवस्य कर्तृत्वं भोक्तृत्वं च प्रति उपकरणानि न स्वतन्त्राणि तथा मुख्योऽपि प्राणः राजमन्त्रिवत् जीवस्य सर्वार्थकरत्वेन उपकरणभूतः न स्वतन्त्रः। कुतः तत्सहशिष्ट्यादिभ्यः तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते प्राणसंवादादिषु समानधर्मणां च सह शासनं युक्तं बृहद्रथंतरादिवत् आदिशब्देन संहतत्वाचेतनत्वादीन् प्राणस्य स्वातन्त्र्यनिराकरणहेतून् दर्शयति।।

स्यादेतत् यदि चक्षुरादिवत् प्राणस्य जीवं प्रति करणभावोऽभ्युपगम्येत विषयान्तरं रूपादिवत् प्रसज्येत रूपालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति करणभावो भवति। अपि च एकादशैव कार्यजातानि रूपालोचनादीनि परिगणितानि यदर्थमेकादश प्राणाः संगृहीताः न तु द्वादशमपरं कार्यजातमवगम्यते यदर्थमयं द्वादशः प्राणः प्रतिज्ञायत इति अत उत्तरं पठति

अकरणत्वाच् च न दोषस् तथा हि दर्शयति । ( ब्रसू-२,४.१० । )

भाष्यम्

शाङ्करभाष्यम्॥ न तावद्विषयान्तरप्रसङ्गो दोषः अकरणत्वात्प्राणस्य न हि चक्षुरादिवत् प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते। न च अस्य एतावता कार्याभाव एव कस्मात् तथा हि श्रुतिः प्राणान्तरेष्वसंभाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिषु अथ ह प्राणा अहं श्रेयसि व्यूदिरे इत्युपक्रम्य यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठः इति च उपन्यस्य प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा प्राणोच्चिक्रमिषायां वागादिशैथिल्यापत्तिं शरीरपातप्रसङ्गं च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थितिं दर्शयति तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि इति च एतमेवार्थं श्रुतिराह प्राणेन रक्षन्नवरं कुलायम् इति च सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति इति तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति इति च प्राणनिमित्तां शरीरेन्द्रियपुष्टिं दर्शयति कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि इति स प्राणमसृजत

पञ्चवृत्तिर् मनोवत् व्यपदिश्यते । ( ब्रसू-२,४.११ । )

भाष्यम्

शाङ्करभाष्यम्॥ इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यम् यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु प्राणोऽपानो व्यान उदानः समानः इति वृत्तिभेदश्चायं कार्यभेदापेक्षः प्राणः प्राग्वृत्तिः उच्छ्वासादिकर्मा अपानः अवाग्वृत्तिर्निश्वासादिकर्मा व्यानः तयोः संधौ वर्तमानो वीर्यवत्कर्महेतुः उदानः ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः समानः समं सर्वेष्वङ्गेषु योऽन्नरसान्नयति इत्येवं प़ञ्चवृत्तिः प्राणः मनोवत् यथा मनसः पञ्च वृत्तयः एवं प्राणस्यापीत्यर्थः। श्रोत्रादिनिमित्ताः शब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धाः न तु कामः संकल्पः

श्रेष्ठाणुत्वाधिकरणम्[सम्पाद्यताम्]

अणुश् च । ( ब्रसू-२,४.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अणुश्चायं मुख्यः प्राणः प्रत्येतव्यः इतरप्राणवत्। अणुत्वं च इहापि सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वम् पञ्चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात् सूक्ष्मः प्राणः उत्क्रान्तौ पार्श्वस्थेन अनुपलभ्यमानत्वात् परिच्छिन्नश्च उत्क्रान्तिगत्यागतिश्रुतिभ्यः। ननु विभुत्वमपि प्राणस्य समाम्नायते समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण इत्येवमादिषु प्रदेशेषु तदुच्यते आधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्भेण प्राणात्मनैव एतद्विभुत्वमाम्नायते न आध्यात्मिकेन अपि च समः प्लुषिणा इत्यादिना साम्यवचनेन प्रतिप्राणिवर्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते तस्माददोषः।।

ज्योतिराद्यधिकरणम्[सम्पाद्यताम्]

ज्योतिर् आद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् । ( ब्रसू-२,४.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै स्वस्मै कार्याय प्रभवन्ति आहोस्विद्देवताधिष्ठिताः प्रभवन्ति इति विचार्यते। तत्र प्राप्तं तावत् यथास्वं कार्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति अपि च देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्युगम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गात् शारीरस्य भोक्तृत्वं प्रलीयेत अतः स्वमहिम्नैव एषां प्रवृत्तिरिति एवं प्राप्ते इदमुच्यते ज्योतिराद्यधिष्ठानं तु इति। तुशब्देन पूर्वपक्षो व्यावर्त्यते। ज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीते। हेतुं च व्याचष्ठे तदामननादिति तथा हि आमनन्ति अग्निर्वाग्भूत्वा मुखं प्राविशत् इत्यादि अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मना अधिष्ठातृत्वमङ्गीकृत्य उच्यते न हि देवतासंबन्धं प्रत्याख्याय अग्नेः वाचि मुखे वा कश्चिद्विशेषसंबन्धो दृश्यते तथा वायुः प्राणो भूत्वा नासिके प्राविशत् इत्येवमाद्यपि योजयितव्यम्। तथा अन्यत्रापि वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च इत्येवमादिना वागादीनाम् अग्न्यादिज्योतिष्ट्वादिवचनेन एतमेवार्थं द्रढयति। स वै वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् इति च एवमादिना वागादीनामग्न्यादिभावापत्तिवचनेन एतमेवार्थं द्योतयति। सर्वत्र च अध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनुक्रमणम् अनयैव प्रत्यासत्त्या भवति। स्मृतावपि वागध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिनः। वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् इत्यादिना वागादीनामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं प्रदर्शितम्। यदुक्तम् स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति तदयुक्तम् शक्तानामपि शकटादीनामनडुहाद्यधिष्ठितानां प्रवृत्तिदर्शनात् उभयथोपपत्तौ च आगमात् वागादीनां देवताधिष्ठितत्वमेव निश्चीयते।।

यदप्युक्तम् देवतानामेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गः न शारीरस्येति तत्परिह्रियते

तस्य च नित्यत्वात् । ( ब्रसू-२,४.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

तस्य च शारीरस्यास्मिन् शरीरे भोक्तृत्वेन नित्यत्वम् पुण्यपापोपलेपसंभवात् सुखदुःखोपभोगसंभवाच्च न देवतानाम् ता हि परस्मिन्नैश्वर्ये पदेऽवतिष्ठमाना न हीनेऽस्मिन् शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति श्रुतिश्च भवति पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति इति। शारीरेणैव च नित्यः प्राणानां संबन्धः उत्क्रान्त्यादिषु तदनुवृत्तिदर्शनात् तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इत्यादिश्रुतिभ्यः। तस्मात् सतीष्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृत्वमपगच्छति करणपक्षस्यैव हि देवता न भोक्तृपक्षस्येति।।

इन्द्रियाधिकरणम्[सम्पाद्यताम्]

त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् । ( ब्रसू-२,४.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

मुख्यश्चैकः इतरे चैकादश प्राणा अनुक्रान्ताः तत्रेदम परं संदिह्यते किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणाः आहोस्वित् तत्त्वान्तराणीति। किं तावत्प्राप्तम् मुख्यस्यैवेतरे वृत्तिभेदा इति कुतः श्रुतेः तथा हि श्रुतिः मुख्यमितरांश्च प्राणान्संनिधाप्य मुख्यात्मतामितरेषां ख्यापयति हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन् इति प्राणैकशब्दत्वाच्च एकत्वाध्यवसायः इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत एकत्र वा मुख्यस्येतरत्र लाक्षणिकत्वमापद्येत। तस्माद्यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तयः एवं वागाद्या अप्येकादशेति एवं प्राप्ते ब्रूमः तत्त्वान्तराण्येव प्राणाद्वागादीनीति कुतः व्यपदेशभेदात् कोऽयं व्यपदेशभेदः ते प्रकृताः प्राणाः श्रेष्ठं वर्जयित्वा अवशिष्टा एकादशेन्द्रियाणीत्युच्यन्ते श्रुतावेवं व्यपदेशभेददर्शनात् एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च इति ह्येवंजातीयकेषु प्रदेशेषु पृथक् प्राणो व्यपदिश्यते पृथक्च इन्द्रियाणि। ननु मनसोऽप्येवं सति वर्जनम् इन्द्रियत्वेन प्राणवत् स्यात् मनः सर्वेन्द्रियाणि च इति पृथग्व्यपदेशदर्शनात् सत्यमेतत् स्मृतौ तु एकादशेन्द्रियाणीति मनोऽपि इन्द्रियत्वेन श्रोत्रादिवत् संगृह्यते प्राणस्य तु इन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति। व्यपदेशभेदश्चायं तत्त्वभेदपक्षे उपपद्यते तत्त्वैकत्वे तु स एवैकः सन् प्राण इन्द्रियव्यपदेशं लभते न लभते च इति विप्रतिषिद्धम्। तस्मात्तत्त्वान्तरभूता मुख्यादितरे।।

कुतश्च तत्त्वान्तरभूताः

भेदश्रुतेर् वैलक्षण्याच् च । ( ब्रसू-२,४.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते ते ह वाचमूचुः इत्युपक्रम्य वागादीनसुरपाप्मविध्वस्तानुपन्यस्य उपसंहृत्य वागादिप्रकरणम् अथ हेममासन्यं प्राणमूचुः इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमणात्। तथा मनो वाचं प्राणं तान्यात्मनेऽकुरुत इत्येवमाद्या अपि भेदश्रुतय उदाहर्तव्याः। तस्मादपि तत्त्वान्तरभूता मुख्यादितरे।।

कुतश्च तत्त्वान्तरभूताः

संज्ञामूर्तिक्लृप्त्यधिकरणम्[सम्पाद्यताम्]

संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् । ( ब्रसू-२,४.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यते सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति। तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति तत्र संशयः किं जीवकर्तृकमिदं नामरूपव्याकरणम् आहोस्वित्परमेश्वरकर्तृकमिति। तत्र प्राप्तं तावत् जीवकर्तृकमेवेदं नामरूपव्याकरणमिति कुतः अनेन जीवेनात्मना इति विशेषणात् यथा लोके चारेणाहं परसैन्यमनुप्रविश्य संकलयानि इत्येवंजातीयके प्रयोगे चारकर्तृकमेव सत् सैन्यसंकलनं हेतुकर्तृत्वात् राजा आत्मन्यध्यारोपयति संकलयानीत्युत्तमपुरुषप्रयोगेण एवं जीवकर्तृकमेव सत् नामरूपव्याकरणं हेतुकर्तृत्वात् देवता आत्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण। अपि च डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम्। तस्माज्जीवकर्तृकमेवेदं नामरूपव्याकरणमित्येवं प्राप्ते

अभिधत्ते संज्ञामूर्तिक्लृप्तिस्त्विति। तुशब्देन पक्षं व्यावर्तयति। संज्ञामूर्तिक्लृप्तिरिति नामरूपव्याक्रियेत्येतत् त्रिवृत्कुर्वत इति परमेश्वरं लक्षयति त्रिवृत्करणे तस्य निरपवादकर्तृत्वनिर्देशात् येयं संज्ञाक्लृप्तिः मूर्तिक्लृप्तिश्च अग्निः आदित्यः चन्द्रमाः विद्युदिति तथा कुशकाशपलाशादिषु पशुमृगमनुष्यादिषु च प्रत्याकृति प्रतिव्यक्ति च अनेकप्रकारा सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्हति कुतः उपदेशात् तथा हि सेयं देवता इत्युपक्रम्य व्याकरवाणि इत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मणो व्याकर्तृत्वमिहोपदिश्यते। ननु जीवेन इति विशेषणात् जीवकृर्तृकत्वं व्याकरणस्याध्यवसितम् नैतदेवम् जीवेन इत्येतत् अनुप्रविश्य इत्यनेन संबध्यते आनन्तर्यात् न व्याकरवाणि इत्यनेन तेन हि संबन्धे व्याकरवाणि इत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत न च गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेषु अनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्ति येष्वपि च अस्ति सामर्थ्यम् तेष्वपि परमेश्वरायत्तमेव तत् न च जीवो नाम परमेश्वरादत्यन्तभिन्नः चार इव राज्ञः आत्मना इति विशेषणात् उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य तेन तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः आकाशो ह वै नाम नामरूपयोर्निर्वहिता इत्यादिश्रुतिभ्यः तस्मात् परमेश्वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपव्याकरणम्। त्रिवृत्करणपूर्वकमेवेदम् इह नामरूपव्याकरणं विवक्ष्यते प्रत्येकं नामरूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात् तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य इत्यादिना तत्राग्निरिति इदं रूपं व्याक्रियते सति च रूपव्याकरणे विषयप्रतिलम्भादग्निरिति इदं नाम व्याक्रियते एवमेवादित्यचन्द्रविद्युत्स्वपि द्रष्टव्यम्। अनेन च अग्न्याद्युदाहरणेन भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति उपक्रमोपसंहारयोः साधारणत्वात् तथा हि अविशेषेणैव उपक्रमः इमास्तिस्रो देवतास्त्रिवृत्ित्रवृदेकैका भवति इति अविशेषेणैव च उपसंहारः यदु रोहितमिवाभूदिति तेजसस्तद्रूपम् इत्येवमादिः यद्वविज्ञातमिवाभूदित्येतासामेव देवतानां समासः इत्येवमन्तः।।

तासां तिसृणां देवतानाम् बहिस्त्रिवृत्कृतानां सतीनाम् अध्यात्ममपरं त्रिवृत्करणमुक्तम् इमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्ित्रवृदेकैका भवति इति तदिदानीम् आचार्यो यथाश्रुत्येवोपदर्शयति आशङ्कितं कंचिद्दोषं परिहरिष्यन्

मांसादि भौमं यथाशब्दमितरयोश् च । ( ब्रसू-२,४.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं यथाशब्दं निष्पद्यते तथा हि श्रुतिः अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः इति त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेण अद्यत इत्यभिप्रायः तस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति मध्यममध्यात्मं मांसं वर्धयति अणिष्ठं तु मनः। एवमितरयोरप्तेजसोर्यथाशब्दं कार्यमवगन्तव्यम् मूत्रं लोहितं प्राणश्च अपां कार्यम् अस्थि मज्जा वाक् तेजसः इति।।

अत्राह यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकम् अविशेषश्रुतेः तासां त्रिवृतं त्रिवृतमेकैकामकरोत् इति किंकृतस्तर्ह्ययं विशेषव्यपदेशः इदं तेजः इमा आपः इदमन्नम् इति तथा अध्यात्मम् इदमन्नस्याशितस्य कार्यं मांसादि इदमपां पीतानां कार्यं लोहितादि इदं तेजसोऽशितस्य कार्यमस्थ्यादि इति अत्रोच्यते

वैशेष्यात् तु तद्वादस् तद्वादः । ( ब्रसू-२,४.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

तुशब्देन चोदितं दोषमपनुदति विशेषस्य भावो वैशेष्यम् भूयस्त्वमिति यावत् सत्यपि त्रिवृत्करणे क्वचित्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते अग्नेस्तेजोभूयस्त्वम् उदकस्याब्भूयस्त्वम् पृथिव्या अन्नभूयस्त्वम् इति। व्यवहारप्रसिद्ध्यर्थं चेदं त्रिवृत्करणम् व्यवहारश्च त्रिवृत्कृतरज्जुवदेकत्वापत्तौ सत्याम् न भेदेन भूतत्रयगोचरो लोकस्य प्रसिध्येत्। तस्मात्सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय उपपद्यते। तद्वादस्तद्वादः इति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयोऽध्यायः।।