ब्रह्मसिद्धिः/तर्ककाण्डः (द्वितीयः)

विकिस्रोतः तः
ब्रह्मसिद्धिः
तर्ककाण्डः (द्वितीयः)
मण्डनमिश्रः
नियोगकाण्डः (तृतीयः) →

॥तर्ककाण्डः ॥

ननु प्रत्यक्षादिभिर्व्यावृत्तानां भावस्वभावानामवगमान्नैकस्मिन्नद्वये शब्दः प्रमाणम्, प्रत्यक्षादिविरोधात्, ग्रावप्लवनाद्यर्थवचोवत् ।
उच्यते

आहुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः ।
नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥ १.४ ॥


ननु प्रमाणान्तरपरतन्त्राणां पुरुषवचसां तद्विरोधाद्युक्तमप्रमाणत्वम् ।
स्वतन्त्रस्य त्वाम्नायस्यानपेक्षितप्रमाणान्तरप्रवृत्तेस्तद्विरोधेऽपि कस्मादप्रमाणत्वम्? आम्नायविरोधादेव तु प्रत्यक्षादीनि प्रमाणतायाः किमिति न च्यवन्ते? तुल्येऽनपेक्षत्वे न विशेषहेतुरस्ति ।
तत्र वृथा प्रमाणान्तरविरोधपरिहारपरिश्रम इति ।

तत्र केचिदाहुः
प्रत्यक्षादिविरोधे आम्नायस्य दौर्बल्यम्, सापेक्षत्वत् ।
तथा हि स्वरूपसिद्ध्यर्थमेव तावत्प्रत्यक्षादीन्याम्नायोऽपेक्षते ।
तथा च तेषां प्रामाण्यमनुमन्तव्यम्, तदपबाधने स्वरूपस्यैव तावदसिद्धेः ।
न त्वेवमाम्नाये प्रत्यक्षादीनां काचिदपेक्षा ।
दृष्टव्यभिचारत्वाच्च शब्दस्य, प्रत्यक्षस्य चादृष्टव्यभिचारात् ।
अपि च सावकाशानवकाशयोरनवकाशं बलवत् ।
अनवकाशाश्च प्रत्यक्षादयः, सावकाशस्तु शब्दो गौणेनार्थेन ।
तथा हि
शक्यमेकत्वमभेदश्रुतीनामुपचरितमवकाशो वर्णयितुम् ।
अविवक्षितार्थानां वा वेदान्तानां जपोपयोगोऽवकाशः ।
उपनिषदो वेदान्ता इति वर्णितम् ।
किं च व्याकुलत्वादाम्नायस्याव्याकुलत्वात्प्रत्यक्षादीनाम् ।
कर्मविधयो हि भेदाश्रया अभेदाश्रयाश्च वेदान्ताः परस्परपराहता असत्यपि प्रमाणान्तरविरोधे दुर्लभप्रामाण्याः ।
किं पुनरव्याहतप्रतिष्ठितप्रामाण्यादिविरोधे ।
तस्मादिदमविरोधाय प्रयत्यत इति ।
मुख्यत्वाच्च ।
मुख्या हि प्रत्यक्षादयः ।
जातस्य जन्तोरपरकाल आम्नायः ।
स तैः प्रतिष्ठितार्थैरपहृतविषयः कल्पनीयार्थो बाध्यते, तदनुसारेण वार्थकल्पनामर्हति ।
अर्थतोऽपि च मुख्यता प्रत्यक्षादीनाम् ।
पदपदार्थविभागाधीन आम्नायार्थपरिच्छेदः, स च प्रत्यक्षादिष्वापतते ।
अतोऽविरोधाय प्रयत्यत इति ।

[कुप्पुस्वामी संस्करण ४०] अन्ये मन्यन्ते
तुल्यबलत्वेऽपि प्रत्यक्षादीनामाम्नायस्य च वस्तुनि विकल्पानुपपत्तेर्विरोधे संशयः स्यात् ।
तेनाविरोध उपपाद्यत इति ।

अन्यद्दर्शनम्
आम्नाय एव बलवांस्तद्विरोधे ।
’पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्ऽ ।
’पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यतिऽ इति ।
तथा हि
सर्वस्य निसर्गजः प्रत्यक्षादिनिबन्धनः किल विभक्तवस्तुपरिच्छेदः ।
तदपेक्षस्तु तत्पूर्वकोऽनिसर्गजः कस्यचिदेवागन्तुरद्वैतावगमः ।
स पूर्वमनुपमृद्योदेतुमशक्नुवंस्तदपबाधात्मोदीयते ।
इतश्च
संभवद्विचित्रविभ्रमहेतुत्वात्प्रत्यक्षादीनाम्, विगलितनिखिलदोषाशङ्कत्वाच्चाम्नायस्य ।
पुरुषाश्रयाणां हि दोषाणां शब्दे पुरुषाभावेऽसंभवात् ।
शक्यो ह्याम्नायादेवानादिरविद्यासंस्कारो विभ्रमहेतुः प्रत्यक्षादिषु संभावयितुं निश्चेतुं च देहात्माभिमान इव ।
न त्वेवमपौरुषेये शब्दे काचिद्दोषाशङ्का ।
सत्यां वा प्रमाणमेव न स्यात् ।
प्रत्यक्षादीनां तु व्यावहारिकं प्रामाण्यम्, अविद्यासंस्कार्स्य स्थेम्ना व्यवहारविपर्ययाभावात् ।
यत्र च व्यवहारविपर्ययो न तत्र प्रामाण्यम् ।
शब्दे तु संभावितदोषे न तत्त्वावेदनेन प्रामाण्यम् ।
न व्यवहाराविपर्ययेण ।
अदृष्टार्थत्वाद्दोषेभ्यो व्यवहारविसंवादिज्ञानदर्शनाच्च ।
प्रत्यक्षादीनां तु व्यवहारे संवादान्न शक्यते व्यवहारविसंवादिज्ञानहेतुर्दोषः कल्पयितुम् ।
व्यवहारविपर्ययाद्धि स कल्प्येत ।
तत्त्वदर्शनस्य तु वेदान्तजन्मनः प्रतिपक्षत्वात्तत्त्वप्रतिहतिमात्रहेतुरेवानादिरविद्यानुबन्धः कल्प्यते ।
ततो दोषानुबन्धः प्रामाण्यं चेति न विरोधः ।
शब्दस्तु संभावितदोषो दुर्लभप्रामाण्य एव स्यात् ।
दृश्यते हि दोषेभ्यो व्यवहारविसंवादिज्ञानोत्पत्तिः ।
तत्र दोषाशङ्कया व्यवहारविसंवादस्य शङ्कितत्वात्तत्त्वप्रतिघातस्य च, न तत्त्वावेदनलक्षणं प्रामाण्यम्, न व्यवहाराविसंवादलक्षणमिति ।
तस्माच्छब्दस्य प्रामाण्याभ्युपगमे प्रमाणान्तरविरोधेऽपि तस्यैव बलवत्त्वमिति सांप्रतम् ।
यत्तु प्रत्यक्षाद्यपेक्षणादिति, तत्रोच्यते
न प्रमितावपेक्षावत्ता शब्दस्य प्रत्यक्षादिषु, किं तु स्वरूपसिद्धौ ।
अन्यथा प्रमाणमेव न स्यात् ।
तथा च स्वकार्येऽपेक्षत्वान्न प्रत्यक्षादिभ्यो हीयते ।
प्रत्यक्षादयो पि स्वरूपसिद्धौ नान्यानपेक्षाः ।
कार्ये हि सापेक्षत्वं [कुप्पुस्वामी संस्करण ४१] सामर्थ्यमपकर्षतीति ।
यत्त्वेतेषां प्रामाण्यमनुमातव्यमिति, को वान्यथाह? व्यवहाराविसंवादिलक्षणं तु तत्, न तत्त्वावेदनलक्षणम् ।
व्यावहारिकप्रामाण्योपेतेभ्यः प्रत्यक्षादिभ्यः सिद्धादाम्नायात्तत्त्वदर्शनम्, तद्विरोधात्तेषु तत्त्वदर्शनांशमेवापबाधते, न व्यवहाराविसंवादांशम् ।
दृष्टं च हेतुत्वेनापेक्षिताया अपि पूर्वस्याः प्रतिपत्तेः परस्याः प्रतिपत्तेर्बलीयस्त्वम् ।
यथा दूरस्थेषु वनस्पतिषु हस्तिप्रतिपत्तिभ्यो वनस्पतिप्रतिपत्तेः ।
अपेक्षिता हि हस्तिप्रतिपत्तयो व्यक्तवनस्पतिप्रतिपत्त्या हेतुत्वेन ।
न तस्या इन्द्रियार्थसंनिकर्षमात्राज्जन्म, आपातेऽभावात् ।
न च देशविशेषात्, तद्देशस्थस्यैवोत्पत्तेः ।
तस्मात्पुरोवर्तिषु वनस्पतिषु प्रणिहितमनसः प्राच्यविपर्यासानुगतमतिसंस्कारसचिवेन्द्रियादिसंयोगकारिता सेति मन्तव्यम् ।
एवमेकादिसंख्याबुद्ध्यपाया विंशत्यादिबुद्धयोऽप्युदाहार्याः ।
एवं च यदेके वर्णयन्ति
स्वयमेव व्याहता वेदान्तार्थप्रतिपत्तिः ।
नाभेदो भेदमन्तरेण शक्योऽवसातुम् ।
भेदोपाया हि तस्य प्रतिपत्तिः ।
तत्राभेदः समाक्षिप्तभेद एव प्रतायत इति व्याघातः
तदपास्तम् ।
यत उपायमाक्षिपति प्रतिपत्तिः ।
नोपायस्य परमार्थताम्, मिथ्याज्ञानादपि तत्त्वप्रतिपत्तेः ।
व्यावहारिकं च भेदस्य सत्यत्वमिष्टमेवेति ।
व्यभिचारदर्शनं च दुष्टहेतुजन्मनोः शब्दप्रत्यक्षयोः समानम् ।
इतरयोरपि तुल्यमव्यभिचारित्वम् ।
तथानवकाशत्वमपि ।
यदि खल्वेकमद्वयं वेदान्तार्थः, कस्तेषामन्योऽवकाशः? अथौपचारिकत्वमेकत्वं तदर्थोऽविवक्षितार्थता वा जपोपयोगिनाम्, तत्र विरोध एव नास्तीति बलाबलचिन्ता नावतरति ।
तत्कुतः सावकाशत्वेन दौर्बल्यम्? कथं च मुख्यमर्थमतिलङ्घ्योपचरितोऽवकाशः? कथं वौत्पत्तिके शब्दस्यार्थं प्रति शेषभावे
’दृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ ’विशिष्टस्तु वाक्यार्थःऽइति च अविवक्षितार्थता? प्रमाणान्तरविरोधादिति चेत्, वार्तमेतत् ।
न प्रमाणस्य प्रमाणान्तरापेक्षं प्रामाण्यम्, येन तद्विरोधे स्वरसं जह्यात् ।
तदपेक्षत्वे हि तदनुगुणतया वर्तेत ।
निरपेक्षस्य कः प्रमाणान्तरानुसरणे [कुप्पुस्वामी संस्करण ४२] हेतुः? लौकिकास्तु शब्दाः प्रमाणान्तरापेक्षं स्वार्थमभिदधतीति युक्ता तेषां तदनुसारिणी वृत्तिः ।
तुल्ये त्वनपेक्षत्वे किमिति न विपर्ययः, उभयोर्वा व्याघातादप्रामाण्यम्, ’पौर्वापर्ये पूर्वदौर्बल्यम्ऽइति वा रजतज्ञानस्येव पूर्वस्य बाधः? न खलु रजतज्ञानविरोधाच्छुक्तिज्ञानमन्यविषयमविषयं वा ।
कथं तर्हि वेदे गुणवादः ।
यत्र श्रौतैरर्थैः प्रमाणार्थनिष्पत्तेरसम्भवः, तत्र द्वितीयस्या अपि वृत्तेः शब्दानां प्रवृत्तिदर्शनात्तया प्रमाणविषयलाभः ।
यत्र तु शब्दाः स्वरसेन लभन्ते विषयम्, तत्र न प्रमाणान्तरविरोधादपावर्तन्ते ।
न ह्येषां प्रमाणान्तरनिबन्धनोऽर्थो येन तद्वशादपावर्तेरन् ।

अथ मतम्
उभयानुग्रहादेवं कल्प्यते ।
एवं हि शब्दः प्रत्यक्षादयश्चानुगृहीता भवन्ति ।
अन्यथा प्रत्यक्षादयोऽत्यन्तमपबाधिताः (ंसा॑ ॰मेव बाधिताः एदितिओन्) स्युः ।
नैतत्सारम् ।
प्रमाणसामर्थ्यानुसारेण प्रमेये काचित्कल्पना स्यात् ।
प्रमाणे तु स्वरससिद्धं परित्यज्य कल्पनायां न निबन्धनमस्ति ।
तस्मात्प्रमाणानुसारेण विकल्पसमुच्चयव्यवस्थाः कल्प्यन्ते, नोभयानुग्रहात् ।
नोभयमनुगृहीतव्यमिति प्रमाणमस्ति ।
ते एव प्रमाणे इति चेत्
यदि मतम्, न प्रमाणस्य प्रमाणान्तरादनुग्राह्यत्वम्, अपि तु स्वत एव ।
प्रमाणत्वादेव हि तस्य तेनार्थव्यवस्थापना
यथा तर्हि ततोऽर्थोऽवगम्यते तथा व्यवस्थापनीयः ।
एवं तदनुगृहीतं भवति ।
अन्यथा बाधितं स्यात् ।
अप्रमाणिका चार्थव्यवस्था, ततः स्वरसेनाप्रतीतेः, अन्यस्य चाभावात्, इतरेतराश्रयप्रसङ्गाच्च ।
प्रामाण्यात्सिद्धादर्थान्तरे प्रतीतिः प्रामाण्यान्यथानुपपत्त्या कल्पनीया, तत्प्रतीतेश्च प्रामाण्यम् ।
स्वरसलभ्ये त्वर्थे प्रतीतित एव प्रामाण्यमिति नेतरेतराश्रयता ।
तस्माद्विरोधे बाध एव पूर्वस्य प्रमाणानुसारी, तथा प्रतीतेः ।
नोत्तरस्य विषयान्तरकल्पना ।
न खलु रजतज्ञानानुग्रहाय शुक्तिशकलज्ञानस्य गोचरोऽपरः कल्प्यते ।
न च प्रत्यक्षादीनामनन्यगतित्वादनवकाशत्वम् ।
या खलु रजतादिविभ्रमाणां गतिः, सा तेषामपि ।
यदि तेषामुपचरितः कल्पितो वा विषयः, प्रत्यक्षादीनामपि तथा ।
अथासत्त्वात्तस्याविषया अविद्यमानार्थाः प्रत्यक्षादयोऽप्येवम् ।
तस्मादविवक्षितार्थत्वमुपचरितार्थत्वं [कुप्पुस्वामी संस्करण ४३] वा गतिरुभयोरविशिष्टा ।
एतेनेदमपि पराकृतम्, यदाहुः
शब्दस्य प्रमाणान्तरविरोधे दृष्टमुपचरितार्थत्वमविवक्षितार्थत्वं वा लोके ।
तस्मात्प्रत्यक्षादिविरोधे वेदान्तानां तथाभाव इति, प्रत्यक्षादिष्वपि तथा दर्शनादिति ।

यत्तु मुख्यत्वात्प्रतिष्ठितार्थैरपहतविषय आम्नाय इति ।
अत एव बाधकः, शुक्तिज्ञानवत् ।
न च तदनुसारेणार्थकल्पनामर्हति, अनपेक्षत्वात् ।
न, तदधीनमस्य प्रमाणत्वम् ।
न तैः संभूयकारित्वम्, नाम्नायस्य प्रत्यक्षादीनां चैकवाक्यभावः ।
परस्परानपेक्षो ह्युभयत्र बुद्ध्युत्पादः ।
तत्र परबलीयस्त्वं न्याय्यम् ।
यथोक्तम्

’पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् ।
अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्ऽ ॥


यत्र त्वेकवाक्यतया संभूयकारित्वं तत्रानुपजातविरोधितया स्वरसवृत्त्या मुख्ये स्थिते, प्रथमया वृत्त्या तदेकवाक्यत्वं प्रतिपत्तुमशक्नुवन्ति तदपेक्षितार्थसमर्पणानुपपत्तेः परपदानि द्वितीयया वृत्त्या पूर्वापेक्षितमर्थं समर्पयन्त्येकवाक्यतासामर्थ्यादिति मुख्यबलीयस्त्वम् ।
यत्तु व्याकुलत्वादिति, तत्रोच्यते
स्याद्व्याकुलत्वम्, यदि कर्मविधयो भेदप्रतिपादनपराः स्युः ।
ते तु सिद्धं भेदमुपाश्रित्य ’िदमनेनेत्थं साधयेत्ऽ इति पुरुषहितानुशासनप्रधानाः ।
स्यादेतत् ।
असति भेदेऽंशत्रयप्रत्यस्तमयात्कुतो हितानुशासनम्? उच्यते
यथा खलु श्येनादिषु ’न हिंस्यात्सर्वा भूतानिऽ इति प्रतिषेधात्साध्यांशप्रत्यस्तमयेऽप्यनुशासनम्, एवं सर्वत्र सर्वांशप्रत्यस्तमयेऽपि ।
तथा हि
निषिद्धानर्थोदया कथं हिंसा साध्या स्यात्? अथ भवति कस्य चित्तीव्रक्रोधाक्रान्तस्वान्ततया समुद्धतध्वान्ततिरस्कृतविवेकविज्ञानस्यानर्थमप्यर्थत्वेन पश्यतः शास्त्रोपदेशमतिक्रामतः, तथा ज्योतिष्टोमादिषु निसर्गजाविद्योपदर्शिता अप्रतिबुद्धानां त्रयोऽप्यंशाः, तानुपाश्रित्य तेषामनुशासनम् ।
प्रतिबुद्धास्तु कर्मविधिभिर्नानुशिष्यन्ते ।
यथा श्येनादिविधिभिरपजितक्रोधारातयः ।
तदेवं व्यवहारसिद्धभेदाश्रयेषु कर्मविधिषु यद्यपि भेदप्रतीतिरस्ति [कुप्पुस्वामी संस्करण ४४], तथापि तेषामतत्परत्वान्न तत्र प्रामाण्यं वृत्तान्तेष्विवार्थवादपदानाम् ।
तथा च कुतस्तैर्वेदान्तानां पराहतिः, वेदान्तैर्वा तेषाम्? अपि च प्रत्यक्षादिष्वेव पराहतिरुपलभ्यते, बाध्यबाधकभावदर्शनाद्रजतशुक्तिशकलादिज्ञानेषु, भेदाभेदप्रतीतेश्च सर्वत्र ।
तदेवं बलवत्त्वेऽप्याम्नायस्य यो नाम मन्दधीर्लौकिकवचसां प्रत्यक्षादिविरोध उपचरितार्थत्वदर्शनाल्लोकवद्वेदेऽपि शब्दवृत्तमिति मन्यते, यो वा निरूढनिबिडतया भेददर्शनान्धकारस्य प्रत्यक्षादीनामेव बलवत्त्वं मन्यते, लोकवचसां च तैर्बाधदर्शनात्, तत्प्रतिबोधनाय विरोधो निरस्यते, न हि यो नाम मन्दविषेण वृश्चिकेन दष्टो म्रियते, नासौ न चिकित्स्यत इति ।

तत्र प्रत्यक्षे त्रयः कल्पाः
वस्तुस्वरूपविधिः वस्त्वन्तरस्य व्यवच्छेदः, उभयं वेत्ति, उभयस्मिन्नपि त्रैविध्यम्
यौगपद्यम्, व्यवच्छेदपूर्वको विधिः, विधिपूर्वको व्यवच्छेद इति ।
तत्र वस्त्वन्तरव्यवच्छेदे उभयस्मिन् वा भेदः प्रत्यक्षगोचर इति भवति विरोधः ।
स्वरूपविधिमात्रे तु कस्यचिद्व्यवच्छेदेन शून्ये न भेदः प्रमाणार्थः, न हि व्यवच्छेदादृते भेदसिद्धिः ।
विधिमात्रव्यापारं च प्रत्यक्षम्, अतो न विरोधः कथमित्युच्यते

लब्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यते ।
विधानमन्तरेणातो न विषेधस्य संभवः ॥ १.५ ॥


न तावद्व्यवच्छेदमात्रं प्रत्यक्षव्यापारः, न युगपदुभयम्, न व्यवच्छेदपूर्वकं विधानम्, यतः सिद्धे विषये सिद्धरूपमेव निषिध्यते
’नेदमिहऽ ’नायमयम्ऽइति सिद्धे भूतले सिद्धो घटः, गवि वा अश्वः ।
न प्रतिषेध्यात्प्रतिषेधविषयाच्च विना प्रतिषेधोऽवकल्पते ।
कथं तर्ह्यत्यन्तासतां प्रधानखपुष्पादीनां प्रतिषेधः? न हि तत्र क्वचिद्देशे काले वा निषेधः, आत्यन्तिकत्वात्, नापि कुतश्चित्सिद्धि, अत्यन्तासत्त्वात् ।
तत्र केचिदाहुः
खपुष्पादिषु तावत्सिद्धेषु खादिषु तद्विधाः पुष्पादयो निषिध्यन्ते, ’प्रधानं नास्तिऽइति जगत्कारणे सुखदुःखमोहात्मताविभक्तकार्यत्वादीनि निवार्यन्ते ।
[कुप्पुस्वामी संस्करण ४५] अन्ये तु
कुतश्चिन्निमित्ताद्बुद्धौ लब्धरूपाणां बहिर्निषेधः क्रियत इति वर्णयन्ति, अन्यथा दैवनिषिद्धे कः प्रतिषेधोऽप्राप्तरूपे? प्राप्तरूपे वा कथमत्यन्ताय प्रतिषेधः? अपि चानपेक्षितविषयनिषेध्ये व्यवच्छेदे शून्यता प्रमाणार्थः स्यात्, न भेदः, सर्वस्य सर्वत्राविशेषेण निषेधात् ।
यस्तु भेदाय व्यवच्छेदः स भेद्ययोः सिद्धिमपेक्षते, न च सा विधानादृत इति प्राग्विधानमेषितव्यम्, विधिपूर्वक एव च निषेधोऽङ्गीक्रियत इति ।

नापि विधिपूवको व्यवच्छेदः यतः

क्रमः संगच्छते युक्त्या नैकविज्ञानकर्मणोः ।
न संनिहितजं तच्च तदन्यामर्शि जायते ॥ १.६ ॥


न खल्वेकप्रमाणज्ञानव्यापारौ सन्तौ विधिव्यवच्छेदौ क्रमवन्तौ युज्येते, क्षणिकत्वात्, क्रमवतोर्हि व्यापारयोः पश्चात्तनो न तद्व्यापारः स्यात्, व्यवधानात् ।
अपि च जन्मैव बुद्धेर्व्यापारोऽर्थावग्रहरूपायाः, सा चेदर्हविधानरूपोदया, विधेरेवास्या व्यापारः, यौगपद्यस्य निषेधात्, उत्पन्नायाश्च पुनरनुत्पत्तेः ।
अपि च संनिहितार्थालम्बनं प्रत्यक्षं नासंनिहितमर्थमवभासयितुमर्हति, न चानवभासमानरूपं व्यवच्छेत्तुं पर्याप्नोति, अनवभासमाने हि तत्र व्यवच्छेद्ये व्यवच्छेदमात्रं स्यात्, न व्यवच्छेदः कस्यचित्, सर्वस्य वा स्यात् ।
तस्मान्नानवभासमाने व्यवच्छेद्ये व्यवच्छेदः, न च संनिहितार्थावलम्बने प्रत्यक्षेऽसंनिहितावभासो युक्तः ।
कथमिदानीं बाधकं प्रत्यक्षम्? तत्र हि पूर्वार्थनिषेधपुरःसरोऽन्यविधिरेकज्ञानेऽभ्युपेयते, असंनिहितनिषेध्यावभासश्च, तस्मान्नैष नियमः, यतः पूर्वो निषेधः, एकज्ञानव्यापारे च क्रमः, प्रत्यक्षेण चासंनिहितार्थावभासः ।
नैतत्सारम्, तत्रापि पूर्वविज्ञानविहिते रजतादौ ’िदम्ऽ इति च संनिहितार्थसामान्ये निषेधो विधिपूर्व एव, शुक्तिकाविधिस्तु विरोधिनिषेधपूर्व उच्यते, विधिपूर्वता च नियमेन निषेधस्योच्यते, न विधेर्निषेधपूर्वकता निषिध्यते, न च तत्रैकज्ञानस्य [कुप्पुस्वामी संस्करण ४६] क्रमवद्व्यापारता, उभयरूपस्योत्पत्तेः ।
पूर्वज्ञानप्रापितत्वाच्च विषयव्यवच्छेद्ययोर्नासंभवः, पूर्वज्ञानावभासिते च व्यवच्छेद्ये व्यवच्छेदस्य वृत्तेर्नासंनिहितार्थावभासप्रसङ्गः, पूर्वापेक्षस्य तस्योत्पत्तेः ।
पूर्वापेक्षयैव च तद्द्विरूपमुदेति, अन्यथा एकरूपमेवोदीयात् ।
अपि च सर्वव्यवच्छेदानपाकुर्वतः को व्यवच्छेदोऽभिमतः, येन प्रत्यवस्थीयेत? सिद्धः स लोक इति चेत्, अयं वा किं न लोकसिद्धः
नाश्वो गौः, न गौरश्व इति?

यत्तु मतम्
एकविधिरेवान्यव्यवच्छेदः ।
तथा हि
दर्शनं यथैव तदाकारतया तद्रूपं विदधाति, तथा तदेकाकारप्रतिनियमात्, ’तदेव, नान्यत्ऽ इत्यन्यद्व्यवच्छिनत्ति, तत्सामर्थ्यप्रभावितौ च ’िदम्, नेदम्ऽइति विकल्पौ भावाभावव्यवहारं प्रवर्तयतः ।
न ह्येकाकारप्रतिनियतादनन्यसंसर्गिणो ज्ञानादन्योऽन्यव्यवच्छेदः ।
तत्रोच्यते

विधानमेव नैकस्य व्यवच्छेदोऽन्यगोचरः ।
मा स्म भूदविशेषेण मा न भूदेकधीजुषाम् ॥ १.७ ॥


नैकप्रतिनियमोऽन्याभावनिश्चयनिमित्तम्, उपलब्धिलक्षणप्राप्त्यस्येतरस्य चाविशेषेण व्यवच्छेदप्रसङ्गात्, तत्प्रतिनियमो हि ततोऽन्यस्यासंसर्गः ।
तथा चासंसर्गाद्व्यवच्छेदे तस्य दृश्यादृश्ययोरविशेषादुभयोर्व्यवच्छेदः स्यात् ।
अथ मतम्
भवत्येव, तथा हि
यावन्तोऽस्यानात्मानस्तानविशेषेण तदात्मनियमाद्दर्शनमपाकरोति, तथा च नास्यान्य आत्मानः, तद्देशकालास्तु भवेयुः, रूपादिवदविरोधात्, तत्रोपलब्धिलक्षणप्राप्तिर्विशेषस्तद्देशकालव्यवच्छेदावधारणाय, संभवति ह्यनुपलभ्यस्तद्देशकालोऽनात्मानुपलभ्यमानोऽप्यन्योपलब्धौ, इतरवत्, अन्यथा न तुल्योपलम्भयोग्यतः स्यात् ।
सत्यमस्त्ययं विभागः, न त्विदानीं दर्शनप्रतिनियमस्य सामर्थ्यम्, तथा हि
प्रतिनियतमपि तत्र देशे काले च रूपे दर्शनं तयोर्यथा रूपविधिमात्रोपक्षयान्न [कुप्पुस्वामी संस्करण ४७] रसं व्यवच्छिनत्ति, तथा भूभागदर्शननियमोऽपि भूभागविधिमात्रव्यापारत्वान्न घटदृश्यमपि व्यवच्छिन्द्यात्, व्यवच्छेदे वा सर्वस्य व्यवच्छेदः ।
तस्माद्दृश्यव्यवच्छेदेऽपि हेत्वन्तरमुपास्यम्, न दर्शनप्रतिनियममात्रम् ।
तथा चात्मान्तरव्यवच्छेदोऽपि न ततः सिद्धिमुपाश्नुते ।
कामं विधेर्विधेयासत्त्वव्यवच्छेदरूपत्वात्तदभावो व्यवच्छिद्येत, नात्मान्तरसत्ता, तद्देशकालयोरिवानुपलभ्यसत्ता ।
नैकस्य बहव आत्मान इति चेत्, अन्यतस्तर्हि विरोधाद्व्यवच्छेदः ।
न दर्शननियमात् ।
असति च व्यवच्छेदे कुतो बहुत्वम्, कुतो वा विरोध इतरेतराश्रयं वा? तस्मान्नैकविधिरन्यव्यवच्छेदः ।
अपि च एकनियमादन्यव्यवच्छेदे चित्रादिषु नीलादीनामेकदर्शनभाजां भेदो न सिध्येत्, एकज्ञानसंसर्गादेकत्र ज्ञानस्यानियमात् ।

ननु प्रकृत्यैव भिन्ना भावाः, तांस्तद्विधान् विदधदेव दर्शनं परस्परतो व्यावर्तयति, न हि व्यावृत्तिरन्या व्यावृत्तिमतः ।
तत्र व्यावृत्तिमद्विधौ सापि विधीयत एव, यत्प्रकृतिः खलु यः पदार्थः स तयैव प्रकृत्या विधेयः, अन्यथा न तस्य विधिः स्यात्, व्यावृत्तस्वभावाश्च भावा यथायथं दर्शनेषु निर्भासन्ते, तस्मात्तथैव विधीयन्त इति ।
अत्राप्यसंस्पृष्टनिर्भासनादसंस्पृष्टस्वभावत्वे दृश्ययोरविशेषेण व्यवच्छेदस्तदवस्थः ।
अपि च

न भेदो वस्तुनो रूपं तदभावप्रसङ्गतः ।
अरूपेण च भिन्नत्वं वस्तुनो नावकल्पते ॥ १.८ ॥


न व्यावृत्तिर्वस्तुस्वभावः, सा खल्वेकानेकाधिष्ठाना प्रतिज्ञायते प्रज्ञायते च ।
तथा च तस्या एकस्या अनेकवृत्तेर्वस्तुस्वभावत्वे वस्तूनामपि भेदो न स्यात्, नैकस्मादभिन्नस्वभावं भिन्नं युज्यते तद्वदेव ।
अथ मा भूदेष दोष इत्यर्थान्तरमेव व्यावृत्तिरास्थीयते, तथापि व्यावृत्तेररूपत्वात्स्वरूपेण न भावा व्यावृत्ताः स्युः ।
अपरः कल्पः
भेदः परस्परानात्मस्वभावः, स चेद्वस्तुनः स्वभावः, वस्तूनामभावप्रसङ्गः, अभावात्मकत्वप्रतिज्ञानात् ।
अपरः [कुप्पुस्वामी संस्करण ४८] प्रकारः
भेदश्चेद्वस्तुनः स्वभावः, नैकं किञ्चन वस्तु स्यात्, भेदेनैकत्वस्य विरोधात् ।
परमाणुरपि भेदादनेकात्मक इति नैकः ।
तथा च तत्समुच्चयरूपोऽनेकोऽप्यस्यात्मा नावकल्पते, तत्रैकत्वानेकत्वयोरनुपपत्तेस्तृतीयप्रकारासंभवाच्च वस्तुनो निःस्वभावत्वप्रसङ्गः ।
अन्या व्याख्या द्वितीयार्धस्य
व्यतिरेकाव्यतिरेकविकल्पे प्रत्यवतिष्ठते, वस्तुगत एष विभागः
तत्स्वभावत्वमन्यत्वं चेति, नावस्तुनि विकल्पविरचितशरीरे भेदेऽवतारमर्हति ।
तथा हि
तत्त्वान्यत्वाभ्यामनिर्वचनीयोऽनादिविकल्पवासनोपादानविकल्पपरिदर्शितशरीरः ’यमस्माद्भिन्नः, अयमनयोर्भेदःऽ इति व्यवहारं प्रवर्तयति, न भेदो नाम किञ्चिद्वस्तु, यस्य तत्त्वमन्यत्वं वा किञ्चिद्विचार्येत ।
तत्रेदं पुनरुपतिष्ठते
अरूपेण च भिन्नत्वं वस्तुनो नावकल्पते ।
यदि तर्ह्यरूपो निःस्वभावो भेदः
न हि वस्तुस्थित्यास्ति, विकल्पैरेव केवलमुपदर्श्यते
न तर्हि वस्तुनो भिन्नत्वम्, परमार्थतो भेदाभावात्, न हि कल्पितेन स्वभावेन पारमार्थिकी तद्वत्ता युज्यते, कल्पितैव स्यात् ।
तदेतदस्माभिरुच्यमानं किमिति भवान्नानुमन्यते? वयमप्येतदेव ब्रूमः
न भेदो भावतोऽस्ति, अनाद्यविद्याविलसितमेतदिति ।

यदुक्तम्
भेदात्मत्वे वस्तुन एकवस्त्वभावः, तद्भावादितरस्यापीति वस्त्वभावः, तत्राहुः
परापेक्षं वस्तुनो भेदस्वभावं ब्रूमः, नात्मापेक्षम्, येन विरोधादेकवस्त्वभावः स्यात्, स्वरूपेण त्वेकं वस्तु परापेक्षया भिन्नमिति ।
तत्रोच्यते

पौरुषेयीमपेक्षां च न हि वस्त्वनुवर्तते ।

नापेक्षा नाम कश्चिद्वस्तुधर्मः, येन वस्तूनि व्यवस्थाप्येरन्, न खलु स्वहेतुप्रापितोदयेषु स्वभावव्यवस्थितेषु वस्तुषु स्वभावस्थितये वस्त्वन्तरापेक्षा युज्यते ।
तत्र पुरुषप्रत्ययधर्मोऽयम् ।
न च पुरुषप्रत्ययानुविधायीनि वस्तूनि, स्वहेतुभ्यः स्वस्वभावव्यवस्थितेः ।
अतो न तदनुसारेण वस्तुरूपं व्यवतिष्ठते ।
व्यवस्थितवस्तुस्वरूपानुसारेणैव तस्य व्यवस्था न्याय्या, तत्पूर्वकत्वात् ।
परस्परापेक्षायां च [कुप्पुस्वामी संस्करण ४९] वस्तुस्वभावस्थितावितरेतराश्रयप्रसङ्गात् ।
अथवा यदुक्तम्
एकस्माद्भेदादव्यतिरेदाद्वस्तुनो भेदाभावप्रसङ्ग इति, तत्राहुः
न भेद एकः, रूपविरोधात्, एकत्वे च तन्निमित्तं वस्तूनामेकत्वं स्यात्, तस्मात्प्रतिभावं भेदो भिद्यते, कथं तर्ह्यनेकाश्रयत्वम्? अपेक्षातः, तथा हि प्रतियोग्यपेक्षं तस्य स्वरूपं व्यवस्थितम्, तथा च यथायथं भेदैः प्रतियोग्यपेक्षैरात्मभूतैर्भिन्नाः सर्वे भावा इति ।
तत्रोच्यते
पौरुषेयीमिति ।
पुरुषो ह्येकमर्थं गृहीत्वा परमपेक्षते कार्यार्थम्, स्वहेतुभ्यस्तु प्रतिलब्धाविकलस्वभावानां भावानां भावान्तरेषु किमर्थापेक्षा? ननु स्वभावस्थितये, नानाविधा हि भावस्वभावाः, तत्र कश्चित्प्रतियोग्यपेक्षयैव व्यवतिष्ठते वस्तुतत्त्वे, यथायमेव भेदः ।
न तर्हि हेतुभ्यो भावस्याविकलात्मलाभः, भेदाख्यस्य रूपस्य प्रतियोग्यपेक्षत्वात् ।
हेत्वन्तराच्च प्रतियोगिनः संपद्यमानः पश्चाद्भेदो न स्वभावः स्यात् ।

स्यादेतत्
अविकलरूप एव भावो हेतुभ्यो जायते ।
तत्र भेदाख्यं रूपं प्रतियोग्यपेक्षम्, नानपेक्षं कदाचिदित्तस्य तद्विधत्वात्तेन तद्विधेनैव सह जायत इति न विकलरूपप्रादुर्भावः ।
तत्रोच्यते
भवतु तद्विधस्य प्रादुर्भावः, अपेक्षार्थस्तु वक्तव्यः, यस्य हि यत्र किञ्चिदायतते, तत्तदपेक्षत इत्युच्यते, नान्यो विशेषः सापेक्षनिरपेक्षयोर्व्यपस्थापको निरूप्यते ।
तत्र न तावदुत्पत्तिः प्रतियोगिन्यायतते, स्वहेतुभ्योऽविकलस्योत्पत्तेः ।
नार्थक्रिया, तदसंनिधानेऽपि तस्यार्थक्रियादर्शनात् ।
प्रतीतिश्चेत्
तथा हि, नानपेक्ष्य प्रतियोगिनं भेदः प्रतीयत इति
न तर्हि भेदस्वभावः सापेक्षः, तस्मिन्नवस्थिते वस्तुस्थित्युत्तरकाला प्रतीतिरर्थान्तरमेव प्रतियोगिनमपेक्षते, यथा व्यवस्थितानपेक्षस्वभावा रूपादयश्चक्षुराद्यपेक्षायां प्रतीतौ न सापेक्षस्वभावाः कथ्यते ।
इतरेतराश्रयाच्च न प्रतीतिरपि परस्परायत्तावकल्पते ।
न च वस्तुमात्रादनवगृहीतभेदाद्भेदसिद्धिः, एकस्मिन्नपि तत्प्रसङ्गात् ।
तस्मात्पौरुषेयीमपेक्षायां न वस्त्वनुवर्त्तते, अतो न वस्तुस्वभाव इत्यर्थः ।
[कुप्पुस्वामी संस्करण ५०] अन्या व्याख्या
न भेदो वस्तुनो रूपम्, आपेक्षिको हि प्रतीयते ।
न चापेक्षायां पुरुषप्रत्ययं वस्त्वनुवर्तते, व्यवस्थितवस्तुपूर्वकत्वादिति ।

कथं तर्थि पित्रादयः? न हि तेऽपेक्षया विना, न च खपुष्पगन्धर्वनगरादितुल्याः, अविसंवादिव्यवहाराङ्गतया लोकसिद्धत्वात् ।
उच्यते
भेदोऽप्येवं किं न लोकसिद्धः? अपि च

पित्रादिविषयेऽपेक्षा जननादिप्रभाविता ॥ १.९ ॥

एकक्रियाविशेषेण व्यपेक्षा ह्रस्वदीर्घयोः ।

व्यवस्थिते एव जन्यजनकशक्ती पितृपुत्रशब्दयोरभिधेये, ते तु समानजननव्यापारविषये तावास्कन्दतः, स्वभावभेदात् ।
अतो येन समानत्वम्, तत्रापेक्षा ।
एतदुक्तं भवति
शब्दार्थस्तत्र सापेक्षः, न वस्तु ।
अपेक्षाहेतुश्च तत्र साधारणी क्रिया विद्यते व्यवस्थितयोरपि वस्तुनोः ।
भावभेदे त्वयं वस्तुतत्त्वगतो विचारः, न चापेक्षाहेतुः कश्चिदुपलभ्यते ।
ह्रस्वदीर्घयोरप्येकजातीयायां क्रियायां देशव्याप्तौ न्यूनाधिकभावादेवं द्रष्टव्यम् ।

यदि तर्हि कार्यभेदादप्यपेक्षा, हन्त! अर्थक्रियाभेदादेव भावानां परस्परापेक्षो भेदः सेत्स्यति ।
किं चासत्यामपि दर्शनाद्भेदसिद्धौ विधिमात्रव्यापारत्वात्कार्यभेदादेव कारणभेदमनुमिमीमहे ।
नैकत्वे कार्यभेदः कल्पते, कारणस्वभावापेक्षत्वात्कार्यभेदस्य ।
तज्जननश्चेदस्य (तज्जननं चेदस्य एदितिओन्) स्वभावः, नान्यजननः ।
तस्मात्कार्यान्तरस्यान्यतो जन्मेति ।
तदिदं भेदेनैव भेदप्रसाधनं नातिचतुरश्रम् ।

अपि च

अर्थक्रियाकृते भेदे रूपभेदो न लभ्यते ॥ १.१० ॥

दाहपाकविभागेन कृशानुर्न हि भेदवान् ।

नार्थक्रियाभेदाद्भावानां परस्परापेक्षो रूपभेदः प्रतीयते, नाप्यनुमातुं शक्यते ।
व्यपदेशभेदमात्रं तु स्यात्, एकस्मिन्नपि वह्नौ दाहपाकादिकार्यभेददृष्टेः ।
अथ मतम्
रूपादिसमूहो वह्निः ।
तत्र रूपात्प्रकाशः, स्पर्शाद्दाह इति ।
[कुप्पुस्वामी संस्करण ५१] कामम्, दाहपाकौ तु स्पर्शादेव ।
तौ च लोके प्रतीतिभेदौ सत्यपि संयोगिद्रव्यविक्रियासामान्ये ।
कर्म चैकं संयोगविभागसंस्काराणां हेतुः, आत्मा चेच्छादीनाम्, सत्त्वादयश्च प्रत्येकमभेदाल्लाघवप्रकाशादीनाम्, रूपादयो ज्ञानविशेषाणां सजातीयक्षणानां चेत्युत्प्रेक्षितव्यम् ।
ननु नार्थक्रियाभेदमात्राद्भेदं ब्रूमः, अपि तु तत्रासंभाविन्या अदृष्टायाः ।
यथा चक्षुषि सत्यप्यदृष्टायाश्च बधिरे तत्रासंभाविन्याः शब्दबुद्धेरिन्द्रियभेदः ।
परस्परासंभविकार्याश्च प्रायेण भावाः, अन्यकार्यस्यान्यत्रादर्शनात् ।
अथ कार्यासंभवः कथं प्रत्येतव्यः? ननूक्तं तत्रादर्शनात् ।
न तर्ह्यसंभवः ।
यस्य खल्वद्वयं जगत्तस्य कार्यजातमेकत्रैव दृश्यत इति कथमदर्शनम्? तत्र सिद्धे भेदे तत्रादर्शनम्, तत्रादर्शनाच्च भेदसिद्धिरितीतरेतराश्रयान्न भेदानुमानम् ।
अथ मतम्
अदृष्टस्य दर्शनादिति ।
तदसत्, एकस्मादपि क्रमवतां कार्याणां दर्शनात् ।
स्यादेतत्
एकान्ततोऽभेदे कार्यदर्शनादर्शने न युक्ते, विशेषाभावात् ।
न तर्हि कार्यभेदोऽभेदमपबाधते ।
तदनुपमर्देन विशेषमात्रानुमानं स्यात् ।
तच्च कल्पनाविषयं नैवावजानीमहे, वस्तुसतस्तस्यायोगात्, तत्त्वान्यत्वयोरसंभवात् ।
यस्तु क्षणिकवादी तत्त्वमेव विशेषस्य न मन्यते, तस्यासति कारणस्वभावाभेदे कथं तुल्यस्वभावकार्योत्पादः ।
अथ निरन्वयविनाशानामपि कल्पनाविषयादभेदात्कार्यस्य तुल्यता ।
हन्त! तर्हि भेदादेव कल्पनाविषयात्कार्यभेदसिद्धेर्मुधा कारणभेदकल्पना ।
अथ कार्याभेदे न (अथ न कार्याभेदेन एदितिओन्) कारणस्वभावाभेदोऽपेक्ष्येत, भिन्नस्वभावेभ्यः सहकारिभ्य एककार्योत्पत्तेः, यथा चक्षुरादिभ्यो रूपविज्ञानस्य (रूपादिज्ञानस्य ंसा, ंस्C॑ रूपादिज्ञानस्य एदितिओन्) ।
यथा तर्हि कार्यस्वभावाभेदाय न कारणस्वभावाभेदोऽपेक्ष्यते, तथा
तद्भेदाय कारणभेदोऽपि नापेक्षितव्यः ।
अपि चानेककारणजन्येऽप्येकस्मिन् कार्ये कारणव्यापारविषयभेदस्तेनैव वर्णितः, यथा रूपज्ञानस्य
चक्षुषो रूपग्रहणनियमः, समनन्तरज्ञानादुपलम्भात्मता, विषयात्तदाकारतेति ।
यदि च कार्यतुल्यत्वं न हेतुसाम्यकृतम्, न कार्याद्धेत्वनुमानं स्यात्, भिन्नजातीयादपि तुल्यजातीयोत्पत्तिसंभवात् ।
हेत्वभेदश्चेन्न [कुप्पुस्वामी संस्करण ५२] कार्याभेद उपयुज्यते, कस्तुल्यजातीयाद्विजातीयस्य जन्म निवारयेत्? तत्र यथा व्यावहारिकादभेदात्कार्याभेदस्तथा व्यावहारिकाद्भेदात्कार्यभेद इति न विशेषः ।
स्यादेतत्
कल्पितश्चेद्भेदः कार्यभेदाय प्रभुः, न तर्हि कल्पितः ।
न ह्यन्यत्परमार्थसतो लक्षणमर्थक्रियासामर्थ्यात् ।
तुल्यमिदमभेदेऽपि ।

योऽपि मन्यते
युगपद्विरुद्धार्थक्रियादर्शनाद्भेदावगतिः ।
तथा हि
जननमरणवृद्धिक्षयस्थानगमनशोकहर्षादिविविधविरुद्धधर्मसमुपेतमेकदा विश्वमुपलभ्यते ।
तद्भेदवदिति गम्यते ।
तस्यापीदमेवोत्तरमावृत्त्या
दाहपाकविभागेनेति ।
कथम्? इदं तावदयं प्रष्टव्यः
को विरुद्धार्थः? यद्येकत्रासंभवः, सोऽसिद्धः ।
अथ परस्परव्यवच्छिन्नात्मता, जननादयश्च परस्पररूपनिवृत्त्यात्मान इति ।
न तर्ह्यतो भेदसिद्धिः ।
एकस्मिन्नपि वह्नौ दग्धृत्वपक्तृत्वदर्शनात् ।
न हि परस्परव्यवच्छेदमन्तरेण नानात्वं धर्माणाम् ।
ततश्चेद्भेदः, नानेकधर्मकमेकं किञ्चित्स्यात् ।
अथ परस्पराभावात्मतैव विरोधः
नैकस्मिन् स एव भवति, न च भवतीति ।
ततो भेदावसायः ।
तदसत् ।
न ह्येवं धर्मावेव, कुतस्तयोर्विरोधाद्भेदावगतिः ।
खपुष्पादिषु चोभयाभावादुभयप्रसङ्गः ।
अथ वध्यघातकभावो (वध्यघातुक॰ एदितिओन्) विरोधः
हर्षः शोकं हन्ति शोकश्च तम्, एवमितरेष्वपि ।
तत्रापि नाजात एकोऽन्यं नाशयति, नान्याधिकरणम् ।
तस्मादेकाधिकरणो भूत्वा नाशयतीति वाच्यम् ।
एवं च तयोरेकाधिकरणत्वदर्शनान्न तद्दर्शनेनाधिकरणभेदानुमानमव्यभिचारम् ।
अथ भावरूपतद्व्यवच्छेदात्मानो धर्मा विरोधिनः
नित्यत्वानित्यत्वमूर्तत्वामूर्तत्वादयः ।
तत्संबन्धाद्भेदगतिः ।
तदपि न ।
यतो नावश्यम्, यो यत्र भवति, स तं व्याप्नोति ।
न हि रथादयस्तत्संयोगादयो वा नभो व्यश्नुवते, अन्यान् वा संयोगिनः पृथिव्यादीन्, अवच्छिन्नत्वात् ।
एवमवच्छिन्ना [कुप्पुस्वामी संस्करण ५३] धर्मा अनवच्छिन्नमनन्तमर्थमाश्रयन्तोऽपि न व्यश्नुवते ।
अतो नैकस्मिन्नपि भावाभावविरोधः ।
यस्तु मन्येत
अर्थक्रियाभेदोऽर्थक्रियाव्यवस्था ।
ततो भेदाधिगमः ।
एकत्वे हि न व्यवस्था युज्यते ।
तथा च पयसोऽपि तैलं तिलेभ्यश्च दधि स्यात् ।
तथैकस्मिञ्जायमाने सर्वं जायेत, नश्यति च नश्येत् ।
अन्यथा भेद एव शब्दान्तरेणोक्तः स्यात् ।
तदुक्तम्
सहोत्पत्तिविनाशौ सर्वं च सर्वत्रोपयुज्येत इति ।
तस्यापीदमेवोत्तरम्
दाहपाकविभागेनेति ।
यदि कार्यनानात्वं व्यवस्था, न तया तिलानां पयसश्च भेदं प्रतिपद्यते ।
अथ पयसो दध्नो जन्म, नान्यत इति व्यवस्था ।
नान्यत्वं सिद्धया व्यवस्थया प्रमित्सितं तल्लक्षणमनुप्रवेष्टुमर्हति, तस्या असिद्धिप्रसङ्गात् ।
तस्माद्दधिजननशक्तिस्तदभावश्च व्यवस्था ।
ततो भेदः ।
न ह्येकविषय एकस्य शक्त्यशक्ती युज्येते इति
स चायं विरोधिधर्मयोगो भेदहेतुरनन्तरमेव निरासि ।
यथा खलु दीर्घकालाः पदार्था मितकालैर्धर्मैः संबध्यमानास्तद्धर्माणोऽतद्धर्माणश्च न विरोधपदभाजः, तथा परिमितदेशैर्विपुलदेशा अनन्ताश्च ।
कथमनन्तस्यान्तवान् धर्म इति चेत्, व्यतिरेकेऽनिवर्चनीयत्वे वा नास्त्यसंभावनावकाशः ।
अव्यतिरेकेऽपि दीर्घकालस्येव मितकालः ।
योऽपि दीर्घकालमर्थं न प्रतिपद्यते तं प्रतीदं पुनः पठितव्यम्
दाहपाकविभागेनेति ।
एकोऽपि वह्निः किञ्चिदेव दहति पचति च ।
तथा च दाहकश्चादाहकश्च न भिद्यते ।
तथा न दाहान्तराणि पाकान्तराणि वा करोति तस्मिन्नेव दाह्ये पाक्ये च ।
तथा बीजादयः प्रत्येकं समर्था अपि नाङ्कुरान्तराणि जनयन्ति, नापि सामग्री ।
तथा च जनकत्वमजनकत्वमिति ।
अथैकस्मिन्नेव जनकशक्तिः, अन्यं प्रध्वस्तमागामिनं वैकं किं न जनयति ।
अथ तत्रैवैषां सामर्थ्यम्, नान्यत्र तुल्यजातीयेऽपि ।
कुतः? तस्यैवोत्पत्तेः, कार्यगम्यत्वाच्च सामर्थ्यस्य ।
तथा च न शक्तिरशक्तिश्चेति विरोधः ।
अभेदेऽपि तर्हि पयसस्तिलानां दध्नोऽनुत्पत्तौ न विरोधः ।
तथा हि
यस्य तावद्दध्नः पयसो जन्म न तस्य तिलेभ्योऽनुत्पत्तिः, येन शक्त्यशक्तिविरोधाद्[कुप्पुस्वामी संस्करण ५४] भेदः स्यात् ।
कुतः? तिलानां पयसोऽभेदात् ।
अथ दध्यन्तरस्यानुत्पत्तेर्विरोधः ।
तच्च न, अन्यत्राशक्तेस्तत्रैव शक्तेर्बीजादीनामिव ।
न हि समर्थमित्येव कारणं सर्वं तुल्यजातीयं जनयति, एकस्मादेव सर्वतुल्यजातीयकार्योत्पत्तिप्रसङ्गात् ।
अथ मतम्
अर्थक्रियासु भेदेन विनियोगाद्भेदमध्यवस्यामः ।
दध्ने हि पयो विनियुज्यते, न सिकतेति ।
तदप्यनैकान्तिकम्, एकत्वेऽपि भेदेन विनियोगदर्शनात् ।
तदेवार्थवस्तु सहकारिसमेतं विनियुज्यते, न केवलम् ।
अथ मतम्
भिन्नमेव तत्, सहकारिसन्निधानोपाधिभेदात् ।
औपाधिकस्तर्हि प्रत्ययमात्रनिवेशी भेदः, न परमार्थतः ।
तथाभूतश्च भावभेदो ह्यनुज्ञायत एव ।
योऽपि क्षणिकत्वेन भेदमाह, तस्यापि भेदस्य तुल्यत्वात्सर्वं सर्वत्र विनियुज्यते, न वा किञ्चित्क्वचित्, अदृष्टसामर्थ्यत्वात् ।
अथ कल्पनाविषयादभेदात्तत्सिद्धिः, परस्यापि तादृशाद्भेदादिति न विशेष इत्युक्तम् ।
योऽप्येकस्योभयं प्रतिजानीते
भेदमभेदं च, तेनैकत्रापि विरुद्धधर्मावेशमभ्युपयता दुर्लभ एव दध्नो जनकत्वाजनकत्वाभ्यां तिलपयसोर्विभाग इति ।

तदेवम्

एकस्यैवैष महिमा भेदसंपादनासहः ॥ १.११ ॥

वह्नेरिव यदा भावभेदकल्पस्तदा मुधा ।

एकत्र क्रियाभेदोपलब्धेः, असंभवस्य चासिद्धेः, अदृष्टदर्शनस्य चाभेदबाधने सामर्थ्याभावात्, विशेषमात्रहेतुत्वात्तस्य च तत्त्वान्यत्वाभ्यामनिर्वाच्यस्य कल्पनास्पदत्वात्, अभेदादिव च तादृशात्कार्याभेदस्य भेदादपि तद्विधाद्भेदस्योपपत्तेः, विरोधस्य चानैकान्तिकत्वादसिद्धत्वाद्वा व्यवस्थायाश्च, विनियोगभेदस्य चानैकान्तिकत्वात्, अभेदादिव च कल्पिताद्भेदात्तत्सिद्धेः, भेदाभेदयोश्चैकत्र समवाये शक्त्यशक्त्योर्विनियोगाविनियोगयोश्चैकसमवायसंभवादेकस्यैवैष कोऽप्यचिन्त्यः सामर्थ्यातिशयो निखिलभेदप्रपञ्चसंपादनायै प्रभुः पावकस्येव पाकप्लोषादिप्रविभागनिमित्तं यदोपपद्यते [कुप्पुस्वामी संस्करण ५५] तदा भेदकल्पनमकारणम्, एकस्मादपि तत्सिद्धेः
इति पूर्वोपसंहारः ।
तदेतदृचाभ्यनूक्तम्
’ेतावानस्य महिमाऽ इति ।
एतत्परिमाणमस्य सामर्थ्यम्
यदेकोऽपि ’सहस्रशीर्षाऽ इति ’यद्भूतं यच्च भव्यम्ऽ इति ।
पूर्वर्ग्द्वयनिर्दिष्टविविधविरुद्धाभिमतधर्मकार्यव्यवहाराश्रयः कथमिति ।
’तःऽप्रत्यक्षाभिमतात्, ’पुरुष एवेदं सर्वम्ऽइति वादृष्टनिर्दिष्टात् ।
’ुतामृतत्वस्यऽइति वा देवमनुष्यलोकभेदेन प्रपञ्चादेकैकस्मात्समस्ताच्च वृद्धतरः पुरुषः ।
तेनास्मिन् परिमितानां विरुद्धाभिमतानामप्यनन्ते न समावेशो न युज्यते ।
तदेव ज्यायस्त्वं दर्शयति
’पादोऽस्य विश्वाऽ इति ।
कृत्स्नोऽपि तावद्भूतप्रपञ्चोऽस्य कनीयान् भाग इति, किं पुनः प्रत्येकम् ।
तथा हि
’त्रिपात्ऽइवापरिमितमनन्तं मरणादिभूतप्रपञ्चधर्मशून्यं रूपं ’दिविऽप्रद्योतावस्थायां वर्तते, प्रमोदावस्थायां वा, सूर्यमण्डले, द्युस्थाने वा ।
तत्र हि तदुपास्यम् ।
तद्धि तस्योपलब्धिस्थानमिति तत्रेत्युच्यते ।
अपरः कल्पः
कल्पितेऽपि कार्यभेदाद्यवस्थाया वा कारणभेदे किमिति न कार्यान्तरम्? किमिति वा न संकरः, विपरीता वा व्यवस्था? भेदेऽपि पयसः, तिलेभ्य एव तैलं न सिकताभ्यः? भिना अपि चैककार्याश्चक्षुरालोकादयः, शरशृङ्गादयश्च ।
भेदेऽपि च तिलेभ्यस्तैलं पयसो दधि, न तु पयसस्तैलं तिलेभ्यो दधि? यदि मतम्
अचिन्त्येभ्यो भावसामर्थ्येभ्यः
अचिन्त्यानुपपत्तितो भावसामर्थ्यानि ’कस्मात्? कथम्?ऽ इति, कार्यदर्शनोन्नेयव्यवस्थानि
तेभ्यः कार्यस्य भेदः, व्यवस्था, न विपर्ययश्चेति ।
यद्येवम्, एकस्यैव सोऽस्तु सामर्थ्यातिशयः
यदनेकं व्यवस्थितमविपरीतं च कार्यम् ।
तन्मात्रेण तत्सिद्धेरप्रामाणिका भावानां भावकल्पनेति ।

स्यादेतत्
वह्नेरपि शक्तिभेदनिबन्धनः कार्यभेदः ।
तन्नैकस्मादनेकं [कुप्पुस्वामी संस्करण ५६] कार्यम् ।
तत्र यदि वह्निरपि कारणम्, कथं नैकस्मादनेकं कार्यम्? अथ शक्तीनामेव कारणत्वमभिप्रैति ।
तत्रोच्यते

यथैव भिन्नशक्तीनामभिन्नं रूपमाश्रयः ॥ १.१२ ॥

तथा नानाक्रियाहेतुरूपं किं नाभ्युपेयते ।

एकस्यानेककार्ययोगविरोधाच्छक्तिभेदः कल्प्यते ।
यदि चैकस्यानेकसंबन्धविरोधः, कथं नानाभूताभिः शक्तिभिरेकः संबध्यते? तत्र यथैकस्यार्थस्वभावस्य नानाशक्तियोगः, तथा नानाकार्ययोगोऽपि किं नानुज्ञायते? अथ नानाकार्ययोगे विरोधः, न नानाशक्तियोगे ।
विशेषहेतुर्वाच्यः ।
अपि च शक्तीनामव्यतिरेकादेकमनेकात्मकमिष्टम् ।
तत्रैकत्वं स्वाश्रयसमवायिनानेकत्वेन च विरुध्यते ।
कार्यगतेन त्वाश्रयान्तरसमवायिना विरुध्यत इति सुभाषितम्! अथार्थान्तरत्वमेव शक्तीनाम्, आश्रयार्थो वाच्यः ।
संश्लेषश्चेत्, न भिन्नत्वे रूपाविभागलक्षणः संश्लेषः, भेद एव न स्यात् ।
न नैरन्तर्यम्, तच्छक्तिद्रव्यसंयुक्तस्य द्रव्यान्तरस्यापि तच्छक्तित्वप्रसङ्गात् ।
न हि द्रव्यस्यानन्तरं तच्छक्तेर्व्यवहितं भवति ।
न हि चक्षुर्द्रव्यस्यानन्तरं रूपस्य नानन्तरम् ।
विभुत्वाच्चाकाशादीनां सर्वार्थशक्तिव्यवधानाभावात्सर्वशक्तिप्रसङ्गः ।
तस्मादुपकारविशेषात्कुतश्चिदाश्रयः ।
तत्र यथा भिन्नासु शक्तिषु तद्भेदादुपकारान् भिन्नानेकोऽर्थस्वभावः करोति, तथा कार्याण्यपीति कस्मान्नेष्यते? एवं तावन्नानुमानेऽपि भेदाधिगमः, नार्थापत्त्या च ।

ये तु मन्यन्ते
सत्यमेतत्, न प्रत्यक्षं भेदाधिगमायालम् ।
इतरेतराभावांशो हि भावानां भेदः, न सोऽक्षगोचरः ।
’भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हिऽ ।
तथा च न लिङ्गगम्योऽपि, अदृष्टसंगतित्वात् ।
अर्थापत्तिरपि कार्यव्यवस्थाहेतुका स्यात् ।
सा असिद्धे भेदे व्यवस्थाया (ंस्C॑ कार्यव्यवस्थाया एदितिओन्) एवानुपपत्तेस्तत्रायुक्ता ।
तस्मात्सदुपलम्भहेतुभ्यः प्रमाणान्तरमेवाभावायोपासनीयम् ।
विधायकाद्वा प्रमाणान्तरमेव व्यवच्छेदकमभावाख्यम् ।
तन्निबन्धना [कुप्पुस्वामी संस्करण ५७] हि भावानामसंकीर्णता (॰मसंकीर्णस्वभावता एदितिओन्) ।
यदवोचन्

’वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रयाऽ ।
इति ।
तान् प्रत्युच्यते

अन्योन्यसंश्रयाद्भेदो न प्रमान्तरसाधनः ॥ १.१३ ॥

नास्मिन्नयं नायमयमिति भेदाद्विना न धीः ।

न खलु यद्व्यवच्छिद्यते, यतश्च व्यवच्छिद्यते, तयोरप्रतिपत्तौ व्यवच्छेदगतिः ।
नानपेक्षितविषयनिषेध्यो निषेधोऽस्ति ।
सन् वा शून्यतामापादयेत्, न भेदमित्युक्तम् ।
तेषामपि वचः

’गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।
मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षयाऽ ॥


तयोश्च प्रतिपत्तिर्यदि नासंकीर्णस्वभावयोः, अपि तु वस्तुमात्रत्वेन व्यवच्छेद्यव्यवच्छेदावधिविभागाभावात् ।
न निषेधसंभवोऽर्थमात्रे ह्यविभागे ।
विषयत्वेनापेक्षिते न निषेध्यम् ।
निषेध्यत्वेनापेक्षिते न विषयविशेषः ।
तत्रात्यन्ताय निषेधः स्यात् ।
स च न सिद्धत्वेनासिद्धत्वेन वा युज्यत इत्युक्तम् ।
कस्यचित्तावत्कुतश्चिद्(कस्यचित्कुतश्चिद्ंस्C॑ कस्यचित्कुतश्चिच्च एदितिओन्) भेदप्रतिपत्तौ सर्वस्य सर्वतो भेदगतिः स्यात्, अविशेषात् ।
तस्मादनेनासंकीर्णस्वभावेन भिन्नावेव प्रतिपद्य विषयनिषेध्यौ ’नेदमिहऽ ’नायमयम्ऽ इति व्यवच्छेदः प्रतिपत्तव्यः, संभवान्नियमाच्च ।
न चान्यथा प्रतियोगित्वम्, सामान्योपलब्धौ च स्थाणौ

पुरुषस्याभाव(ंसा॑ पुरुषाभाव॰ एदितिओन्)प्रतिपत्त्यभावात् ।
तथा च सिद्धविषयनिषेध्याङ्गीकरणेन व्यवच्छेदमात्रविधायिन्यभावप्रतिपत्तिः प्रत्यात्ममुपलक्ष्यते ।
तथा च इतरेतराश्रयत्वम्
असंकरपूर्वमभावज्ञानम्, ततश्चासंकरसिद्धिरिति ।
अपि च न प्रमाणानुत्पादमात्रादभावज्ञानम्, सुषुप्तादावनुत्पत्तेः ।
तस्मात्सत्सु प्रमाणकारणेषु प्रमाणानुत्पादोऽभावज्ञानहेतुरिष्टः ।
न च तस्य स्वरूपभेदः कश्चित्, येन सामर्थ्यातिशयाच्चक्षुरादिवद्बोधकः, किं तु नान्तरीयकत्वात् ।
नान्तरेण प्रमेयाभावं सत्सु प्रमाणहेतुषु प्रमाणानुत्पादः ।
असत्सु तु सत्यपि प्रमेये तदभावात्स्यादिति ।
तथा च लिङ्गवज्ज्ञानापेक्षः प्रतिपत्तेर्जनकः, स च यदि वस्त्वन्तरज्ञानम्, [कुप्पुस्वामी संस्करण ५८] नासिद्धे वस्तुभेदे सिध्यति ।
ज्ञेयभेदानुमेयो हि ज्ञेयानुमेयानां ज्ञानानां भेदः ।
तथा च वस्तुभेदसिद्धिपूर्विकैवाभावाद्भेदावगतिरितीतरेतराश्रयत्वम् ।
अथात्मनोऽपरिणामः ।
न स स्तिमितावस्था, सर्वाप्रतिपत्तौ कस्यचिदभावस्यानवगतेः ।
तस्मात्सत्यपि वस्त्वन्तरज्ञानरूपपरिणामे तज्ज्ञानरूपपरिणामाभावोऽभावज्ञानहेतुः ।
न चैष विशेषः प्राग्वस्तुभेदसिद्धेः सिध्यतीति तदेवेतरेतराश्रयत्वम् ।

ये त्वाहुः
दर्शनादेव भावानां भेदः सिध्यति ।
तथा हि
निर्विकल्पस्य प्रत्यक्षस्य सामान्यविषयत्वमपाकुर्वतोक्तम्
’तदयुक्तं प्रतिद्रव्यं भिन्नरूपोपलम्भनाद्ऽ इति ।
यस्तु संयोगात्समवायाद्वा संकरः, सोऽभावाख्येन प्रमाणेनापनीयत इति ।
ते प्रागेव प्रत्युक्ताः ।

येऽपि
विधायकप्रत्यक्षपुरःसरं प्रत्यक्षान्तरमेव वस्तुग्रहणप्रतियोगिस्मरणेतिकर्तव्यतानुगृहीताक्षप्रतिलब्धजन्म व्यवच्छेदकं मन्यन्ते ।
यथैव सविकल्पस्य वस्तुग्रहणस्य पश्चाज्जन्म, शब्दस्मरणव्यवधिश्च
न चानैन्द्रियकत्वम्, इतिकर्तव्यताविशेषानुगृहीतादिन्द्रियात्तदुत्पत्तेः
एवं नास्तीत्यपि ज्ञानस्येति ब्रुवन्तः ।
तान् प्रतीदमेव वक्तव्यम्
अन्योन्यसंश्रयाद्भेदो न प्रमान्तरसाधनः ।

प्रत्यक्षान्तरसाधन इत्यर्थः ।
’यमसौ न भवतिऽ इति ज्ञानं प्रत्यक्षं वा प्रमाणान्तरं वा ।
सर्वथा विषयनिषेध्यविभागादृते न निषेधसंभव इति ।

किं च

मीयमानैकरूपेषु न निषेधोऽवकाशवान् ॥ १.१४ ॥


अपि च सन्मात्ररूपे सर्वत्र प्रतीयमाने तत्स्वभावेषु वस्तुषु नेतराभिमत इतराभिमतप्रमाणानुत्पादः, सत्स्वभावत्वात्तयोः ।
’सत्ऽइति च सर्वत्र प्रमाणसद्भावात् ।
प्रमाणाभावाच्चेतरेतराभावज्ञानमिति ।
ननु नार्थानां किञ्चिदभिन्नं रूपम् ।
प्रत्यभिज्ञानाद्धि तदवगम्यते (तदवगम्येत ंसा॑ तद्गम्येत एदितिओन्) ।
न चार्थमात्रं दृष्टवतोऽर्थान्तरे स एवायमिति प्रत्यभिज्ञास्ति यथैकां गां दृष्टवतो गवान्तरे ।
सच्छब्दप्रत्ययानुवृत्तिस्तु पाचकादिवद्योगनिबन्धना ।
प्रमाणविषयो हि ’सन्ऽ [कुप्पुस्वामी संस्करण ५९] इत्युच्यते ।
नैतत्सारम् ।
न चेदभिन्नरूपप्रतिपत्तिः, निर्विषयत्वमेव प्रमाणस्यापद्येत ।
यतो न व्यवच्छेदमन्तरेण भेदप्रतीतिः ।
न व्यवच्छेदः केवलः, न विधिसहितः, न विधेः पश्चात्प्रमाणस्य व्यापारः ।
न विधिरेव व्यवच्छेद इति वर्णितम् ।
तत्र यद्येकमपि न गम्यते निर्विषयतैव स्यात् ।
अप्रत्यभिज्ञानं च यदि गोवैलक्षण्यादुच्येत सत्यपि सन्मात्ररूपानुगमे, गवान्तरेऽपि तन्न स्यात्, देवदत्तवैलक्षण्यात् ।
न हि यादृशो देवदत्तस्य पुनर्दर्शने एकत्वप्रत्ययस्तादृशो गवान्तरे ।

अथास्ति तत्र तावत्पूर्वापरानुसन्धानम्, न तु सतः सदन्तरे ।
किं च भोः अनुसन्धानादेकत्वम्, नाभिन्नरूपसंविदः ।
नेदानीमभिन्नदेशकालोऽर्थ एकः स्यात् ।
देशकालभेदे हि सोऽयमिति पूर्वापरानुसंधानम् ।
गोमण्डले च महिषमण्डलविलक्षणे देशभेदेऽप्यभिन्नरूपानुगतात्प्रथमादेव निर्विकल्पकात्प्रत्ययादेकार्थप्रतिपत्तिरिष्यते ।
न च तत्र कालभेदाभावात्सोऽयमित्यवमर्शः ।
यथोक्तम्

निर्विकल्पकबोधेऽपि द्व्यात्मकस्यापि वस्तुनः ।
ग्रहणं लक्षणाख्येयं ज्ञात्रा शुद्धं तु गृह्यते ॥

न च यथा मणिकं दृष्टवतो मणिकान्तरेऽनुसन्धिः तथा शरावं दृष्ट्वा तत्र मृज्जातिरप्यपह्नूयेत ।
अथास्ति तत्रापि, न तु यथा मणिकान्तरे सामान्यरूपाणां भूयस्त्वादुत्कटः, अल्पसामान्यानुगमात् ।
सदन्तरेऽपि तथैव स्यात् ।
विस्तरेण चैतदुपरिष्टादभिधास्यत इत्यलमतिप्रसङ्गेन ।

भेदाभेदावभासे द्वे विज्ञाने चेत्परीक्ष्यताम् ।

यदि मतम्
विद्येते तावदनुवृत्तव्यावृत्ताभे द्वे विज्ञाने ।
न हि तयोरभावेऽनुवृत्तव्यावृत्तव्यवहार संभवः ।
न च विज्ञानरूपादन्योऽर्थव्यवस्थाहेतुः ।
तस्याहेतुत्वेऽभेदोऽपि न सिध्येत् ।
नैतत्सारम् ।
न हि विज्ञानमित्येवार्थं (॰मित्येवार्थतत्त्वं एदितिओन्) व्यवस्थापयति ।
तदपि हि परीक्ष्यम्
युक्त्या विरुध्यते नेति, प्रमाणोत्थं नेति ।
न खल्वलातचक्रादिविज्ञानेभ्योऽर्थतत्त्वव्यवस्था ।
स्यादेतत् ।
[कुप्पुस्वामी संस्करण ६०] न प्रत्यक्षं युक्त्यापबाध्यते ।
सत्यम् ।
प्रत्यक्षतैव भेदज्ञानस्य नेत्यावेदितम्, यथा क्षेपीयस्सर्वतोदिक्संयोगकारितस्यालातचक्रज्ञानस्य ।
तत्सदप्यप्रमाणोत्थं प्रत्यक्षसरूपं स्वप्नदृश्यालातचक्रादिज्ञानवन्न तत्त्वावगमनिमित्तम् ।
ननूक्तेन प्रकारेण प्रमाणादन्यतोऽपि भेदज्ञानस्योदयो न संभवति ।
को वान्यथाह? न हि परमार्थतो भेदावगमोऽस्ति ।
यदि स्यात्, कथं भेदोऽपह्नूयेत? अपह्नवे वा कथं तदवगमः ।
नावगम्यमस्ति, अवगम्यते चेति दुर्घटम् ।
किं तर्हीदम्? अविद्या विभ्रमः ।
यथावभासं वेद्यसद्भावे च न विभ्रमः, किं तु सम्यग्ज्ञानम् ।
असतो चावगमोऽनुपपन्नः ।
तस्मान्न परमार्थतः सत्त्वेन निरुच्यते, नाप्यसत्त्वेन, लोके सिद्धत्वात्सर्वप्रवादेष्वित्युक्तम् ।

अपि च ज्ञानद्वयेऽस्मिंश्चतस्रः कल्पनाः संभवन्ति
ज्ञानभेदात्सामान्यव्यक्तिविभागेन वस्तुद्वयम्, यथाहुः संसर्गवादिनः ।
एकं वा सामान्यविशेषात्मकं वस्तु, यथाहुरनेकान्तवादिनः ।
विशेषा एव वा वस्तूनि ।
तेषामात्यन्तिकभेदनिश्चयासामर्थ्यात्तदुपादानस्तद्विषय एवाभेदः कल्पनाज्ञानगोचरः ।
दृष्टा हि भिन्नेष्वभेदकल्पना ’वनम्ऽ इति
यथाहुरात्यन्तिकभेदवादिनः ।
अभेदो वा परमार्थः ।
तस्यानवच्छिन्नस्यानन्तस्य तथा निश्चेतुमशक्तेरनादित्वाच्चाविद्यायास्तदुपादानास्तद्विषया भेदपरिकल्पनाः ।
दृष्टा हि तरङ्गभेदादभिन्ने चन्द्रमसि भेदकल्पना ।
तन्नापरीक्ष्य तत्त्वनिश्चयः ।
तत्र परीक्षायाम्

न तावद्द्वयमैकात्म्यप्रख्यानानवकल्पनात् ॥ १.१५ ॥

समवायकृतं तच्चेन्न भेदस्यापरिच्युतेः ।
न तावद्द्वे वस्तुनी सामान्यविशेषौ, प्रख्याभेदात् ।
समानाधिकरणत्वेन हीमे प्रख्ये जायेते ’सन् घटः, गौः स्वस्तिमतीऽ इति ।
न व्यधिकरणत्वेन यथा नीलपीतप्रख्ये, यथा वा ’दण्डो देवदत्तःऽ इति ।
नापि विशेषणविशेष्यभावेन यथा ’दण्डीऽइति, संबन्धस्याप्रतिभासनात् ।
न च वस्तुभेदविषयत्वे सामानाधिकरण्यमवकल्पते सत्यपि संबन्धे ।
संबन्धिद्वयं विशेषणविशेष्यत्वेन द्वाभ्यामेकया वा बुद्ध्या गृह्यते, न तु परस्परात्मत्वेन ।
परस्परात्मत्वेन चेह प्रतिपत्तिः प्रत्यात्मवेदनीया ।
विप्रतिपत्तेश्च सामान्यविशेषयोर्[कुप्पुस्वामी संस्करण ६१] भेदे ।
नान्यथा विप्रतिपद्येरन् ।
सामान्यप्रत्यक्षे च विशेषप्रत्यक्षाभिमानात् ।
अन्यथा धूमदृष्टाविवाग्नौ परोक्षाभिमानः स्यात् ।
स्यादेतत्
न संबन्धमात्राद्भेदप्रतिपत्तिः, अपि तु संबन्धविशेषात्समवायात् ।
स हि वस्तुसंश्लेषात्मकः ।
तन्न, समवायेऽपि ताभ्यां रूपभेदस्यानपायात्, अन्यथा भेदाभावादसंबन्धात् ।
तथा च नैकात्म्येन प्रख्या युज्यते ।
अस्ति चेयम् ।
अतस्तया विरुद्धः प्रख्याभेदो न वस्तुभेदव्यवस्थायै प्रभवति ।
स्वयं वा व्याहतत्वात्, एकाधिकरणत्वेनोत्पत्तेः (एकाधिकरणत्वेनोपपत्तेः एदितिओन्) ।

ननु भेदेऽपि परस्परात्मत्वेन प्रतिपत्तेर्निमित्तं समवायः ।
तस्य खल्वेष सामर्थ्यातिशयः, येन भेदवतामर्थानां भेदं तिरोदधाति ।
तथा च तेऽभेदेन प्रकाशन्ते ।
अत्रोच्यते

भेदान्तर्धानसामर्थ्यं तस्य भेदेऽपि चेन्मतम् ॥ १.१६ ॥

हन्तैकस्यैव तत्किं न यदेवमवभासते ।

समवायसामर्थ्याच्चेद्भेदवतोरभेदवतोरभेदावभासः, हन्तैकस्यैव वस्तुनः सामर्थ्यविशेषान्नानावभासोऽभ्युपेयताम् ।
व्यर्था वस्तुभेदकल्पना ।
न ह्यस्ति विशेषः
यतो भिन्नयोरभेदप्रकाशसंभवः, नैकस्य नानावभाससंभव इति ।

ननु ज्वलनायोगुडादिषु दृष्टमेवंविधं संसर्गस्य सामर्थ्यम् ।
तत्र दर्शनात्संभवी संसर्गाद्भेदवत्स्वभेदावभासः ।
नैकस्मिन्नानावभासः, अदर्शनात् ।
उच्यते

दृष्टः संसर्गधर्मोऽयं यद्येकमपि वै तथा ॥ १.१७ ॥

नानावभासते चित्रं रूपमेकं तथा मतिः ।

दृष्टं खल्वेकमपि विविधावभासम्, यथा चित्रं रूपम् ।
तद्धि खलु न नीलादिसमाहारमात्रम् ।
तेषामवयवसमवाये रूपान्तरानभ्युपगमे चावयविनो नीरूपत्वप्रसङ्गात् ।
न च नीरूपत्वमेवावयविनः ।
रूपसंस्काराभावे हि न स चाक्षुषः स्यात् ।
न च रूपिसमवायात्संख्याकर्मादिवच्चाक्षुषत्वम् ।
एवं ह्युक्तम्
’महत्यनेकद्रव्यसमवायाद्रूपाच्चोपलब्धिःऽ इति ।
सर्वश्चेत्थमवयवी नीरूपः स्यात् ।
अथ नारूपः प्रतीयत इति नायं प्रसङ्गः, [कुप्पुस्वामी संस्करण ६२] चित्रोऽपि तथेति नारूपः ।
तच्चास्य रूपं नीलपीतादिनिर्भासः ।

तथा नगरत्रैलोक्यादिबुद्धयो विविधविषयाकारा निर्भासन्ते भेदाभावेऽपीति विषयाकारज्ञानवादिनो मन्यन्ते ।
न चैकबुद्धितत्त्वाव्यतिरेकाद्विषयाकाराः परस्परतोऽपि व्यावर्तन्ते, प्रागेव बुद्धेः ।
स्यादेतत्
चित्रमपि रूपं संसर्गादेवैकार्थसमवेतसमवायलक्षणात्तथावभासते ।
तदसत् ।
यतः

न च संबन्धिसंबन्धः संसर्गो व्यवधानतः ॥ १.१८ ॥


संश्लेषो हि संसर्गः ।
ततश्च परस्पररूपावभासः ।
स चाव्यवधाने युज्यते ।
न तु स्वाश्रयाभ्यां व्यवधाने ।
अवयवावयविरूपयोरेकव्यवधानेऽप्यसंश्लेषः, किमु द्वयव्यवधाने ।

किं च

व्यवहारे परोपाधौ सर्वा धीर्व्यावहारिकी ।
अयथार्था यदा भावभेदकल्पस्तदा मुधा ॥ १.१९ ॥


यस्य खलु ’शुक्लो गौःऽ इत्यादिबुद्धयो व्यवहाराङ्गभूता द्रव्येषु गुणजात्युपाधिनिबन्धनाः तस्यैता न यथावस्तु, जातिगुणद्रव्याणामन्योन्यमर्थान्तरत्वात् ।
तथा च न वस्तुनिबन्धनो व्यवहारः, बुद्ध्यानुपदर्शितस्याव्यवहाराङ्गवाद्बुद्ध्युपदर्शितस्य च तथाभावात् ।
एवं च प्रत्ययविरचितेनैवायमर्थेन व्यावृत्तो व्यवहारोऽनुवृत्तश्चेति व्यर्था वस्तुभेदकल्पना, कल्पितस्यापि तस्य व्यवहारेऽनुपयोगादितरस्य चोपयोगात् ।
यथार्थत्वाय हि व्यावहारिकीणां बुद्धीनां वस्तुभेदः कल्प्यते ।
कल्पिते च तस्मिन् परोपाधित्वात्तासां नायथार्थत्वपरिहारः ।

स्यादेतत्
असति वस्तुभेदेऽयथार्थमप्यनुवृत्तव्यावृत्तावग्रहं व्यावहारिकं विज्ञानं नोदेतुमर्हति, बीजाभावात् ।
न खलु स्थाणुशकलादिषु पुरुषरजतादिविभ्रान्तयो निर्बीजाः, सामान्यनिबन्धनत्वात् ।
उच्यते

अयथार्थधियो बीजमवश्यं बाह्यमेव न ।
दृष्टस्तिमिरकामादिरान्तरोऽपि ह्युपप्लवः ॥ १.२० ॥

[कुप्पुस्वामी संस्करण ६३] न विषयदोषादेव सादृश्यादेरयथार्थज्ञानम्, आध्यात्मिकेभ्योऽपि तु दोषेभ्यस्तिमिरकामशोकादिभ्यः ।
तत्रासति वस्तुभेद आध्यात्मिको दोषोऽविद्यालक्षणो व्यावहारिकज्ञानबीजमिति नार्थो वस्तुभेदेन ।

अस्तु तर्ह्येकं द्व्यात्मकम् ।
एवं हि परस्परात्मप्रतिपत्तिश्च सामान्यविशेषयोः कल्पते ।
वस्तुविपरीतश्च नार्थसामर्थ्यातिशयः कल्पयितव्यः ।
वस्तुनिबन्धनो व्यवहारः, न व्यावहारिकज्ञानानामयथार्था वृत्तिः ।
स्यादेतत्
एकस्य द्व्यात्मकता विरोधवती ।
एकं च द्व्यात्मकं चेति विप्रतिषिद्धम् ।
अपि च सामान्यं भेदान्तरानुयायि ।
ततो व्यावृत्तस्वभावो भेदः ।
तयोरेकत्वं हि विरोधादशक्यावहम् ।
नैतत्सारम् ।
विरुद्धमिति नः क्व संप्रत्ययः? यत्प्रमाणविपर्ययेण वर्तते ।
यत्तु यथा प्रमाणेनावगम्यते तस्य तथाभावे विरुद्धत्वाभिधाने कं बतायमाश्रित्य हेतुं विरुद्धत्वाविरुद्धत्वे व्यवस्थापयेत्? प्रमाणं चैकस्य सामान्यविशेषात्मकतामवगमयति, व्यावृत्त्यनुवृत्तिभ्यां प्रख्यारूपभेदात्सामानाधिकरण्यावगमाच्च (ऐकाधिकरण्यावगमाच्च एदितिओन्) ।
तदिदमसांप्रतम्, यतो नेदृशां विप्रतिषिद्धार्थज्ञानानां प्रामाण्यमेव युज्यते संशयज्ञानवत् ।
अन्यथा संशयविषयोऽपि द्व्यात्मा स्यात्, द्व्याभासत्वात्तस्य सामानाधिकरण्याच्च तदवभासयोः ।

अथ मतम्
न संशयिते रूपसमुच्चयावगमः, यथा सामान्यविशेषवति, ’यं वा, अयं वाऽइति प्रतीतेः ।
मा भूत्समुच्चयः, विकल्पः स्यात् ।
सोऽपि न, वस्तुनो विकल्पानुपपत्तेः ।
एकमपि तर्हि न द्व्यात्मकम्, एकस्य द्व्यात्मकताविरोधात् ।
तत्र यथा संशयज्ञानं विप्रतिषेधादप्रमाणं तथा सामान्यविशेषप्रतिपत्तिरपि, ऐकाधिकरण्यात् ।

स्यादेतत्
न संशयज्ञानं विप्रतिषेधादप्रमाणम्, निर्णयज्ञानेन तु बाधनात् ।
यत्र तर्हि न निर्णयस्तत्र विकल्पात्मता स्यात् ।
अपि च यथा बाधायामेकस्याप्रामाण्यं निराकरणात्, एवं विरोधेऽपि द्वयोरेकस्य वा ज्ञानस्य विरुद्धरूपोपग्रहे तद्रूपाधिगत्योरन्योन्यनिराकरणात् ।
तत्रैकनिराकरणे [कुप्पुस्वामी संस्करण ६४] इतरस्मान्निश्चयः ।
परस्परनिराकृतौ तुल्यबलत्वे सन्देह इति न संशयज्ञानादेकस्य सामान्यविशेषप्रतिपत्तिर्विशिष्यते ।
तस्मादिहानैकान्तिकं वस्त्वित्येवं ज्ञानं सुनिश्चितमिति स्वपक्षोपवर्णनम् ।

अपि च

एकत्वमविरोधेन भेदसामान्ययोर्यदि ।
न द्व्यात्मता भवेदेकतरनिर्भक्तभागवत् ॥ १.२१ ॥


अवश्यमनेन पदार्थानां भेदाभेदौ व्यवस्थापयता
यथा तावत्सामान्यमभिन्नं विशेषा भिद्यन्त इति
भेदाभेदयोर्लक्षणं वाच्यम् ।
तत्र रूपविरोधोऽन्योन्याभावो भेदलक्षणम् ।
विपर्ययोऽभेदलक्षणम् ।
रूपविरोधाद्ध्यन्योन्याभावपर्यायाद्विशेषा भिद्यन्ते ।
भिद्यमानेष्वपि तेषु सामान्यमभिन्नम्, विपर्ययात् ।
तत्र सामान्यविशेषयोर्यदि स्वरूपविरोधोऽन्योन्याभावः, नैकत्वं भेदानामिव परस्परम् ।
अथ सामान्यविशेषबुद्ध्येरैकाधिकरण्येनोत्पत्तेः स्वरूपविरोधोऽभ्युपेयते, न तर्ह्येकं द्व्यात्मकम् ।
सामान्यविशेषयोः स्वरूपविरोधाभावादसति भेदे द्वित्वानुपपत्तेः ।
यथा न सामान्यांशो द्विरूपो विशेषांशो वा रूपविरोधाभावात्
तत्रैकस्मिन्निर्भक्ते द्वित्वाभावात्
तथा सामान्यविशेषयोरपि सामानाधिकरण्यबुद्धेर्यदि न रूपविरोधः, न परस्परात्माभावः (ंस्B॑ परस्पराभावः एदितिओन्) ।
द्वित्वं न युज्यते ।
अथ रूपविरोधः, नैकत्वमिति ।

यदि मतम्
न स्वरूपविरोधान्नानात्वम्, तदभावाच्चैकत्वम्, येन सामान्यविशेषयोः स्वरूपविरोधाभावाद्द्वित्वं न स्यादन्यतरस्येव भागस्य ।
किं तु बुद्धे रूपभेदाभेदाभ्याम् ।
सामान्यविशेषयोश्च परस्परात्मत्वेन प्रतिपत्तेरसत्यप्यन्योन्याभावलक्षणे स्वरूपविरोधे बुद्धे रूपभेदाद्द्वित्वम् ।
अंशे तु रूपाभेदादेकत्वम् ।
अतो वस्तुनो द्विरूपबुद्धिग्राह्यत्वाद्द्व्यात्मतेति ।
तत्रोच्यते

ऐकात्म्यबुद्धेर्भागे चेदेवं वस्तुनि तर्ह्यसौ ।
न चेत्कुतस्त्यमेकत्वमस्ति चेद्द्व्यात्मता कथम् ॥ १.२२ ॥


यदि तर्हि बुद्धेरेकरूपोपग्राहित्वादभेदोंऽशस्य, वस्तु विचार्यम्
[कुप्पुस्वामी संस्करण ६५] तत्रापि बुद्धिः किमेकरूपोपग्राहिणी न वेति ।
तत्र यदि नैकरूपोपग्राहिणी वस्तुनि बुद्धिः
सामान्यविशेषात्मकं हि वस्तु
तद्द्विरूपबुद्ध्युपग्राह्यम्, कथमेकत्वं वस्तुनः? बुद्धिरूपाभेदस्याभेदलक्षणस्याभावात्, रूपभेदस्य च भेदलक्षणस्य भावात् ।
अथैकरूपोपग्राहिण्येव वस्तुनि बुद्धिः, न द्व्यात्मकत्वमंशवदेव ।
अथ मतम्
बुद्धिरूपभेदः परस्परात्माभावश्च (ंस्साB॑ परस्परात्मताभावश्च एदितिओन्) भेदलक्षणम् ।
तत्र गवादयो भेदा भिन्नरूपबुद्ध्युपग्राह्याः परस्परानात्मानश्च, न तु सामान्यविशेषौ, बुद्धिरूपभेदेऽपि परस्परात्मत्वेन प्रतिपत्तेः ।
एवमपि सामान्यविशेषयोर्भेदलक्षणेन विरहान्न द्व्यात्मता, अंशवदित्युक्तम् ।

यदि मन्येत
बुद्धिरूपाभेदः (ंस्B॑ बुद्धेः रूपाभेदः एदितिओन्) परस्परात्मप्रतिपत्तिश्च द्वे अभेदलक्षणे ।
तत्रांशस्य रूपाभेदादेकत्वम्, उभयोस्तु परस्परात्मत्वप्रतीतेः ।
विशेषाणां तु न बुद्धे रूपाविभागः, न परस्परात्मप्रतिपत्तिरिति भिन्ना इति ।
एवमप्यभेदलक्षणे सति परस्परात्मप्रतिपत्तौ, उभयाभावे च भेदलक्षणेऽविद्यमाने, न द्व्यात्मता ।
न चैकस्याभेदस्य द्वे लक्षणे युज्येते ।
लक्षणाभेदो ह्यभेदं व्यवस्थापयति, तद्भेदश्च भेदम् ।
लक्षणभेदेऽपि चेत्तत्त्वम्, अन्यत्वं च लक्षणाभेदेऽपि यदि, व्यर्थतैव लक्षणस्य स्यादिति ।

अपि च सामान्यविशेषयोरभेदे,

बुद्ध्यन्तरस्य वैयर्थ्यमेकांश इव चापतेत् ।
नानात्वादर्थवत्ता चेदेकत्वाद्व्यर्थता न किम् ॥ १.२३ ॥


बुद्ध्यन्तरप्रवृत्तिरेव सामान्यविशेषयोरेकवस्त्वात्मतामपाकरोति ।
सा हि नानात्मत्वे भेदेष्विवार्थवती, अनधिगताधिगमात् ।
एकत्वे तु यथा सामान्यविशेषविभागयोः स्वबुद्धिसमधिगतयोर्न विलक्षणं बुद्ध्यन्तरमर्थ्यते, तथा सामान्यबुद्धेर्न बुद्ध्यन्तरं विलक्षणं विशेषाधिगमाय प्रार्थ्येत ।
तथा विशेषबुद्धेर्न सामान्याधिगमाय ।
अथ नात्यन्तमव्यतिरेकः सामान्यविशेषयोः, व्यतिरेकोऽपि तु ।
तत्र व्यतिरेकादर्थवत्तेति ।
तदसत् ।
एवमपि कुत एतत्
व्यतिरेकादर्थवत्त्वं भेदवत्, न पुनरव्यतिरेकादेकांशवद्वैयर्थ्यम्? [कुप्पुस्वामी संस्करण ६६] तुल्ययोर्हि भेदाभेदयोः कुत एतत्
भेदादेकया बुद्ध्या न ग्रहणम्, न पुनरभेदाद्ग्रहणमिति बुद्ध्यन्तरवैयर्थ्यम्? औत्सर्गिकश्च हेत्वभावे फलाभावः स्वभावसिद्धः ।
तस्य हेतुभावे फलभावोऽपवादः ।
तत्राभेदे हेतुभावादेकयैव बुद्ध्योभयाधिगमो युक्तः ।
नैकत्वेऽन्यतराधिगमहेतुर्नास्तीति शक्यं वक्तुम् ।
अथापि कथञ्चिन्नास्तीत्युच्येत ।
तथाप्यस्ति तावत्, एकत्वात् ।
तत्र हेतुभावात्फलभावः स्यात्, तस्य कारणत्वात् ।
न त्वभावोऽभावस्य कारणम् ।
स्वभावसिद्धस्त्वभावः फलस्य ।
तस्य हेतुनिबन्धनः फलभावो निवर्तकः ।
स च हेतुरुभयत्रास्ति तावत् ।
असत्त्वं त्वनुपयोगम्, अकारणत्वादिति ।

अपि च

सामान्यं न हि वस्त्वात्मा न भेदश्चित्र एव सः ।
तस्यानन्वयतो भेदवादः शब्दान्तरादयम् ॥ १.२४ ॥

यस्यैकमुभयात्मकं वस्तु न तस्य सामान्यमात्रं वस्तुन आत्मा न विशेषमात्रम् ।
तन्मात्रत्वे वस्तुभेदप्रसङ्गात् ।
तस्मात्संभिन्नोभयरूपः शबलो वस्त्वात्मा ।
न च शबलस्यान्यत्रानुगमः ।
यस्य त्वनुगमः स वस्तुरूपं न भवति ।
तथा च शब्दान्तरमवलम्ब्य भेदा एव सत्या इत्येतत्प्रतिपाद्यते शब्दान्तरेण वा हेतुना द्व्यात्मकमेकमिति ।
अनुगन्तुरवस्तुस्वभावत्वे कल्पनाविषयत्वात् ।

स्यादेतत्
मा भूद्वस्तु तदंशत्वं तु न वार्यते ।
अन्यथा निर्बीजा कल्पनापि न भवेत् ।
कः पुनरयमंशो नाम ।
न तावद्वस्त्वेव ।
तन्मात्ररूपत्वे वस्तुनो भेदप्रसङ्ग इत्युक्तम् ।

नापि वस्तुनोऽन्यत्स्वयं वस्तु, सामान्यविशेषतद्वतां त्रयाणां वस्तूनां प्रसङ्गात् ।
अथ न वस्त्वेव नान्यत्स्वयं वस्तु ।
परिशेषात्कल्पनाविषयस्तत्त्वान्यत्वाभ्यामनिर्वचनीयः ।
ननु नांशोंऽशिनोऽर्थान्तरं नापि स एव, उभयथानंशत्वात् ।
नाप्यवस्तु, अत एव ।
न हि खपुष्पं कस्यचिदंशो भवति ।
तत्रांशानुगमे वस्त्वेवानुगतं भवति तस्य तदव्यतिरेकात् ।
नैतत्सारम् ।
[कुप्पुस्वामी संस्करण ६७] अननुगमादंशान्तरस्य किं न वस्तुनोऽननुगमः ।
अपि त्वननुगम (अपि त्वननुगम एदितिओन्) एव तस्य समुदायात्मकत्वादेकाभावेऽप्यभावात् ।
तथा हि
इतरेतरापेक्षौ वा सामान्यविशेषौ वस्तु, तत्समाहारो वा ।
उभयथार्थान्तरे विशेषस्याभावान्न वस्त्वन्वयः ।
प्रत्येकमनपेक्षयोर्वस्तुत्वे नोभयात्मकमेकं वस्तु स्यादिति सुष्ठूच्यते

तस्यानन्वयतो भेदवादः शब्दान्तरादयमिति ।

यदि वाखिलभावानामभेदात्तदतत्त्वतः ।
अभेदवादाश्रयणं स्यादन्यविधया गिरा ॥ १.२५ ॥


अंशानुवृत्त्या वा वस्त्वनुगमेऽद्वैतवादः ।
तथा हि
गौः स्वतस्तावद्गौः, सद्द्रव्यादिरूपानुगमादश्ववस्तुनोऽनुगमादश्वः ।
तदेवं गौर्गौश्चाश्वश्च ।
अश्वोऽपि तावदश्वः सद्द्रव्यादिरूपानुगमेन गोवस्तुनोऽन्वयाद्गौः ।
तदेवमश्वोऽप्यश्वो गौश्च ।
तदेवं सर्वभावानां तद्भावान्यभावाभ्यामभेद इत्यद्वैतं जगदित्युक्तमन्यप्रकारया वाचा ।
सत्यम्, द्वैतमप्यस्ति ।
यतस्तद्भावान्यभावाभ्यामभेदः ।
नैतत्सारम् ।
गौरपि चेदश्वो गौश्चाश्वश्च ।
तत्कुतोऽन्यत्वम्? गौरश्व इत्यपि (गौश्चाश्वश्चेत्यपि एदितिओन्) भेदाभिधानमनिबन्धनमेव ।
सिद्धे हि गवाश्वभेदे एतदुपपद्यते ।
गवाश्वस्य तु प्रत्येकं गवाश्वत्वे भेदाभावादनिबन्धनमेव तत् ।
ननु विशेषांशानां व्यावृत्तेरन्यत्वसिद्धिः ।
तथा च द्वैताद्वैतात्मकं जगदिति ।
अथ विशेषव्यावृत्तेरन्यत्वसिद्धिः ।
किमुभयरूपत्वाद्वस्तुनो वस्त्वन्तरेऽनुगमो नास्ति? अश्ववस्तु गोवस्तु न भवति ।
अथास्त्यनुगमः, अश्वोऽपि गौर्भवति? तत्र पूर्वस्मिन्कल्पे वस्तुनोऽनन्वयादनुयतश्चावस्तुत्वाद्भेदवाद इत्युक्तम् ।
अथ विशेषव्यावृत्तावपि तद्वस्त्वनुगतम्, भवत्यश्वो गौः (भवत्यश्वोऽपि एदितिओन्) ।
कुतोऽन्यत्वसिद्धिः? यदि मतम्
अनुगतं चाननुगतं चाश्वे गोवस्तु ।
भवति चाश्वो गौः ।
गौस्तु गौरेव ।
भवत्येव हि तत्र गोवस्तु ।
ततोऽन्यत्वसिद्धिरिति ।
अथ गोवस्तु कथं वक्तव्यम्? किं यद्गौर्भवत्येव, अथ यन्न भवत्यपि? तत्र पूर्वस्यां कल्पनायां न वस्तुनोऽनुगम इत्यनन्वितानि वस्तूनि ।
द्वितीयस्यां [कुप्पुस्वामी संस्करण ६८] वस्तुनो वस्त्वन्तरेऽन्वयादद्वैतम् ।
सर्वथा येन विशेषेणायमश्वाद्गोवस्तु व्यवस्थापयत्यन्यत्तद्विशेषयुजस्तु तस्यानन्वयाद्भेदवादः ।
अथानन्वयदोषान्न विशेषमाश्रयति अभेदवाद इति न द्वैताद्वैतकल्पनोपपद्यत इति ।

द्रव्यपर्यायार्थकानां नय एतेन वारितः ।
तेषामपि द्रव्यनयः पर्यायनय एव वा ॥ १.२६ ॥

ये च
द्रव्यं नित्यं मृत्सुवर्णादि ।
तस्य (तस्य तु ंसा॑ तस्य च एदितिओन्) घटरुचकादयः पर्याया विशेषाख्या अपायिन उपायिनश्चाव्यतिरेकाः ।
न च ते द्रव्यमेव, तस्य स्थितिमत्त्वात् ।
न च ततोऽत्यन्तं व्यावर्तन्ते, भेदेनानुपलब्धेः ।
द्रव्यस्यैव रुचकादिरूपेण प्रत्ययात् ।
एवं द्रव्यपर्यायरूपं वस्तु ।
अथ (ंस्B॑ अथ एदितिओन्) तु द्रव्यमेव स्यात्, वर्धमानकभङ्गेन रुचकक्रियायां न किञ्चिदुत्पन्नं नष्टं वेति प्रीतिशोकौ तदर्थिनोर्न स्याताम् ।
अथ तु पर्यायमात्रम्, हेमार्थिनो मध्यस्थता न स्यात् ।
पर्यायमात्रे हि हेम्नि हेम्नो विनाशात्पर्यायविनाशे कथं मध्यस्थता? उत्पादे वा? तस्माद्द्रव्यपर्यायरूपत्वाद्वस्तुन उत्पत्तिस्थितिभङ्गानामेकत्र संभवाद्द्रव्यरूपस्थितेर्माध्यस्थ्यम्, पर्याययोरुत्पत्तिविनाशाभ्यां प्रीतिशोकाववकल्पेते इति
मन्यन्ते ।
तन्नीतिरप्यनेनैव निराकृता प्रकारेण ।
तथा हि
तेषामपि वस्तुनो वस्त्वन्तरान्वयेऽपि भागाभावाद्द्रव्यमात्रं स्यात् ।
अथ न वस्त्वन्वेति द्रव्यपर्यायरूपत्वाद्वस्तुनः, पर्यायान्तरे च पर्यायान्तरस्याननुगमादनन्वितानि तर्हि व्यावृत्तस्वभावानि वस्तूनि ।
यस्यानुगमः कल्प्यते तन्मात्ररूपस्यावस्तुत्वात्पर्यायमात्रम् ।
अवस्थितं हि द्रव्यमुच्यते ।
न चैवमवस्थितं किञ्चिदेकं वस्त्वस्ति ।
वस्तुनस्त्वपोद्धृतस्यांशस्यावस्थानकल्पना कल्पनैव ।
वस्तुनश्चित्रत्वात्, तस्य चातथाभावादिति ।

अपि च

उत्पादस्थितिभङ्गानामेकत्र समवायतः ।
प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटम् ॥ १.२७ ॥

[कुप्पुस्वामी संस्करण ६९] यस्य खलु द्रव्यात्पर्याया भिद्यन्ते तस्य
द्रव्यमात्रार्थिनो द्रव्यस्य स्थितेर्विनाशाभावादपूर्वस्यानुत्पादान्मध्यस्थता, रुचकार्थिनस्तस्यापूर्वस्योत्पत्तेः प्रीतिः, वर्धमानकार्थिनस्तस्य विनाशाच्छोकः
इति व्यवस्था कल्पते ।
यस्य तु न पर्यायेभ्योऽन्यद्द्रव्यं
(ंसा॑ यस्य तु पर्यायेभ्योऽनन्यद्द्रव्यं एदितिओन्) न द्रव्यादन्ये पर्यायाः, तस्य उत्पत्तिस्थितिभङ्गानामेकत्र समवाये द्रव्यार्थिनो मध्यस्थता भवेत्, न भवेच्च ।
प्रीतिशोकौ स्याताम्, न स्याताम् ।
न हि तद्द्रव्यमवतिष्ठत एव, विनश्यत्यपूर्वं चोत्पद्यते ।
तत्र विनाशादपूर्वोत्पत्तेश्च प्रीतिशोकौ स्याताम्, न मध्यस्थता ।
मध्यस्थता च स्थितेः स्यात्
इति दुर्घटमापद्येत ।
तथा वर्धमानकार्थिनस्तन्नाशाच्छोकः स्यात् ।
न च स्यात्, स्थितेः ।
प्रीतिश्च तस्यापूर्वस्योत्पादात्स्यात् ।
न च भवेत्, पूर्वस्यैव स्थितेः ।
विनाशाच्च शोकः स्यादिति ।
अथ भेदोऽप्यस्तीति नायं दोषः ।
अभेदोऽप्यस्तीति किं न भवति? अथ नात्यन्तमभेदः, तेन न संकरः ।
नात्यन्तमभेद इति व्यवस्थापि न युज्यते ।
न चास्य किञ्चित्क्वचिदेकान्ततः सर्वत्रानेकान्तमभ्युपयतः, येनायं विशेष उच्यते
नात्यन्तमभेद इत्यसंकर इति ।
तथा च

नैकान्तः सर्वभावानां यदि सर्वविधानतः ।
अप्रवृत्तिनिवृत्तीदं प्राप्तं सर्वत्र ही जगत् ॥ १.२८ ॥

यदा हि सर्वप्रकारेष्वनैकान्तिकत्वं भावानाम्, तथा सति
नायं लोकः क्वचिदभिमतसाधनताप्रकारमवधार्य प्रवर्तेत, यतो नासौ तथैव ।
नापि निवर्तेत, यतो नासावतथैव ।
तथा दुःखहेतोर्न निवर्तेत, नासौ तथैव ।
नापि न निवर्तेत, यतो नासावतथैव
इति कष्टां बत दशामापद्येत ।

अथ वा यदुक्तम्
प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटमिति, तत्र ब्रूयुः
सर्ववस्तुषु सर्वप्रकाराणामनैकान्तिकत्वात्का दुर्घटता? तथा हि
प्रीतिमध्यस्थताशोका नैकान्ततः सन्ति, नैकान्ततो न सन्तीति ।
अत्रोच्यते
नैकान्तः सर्वभावानामिति ।
यदि खलु प्रीत्यादीनां सदसत्त्वे [कुप्पुस्वामी संस्करण ७०] नैकान्तिके (ऽनैकान्तिके एदितिओन्)
न प्रीत्यर्थी प्रीतिसाधनेषु प्रवर्तेत, प्रीतेर्विद्यमानत्वात् ।
नापि न प्रवर्तेत, तस्या अभावात् ।
तथा दुःखनिवृत्त्यर्थी न दुःखसाधनसंपर्कं परिहरेत्, तस्यासत्त्वात् ।
नापि न परिहरेत्, तस्य सत्त्वात्
इत्यप्रवृत्तिनिवृत्तिकं बत विश्वमापन्नमिति ।

एवं तावन्न द्वे वस्तुनी, नैकं द्व्यात्मकम् ।
तत्र द्वयमवशिष्यते
भेदः सत्यः, तदुपादानाभेदकल्पना ।
अभेदो वा सत्यः, तदुपादाना भेदकल्पनेति ।
तत्र

आपेक्षिकत्वाद्भेदो हि भेदग्रहपुरस्सरः ।
नैकज्ञानं समीक्ष्यैकं न भेदं तत्त्वहानतः ॥ १.२९ ॥


न भेदमुपादायाभेदकल्पना ।
कुतः? आपेक्षिको हि भेदो नान्यमनपेक्ष्य शक्यते ग्रहीतुम् ।
न चागृहीतो भेदोऽभेदकल्पनाया उपादानं भवति ।
परापेक्षत्वे चास्य ग्रहणमनुपपन्नम् ।
यतो नागृहीते भेदे परात्मानौ व्यवतिष्ठेते ।
न च परात्मव्यवस्थामन्तरेण भेदग्रहोऽस्तीति प्राक्प्रपञ्चितम् ।
न त्वेवम् (ंसा॑ न चैवम् एदितिओन्) अभेदग्रहणमभेदग्रहणापेक्षम् ।
नापि भेदग्रहणापेक्षम्, अभेदहानप्रसङ्गात् ।
न हि भेदे गृहीतेऽभेदस्यावकाशोऽस्ति ।
तत्राभेदं गृहीत्वा तमुपादाय तस्य यथावन्निश्चयाशक्तौ व्यवच्छेदकल्पनोपपद्यते, यथैकबुद्धिनिर्ग्राह्येषु घटादिष्ववयवविभागकल्पना ।
न तत्र भेदोपादानाभेदकल्पना ।
भेदो हि परमाणुषु व्यवतिष्ठते ।
ते चातीन्द्रियाः ।
ननु चैकत्वमप्यनुसन्धानप्रत्ययावसेयम् ।
स च न भेदमन्तरेण ।
भेदास्पर्शे (भेदासंस्पर्शे एदितिओन्) हि किं केनानुसन्धीयतामिति ।
प्रत्युक्तमेतत्
नेदानीमभिन्नदेशकालोऽर्थ एकः स्यात् ।
असति चैकस्मिन् किमाश्रया भेदाशङ्का स्यात्, यस्यानुसंधानादेकत्वमुच्यत इति ।

अपि च सर्वप्रत्यात्मवेदनीयमेतदभेदोपादानो भेद इति ।
तथा हि

आलोच्यते वस्तुमात्रं ज्ञानेनापातजन्मना ।
अचेत्यमानो भेदोऽपि चकास्तीत्यतिसाहसम् ॥ १.३० ॥


[कुप्पुस्वामी संस्करण ७१] वस्तुमात्रविषयं प्रथममविकल्पकं प्रत्यक्षम् ।
तत्पूर्वास्तु विकल्पबुद्धयो विशेषानवगाहन्त इति सर्वप्रत्यात्मवेदनीयम् ।
स्यादेतत्
विशिष्टरूपोपग्राह्येव प्रत्यक्षम् ।
स तु भेदः शब्देनासंस्पर्शान्न तथोपलक्ष्यते, यथा विकल्पबुद्धौ ।
तदयुक्तम्, विप्रतिषेधात् ।
न चोपलक्ष्यते प्रत्यक्षबुद्धौ विशेषः प्रकाशते चेति विप्रतिषिद्धम् ।
अतोऽतिसाहसमुच्यते ।
यस्तु संवित्तावेव विप्रतिपद्यते सर्वानात्मव्यावृत्तस्पष्टप्रतिभासं प्रत्यक्षमिति वदन्, तस्योत्तरम्
’ाहुर्विधातृप्रत्यक्षम्ऽ इत्याद्युक्तमेवेति ।

किं च

प्रतिष्ठितं च विज्ञानमर्थमात्रावलम्बनम् ।
भेदेषु त्वप्रतिष्ठत्वमस्तीन्द्रियधियामपि ॥ १.३१ ॥


वस्तुद्वयानुपपत्तेरेकस्य च द्व्यात्मतायोगादवश्यकल्पनीयेऽन्यतरस्य मिथ्यात्वे युक्तं विशेषावभासस्य मिथ्यात्वम्, रजतादिविभ्रान्तिषु दर्शनात् ।
न च वस्तुमात्रावभासस्य ।
न हि वस्तुमात्रव्यभिचारः क्वचिज्ज्ञाने दृष्टोऽस्ति, अन्ततस्तस्यैव वस्तुनः प्रतिभासनात् ।
दृष्टतद्भावस्यैव तत्कल्पना लघ्वी, कॢप्तत्वाद्योग्यतायाः, इतरत्र तु कल्प्यत्वात् ।

स्यादेतत्
मानस्य एव बुद्धयः कॢप्तयोग्यभावा मिथ्यात्वं प्रति, नेन्द्रियजन्मानः ।
इन्द्रियबुद्धिसमधिगम्याश्च भेदा इति ।
एतच्च वार्तम् ।
इन्द्रियदोषानुविधायित्वाद्भ्रान्तीनामिति (॰दोषविशेषानुविधायि॰ एदितिओन्) ।

अपि च यस्य मतम्
व्यावृत्तस्वलक्षणा भावाः ।
तेन तेऽन्योन्याभावस्वभावा व्याकर्तव्याः, तद्विशेषणा वा ।
नान्यथा व्यावृत्तशब्दोऽर्थवान् भवति, तस्येतरेतराभावनिमित्तत्वात् ।
तत्र

अन्योन्याभावरूपत्वं सर्वेषां न प्रकल्पते ।
तत्रोपाधौ प्रतीयन्तां तथा भिन्ना न रूपतः ॥ १.३२ ॥


एकस्मिन्ननपेक्षे स्थिते तदभावरूपोऽन्यो व्यवतिष्ठते ।
सर्वे तु नान्योन्याभावरूपाः कल्पन्ते, परस्पराश्रयस्थितित्वात् ।
अथ विशेषणमन्योन्याभावः ।
कामम्, अतदात्मानोऽपि विशेषणानुरागात्तथावगम्यन्ताम् ।
न तु स्वभावभेदः [कुप्पुस्वामी संस्करण ७२] स्यात् ।
ननु नान्योन्याभावो नाम कश्चित्, यो भावानां तत्त्वं विशेषणं वा स्यातर्थसिद्धिरेवैषा ।
न चेदन्योन्याभावो कश्चित्, सिद्धस्तर्ह्यभेद इति ।

अपि च भेदत्वादेव विश्वस्य भेदोऽभेदोपादान इति शक्यतेऽनुमातुम् ।
दृष्टो हि मणिकृपाणदर्पणादिष्वभिन्नमुखोपादानस्तद्भेदः ।
न च तत्र भावान्तरोत्पत्तिः, विरुद्धपरिणामत्वात् ।
स्यादेतत्
अभेदोऽपि शक्यो भेदोपादानोऽनुमातुम्, वनाभेदस्य तरुभेदोपादानत्वात् ।
न, भेदाभावप्रसङ्गात् ।
एवं हि न कश्चिदेकोऽभिन्नः परमाणुरपि ।
तदभेदोऽपि हि भेदोपादानः स्याद्वनादिवत् ।
तथा तदंशाभेदोऽपीत्यनवस्थायामेकस्याभावात्तत्समुच्चयरूपोऽभेदो न स्यात् ।
अथ क्वचिदवतिष्ठते स एकः ।
तदभेदो न भेदोपादान इति व्यभिचारः ।
तदिदमुच्यते

दपर्णादौ मुखस्येव भेदोऽभेदावलम्बनः ।
भेदावलम्बनोऽभेदो न तथा तदभावतः ॥ १.३३ ॥


अपि च

प्रत्येकमनुविद्धत्वादभेदेन मृषा मतः ।
भेदो यथा तरङ्गाणां भेदाद्भेदः कलावतः ॥ १.३४ ॥


अभेदानुविद्धत्वात्प्रत्येकं विश्वस्य भेदो मृषा ।
यथा जलतरङ्गेषु चन्द्रमसः ।
तत्र हि प्रत्येकं चन्द्रमा इत्यभेदान्वयः, तथा विश्वस्य भेदेऽपि प्रत्येकम् ’िदम्ऽ ’तत्ऽ ’र्थःऽ ’वस्तुऽइत्यभेदान्वयः ।
तरुभेदस्तु यद्यपि न मृषा, वनमित्यभेदानुगमश्च न प्रत्येकम् ।
न हि प्रत्येकं तरुषु वनमिति बुद्धिः ।
अतो न तेन व्यभिचारः ।
एतदर्थं च प्रत्येकमित्युक्तम् ।

अपि च

एकस्यैवास्तु महिमा यन्नानेव प्रकाशते ।
लाघवान्न तु भिन्नानां यच्चकासत्यभिन्नवत् ॥ १.३५ ॥


इदं तावदयं भेदवादी प्रष्टव्यः
कथमयं व्यावृत्तस्वलक्षणेष्वभेदावभासोऽनुवृत्तव्यवहारश्च? यदि सादृश्यात्, तदत्यन्तमनन्वितेष्वनुपपन्नम् ।
अथ व्यावृत्तेरग्रहात्
को हि गुञ्जाप्रवालादीनां रागव्यावृत्तिमवग्रहीतुं क्षमते
[कुप्पुस्वामी संस्करण ७३] इति ।
तदसत् ।
व्यावृत्तस्वभावस्य तदग्रहे ग्रहणमेव हि न स्यात् ।
अथ निश्चयप्रत्यक्षयोरात्मभेदादनिश्चयात् ।
तदसत्, उभयरूपव्यवहारदर्शनात् ।
तथा हि
कालाक्ष्यां गोसामान्यनिबन्धनश्च व्यवहारो गवान्तरव्यावृत्तिश्च दृश्यते ।
न च गवान्तरव्यावृत्तेरनिश्चये स युज्यते ।
अथैकार्थक्रियाकारित्वादतत्क्रियाव्यावृत्तेस्तुल्यत्वात् ।
तदप्यसांप्रतम्, अर्थक्रियाणामपि भेदादतत्क्रियाव्यावृत्तेस्तुल्यत्वायोगात् ।
नैकसाध्यान्यस्यार्थक्रिया येनातत्कारिव्यावृत्तिस्तुल्या स्यात् ।
वस्तुस्वभावश्च व्यावृत्तिः प्रतिवस्तुभेदान्न तुल्या ।
अथास्वभावाः, तेषां कथं तुल्या? अथानादिवासनोपादानो न वस्तुगतविशेषापेक्षः ।
तदप्ययुक्तम्, नियमात् ।
कासुचिदेव हि व्यक्तिषु कश्चिदेवावभासः (ंस्B॑ कश्चिदेवाभेदावभासः एदितिओन्), स वासनामात्रोपादानत्वे न युज्यते ।
तस्मात्प्रकृत्यैव केचित्कस्यचिदभेदावमर्शस्य योग्याः केचिन्नेति स्वभावविपरीता भावानां सामर्थ्यातिशया कल्पयितव्याः ।
तथा सत्येवं गौरवात्कल्पनायाः ।
एकस्यैवास्तु माहात्म्यं यदेकोऽपि नानेवावभासते (नानेव भासते एदितिओन्), लघुत्वात्कल्पनायाः ।
न तु भिन्नानां ते सामर्थ्यातिशयाः, यदमी अभिन्ना इव भासन्ते (इवावभासन्ते एदितिओन्) ।

भेदव्यवहारश्च (भेदव्यवहाराश्च एदितिओन्) यथावभासं भेदवादिनामिवाभेदव्यवहार उपपद्यते (॰व्यवहारा उपपद्यन्ते एदितिओन्) ।
तथा हि
आत्यन्तिकभेदवादिनां यथावभासमभेदव्यवहारः, न यथावस्तु ।
संसर्गवादिनामपि सामान्यस्यार्थस्यार्थान्तरत्वाद्यथावभासमेव भेदेष्वभेदव्यवहारः ।
येऽप्यनर्थान्तरवादिनः, तेषामपि शबलत्वाद्वस्तुनस्तस्य चानन्वयाद्यथावभासमेवोभयव्यवहारः ।
न वस्त्वनुपातीति दर्शितमिति ।

यथानुवृत्तव्यवहारसिद्धिं यथावभासं कथयन्ति बाह्याः ।
तथैव भेदव्यवहारयोगं वदन्ति वेदान्तविवेकभाजः ॥ १.३६ ॥


इति श्रीमण्डनमिश्रविरचितायां ब्रह्मसिद्धौ तर्ककाण्डः समाप्तः ॥