ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०६२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ६१ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ६२
[[लेखकः :|]]
अध्यायः ६३ →

अथ द्विषष्टितमोऽध्यायः
नारद उवाच
ब्रह्मन् केन प्रकारेण रामो दाशरथिः स्वयम् ।
चकार मोक्षणं कुत्र युगे गौतमयोषितः ।। १ ।।

रामावतारं सुखदं समासेन मनोहरम् ।
कथायस्व महाभाग श्रोतुं कौतूहलं मम ।। २ ।।

नारायण उवाच
ब्रह्मणा प्रार्थितो विष्णुर्जातो दशरथात्स्वयम् ।
कौसल्यायां च भगवांस्त्रेतायां च मृदाऽन्वितः ।। ३ ।।

कैकेय्यां भरतश्चैव रामतुल्यो गुणेन च ।
लक्ष्मणश्चापि शत्रुघ्नः सुमित्रायां गुणार्णवः ।। ४ ।।

पिश्वामित्रप्रेषितश्च श्रीरामश्च सलक्ष्मणः ।
प्रययौ मिथिलां रम्यां सीताग्रहणहेतवे ।। ५ ।।

दृष्ट्वा पाषाणारूपा च रामो वर्त्मनि कामिनीम् ।
विश्वामित्रं च पप्रच्छ कारणं जगदीश्वरः ।। ६ ।।

रामस्य वचनं श्रुत्वा विश्वामित्रो महातपाः ।
उवाच तत्र धर्मिष्ठो रहस्यं सर्वमेव च ।। ७ ।।

कारणं तन्मुखाच्छ्रृत्वा रामो भुवनपावनः ।
पस्पर्श पादाङ्गुलिना सा बभूव च पद्मिनी ।। ८ ।।

सा राममाशिषं कृत्वा प्रययौ भर्तृ मन्दिरम् ।
शुभाशिषं ददौ तस्मै भार्या संप्राप्य गौतमः ।। ९ ।।

रामश्च मिथिलां गत्वा धनुर्भङ्गं शिवस्या च ।
चकार पाणिग्रहणं सीतायाश्चैव नारद ।। १० ।।

कृत्वा विवाहं राजेन्द्रो भृगुदर्प निहत्य च ।
णयोध्यां प्रययौ रम्यां क्रीडाकौतुकमङ्गलैः ।। ११ ।।

राजा पुत्रं नृपं कर्तुमिषेय कृतसादरम् ।
सप्ततीर्थोदकं तूर्णमानीय मुनिपुंगवान् ।। १२ ।।

कृताधिवासं श्रीरामं सर्व मङ्गलसंयुतम् ।
दृष्ट्वा भरतमाता च कैकेयी शोकविह्वला ।। १३ ।।

वरयामास राजानं पूर्वमङ्गीकृतं वरम् ।
रामस्य वनवासं च राजत्वं भरतस्य च ।। १४ ।।

वरं दातुं महाराजो नेयेष प्रेममोहितः ।
धर्मसत्यभयेनैवोवाच रामो नृपं सुधी। ।। १५ ।।

श्रीराम उवाच
तडागशतदानेन यत्पुण्यं लभते नरः ।
ततोऽधिकं च लभते वापीदानेन निश्चितम् ।। १६ ।।

दशवापीप्रदानेन यत्पुण्यं लभते नरः ।
ततोऽधिकं च लभते पुण्यं कन्याप्रदानतः ।। १७ ।।

दशकन्याप्रदानेन यत्पुण्यं लभते नरः ।
ततोऽधिकं च लभते यज्ञैकेन नराधिप ।। १८ ।।

शतयज्ञेन यत्पुण्यं लभते पुण्यकृज्जनः ।
ततोऽधिकं च लभते पुत्रास्यदर्शनेन च ।। १९ ।।

दर्शने शतपुत्राणां यत्पुण्यं लभते नरः ।
तत्पुण्यं लभते नूनं पुण्यवान्सत्यबालनात् ।। २० ।।

न हि सत्यात्परो धर्मो नानृतात्पातकं परम् ।
न हि गह्घासमं तीर्यं म देवः केशवात्परः ।। २१ ।।

नास्ति धर्मात्परो बन्धुर्नास्ति धर्मात्परं धनम् ।
धर्मात्प्रियः परः को वा स्पधर्मं रक्ष यत्नतः ।। २२ ।।

स्वधर्मे रक्षिते तात शश्वत्सर्वत्र मङ्गलम् ।
यशस्यं सुप्रतिष्ठा च प्रतापः पूजनं परम् ।। २३ ।।

यतुर्दशाब्दं धर्मेण त्यक्त्वा गृहसुखं म्रमन् ।
वनवासं करिष्यामि सत्यस्य पालनाय ते ।। २४ ।।

कृत्वा सत्यं च शपथमिच्छयाऽनिच्छयाऽथवा ।
न कृर्यात्पालनं यो हि भस्मान्तं तस्य सूतकम् ।। २५ ।।

कुम्भीपाके स पचति यावच्चन्द्रदिवाकरौ ।
ततो मूको भवेत्कुषठी मानवः सप्तजन्मसु ।। २६ ।।

इत्योवमुक्त्वा श्रीरामो विधाय कल्कलं जटाम् ।
प्रययौ च महारण्ये सीतया लक्ष्मणेन च ।। २७ ।।

पुत्रशोकान्महाराजास्तत्याज स्वतनुं मुने ।
पालनाय पितुः सत्यं रामो बभ्रामकानन ।। २८ ।।

कालान्तरे महारण्ये भगिनी रावणस्य च ।
भ्रमन्ती कानने घोरे भर्त्रा सार्धं सुगौतुकात् ।। २९ ।।

ददर्श रामं कुलटा कामार्ता राक्षसी तदा ।
पुलकाञ्चितसर्वाङ्गी सूर्च्छमाप स्मरेण च ।। ३० ।।

श्रीरामनिकटं गत्वा सस्मितोवाच कामुकी ।
शस्वधौवनसंयुक्ताऽतिप्रौढा कामदुर्मदा ।। ३१ ।।

शूर्पणखोवाच
हेराम हे धनश्याम रूपधाम सुणान्वित ।
मायानुरक्तां वनितां मां गृहाण सुनिर्जने ।। ३२ ।।

श्रुत्वा शूर्पणखावाक्यं धर्मं संस्मृत्य धार्मिकः ।
उवाच सधुरें वाक्यं शावभीतश्च नारद ।। ३३ ।।

श्रीराम उवाच
अम्बमातः सभार्योऽहमभार्यं गच्छ मेऽनुजम् ।
दुःखं प्रियोऽन्यां प्रभजेदितरं च सुखालयम् ।। ३४ ।।

रामस्य वचनं श्रुत्वा प्रययौ लक्ष्मणं मुदा ।
ददर्श लक्षमणं शान्तं कान्तं च लक्षणान्वितम् ।। ३५ ।।

मां भजस्व महाभागेत्युवाच च पुनः पुनः ।
लक्ष्मणास्तद्वचः श्रुत्वा तामुवाच कुतूहलात् ।। ३६ ।।

लक्ष्मण उवाच
विहाय रामं सर्वेशं हे मूढे दासमिच्छसि ।
सीतादासी च मत्पत्नी सीतादासोऽहमेव च ।। ३७ ।।

भव सीतासपत्नी त्वं गच्छ रामं मदीश्वरम् ।
तव पुत्रो भविष्यामि सीतायाश्चयथा सति ।। ३८ ।।

लक्ष्मणास्य वचः श्रुत्वा कामेन हृतमानसा ।
उवाच लक्ष्मणं मूढा शुष्ककण्ठेष्ठतालुका ।। ३९ ।।

शूर्पणखोवाच
यदी त्यजसि मां मूढ कामात्स्वयमुपस्थिताम् ।
युवयोश्च विपत्तिश्च भविष्य ति न संशयः ।। ४० ।।

ब्रह्मा च मोहिनीं त्यक्तवा विश्वेऽपूज्ये बभूव सः ।
रम्भाशापेन दक्षश्च छागमस्तो बभूव सः ।। ४१ ।।

स्वर्वैद्यश्चोर्वशीशापाद्यज्ञभागविवर्जितः ।
रूपहीनः कुबेरश्च मेनाशापेन लक्ष्मण ।। ४२ ।।

कामो घृताचीशापेन बभूव भस्मसाच्छिवात् ।
बलिर्मदालसाशापाद्भ्रष्टराज्यो बभूव ह ।। ४३ ।।

शापेन मिश्रकेश्याश्च हृतभार्यो बृहस्पतिः ।
मम शापात्तथा रामो हृतभार्यो भविष्यति ।। ४४ ।।

कामातुरां यौवनस्थां भार्या स्वयमुपस्थिताम् ।
न त्यजेद्धर्मभीतश्च श्रुतं माध्यंदिने पुरा ।। ४५ ।।

इह त्यक्त्वा पिबद्ग्रस्तः परत्र नरकं व्रजेत् ।
श्रुत्वा शूर्पणखावाक्यमर्धयन्द्रेण लक्ष्मणः ।। ४६ ।।

चिच्छेद नासिकां तस्याः क्षुरधारेण लीलया ।
तस्या भ्राता च युयुधे बलवान्खरदूषणः ।। ४७ ।।

ससैन्यो लक्ष्मणास्त्रेण स जगाम यमालयम् ।
चतुर्दशसहस्रं च राक्षसान्खरदूषणम् ।। ४८ ।।

मृतान्दृष्ट्वा शूर्पणखा भर्त्सयामास रावणम् ।
सर्वं निवेदनं कृत्वा जगाम पुष्करं तदा ।। ४९ ।।

ब्रह्मणश्च वरं प्राप कृत्वा च दुष्करं तपः ।
उवाच तादृशीं दृष्ट्वा निराहारां तपस्विनीम् ।। ५० ।।

सर्वज्ञस्तन्मनो मत्वा कृपासिन्धुश्च नारद ।। ५१ ।।

ब्रह्मोवाच
अप्राप्य रामं दृष्प्रापं करोषि दुष्करं तपः ।
जितेन्द्रियाणां प्रवरं लक्ष्मणं धर्मलक्षणम् ।। ५२ ।।

ब्रह्मविष्णुशिवादीनामीश्वरं प्रकृतेः परम् ।
जन्मान्तरे च भर्तारं प्राप्स्यसि त्वं वरानने ।। ५३ ।।

इत्येवमुक्त्वा ब्रह्म च जगाम स्वालयं मुदा ।
देहं तत्याज सा वह्नो सा च कुब्जा बभूव ह ।। ५४ ।।

अथ शूर्पणखा वाक्यात्कोपात्कम्पितविग्रहः ।
जहार मायया सीतां मायावी राक्षसेश्वरः ।। ५५ ।।

सीतां न दृष्ट्वा रामश्च मूर्च्छां प्राप चिरं मुने ।
चेतनां कारयामास भ्राता चऽऽध्यात्मिकेन च ।। ५६ ।।

ततो बभ्राम गहनं शैलं च कंदरं नदम् ।
अहर्निशं च शोकार्तो मुनीनामाश्रमं मुने ।। ५७ ।।

चिरमन्वेषणं कृत्वा न दृष्ट्वा जानकीं विभुः ।
चकार मित्रतां रामः सुग्रीवेण स्वयं प्रभुः ।। ५८ ।।

निहत्य वालिनं बाणैर्ददौ राज्यं च लीलया ।
सुग्रीवाय च मित्राय स्वीकारपालनाय वै ।। ५९ ।।

दूतान्प्रस्थापयामास सर्वत्र वानरेश्वाः ।
तस्थौ सुग्रीवभवने श्रीरामश्च सलक्ष्मणः ।। ६० ।।

हनूमते वरं दत्तवा रम्यं रत्नाङ्गुलीयकम् ।
सीतायै शुभसंदेशं प्राणधारणकारणम् ।। ६१ ।।

तं च प्रस्थापयामास दक्षिणां दिशमुत्तमाम् ।
सुप्रीत्याऽऽलिङ्गनं दत्त्वा पादरेणून्सुदुर्लभान् ।। ६२ ।।

हनुमान्पययौ लङ्कां सीतान्वेषणहेतवे ।
रामादधीतसंदेशो ययौ रुद्रकलोद्भवः ।। ६३ ।।

अशोककानने सीतां ददर्श शोककर्शिताम् ।
निराहारामतिकृशां कुह्वां चन्द्रकलामिव ।। ६४ ।।

सततं राम रामेति जपन्तीं भक्तिबूर्वकम् ।
बिभ्रतीं च जटाभारं तप्तकाञ्चनसंनिभाम् ।। ६५ ।।

ध्यायमानां पदाब्जं च श्रीरामस्य दिपानिशम् ।
शुद्धाशयां सुशीलां च सुव्रतां च पतिव्रताम् ।। ६६ ।।

महालक्ष्मीलक्ष्मयुक्तां प्रज्वलन्तीं स्वतेजसा ।
पुण्यदां सर्वतीर्थानां दृष्ट्वा भुवनपावतीम् ।। ६७ ।।

प्रणम्य मातरं दृष्ट्वा रुदतीं वायुनन्दनः ।
रत्नाङ्गुलीयं रामस्य ददौ तस्यै मुदाऽन्वितः ।। ६८ ।।

रुरोद धर्मी तां दृष्ट्वा धृत्वा तच्चरणाम्बुजम् ।
उवाच रामसंदेशं सीताजीवनरक्षणम् ।। ६९ ।।

हनुमानुवाच
पारेसमुद्रं श्रीरामः संनद्धश्च सलक्ष्मणः ।
बभूव राममित्रं च सुग्रीवो बलवान्कपिः ।। ७० ।।

रामश्च वालिनं हत्वा राज्यं निष्कण्टकं ददौ ।
सुग्रीवाय च मित्राय तद्भार्यं वालिना हृताम् ।। ७१ ।।

सुग्रीवश्च तवोद्धारं स्वीचकार च धर्मतः ।
वानराश्च ययुः सर्वे तवान्वेषणकारणात् ।। ७२ ।।

प्राप्य मङ्गलवार्तां च मत्तो राजीवलोचनः ।
गम्भीरं सागरं बद्ध्वा सोऽचिरेणाऽऽगमिष्यति ।। ७३ ।।

निहत्य रावणं पापं सपुत्रं च सबान्धवम् ।
करिष्यत्यचिरेणैव हे मातस्तव मोक्षणम् ।। ७४ ।।

अद्य रत्नमयीं लङ्कां निःशङ्कस्त्वतप्रसादतः ।
भस्मीभूतां करिष्यामि मातः पश्य च सस्मितम् ।। ७५ ।।

मर्कटीडिम्भतुल्यां च लङ्कां पश्यामि सुव्रते ।
मूत्रतुल्यं समुद्रं च शरावमिव भूतलम् ।। ७६ ।।

पिपीलिकासंघमिव ससैन्यं रावणं तथा ।
संहर्तुं च समर्थोंऽहं मुहूर्तार्धेन लीलया ।। ७७ ।।

रामप्रतिज्ञारक्षार्थं न हनिष्यामि सांप्रतम् ।
स्वस्था भव महाभागे त्यज भीतिं मदीश्वरि ।। ७८ ।।

पानरस्य वचः श्रुत्वा रुरोदोच्चैर्मुहुर्मुहुः ।
उवाच वचनं भीता रामपतिव्रता ।। ७९ ।।

सीतोवाच
अये जीवति मे रामो मच्छोकार्णवदारुणात् ।। ८० ।।

अपि मे कुशली नाथः कौसल्यानन्दनः प्रभु ।
कीदृशश्च कृशाङ्गश्च जानकीजीवनोऽधुना ।। ८१ ।।

किमाहारश्च किं भुङ्क्ते मम प्रणाधिकः प्रियः ।
अपि पारे समुद्रस्य सत्यं सीतापतिः स्वयम् ।। ८२ ।।

अपि सत्यं क संनद्धो न शोकेन हतः प्रभुः ।
अपि स्मरति मां पापां स्वामिनो दुःखरूपिणीम् ।। ८३ ।।

मदर्थे कति दुःखं वा संप्राप स मदीश्वरः ।
हारो नाऽऽरोर्पितः कण्ठे पुरा व्यवहितो रतौ ।। ८४ ।।

अधुनैवाऽऽवयोर्मध्ये समुद्रः शतयोजनः ।
अपि द्रक्ष्यामि तं रामं करुणासागरं प्रभुम् ।। ८५ ।।

कान्तं शान्तं नितान्तं च धर्मिष्ठं धर्मकर्मणि ।
अपि सेवां करिष्यामि पादपद्मे पुनः प्रभोः ।। ८६ ।।

पतिसेवाविहीनाया मूढाया जीवनं दृथा ।
अपि मे धर्मपुत्रश्च सत्यं जीवति लक्ष्मणः ।। ८७ ।।

मच्छोकसागरे मग्नो भग्नदर्पो मया विना ।
वीराणां प्रवरो धर्मी देवकल्पश्च देवरः ।। ८८ ।।

अपि सत्यं ससंन्नद्धो सत्प्रभोरनुजः सदा ।
अपि द्रक्ष्यामि सत्यं तं लक्ष्मणं धर्मलक्षणम् ।।
प्राणानामधिकं प्रेम्णा धन्यं पुण्यस्वरूपिणम् ।। ८९ ।।

इत्येवं वचनं श्रुत्वा दत्त्वा प्रत्युत्तरं शुभम् ।
भस्मीभूतां च तां लङ्कां चकार लीलया मुने ।। ९० ।।

पुनः प्रबोधं तस्यै च दत्तवा वायुसुतः कपिः ।
प्रययौ लीलया वेगाद्यत्र राजीवलोचनः ।। ९१ ।।

सर्वं तत्कथायामास वृत्तान्तं मातुरेव च ।
सीतामङ्गलवृत्तान्तं श्रुत्वा रामो रुरोद च ।। ९२ ।।

रुतोदोच्चैर्लक्ष्मणश्च सुग्रीवश्चापि नारद ।
वानरा रुरुदुः सर्वे सहबलपराक्रमाः ।। ९३ ।।

निबध्य सेतुं लङ्कां च प्रययौ रघुनन्दनः ।
ससैन्यः सानुजः शीघ्रं संनद्धश्चापि नारद ।। ९४ ।।

निहत्य रावणं रामो रणं कृत्वा सबान्धवम् ।
चकार मोक्षणं ब्रह्मन् सितायश्च शुभेक्षणे ।। ९५ ।।

कृत्वा पुष्पकयानेन सीतां सत्यपरायणाम् ।
अयोध्यां प्रययौ शीघ्रं क्रीडाकौतुकमङ्गलैः ।। ९६ ।।

क्रीडां चकार भगवान् सीतां कृत्वा च वक्षसि ।
विजहौ विरहज्वालां सीता रामश्च तत्क्षणम् ।। ९७ ।।

सप्तद्वीपेश्वरो रामो बभूव पृथिवीतले ।
बभूव निखिला पृथ्वी आधिव्याधिविवर्जिता ।। ९८ ।।

बभूवतू रामपुत्रौ धार्मिकौ च कुशीलवौ ।
तयोश्च पुत्रैः पौत्रेश्च सूर्यवंशोद्भवा नृपाः ।। ९९ ।।

इति ते कथितं वत्स श्रीरामचरितं शुभम् ।
सुखदं मोक्षदं सारं पारपोतं भवार्णवे ।। १०० ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo श्रीरामाचरितं
नाम द्विषष्टितमोऽध्यायः ।। ६२ ।।