ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०६१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ६० ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ६१
[[लेखकः :|]]
अध्यायः ६२ →

अथैकषष्टि,मोऽध्यायः
नारायण उवाच
इति ते कथितं किंचिदिन्द्रस्य दर्पभञ्जनम् ।
अपरं श्रूयतां ब्रह्मन्सावधानं निगूढकम् ।। १ ।।

समुद्रमथनं कृत्वा पीत्वाऽमृतरसं पुरा ।
निर्जित्य दैत्यसंघांश्च बहुदर्पो बभूव ह ।। २ ।।

तदा कृष्णो बलिद्वारा शक्रदर्प बभञ्ज ह ।
भ्रष्टश्रियो बभूवुस्ते देवा इन्द्रपुरोगमाः ।। ३ ।।

तदा बृहस्पतेः स्तौत्राददितेश्च व्रतेन ते ।
जातश्च स्वांशकलयाऽप्यदित्यां वामनो विभुः ।। ४ ।।

याच्ञां कृत्वा बलिं राज्यं कृपया च कृपानिधिः ।
तस्मै ददौ महेन्द्राय देवेम्यश्चापि संपदम् ।। ५ ।।

बभूव शक्रदर्पश्च पुनः कल्पान्तने पुरा ।
विभुर्दुवसिसो द्वारा जहार तच्छ्रियं मुने ।। ६ ।।

पुनर्ददौ च कृपया कृपालुर्भक्तवत्सलः ।
पुनः श्रीदुर्मदः सोऽपि जहार गौतमप्रियाम् ।। ७ ।।

तदा गौतमशापेन भमाङ्गश्च बभूव सः ।
संप्राप यातनामिन्द्रः स्वाङ्गवेदनया पुरा ।। ८ ।।

उच्चैस्तं जहसुर्दृष्ट्वा ऋषयो मनवस्तदा ।
देवाश्च लज्जिताः सर्वे मृततुल्यो बृहस्पतिः ।। ९ ।।

तदा सहस्रवर्ष च तपस्तप्त्वा रवेः पुरा ।
रवेर्वरेण शक्रः स सहस्राक्षो बभूव ह ।। १० ।।

कलङ्करूपमिन्द्रस्य तच्चक्षुर्निकरं परम् ।
यथा चनद्रे कलङ्कश्च तानकाहरणादभूत् ।। ११ ।।

नारद उवाच
ब्रह्मन् केन प्रगारेण जहार गौतमप्रियाम् ।
महासतीसमहल्यां च पूज्यां भुवनपादनीम् ।। १२ ।।

शुद्धाशायां महाभागां निर्मलां कमलाकलाम् ।
एतद्वेदितुमिच्छामि वद वेदविदां वर ।। १३ ।।

नारायण उवाच
पुष्करे तीर्थयात्रायां सूर्यपर्वणि नारद ।
तत्राऽऽगतामहल्यां च ददर्श पाकशासनः ।। १४ ।।

सुस्मितां सुदर्ती शान्तां पीनक्षोणिपयोधराम् ।
म्रर्च्छामवाप चेन्द्रश्च दृष्टिमात्रेण तत्त्क्षणात् ।। १५ ।।

अथापरदिने तां च दृष्ट्वा सन्दाकिनी तटे ।
एकाकिनीं सुस्मिसां च स्नातीं नग्नां सलज्जिताम् ।। १६ ।।

दृष्ट्वा श्रोणिं स्तनयुगमतीव विपुलं हरिः ।
मूर्च्छमवाप कामार्तो जहार चेतनां पुनः ।। १७ ।।

क्षणेन चेतनां प्राप्य गत्वा कामी तदन्तिकम् ।
उवाच श्लक्ष्णया वाचा विनयेन पतिव्रताम् ।। १८ ।।

महेन्द्र उवाच
अहो गुणमहो रूपमहो किं वा नवं वयः ।
अहो किं वा मुखश्रीस्ते शरच्चन्द्रं विनिन्दती ।। १९ ।।

अहोकटाक्षं कुटिलं पुंसां चित्तविकर्षणम् ।
किमहो लोचनं पद्मप्रभामोचनमीप्सितम् ।। २० ।।

गमनं रमणीयं च गचखञ्जनभञ्जनम् ।
अहो वाक्यं सुमधुरं पीयूषादपि दुर्लभम् ।। २१ ।।

किमहो विपुलश्रोणी कामाधारा मनोहरा ।
कामदा कामुकायैव मुनिमानसमोहिनी ।। २२ ।।

अतीव कठिना पीना रम्भास्च म्भविडम्बिता ।
अहो नितम्बयुगुलं वर्तुलं चन्द्रबिम्बवत् ।। २३ ।।

श्रीयुक्तं श्रीफलयुगतुल्यं ते स्तनयुग्मकम् ।
अत्युन्नतं सुकठिनं त्रैलोक्यचित्तमोहनम् ।। २४ ।।

अहो किं वा तपस्तेपे गौतमश्च तपोधनः ।
संप्राप यत्फलेनैव सुदतीं सुन्दरीं वराम् ।। २५ ।।

निषेव्य प्रकृतिं दुर्गा विष्णुमायां सनातनीम् ।
लक्ष्मीं च लक्ष्मीसदृशीमीदृशीं प्राप पद्मिनीम् ।। २६ ।।

सुकोमलां सुवदनां ललनां नलिनाननाम् ।
शुद्धां च सुदतीं श्यामां न्यग्रोधदलमध्यमाम् ।। २७ ।।

त्वत्पालनं च जानामिकामशास्त्रविचक्षणः ।
कामो वा कामुकश्चन्द्र किं त्वा जानाति गौतमः ।। २८ ।।
‰
मां प्रशंसन्ति नित्यं ते कामशास्त्रविचक्षणाः ।
उर्वश्याद्यश्चाप्सरसो मां प्रशंसन्ति संततम् ।। २९ ।।

दासिं कृत्वा च दास्यामि शचीं तुम्यं वरानने ।
त्रैलोक्यलक्ष्मी विपुलां गृहण त्यज गौतमम् ।। ३० ।।

अनभिज्ञं कामशास्त्रे दुर्बलं च तपस्विनम् ।
अव्यवाहार्य निष्कामं नारायणपरायणम् ।। ३१ ।।

अविदग्धो विधाता च योजयामाम योऽक्षमम् ।
ईदृशीं कामुकीं रम्यां ददाति च तपस्विने ।। ३२ ।।

इत्युक्त्वा कामुकः शक्रः पपात चरणे मृदा ।
तमुवाच महासध्वी वेदोक्तं च यथौचितम् ।। ३३ ।।

अहल्योवाच
अभाग्याद्ब्रह्मणश्चापि मरीचेश्च तपस्विनः ।
अभाग्यात्कश्यपस्यापि त्वं पुत्रः पापमानसः ।। ३४ ।।

किं तज्जपेन तपसा मौनेन च व्रतेन च ।
सुरार्चनेन तीर्थेन स्त्रीभिर्यस्य मनोहृतम् ।। ३५ ।।

स्त्रीरूपं निर्मितं सृष्टौ मोहाय कामिनां मनः ।
अन्यथा न भवेत्सृष्टिः स्रष्टा तेने पुराऽऽज्ञया ।। ३६ ।।

सर्व मायाकरण्डश्च धर्ममार्गार्गलं नृणाम् ।
व्यवधानं च तपसां दोषाणामाश्रयं परम् ।। ३७ ।।

कर्मबन्धनिबद्धानां निगडं कठिनं स्मृतम् ।
प्रदीपरूपं कीटानां मीनानां बडिशं यथा ।। ३८ ।।

विषकृम्भं दुग्धमुखमारम्भे मधुनोपमम् ।
परिणामे दुःखबीजं सोपानं नरकस्य च ।। ३९ ।।

ऋषयः सनकाद्याश्च नोद्वाहं चक्रुरीप्सित्म् ।
परस्त्रीषु मनो येषां तेषां सर्व च निष्फलम् ।। ४० ।।

परस्त्रीसेवनं शक्र इहैवात्ययशस्कनम् ।
परत्र नरकं घोरं ददाति कामुकाय च ।। ४१ ।।

इत्युक्तवा च महासाध्वी विहाय तं च कामुकम् ।
प्रययौ स्वगृहं तूर्ण गृहिणी गौतमस्य च ।। ४२ ।।

तत्सर्व कथयामास गौतमाय तपस्विने ।
तस्थौ प्रहस्य स मुनिर्महन्द्रं च विनिन्द्य च ।। ४३ ।।

एकदा गौतमः शीघ्रं जगाम शंकरालयम् ।
शक्रो गौतमरूपेण तां संभोगं चकार सः ।। ४४ ।।

सर्व ज्ञात्वा च सर्वज्ञः मन्दिरद्वारमाययौ ।
निर्गच्छन्तं महेन्दं च ददर्श मुनिपुंगवः ।। ४५ ।।

नग्नामहल्यां रहसि पीनश्रोणिपयोधराम् ।
मुनिः शशाप शकं च भगाङ्गश्च भवेति च ।। ४६ ।।

कोपाच्छशाप पत्नीं च रुदतीं भयविह्वलाम् ।
त्वं च पाषाणरूपा च महारण्ये भवेति च ।। ४७ ।।

ययौ च स्वगृहं शक्रो लज्जैकतानमानसः ।
उवाच मधुरं भीता स्वामिनं शोककर्शिता ।। ४८ ।।

अहल्योवाच
मां च दासीं च निर्दोषां कथं त्यजसिधार्मिक ।
त्वं च वेदविदां श्रेष्ठो विचारं कुरु धर्मतः ।। ४९ ।।

गौतम उवाच
त्वां जानामि मनःशुद्धां सुव्रतां च पतिव्रताम् ।
त्यक्ष्यामि च तथाऽपि त्वां परवीर्यं च बिभ्रतीम् ।। ५० ।।

परभोग्या च या कान्ता साऽशुद्धा सर्वकर्मसु ।
तां योगच्छेन्महामूढो नरकं तस्य कल्पकम् ।। ५१ ।।

अन्नं विष्ठा जलं मूत्रं परभोग्याश्च (या)निश्चितम् ।
उपस्पृशेन्न तस्याश्च हन्ति पुप्यं पुराकृतम् ।। ५२ ।।

अनिच्छया च श्रृङ्गाने स्त्री जारेण न दुष्यति ।
दुष्टा स्त्री निश्चितं साध्वी स्वेच्छाश्रृङ्गारकर्मणि ।। ५३ ।।

त्वं शक्रं स्वामिनं मत्वा सुखं भुक्त्वा रतिं गृहे ।
पश्चाद्बभूव ते ज्ञानं मां दृष्ट्वा च निशामय ।। ५४ ।।

गच्छ गच्छ महारण्यं भव पाषाणरूपिणी ।
रामपादाङ्गुलिस्पर्शात्सद्यः पूता भपिष्यसि ।। ५५ ।।

मां संप्राप्स्यसि तत्पुण्यात्पुनरेवाऽऽगमिष्यसि ।
गच्छ कान्ते महारण्यमित्युक्त्वा तपसे ययौ ।। ५६ ।।

इत्येवं कथितं सर्व महेन्द्रदर्पभञ्जनम् ।
पुनः संप्राप लक्ष्मीं च विभोश्च कृपया मुने ।। ५७ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मख o उत्तo नारदनाo
एकषष्टितमोऽध्यायः ।। ६१ ।।