ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ३५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४ ब्रह्मवैवर्तपुराणम्
अध्यायः ३५
वेदव्यासः
अध्यायः ३६ →

नारायण उवाच ।।
मनोरमा प्राणनाथं क्षणं कृत्वा स्ववक्षसि ।।
भविष्यं मनसा चक्रे यद्यत्स्वामिमुखाच्छुतम् ।। १ ।।
पुत्रांश्च पुरतः हृत्वा बान्धवांश्च स्वकिंकरान् ।।
सस्मार सा हरिपदं मेने सत्यं भवेन्मुने।।२।।
योगेन भित्त्वा षट्चक्रं वायुं संस्थाप्य मूर्द्धनि ।।
ब्रह्मरन्ध्रस्थकमले सहस्रदलसंयुते ।। ३ ।।
स्वान्तमाकृष्य विषयाज्जलबुद्बुदसन्निभात् ।।
संस्थाप्य बद्ध्वा ज्ञानेन लोलं ब्रह्मणि निष्कले ।। ४ ।।
द्विविधं कर्म संन्यस्य निर्मूलमपुनर्भवम् ।।
तत्र प्राणांश्च तत्याज न च प्राणाधिकं प्रियम् ।। ५ ।।
स राजा तां मृतां दृष्ट्वा विललाप रुरोद च ।।
सन्नाहं संपरित्यज्य कृत्वा वक्षस्युवाच ताम् ।।६।।
राजोवाच ।।
मनोरमे समुत्तिष्ठ न यास्यामि रणाजिरम् ।।
सचेतना मां पश्येति विलपन्तं मुहुमुर्हुः ।। ७ ।।
मनोरमे समुत्तिष्ठ मया सार्द्धं गृहं व्रज ।।
न करिष्यामि समरं भृगुणा सह भामिनि ।। ८ ।।
मनोरमे समुत्तिष्ठ श्रीशैलं व्रज सुन्दरि ।।
तत्र क्रीडां करिष्यामि त्वया सार्द्धं यथा पुरा ।। ९ ।।
मनोरमे समुत्तिष्ठ व्रज गोदावरीं प्रिये ।।
जलक्रीडां करिष्यामि त्वया सार्धं यथा पुरा ।। 3.35.१० ।।
मनोरमे समुत्तिष्ठ नन्दनं व्रज सुन्दरि ।।
पुष्पभद्रानदीतीरे विहरिष्यामि निर्जने ।। ११ ।।
मनोरमे समुत्तिष्ठ मलयं व्रज सुन्दरि ।।
त्वया सार्द्धं रमिष्येऽहं तत्र चन्दनकानने ।। १२ ।।
शीतेन गन्धयुक्तेन वायुना सुरभीकृते ।।
भ्रमरध्वनिसंयुक्ते पुंस्कोकिल रुतश्रिते ।। १३ ।।
चन्दनागुरुकस्तूरीकुंकुमालेपनं कुरु ।।
चन्दनोक्षितसर्वाङ्गं पश्य मां सस्मिते सति ।। १४ ।।
सुधातुल्यं सुमधुरं वचनं रचय प्रिये ।।
कुटिलभ्रूविकारं च कथं न कुरुषेऽधुना ।। १५ ।।
नृपस्य रोदनं श्रुत्वा वाग्बभूवाशरीरिणी ।।
स्थिरीभव महाराज कुरुषे रोदनं कथम् ।। १६ ।।
त्वं महाज्ञानिनां श्रेष्ठो दत्तात्रेयप्रसादतः ।।
जलबुद्बुदवत्सर्वं संसारं पश्य शोभनम् ।। १७ ।।
कमलांशा च सा साध्वी जगाम कमलालयम् ।।
त्वमेव गच्छ वैकुण्ठं रणं कृत्वा रणाजिरे ।। १८ ।।
इत्येव वचनं श्रुत्वा जहौ शोकं नराधिपः ।।
ततश्चन्दनकाष्ठेन चितां दिव्यां चकार ह ।। १९ ।।
संस्काराग्निं कारयित्वा पुत्रद्वारा ददाह ताम् ।।
नानाविधानि रत्नानि ब्राह्मणेभ्यो ददौ मुदा ।। 3.35.२० ।।
नानाविधानि दानानि वस्त्राणि विविधानि च ।।
मनोरमायाः पुण्येन ब्राह्मणेभ्यो ददौ मुदा ।।२१।।
भुज्यतां भुज्यतां शश्वद्दीयतां दीयतामिति ।।
शब्दो बभूव सर्वत्र कार्त्तवीर्य्याश्रमे मुने ।।२२।।
कोषेषु स्वाधिकारेषु स्थितं यद्यद्धनं तदा ।।
मनोरमायाः पुण्येन ब्राह्मणेभ्यो ददौ मुदा ।। २३ ।।
राजा जगाम समरं हृदयेन विदूयता ।।
सार्धं सैन्यसमूहैश्च वाद्यभाण्डैरसंख्यकैः ।।२४।।
ददर्श मङ्गलं राजा पुरो वर्त्मनि वर्त्मनि ।।
ययौ तथापि समरं नाजगाम गृहं पुनः।।२५।।
मुक्तकेशीं छिन्ननासां रुदतीं च दिगम्बराम् ।।
कृष्णवस्त्रपरीधानामपरां विधवामपि ।। २६ ।।
मुखदुष्टां योनिदुष्टां व्याधियुक्तां च कुट्टिनीम् ।।
पतिपुत्रविहीनां च डाकिनीं पुंश्चली तथा ।। २७ ।।
कुम्भकारं तैलकारं व्याधं सर्पोपजीविनम् ।।
कुचैलमतिरूक्षांगं नग्नं काषायवासिनम् ।। २८ ।।
वसाविक्रयिणं चैव कन्याविक्रयिणं तथा ।।
चितादग्धं शवं भस्म निर्वाणाङ्गारमेव च।।२९।।
सर्पक्षतं नरं सर्पं गोधां च शशकं विषम्।।
श्राद्धपाकं च पिण्डं च मोटकं च तिलांस्तथा ।।3.35.३०।।
देवलं वृषवाहं च शूद्रश्राद्धान्नभोजिनम् ।।
शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकम्ा।३१।।
कुशपुत्तलिकां चैव शवदाहनकारिणम् ।।
शून्यकुम्भं भग्नकुम्भं तैलं लवणमस्थि च।।३२।।
कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणम् ।।
दक्षिणे च सृगालं च कुर्वन्तं भैरवं रवम् ।।३३।।
कपर्दकं च क्षौरं च च्छिन्नकेशं नखं मलम् ।।
कलहं च विलापं च तथा तत्कारिणं जनम् ।। ३४ ।।
अमङ्गलं रुदन्तं च रुदन्तं शोककारिणम् ।। ३५ ।।
मिथ्यासाक्ष्य प्रदातारं चौरं च नरघातिनम्।।
पुंश्चलीपतिपुत्रौ च पुंश्चल्योदनभोजिनम् ।। ३६ ।।
देवतागुरुविप्राणां वस्तुवित्तापहारिणम् ।।
दत्तापहारिणं दस्युं हिंसकं सूचकं खलम् ।। ३७ ।।
पितृमातृविरक्तं च द्विजाश्वत्थविघातिनम् ।।
सत्यघ्नं च कृतघ्नं च स्थाप्यस्याप्यपहारिणम् ।। ३८ ।।
विप्रमित्रद्रोहमेवं क्षतं विश्वासघातकम् ।।
गुरुदेवद्विजानां च निन्दकं स्वांगघातकम् ।। ३९ ।।
जीवानां घातकं चैव स्वांगहीनं च निर्दयम्।।
व्रतोपवासहीनं च दीक्षाहीनं नपुंसकम् ।।3.35.४०।।
गलितव्याधिगात्रं च काणं बधिरमेव च ।।
पुल्कसं छिन्नलिङ्गं च सुरामत्तं सुरां तथा ।।४१।।
क्षिप्तं वमन्तं रुधिरं महिषं गर्दभं तथा ।।
मूत्रं पुरीषं श्लेष्माणं रूक्षिणं नृकपालकम् ।।४२।।
चण्डवातं रक्तवृष्टिं वाद्यं वै वृक्षपातनम् ।।
वृकं च सूकरं गृध्रं श्येनं कङ्कं च भल्लुकम्।।४३।।
पाशं च शुष्ककाष्ठं च वायसं गन्धकं तथा।।४४।।
प्रतिग्राहिब्राह्मणं च तन्त्रमन्त्रोपजीविनम्।।
वैद्यं च रक्तपुष्पं चाप्यौषधं तुषमेव च।।४५।।
कुवार्त्तां मृतवार्तां च विप्रशापं च दारुणम्।।
दुर्गन्धिवातं दुश्शब्दं राजाऽपश्यत्स वर्त्मनि ।। ४६ ।।
मनश्च कुत्सितं प्राणाः क्षुभिताश्च निरन्तरम्।।
वामांगस्पन्दनं देहजाड्यं राज्ञो बभूव ह ।। ४७ ।।
तथाऽपि राजा निश्शङ्को ददर्श समराङ्गणम् ।।
सर्वसैन्यसमायुक्तः प्रविवेश रणाजिरम् ।। ४८ ।।
अवरुह्य रथात्तूर्णं दृष्ट्वा च पुरतो भृगुम् ।।
ननाम दण्डवद्भूमौ राजेन्द्रैः सह भक्तितः ।। ४९ ।।
आशिषं युयुजे रामः स्वर्गं याहीति वाञ्छितम् ।।
तेषां सह्यं तद्बभूवुर्दुलंघ्या ब्राह्मणाशिषः ।। 3.35.५० ।।
भृगुं प्रणम्य राजेन्द्रो राजेन्द्रैः सह तत्क्षणात् ।।
आरुरोह रथं तूर्णं नानायुधसमन्वितम् ।। ५१ ।।
नानाप्रकारवाद्यं च दुन्दुभिं मुरजादिकम् ।।
वादयामास सहसा ब्राह्मणेभ्यो ददौ धनम् ।। ५२ ।।
उवाच रामो राजेन्द्रं राजेन्द्राणां च संसदि ।।
हितं सत्यं नीतिसारं वाक्यं वेदविदां वरः ।। ९३ ।।
परशुराम उवाच ।।
शृणु राजेन्द्र धर्मिष्ठ चन्द्रवंशसमुद्भव ।।
विष्णोरंशस्य शिष्यस्त्वं दत्तात्रेयस्य धीमतः ।। ५४ ।।
स्वयं विद्वांश्च वेदांश्च श्रुत्वा वेदविदो मुखात् ।।
कथं दुर्बुद्धिरधुना सज्जनानां विहिंसना ।। ५५ ।।
त्वं पूर्वमहनो लोभान्निरीहं ब्राह्मणं कथम् ।।
ब्राह्मणी शोकसन्तप्ता भर्त्रा सार्द्धं गता सती ।। ५६ ।।
किं भविष्यति ते भूप परत्रैवानयोर्वधात् ।।
सर्वं मिथ्यैव संसारं पद्मपत्रे यथा जलम् ।। ५७ ।।
सत्कीर्त्तिश्चाथ दुष्कीर्तिः कथामात्रावशेषिता ।।
विडम्बना वा किमतो दुष्कीर्त्तेश्च सतामहो ।। ५८ ।।
क्व गता कपिला त्वं क्व क्व विवादो मुनिः कुतः ।।
यत्कृतं विदुषा राज्ञा न कृतं हालिकेन तत् ।। ५९ ।।
त्वामुपोषितमीशं हि दृष्ट्वा तातो हि धार्मिकः ।।
पारणां कारयामास दत्तं तस्य फलं त्वया ।। 3.35.६० ।।
अधीतं विधिवद्दत्तं ब्राह्मणेभ्यो दिने दिने ।।
जगते यशसा पूर्णमयशो वार्द्धके कथम् ।। ।। ६१ ।।
दाता वरिष्ठो धर्म्मिष्ठो यशस्वी पुण्यवान्सुधीः ।।
कार्त्तवीर्यार्जुनसमो न भूतो न भविष्यति ।। ६२ ।।
पुरातना वदन्तीति बन्दिनो धरणीतले ।।
यो विख्यातः पुराणेषु तस्य दुष्कीर्त्तिरीदृशी ।। ६३ ।।
दुर्वाक्यं दुःसहं राजंस्तीक्ष्णास्त्रादपि जीविनाम् ।।
संकटेऽपि सतां वक्त्राद्द्विरुक्तिर्न विनिर्गता ।। ६४ ।।
न ददामि द्विरुक्तिं ते प्रकृतं कथयाम्यहम् ।।
उत्तरं देहि राजेन्द्र मह्यं राजेन्द्रसंसदि ।। ६५ ।।
सूर्य्यचन्द्रमनूनां च वंशजाः सन्ति संसदि ।।
सत्यं वद सभायां च शृण्वन्तु पितरः सुराः ।। ६६ ।।
शृण्वन्तु सर्वे राजेन्द्राः सदसद्वक्तुमीश्वराः ।।
पश्यन्तो हि समं सन्तः पाक्षिकं न वदन्ति च ।। ६७ ।।
इत्युक्त्वा रैणुकेयश्च विरराम रणस्थले ।।
राजा बृहस्पतिसमः प्रवक्तुमुपचक्रमे ।। ६८ ।।
कार्त्तवीर्य्यार्जुन उवाच ।।
शृणु राम हरेरंशो हरिभक्तो जितेन्द्रियः ।।
श्रुतो धर्मो मुखाद्येषां त्वं च तेषां गुरोर्गुरुः ।। ६९ ।।
कर्म्मणा वाऽप्यसद्बुध्या करोति ब्रह्मभावनाम् ।।
स्वधर्मनिरतः शुद्धस्तस्माद्ब्राह्मण उच्चते ।। 3.35.७० ।।
अन्तर्बहिश्च मननात्कुरुत कर्म्म नित्यशः ।।
मौनी शश्वद्वदेत्काले यो वै स मुनिरुच्यते ।। ७१ ।।
स्वर्णे लोष्टे गृहेऽरण्ये पंके सुस्निग्धचन्दने ।।
समताभावना यस्य स योगी परिकीर्त्तितः ।।७२।।
सर्वजीवेषु यो विष्णुं भावयेत्समता धिया ।।
हरौ करोति भक्तिं च हरिभक्तः स च स्मृतः ।।७३।।
तपोधनं ब्राह्मणानां तपः कल्पतरुर्यथा ।।
तपस्या कामधेनुश्च सन्ततं तपसि स्पृहा ।।७४।।
ऐश्वर्य्ये क्षत्रियाणां च वाणिज्ये च तथा विशाम्।।
क्षत्रियाणां च तपसि स्पृहाऽतीवाऽप्रशंसिता।।७५।।
ब्राह्मणानां विवादे च स्पृहाऽतीव विनिन्दिता।।७६।।
रागी राजसिकं कार्य्यं कुरुते कर्म्म रागतः ।।
रागान्धो यो राजसिकस्तेन राजा प्रकीर्तितः ।।७७।।
रागतः कामधेनुश्च मया वै याचिता मुने ।।
को दोष एक मे जातः क्षत्रियस्यानुरागिणः।।७८।।
कुतः कस्य मुनेरस्ति कामधेनुस्त्वया विना।।
स्पृहा रणे वा भोगे वा युष्माकं च व्यतिक्रमः।।७९।।
त्रिंशदक्षौहिणीं सेनां राजेन्द्राणां त्रिकोटिकाम्।।
निहत्यायान्तमेकं मां न हन्तुं सहनं मुने ।।3.35.८०।।
आत्मानं हन्तुमायान्तमपि वेदांगपारगम् ।।
न दोषो हनने तस्य न तेन ब्रह्महाऽभवम् ।। ८१ ।।
प्रायश्चित्तं हिंसकानां न वेदेषु निरूपितम् ।।
वधः समुचितस्तेषामित्याह कमलोद्भवः ।। ८२ ।।
पित्रा ते निहता भूपा महाबलपराक्रमाः ।।
इदानीं राजपुत्राश्च शिशवोऽत्र समागताः ।।८३।।
त्रिःसप्तकृत्वो निर्भूपां कृत्स्नां कर्तुं महीमिति ।।
त्वया कृता प्रतिज्ञा या तस्यास्त्वं पालनं कुरु ।। ८४ ।।
क्षत्रियाणां रणो धर्मो रणे मृत्युर्न गर्हितः ।।
रणे स्वाहा ब्राह्मणानां लोके वेदे विडम्बना ।। ८५ ।।
तपोधनानां विप्राणां वाग्बलानां युगे युगे ।।
शान्तिः स्वस्त्ययनं कर्म विप्रधर्मो न संगरः ।। ८६ ।।
क्षत्रियाणां बलं युद्धं व्यापारश्च बलं विशाम् ।।
भिक्षा बलं भिक्षुकाणां शूद्राणां विप्रसेवनम् ।। ८७ ।।
हरौ भक्तिर्हरेर्दास्यं वैष्णवानां बलं हरिः ।।
हिंसा बलं खलानां च तपस्या च तपस्विनाम् ।। ८८ ।।
बलं वेषश्च वेश्यानां योषितां यौवनं बलम् ।।
बलं प्रतापो भूपानां बालानां रोदनं बलम् ।। ८९ ।।
सतां सत्यं बलं मिथ्या बलमेवासतां सदा ।।
अनुगानामनुगमः स्वल्पस्वानां च सञ्चयः ।। 3.35.९० ।।
विद्या बलं पण्डितानां धैर्य्यं साहसिनां बलम् ।।९१ ।।
धनं बलं च धनिनां शुचीनां च विशेषतः ।।
बलं विवेकः शान्तानां गुणिनां बलमेकता ।। ९२ ।।
गुणो बलं च गुणिनां चौराणां चौर्य्यमेव च ।।
प्रियवाक्यं च कापट्यमधर्म्मः पुंश्चलीबलम् ।। ९३ ।।
हिंसा च हिंस्रजन्तूनां सतीनां पतिसेवनम् ।।
वरशापौ सुराणां च शिष्याणां गुरुसेवनम् ।। ९४ ।।
बलं धर्मो गृहस्थानां भृत्यानां राजसेवनम् ।।
बलं स्तवः स्तावकानां ब्रह्म च ब्रह्मचारिणाम् ।। ९५ ।।
यतीनां च सदाचारो न्यासः संन्यासिनां बलम् ।।
पापं बलं पातकिनामशक्तानां हरिर्बलम् ।। ९६ ।।
पुण्यं बलं पुण्यवतां प्रजानां नृपतिर्बलम् ।।
फलं बलं च वृक्षाणां जलजानां जलं बलम् ।। ९७ ।।
जलं बलं च सस्यानां मत्स्यानां च जलं बलम् ।।
शान्तिर्बलं च भूपानां विप्राणां च विशेषतः ।। ९८ ।।
विप्रः शान्तो रणोद्योगी नैव दृष्टो न च श्रुतः ।।
स्थिते नारायणे देवे बभूवान्यविपर्य्ययः ।। ९९ ।।
इत्येवमुक्त्वा राजेन्द्रो विरराम रणाजिरे ।।
तस्य तद्वचनं श्रुत्वा सद्यस्तूष्णीं बभूव ह ।। 3.35.१०० ।।
रामस्य भ्रातरः सर्वे तीक्ष्णशस्त्रासिपाणयः ।।
आरेभिरे रणं कर्त्तुं महावीरास्तदाज्ञया ।। १०१ ।।
रणोन्मुखांश्च तान्दृष्ट्वा मत्स्यराजो महाबलः ।।
समारेभे रणं कर्तुं मङ्गलो मङ्गलालयः ।। १०२ ।।
शरजालेन राजेन्द्रो वारयामास तानपि ।।
चिच्छिदुः शरजालं च जमदग्निसुतास्तदा ।। १०३ ।।
राजा चिक्षेप दिव्यास्त्रं शतसूर्य्यप्रभं मुने ।।
माहेश्वरेण मुनयश्चिच्छिदुश्चैव लीलया।।१०४।।
दिव्यास्त्रेणैव मुनयश्चिच्छिदुः सशरं धनुः।।
रथं च सारथिं चैव राज्ञः सन्नाहमेव च।।१०५
न्यस्तशस्त्रं नृपं दृष्ट्वा मुनयो हर्षविह्वलाः ।।
दधार शूलिनः शूलं मत्स्यराजजिघांसया ।। १०६ ।।
शूलनिक्षेपसमये वाग्बभूवाशरीरिणी ।।
शूलं त्यजत विप्रेन्द्राः शिवस्याव्यर्थमेव च ।। १०७ ।।
शिवस्य कवचं दिव्यं दत्तं दुर्वाससा पुरा ।।
मत्स्यराजगलेऽस्त्येतत्सर्वावयवरक्षकम् ।। १०८ ।।
प्राणानां च प्रदातारं कवचं याचतं नृपम् ।।
तदा निक्षिप्तशूलं च जघान नृपतिश्चिरम् ।। १०९ ।।
तच्छूलं तं नृपं प्राप्य शतखण्डं गतं मुने ।।
श्रुत्वैवाकाशवाणीं च शृङ्गी संन्यासवेषकृत् ।। 3.35.११० ।।
ययाचे कवचं भूपं जमदग्निसुतो महान् ।।
राजा ददौ च कवचं ब्रह्माण्डविजयं परम् ।। १११ ।।
गृहीत्वा कवचं तच्च शूलेनैव जघान ह ।।
पपात मत्स्यराजश्च शतचन्द्रसमाननः ।।
महाबलिष्ठो गुणवांश्चन्द्रवंशसमुद्भवः ।। ११२ ।।
नारद उवाच ।।
शिवस्य कवचं ब्रूहि मत्स्यराजेन यद्धृतम् ।।
नारायण महाभाग श्रोतुं कौतूहलं मम ।। ११३ ।।
नारायण उवाच ।।
कवचं शृणु विप्रेन्द्र शङ्करस्य महात्मनः ।।
ब्रह्माण्डविजयं नाम सर्वावयवरक्षणम् ।। ११४ ।।
पुरा दुर्वाससा दत्तं मत्स्यराजाय धीमते ।।
दत्त्वा षडक्षरं मन्त्रं सर्वपापप्रणाशनम् ।। ११५ ।।
स्थिते च कवचे देहे नास्ति मृत्युश्च जीविनाम् ।।
अस्त्रे शस्त्रे जले वह्नौ सिद्धिश्चेन्नास्ति संशयः ।। ११६ ।।
यद्धृत्वा पठनाद्बाणः शिवत्वं प्राप लीलया ।।
बभूव शिवतुल्यश्च यद्धृत्वा नन्दिकेश्वरः ।। ११७ ।।
वीरश्रेष्ठो वीरभद्रः साम्बोऽभूद्धारणाद्यतः।।
त्रैलोक्यविजयी राजा हिरण्यकशिपुः स्वयम् ।। ।। ११८ ।।
हिरण्याक्षश्च विजयी चाभवद्धारणाद्धि सः ।।
यद्धृत्वा पठनात्सिद्धो दुर्वासा विश्वपूजितः ।। ११९ ।।
जैगीषव्यो महायोगी पठनाद्धारणाद्यतः ।।
यद्धृत्वा वामदेवश्च देवलः पवनः स्वयम् ।।
अगस्त्यश्च पुलस्त्यश्चाप्यभवद्विश्वपूजितः ।। 3.35.१२० ।।
ॐ नमः शिवायेति च मस्तकं मे सदाऽवतु ।।
ॐ नमः शिवायेति च स्वाहा भालं सदाऽवतु ।। १२१ ।।
ॐ ह्रीं श्रीं क्लीं शिवायेति स्वाहा नेत्रे सदाऽवतु ।।
ॐ ह्रीं श्रीं हूँ शिवायेति नमो मे पातु नासिकाम् ।। १२२ ।।
ॐ नमः शिवाय शान्ताय स्वाहा कण्ठं सदाऽवतु ।।
ॐ ह्रीं श्रीं हूँ संहारकर्त्रे स्वाहा कर्णौ सदाऽवतु ।। १२३ ।।
ॐ ह्रीं श्रीं पञ्चवक्त्राय स्वाहा दन्तं सदाऽवतु ।।
ॐ ह्रीं महेशाय स्वाहा चाधरं पातु मे सदा ।। १२४ ।।
ॐ ह्रीं श्रीं क्लीं त्रिनेत्राय स्वाहा केशान्सदाऽवतु ।।
ॐ ह्रीं ऐं महादेवाय स्वाहा वक्षः सदाऽवतु ।। १२५ ।।
ॐ ह्रीं श्रीं क्लीं मैं रुद्राय स्वाहा नाभिं सदाऽवतु ।।
ॐ ह्रीं मैं श्रीमीश्वराय स्वाहा पृष्ठं सदाऽवतु ।। ।। १२६ ।।
ॐ ह्रीं क्लीं मृत्युञ्जयाय स्वाहा भ्रुवौ बाहू सदाऽवतु ।।
ॐ ह्रीं श्रीं ह्रीमीशानाय स्वाहा पार्श्वं सदाऽवतु ।।१२७ ।।
ॐ ह्रीमीश्वराय स्वाहा चोदरं पातु मे सदा ।।
ॐ श्रीं ह्रीं मृत्युञ्जयाय स्वाहा बाहू सदाऽवतु ।। १२८ ।।
ॐ ह्रीं श्रीं क्लीमीश्वराय स्वाहा पातु करौ मम ।।
ॐ महेश्वराय रुद्राय नितम्बं पातु मे सदा ।। १२९ ।।
ॐ ह्रीं श्रीं भूतनाथाय स्वाहा पादौ सदाऽवतु ।।
ॐ सर्वेश्वराय सर्वाय स्वाहा पादौ सदाऽवतु ।। 3.35.१३० ।।
प्राच्यां मां पातु भूतेश आग्नेय्यां पातु शङ्करः ।।
दक्षिणे पातु मां रुद्रो नैर्ऋत्यां स्थाणुरेव च ।। १३१ ।।
पश्चिमे खण्डपरशुर्वायव्यां चन्द्रशेखरः ।।
उत्तरे गिरिशः पातु चैशान्यामीश्वरः स्वयम् ।। १३२ ।।
ऊर्ध्वे मृडः सदा पातु चाधो मृत्युञ्जयः स्वयम् ।।
जले स्थले चान्तरिक्षे स्वप्ने जागरणे सदा ।। १३३ ।।
पिनाकी पातु मां प्रीत्या भक्तं सवै भक्तवत्सलः ।।
इति ते कथितं वत्स कवचं परमाद्भुतम् ।। १३४ ।।
दशलक्षजपेनैव सिद्धिर्भवति निश्चितम् ।।
यदि स्यात्सिद्धकवचो रुद्रतुल्यो भवेद्ध्रुवम् ।। १३५ ।।
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ।।
कवचं कण्वशाखोक्तमतिगोप्यं सुदुर्लभम् ।। १३६ ।।
अश्वमेधसहस्राणि राजसूयशतानि च ।।
सर्वाणि कवचस्यास्य कलां नार्हन्ति षोडशीम् ।। १३७ ।।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।।
सर्वज्ञः सर्वसिद्धीशो मनोयायी भवेद्ध्रुवम् ।। १३८ ।।
इदं कवचमज्ञात्वा भजेद्यः शङ्करं प्रभुम् ।।
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।। १३९ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे शङ्करकवचप्रकथनं नाम पञ्चत्रिंशोऽध्यायः ।।३५।।