ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ३४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३३ ब्रह्मवैवर्तपुराणम्
अध्यायः ३४
वेदव्यासः
अध्यायः ३५ →

नारायण उवाच ।।
स प्रातराह्निकं कृत्वा समालोच्य च तैः सह ।।
दूतं प्रस्थापयामास कार्त्तवीर्य्याश्रमं भृगुः ।।१।।
स दूतःशीघ्रमागत्य वसन्तं राजसंसदि ।।
वेष्टितं सचिवैः सार्द्धमुवाच नृपतीश्वरम् ।। २ ।।
रामदूत उवाच ।।
नर्म्मदातीरसान्निध्ये न्यग्रोधाक्षयमूलके ।।
स भृगुर्भ्रातृभिः सार्द्धं तत्र त्वं गन्तुमर्हसि ।। ३ ।।
युद्धं कुरु महाराज जातिभिर्ज्ञातिभिः सह ।।
त्रिस्सप्तकृत्वो निर्भूपां करिष्यति महीमिति ।। ४ ।।
इत्युक्त्वा रामदूतश्चाप्यगच्छद्रामसन्निधिम् ।।
राजा विधाय सन्नाहं समरं गन्तुमुद्यतः ।। ५ ।।
गच्छन्तं समरं दृष्ट्वा प्राणेशं सा मनोरमा ।।
तमेव वारयामास वासयामास सन्निधौ ।। ६ ।।
राजा मनोरमां दृष्ट्वा प्रसन्नवदनेक्षणः ।।
तामुवाच सभामध्ये वाक्यं मानसिकं मुने ।। ७ ।।
कार्त्तवीर्य्यार्जुन उवाच।।
मामेवाह्वयते कान्ते जमदग्निसुतो महान् ।।
स तिष्ठन्नर्म्मदातीरे रणाय भ्रातृभिः सह ।। ८ ।।
सम्प्राप्य शङ्कराच्छस्त्रं मन्त्रं च कवचं हरेः ।'
त्रिस्सप्तकृत्वो निर्भूपां कर्तुमिच्छति मेदिनीम् ।। ९ ।।
आन्दोलयन्ति मे प्राणा मनः संक्षुभितं मुहुः ।।
शश्वत्स्फुरति वामाङ्गं दृष्टं स्वप्नं शृणु प्रिये ।। 3.34.१० ।।
तैलाभ्यङ्गितमात्मानमपश्यं गर्दभोपरि ।।
औढपुष्पस्य माल्यं च बिभ्रतं रक्तचन्दनम् ।। ११ ।।
रक्तवस्त्रपरीधानं लोहालङ्कारभूषितम् ।।
क्रीडन्तं च हसन्तं च निर्वाणाङ्गारराशिना ।। १२ ।।
भस्माच्छन्नां च पृथिवीं जपापुष्पान्वितां सति ।।
रहितं चन्द्रसूर्य्याभ्यां रस्तसन्ध्यान्वितं नभः ।। १३ ।।
मुक्तकेशां च नृत्यन्तीं विधवां छिन्ननासिकाम् ।।
रक्तवस्त्रपरीधानामपश्यं चाट्टहासिनीम् ।। १४ ।।
सशरामग्निरहितां चितां भस्मसमन्विताम् ।।
भस्मवृष्टिमसृग्वृष्टिमग्निवृष्टिमपीश्वरि ।। १९ ।।
पक्व तालफलाकीर्णां पृथिवीमस्थिसंयुताम्।।
अपश्यं कर्परौघं च छिन्नकेशनखान्वितम् ।।१६।।
पर्वतं लवणानां च राशीभूतं कपर्दकम्।।
चूर्णानां चैव तैलानामदृशं कन्दरं निशि ।।१७।।
अदृशं पुष्पितं वृक्षमशोककरवीरयोः ।।
तालवृक्षं च फलितं तत्र चैव पतत्फलम् ।। १८ ।।।
स्वकरात्पूर्णकलशः पपात च बभञ्ज च ।।
इत्यपश्यं च गगनात्सम्पतच्चन्द्रमण्डलम् ।।१९।।
अपश्यमम्बरात्सूर्य्यमण्डलं समम्पतद्भुवि ।।
उल्कापातं धूमकेतुं ग्रहणं चन्द्रसूर्य्ययोः ।। 3.34.२० ।।
विकृताकारपुरुषं विकटास्यं दिगम्बरम् ।।
आगच्छन्तं चाग्रतस्तमपश्यं च भयानकम् ।। २१ ।।
बाला द्वादशावर्षीया वस्त्रभूषणभूषिता ।।
संरुष्टा याति मद्गेहादित्यपश्यमहं निशि ।। २२ ।।
आज्ञां त्वं देहि राजेन्द्र त्वद्गेहाद्यामि काननम् ।।
वदसि त्वं मामिति च निश्यपश्यमहं शुचा ।। २३ ।।
रुष्टो विप्रो मां शपते संन्यासी च तथा गुरुः ।।
भित्तौ पुत्तलिकाश्चित्रा नृत्यन्तीश्च ददर्श ह ।। २४ ।।
चञ्चलानां च गृध्राणां काकानां निकरैः सदा ।।
पीडितं महिषाणां च स्वमपश्यमहं निशि ।। २५ ।।
पीडितं तैलयन्त्रेण भ्रामितं तैलकारिणा ।।
दिगम्बरान्पाशहस्तानपश्यमहमीश्वरि ।। २६ ।।
नृत्यन्ति गायकाः सर्वे गानं गायन्ति मे गृहे ।।
विवाहं परमानन्दमित्यपश्यमहं निशि ।। २७ ।।
रमणं कुर्वतो लोकान्केशाकेशि च कुर्वतः ।।
अदृशं समरं रात्रौ काकानां च शुनामपि ।। २८ ।।
मोटकानि च पिण्डानि श्मशानं शवसंयुतम् ।।
रक्तवस्त्रं शुक्लवस्त्रमपश्यं निशि कामिनि ।। २९ ।।
कृष्णाम्बरा कृष्णवर्णा नग्ना वै मुक्तकेशिनी।।
विधवाऽऽश्लिष्यति च मामपश्यं निशि शोभने ।। ।। 3.34.३० ।।
नापितो मुण्डते मुण्डं श्मश्रुश्रेणीं च मे प्रिये ।।
वक्षःस्थलं च नखरमित्यपश्यमहं निशि ।। ३१ ।।
पादुका चर्मरज्जूनामपश्यं राशिमुल्बणम् ।।
चक्रं भ्रमन्तं भूमौ च कुलालस्येति सुन्दरि ।। ३२ ।।
वात्यया घूर्णमानं च शुष्कवृक्षं तमुत्थितम् ।।
पूर्णमानं कबन्धं वै चापश्यं निशि सुव्रते ।। ३३ ।।
ग्रथितां मुण्डमालां च चूर्णमानां च वात्यया ।।
अतीव घोरदशनामप्यपश्यमहं वरे ।। ३४ ।।
भूतप्रेता मुक्तकेशा वमन्तश्व हुताशनम् ।।
मां भीषयन्ति सततमित्यपश्यमहं निशि ।। ३५ ।।
दग्धजीवं दग्धवृक्षं व्याधिग्रस्तं नरं परम् ।।
अङ्गहीनं च वृषलमप्यपश्यमहं निशि ।। ३६ ।।
गेहपर्वतवृक्षाणां सहसा पतनं परम् ।।
मुहुर्मुहुर्वज्रपातमप्यपश्यमहं निशि ।। ३७ ।।
कुक्कुराणां शृगालानां रोदनं च मुहुर्मुहुः ।।
गृहे गृहे च नियतमपश्यं सर्वतो निशि ।। ३८ ।।
अधश्शिरस्तूर्द्ध्वपादं मुक्तकेशं दिगम्बरम् ।।
भूमौ भ्रमन्तं गच्छन्तं चाप्यपश्यमहं नरम् ।। ३९ ।।
विकृताकारशब्दं च ग्रामादौ देव रोदनम् ।।
प्रातः श्रुत्वैवावबुद्धः क उपायो वदाधुना ।। 3.34.४० ।।
नृपतेर्वचनं श्रुत्वा हृदयेन विदूयता ।।
सगद्गदं च रुदती तमुवाच नृपेश्वरम् ।। ४१ ।।
मनोरमोवाच ।।
हे नाथ रमणश्रेष्ठ श्रेष्ठ सर्वमहीभृताम् ।।
प्राणातिरेक प्राणेश शृणु वाक्यं शुभावहम् ।।४२।।
नारायणांशो भगवाञ्जामदग्न्यो महाबली ।।
सृष्टिसंहर्तुरीशस्य शिष्योऽयं जगतः प्रभोः ।। ४३ ।।
त्रिःसप्तकृत्वो निर्भूपां करिष्यामि महीमिति ।।
प्रतिज्ञा यस्य रामस्य तेन सार्द्धं रणं त्यज ।। ४४ ।।
पापिनं रावणं जित्वा शूरं त्वमपि मन्यसे ।।
स त्वया न जितो नाथ स्वपापेन पराजितः ।। ४५ ।।
यो न रक्षति धर्म्मं च तस्य को रक्षिता भुवि ।।
स नश्यति स्वयं मूढो जीवन्नपि मृतो हि सः ।। ४६ ।।
शुभाशुभस्य सततं साक्षी धर्म्मस्य कर्मणः ।।
आत्मारामः स्थितः स्वान्तो मूढस्त्वं नहि पश्यसि ।।४७।।
पुत्रदारादिकं यद्यत्सर्वैश्वर्य्यं सुधर्मिणाम् ।।
जलबुद्बुदवत्सर्वमनित्यं नश्वरं नृप ।।४८।।
संसारं स्वप्नसदृशं मत्वा सन्तोऽत्र भारते।।
ध्यायन्ति सततं धर्म्मं तपः कुर्वन्ति भक्तितः ।। ४९ ।।
दत्तेन दत्तं यज्ज्ञानं तत्सर्वं विस्मृतं त्वया ।।
अस्ति चेद्विप्रहिंसायां कुबुद्धे त्वन्मनः कथम् ।। 3.34.५० ।।
सुखार्थे मृगयां गत्वा तत्रोपोष्य द्विजाश्रमे ।।
भुक्त्वा मिष्टमपूर्वं च हतो विप्रो निरर्थकम् ।। ५१ ।।
गुरु विप्रसुराणां च यः करोति पराभवम् ।।
अभीष्टदेवस्तं रुष्टो विपत्तिस्तस्य सन्निधौ ।। ५२ ।।
स्मरणं कुरु राजेन्द्र दत्तात्रेयपदाम्बुजम् ।।
गुरौ भक्तिश्च सर्वेषां सर्वविघ्नविनाशिनी ।। ५३ ।।
गुरुदेवं समभ्यर्च्य तं भृगुं शरणं व्रज ।।
विप्रे देवे प्रसन्ने च क्षत्त्रियाणां नहि क्षतिः ।। ५४ ।।
विप्रस्य किंकरो भूपो वैश्यो भूपस्य भूमिप ।।
सर्वेषां किङ्कराः शूद्रा ब्राह्मणस्य विशेषतः ।। ५९ ।।
अयशः शरणं शश्वत्क्षत्रियस्य च क्षत्रिये ।।
महद्यशस्तच्छरणं गुरुदेवद्विजेषु च ।। ९६ ।।
ब्राह्मणं भज राजेन्द्र गरीयांसं सुरादपि ।।
ब्राह्मणे परितुष्टे च सन्तुष्टाः सर्वदेवताः।।५७।।
इत्येवमुक्त्वा राजेन्द्रं क्रोडे कृत्वा महासती।।
मुहुर्मुहुर्मुखं दृष्ट्वा विललाप रुरोद च ।।५८।।
क्षणं तिष्ठ महाराज पुनरेवमुवाच सा ।।
स्नानं कुरु महाराज भोजयिष्यामि वाञ्छितम् ।। ५९ ।।
चन्दनागुरुकस्तूरीकर्पूरैः कुंकुमैर्युतम् ।।
अनुलेपं करिष्यामि सर्वांगे तव सुन्दर ।।3.34.६०।।
क्षणं सिंहासने तिष्ठ क्षणं वक्षसि मे प्रभो।।
सभायां पुष्परचिते तल्पे पश्यामि शोभनम् ।। ६१ ।।
शतपुत्राधिकः प्रेम्णा सतीनां वै पतिर्नृप ।।
निरूपितो भगवता वेदेषु हरिणा स्वयम् ।। ६२ ।।
मनोरस्तवचः श्रुत्वा राजा परमपण्डितः ।।
बोधयामास तां राज्ञीं ददौ प्रत्युत्तरं पुनः ।। ६३ ।।
कार्त्तवीर्य्यार्जुन उवाच ।।
शृणु कान्ते प्रवक्ष्यामि श्रुतं सर्वं त्वयेरितम् ।।
शोकार्तानां च वचनं न प्रशंस्यं सभासु च ।। ६४ ।।
सुखं दुःखं भयं शोकः कलहः प्रीतिरेव च ।।
कर्म भोगार्हकालेन सर्वं भवति सुन्दरि ।। ६५ ।।
कालो ददाति राजत्वं कालो मृत्युं पुनर्भवम् ।।
कालः सृजति संसारं कालः संहरते पुनः ।। ६६ ।।
करोति पालनं कालः कालरूपी जनार्दनः ।।
कालस्य कालः श्रीकृष्णो विधातुर्विधिरेव च ।। ६७ ।।
संहर्त्तुर्वाऽपि संहर्त्ता पातुः पाता च कर्मकृत् ।।
स कर्मणां कर्मरूपी ददाति तपसां फलम् ।।
कः केन हन्यते जन्तुः कर्मणा वै विना सति।। ' ।। ६८ ।।
स्रष्टा सृजति सृष्टिं च संहर्त्ता संहरेत्पुनः ।।
पाता पाति च भूतानि यस्याज्ञां परिपालयेत् ।। ६९ ।।
यस्याज्ञया वाति वातः सन्ततं भयविह्वलः ।।
शश्वत्सञ्चरते मृत्युः सूर्य्यस्तपति सन्ततम् ।। 3.34.७० ।।
वर्षतीन्द्रो दहत्यग्निः कालो भ्रमति भीतवत् ।।
तिष्ठन्ति स्थावराः सर्वे चरन्ति सततं चराः ।। ७१ ।।
वृक्षाश्च पुष्पिताः काले फलितः पल्लवान्विताः ।।
शुष्यन्ति कालतः काले वर्द्धन्ते च तदाज्ञया ।।७२।।
आविर्भूता तिरोभूता सृष्टिरेव तदाज्ञया ।।
तस्याज्ञया भवेत्सर्वं न किञ्चित्स्वेच्छया नृणाम् ।। ।। ७३ ।।
नारायणांशो भगवाञ्जामदग्न्यो महाबलः ।।
त्रिस्सप्तकृत्वो निर्भूपां करिष्यति महीमिति।। ७४ ।।
प्रतिज्ञा विफला तस्य न भवेत्तु कदाचन ।।
निश्चितं तस्य वध्योऽहमिति जानामि सुव्रते ।। ७५ ।।
ज्ञात्वा सर्वं भविष्यं च शरणं यामि तत्कथम् ।।
प्रतिष्ठितानां चाकीर्त्तिर्मरणादतिरिच्यते ।। ७६ ।।
इत्येवमुक्त्वा राजेन्द्रः समरं गन्तुमुद्यतः ।।
वाद्यं च वादयामास कारयामास मंगलम् ।। ७७ ।।
शतकोटिर्नृपाणां च गजेन्द्राणां त्रिलक्षकम् ।।
अक्षौहिणीनां शतकं महाबलपराक्रमम् ।। ७८ ।।
अश्वानां च गजानां च पदातीनां तथैव च ।।
असंख्यकं रथानां च गृहीत्वा गन्तुमुद्यतः ।। ७९ ।।
बभूव स्तिमिता साध्वी दृष्ट्वा तं गमनोन्मुखम् ।
धृतवन्तं च सन्नाहमक्षयं सशरं धनुः ।। 3.34.८० ।।
क्रीडागारे क्षणं तस्थौ कृत्वा कान्तं स्ववक्षसि ।।
पश्यन्ती तन्मुखाम्भोजं चुचुम्ब च मुहुर्मुहुः ।। ८१ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे कार्तवीर्यार्जुन संनाहो नाम चतुस्त्रिंशत्तमोऽध्यायः ।। ३४ ।।