ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ०७

विकिस्रोतः तः
← अध्यायः ०६ ब्रह्मवैवर्तपुराणम्
अध्यायः ०७
वेदव्यासः
अध्यायः ०८ →

नारायण उवाच ।।
हरेराज्ञां समादाय हरः संहृष्टमानसः ।।
उवाच पार्वतीं प्रीत्या हरिसंलापमङ्गलम् ।। १ ।।
शिवाज्ञां च समादाय शिवा संहृष्टमानसा ।।
वाद्यं च वादयामास मंगलं मगलव्रते ।। २ ।।
सुस्नाता सुदती शुद्धा बिभ्रती धौतवाससी ।।
संस्थाप्य रत्नकलशं शुक्लधान्योपरि स्थिरम् ।। ३ ।।
आम्रपल्लवसंयुक्तं फलाक्षतसुशोभितम् ।।
चन्दनागुरुकस्तूरीकुंकुमेन विराजितम् ।। ४ ।।
रत्नासनस्था रत्नाढ्या रत्नोद्भवसुता सती ।।
रत्नसिंहासनस्थांश्च संपूज्य मुनिपुंगवान् ।। ५ ।।
रत्नसिंहासनस्थं च संपूज्य सुपुरोहितम् ।।
चन्दनागुरुकस्तूरीरत्नभूषणभूषितम् ।। ६ ।।
संस्थाप्य पुरतो भक्त्या दिक्पालान्रत्नभूषितान् ।।
देवान्नरांश्च नागांश्च समर्च्य विधिबोधितम् ।। ७ ।।
समर्च्य परया भक्त्या ब्रह्मविष्णुमहेश्वरान् ।।
चन्दनागुरुकस्तूरीकुंकुमेन विराजितान् ।। ८ ।।
वह्निशुद्धैस्सुवस्त्रैश्च सद्रत्नैर्भूषणैस्तथा ।।
पूजाद्रव्यैश्च विविधैः पूजितान्पुण्यके मुने ।।
समारेभे व्रतं देवी स्वस्तिवाचनपूर्वकम् ।। ९ ।।
आवाह्याभीष्टदेवं तं श्रीकृष्णं मंगले घटे ।।
भक्त्या ददौ क्रमेणैव चोपचारांस्तु षोडश ।। १० ।।
यानि व्रते विधेयानि देयानि विविधानि च ।।
प्रददौ तानि सर्वाणि प्रत्येकं फलदानि च ।। ११ ।।
व्रतोक्तमुपहारं च दुर्लभं भुवनत्रये ।।
तच्च सर्वं ददौ भक्त्या सुव्रते सुव्रता सती ।। १२ ।।
दत्त्वा द्रव्याणि सर्वाणि वेदमन्त्रेण सा सती ।।
होमं च कारयामास त्रिलक्षं तिलसर्पिषा ।।
ब्राह्मणान्भोजयामास पूजयित्वाऽतिथींस्तथा ।। १३ ।।
भोजयामास सा देवी सुव्रते सुव्रता सती ।।
प्रत्यहं सविधानं च चक्रे सा पूर्णवत्सरम् ।। १४ ।।
समाप्तिदिवसे विप्रस्तमुवाच पुरोहितः ।।
सुव्रते सुव्रते मह्यं देहि त्वं पतिदक्षिणाम् ।। १५ ।।
इति तद्वचनं श्रुत्वा विलप्य सुरसंसदि ।।
मूर्च्छां प्राप महामाया मायामोहितचेतसा ।।१६।।
तां च ते मूर्च्छितां दृष्ट्वा प्रहस्य मुनिपुंगवाः ।।
शङ्करं प्रेषयामास ब्रह्मा विष्णुश्च नारद ।। १७ ।।
संप्रार्थितः सभासद्भिः शिवां बोधयितुं तदा ।।
शिवः समुद्यमं चक्रे प्रवक्तुं वदतां वरः ।।१८।।
श्रीमहादेव उवाच ।।
उत्तिष्ठ भद्रे भद्रं ते भविष्यति न संशयः ।।
साम्प्रतं चेतनं कृत्वा मदीयं वचनं शृणु ।। १९ ।।
शिवः शिवां तामित्युक्त्वा शुष्ककण्ठौष्ठतालुकाम् ।।
वक्षसि स्थापयामास कारयामास चेतनाम् ।। २० ।।
हितं सत्यं मितं सर्वं परिणामसुखावहम् ।।
यशस्करं च फलदं प्रवक्तुमुपचक्रमे ।। ।। २१ ।।
शृणु देवि प्रवक्ष्यामि यद्वेदेन निरूपितम् ।।
सर्वसम्मतमिष्टं च धर्मार्थं धर्म्मसंसदि ।। २२ ।।
सर्वेषां कर्म्मणां देवि सारभूता च दक्षिणा ।।
यशोदा फलदा नित्यं धर्मिष्ठे धर्मकर्मणि ।। २३ ।।
दैवं वा पैतृकं वाऽपि नित्यं नैमित्तिकं प्रिये ।।
यत्कर्म्म दक्षिणाहीनं तत्सर्वं निष्फलं भवेत् ।।
दाता च कर्म्मणा तेन कालसूत्रं व्रजेद्ध्रुवम् ।। २४ ।।
अथान्ते दैन्यमाप्नोति शत्रुणा परिपीडितः ।।
दक्षिणा विप्रमुद्दिश्य तत्कालं तु न दीयते ।। २९ ।।
तन्मुहूर्ते व्यतीते तु दक्षिणा द्विगुणा भवेत् ।।
चतुर्गुणा दिनातीते पक्षे शतगुणा भवेत् ।। २६ ।।
मासे पञ्चशतघ्ना स्यात्षण्मासे तच्चतुर्गुणा ।।
संवत्सरे व्यतीते तु कर्म्म तन्निष्फलं भवेत् ।। २७ ।।
दाता च नरकं याति यावद्वर्षसहस्रकम् ।।
पुत्रपौत्रधनैश्वर्य्यं क्षयमाप्नोति पातकात् ।।
धर्मो नष्टो भवेत्तस्य धर्म्महीने च कर्म्मणि ।। २८ ।।
श्रीविष्णुरुवाच ।।
रक्ष स्वधर्मं धर्मिष्ठे धर्मज्ञे धर्मकर्मणि ।।
सर्वेषां च भवेद्रक्षा स्वधर्मपरिपालने ।। २९ ।।
ब्रह्मोवाच ।।
यश्च केन निमित्तेन न धर्मं परिरक्षति ।।
धर्मे नष्टे च धर्मज्ञे तस्य कर्ता विनश्यति ।। ३० ।।
धर्म उवाच ।।
मां रक्ष यत्नतः साध्वि प्रदाय पतिदक्षिणाम् ।।
मयि स्थिते महासाध्वि सर्वं भद्रं भविष्यति ।। ३१ ।।
देवा ऊचुः ।।
धर्मं रक्ष महासाध्वि कुरु पूर्णं व्रतं सति ।।
वयं तव व्रते पूर्णे कुर्मस्त्वां पूर्णमानसाम् ।।३२।।
मुनय ऊचुः ।।
कृत्वा साध्वि पूर्णहोमं देहि विप्राय दक्षिणाम् ।।
स्थितेष्वस्मासु धर्मज्ञे किमभद्रं भविष्यति ।।३३।।
सनत्कुमार उवाच ।।
शिवे शिवं देहि मह्यं न चेद्व्रतफलं त्यज ।।
सुचिरं संचितस्यापि स्वात्मनस्तपसः फलम् ।। ३४ ।।
कर्मण्यदक्षिणे साध्वि यागस्याहं तु तत्फलम् ।।
प्राप्स्यामि यजमानस्य संपूर्णं कर्मणः फलम् ।। ३५ ।।
पार्वत्युवाच ।।
किं कर्म्मणा मे देवेशाः किं मे दक्षिणया मुने ।।
किं पुत्रेण च धर्मेण यत्र भर्त्ता च दक्षिणा ।। ३६ ।।
वृक्षार्चने फलं किं वै यदि भूमिर्न चार्च्यते ।।
गते च कारणे कार्य्यं कुतः सस्यं कुतः फलम् ।। ३७ ।।
प्राणास्त्यक्ताः स्वेच्छया चेद्देहैस्स्यात्किं प्रयोजनम् ।।
दृष्टिशक्तिविहीनेन चक्षुषा किं प्रयोजनम् ।।३८।।
शतपुत्रसमः स्वामी साध्वीनां च सुरेश्वराः ।।
यदि भर्त्ता व्रते देयः किं व्रतेन सुतेन वा ।। ३९ ।।
भर्तुर्वंशश्च तनयः केवलं भर्तृमूलकः ।।
यत्र मूलं भवेद्भ्रष्टं तद्वाणिज्यं च निष्फलम् ।। ४० ।।
श्रीविष्णुरुवाच ।।
पुत्रादपि परः स्वामी धर्मश्च स्वामिनः परः ।।
नष्टे धर्मे च धर्मिष्ठे स्वामिना किं सुतेन वा ।। ४१ ।।
ब्रह्मोवाच ।।
स्वामिनश्च परो धर्मो धर्मात्सत्यं च सुव्रते।।
सत्यं संकल्पितं कर्म न तु भ्रष्टं कुरु व्रतम्।।४२।।
पार्वत्युवाच।।
निरूपितश्च वेदेषु स्वशब्दो धनवाचकः।।
तद्यस्यास्तीति स स्वामी वेदज्ञ शृणु मद्वचः।।४३।।
तस्य दाता सदा स्वामी न च स्वस्वामितां लभेत्।।
अहोऽव्यवस्था भवतां वेदज्ञानामबोधतः ।।४४।।
धर्म्म उवाच ।।
पत्नी विनाऽन्यं स्वं साध्वि स्वामिनं दातुमक्षमा ।।
दम्पती ध्रुवमेकाङ्गौ द्वयोर्दाने द्वकौ समौ ।। ४५ ।।
पार्वत्युवाच ।।
पिता ददाति जामात्रे स च गृह्णाति तत्सुताम् ।।
न श्रुतं विपरीतं च श्रुतौ श्रुतिपरायणाः ।। ४६ ।।
देवा ऊचुः ।।
बुद्धिस्वरूपा त्वं दुर्गे बुद्धिमन्तो वयं त्वया ।।
वेदज्ञे वेदवादेषु के वा त्वां जेतुमीश्वराः ।।४७।।
निरूपिता पुण्यके तु व्रते स्वामी च दक्षिणा ।।
श्रुतौ श्रुतो यः स धर्मो विपरीतो ह्यधर्मकः ।।४८।।
पार्वत्युवाच ।।
केवलं वेदमाश्रित्य कः करोति विनिर्णयम् ।।
बलवाँल्लौकिको वेदाल्लोकाचारं च कस्त्यजेत् ।। ४९ ।।
वेदे प्रकृतिपुंसोश्च गरीयान्पुरुषो ध्रुवम् ।।
निबोधत सुराः प्राज्ञा बालाहं कथयामि किम् ।। ५० ।।
बृहस्पतिरुवाच ।।
न पुमांसं विना सृष्टिर्न साध्वि प्रकृतिं विना ।।
श्रीकृष्णश्च द्वयोः स्रष्टा समौ प्रकृतिपूरुषौ ।। ५१ ।।
पार्वत्युवाच ।।
सर्वस्रष्टा च यः कृष्णः सोंऽशेन सगुणः पुमान् ।।
पुमान्गरीयान्प्रकृतेस्तथैव न ततश्च सा ।। ५२ ।।
एतस्मिन्नन्तरे देवा मुनयस्तत्र संसदि ।।
रत्नेन्द्रसाररचितमाकाशे ददृशू रथम् ।। ५३ ।।
पार्षदैस्संपरिवृतं युतं श्यामैश्चतुर्भुजैः ।।
वनमालापरिवृतै रत्नभूषणभूषितैः ।।
अवरुह्य मुदा यानादाजगाम सभातलम् ।। ५४ ।।
तुष्टुवुस्तं सुरेन्द्रास्ते देवं वैकुण्ठवासिनम् ।।
शंखचक्रगदापद्मधरमीशं चतुर्भुजम् ।। ९५ ।।
लक्ष्मीसरस्वतीकान्तं शान्तं तं सुमनोहरम् ।।
सुखदृश्यमभक्तानामदृश्यं कोटिजन्मभिः ।। ५६ ।।
कोटिकन्दर्पलावण्यं कोटिचन्द्रसमप्रभम् ।।
अमूल्यरत्नरचितचारुभूषणभूषितम् ।। ।। ५७ ।।
सेव्यं ब्रह्मादिदेवैश्च सेवकैः सततं स्तुतम् ।।
तद्भासा संपरिच्छन्नैर्वेष्टितं च सुरर्षिभिः ।। ९८ ।।
वासयामास तं ते च रत्नसिंहासने वरे ।।
तं प्रणेमुश्च शिरसा ब्रह्मशक्तिशिवादयः ।। ९९ ।।
सम्पुटाञ्जलयः सर्वे पुलकाङ्गाश्रुलोचनाः ।। ६० ।।
सस्मितस्तांश्च पप्रच्छ सर्वं मधुरया गिरा ।।
प्रबोधितः सुबोधज्ञः प्रवक्तुमुपचक्रमे ।। ६१ ।।
श्रीनारायण उवाच ।।
सह बुद्ध्या बुद्धिमन्तो न वक्तुमुचितं सुराः।।
सर्वे शक्त्या यया विश्वे शक्तिमन्तो हि जीविनः।।६२।।
ब्रह्मादितृणपर्य्यन्तं सर्वं प्राकृतिकं जगत्।।
सत्यं सत्यं विना मां च मया शक्तिः प्रकाशिता ।। ६३ ।।
आविर्भूता च सा मत्तः सृष्टौ देवी मदिच्छया ।।
तिरोहिता च सा शेषे सृष्टिसंहरणे मयि ।। ६४ ।।
प्रकृतिः सृष्टिकर्त्री च सर्वेषां जननी परा ।।
मम तुल्या च मन्माया तेन नारायणी स्मृता ।। ।। ६५ ।।
सुचिरं तपसा तप्तं शंभुना ध्यायता च माम् ।।
तेन तस्मै मया दत्ता तपसां फलरूपिणी ।। ६६ ।।
व्रतं च लोकशिक्षार्थमस्या न स्वार्थमेव च ।।
स्वयं व्रतानां तपसां फलदात्री जगत्त्रये ।। ६७ ।।
मायया मोहिताः सर्वे किमस्या वास्तवं व्रतम् ।।
साध्यमस्य व्रतफलं कल्पे कल्पे पुनः पुनः ।। ६८ ।।
सुरेश्वरा मदंशाश्च ब्रह्मशक्तिमहेश्वराः ।।
कलाः कलांशरूपाश्च जीविनश्च सुरादयः ।। ६९ ।।
मृदा विना घटं कर्त्तुं कुलालश्च यथाऽक्षमः ।।
विना स्वर्णं स्वर्णकारः कुण्डलं कर्त्तुमक्षमः ।। ७० ।।
विना शक्त्या तथाऽहं च स्वसृष्टिं कर्तुमक्षमः ।।
शक्तिप्रधाना सृष्टिश्च सर्वदर्शनसम्मता ।। ७१ ।।
अहमात्मा हि निर्लिप्तोऽदृश्यः साक्षी च देहिनाम् ।।
देहाः प्राकृतिकाः सर्वे नश्वराः पाञ्चभौतिकाः ।। ७२ ।।
अहं नित्यः शरीरी च भानुविग्रहविग्रहः ।।
सर्वाधारा सा प्रकृतिः सर्वात्माऽहं जगत्सु च ।।७३।।
अहमात्मा मनो ब्रह्मा ज्ञानरूपो महेश्वरः ।।
पञ्च प्राणाः स्वयं विष्णुर्बुद्धिः प्रकृतिरीश्वरी ।। ।। ७४ ।।
मेधा निद्रादयश्चैताः सर्वाश्च प्रकृतेः कलाः ।।
सा च शैलेन्द्रकन्यैषा त्विति वेदे निरूपितम् ।। ७९ ।।
अहं गोलोकनाथश्च वैकुण्ठेशः सनातनः ।।
गोपीगोपैः परिवृतस्तत्रैव द्विभुजः स्वयम् ।।
चतुर्भुजोऽत्र देवेशो लक्ष्मीशः पार्षदैर्वृतः ।। ७६ ।।
ऊर्ध्व परश्च वैकुण्ठात्पञ्चाशत्कोटियोजने ।।
ममाश्रयश्च गोलोके यत्राहं गोपिकापतिः ।। ७७ ।।
व्रताराध्यस्स द्विभुजः स च तत्फलदायकः।।
यद्रूपं चिन्तयेद्यो हि तच्च तत्फलदायकः।।७८।।
व्रतं पूर्णं कुरु शिवे शिवं दत्त्वा च दक्षिणाम्।।
पुनः समुचितं मूल्यं दत्त्वा नाथं ग्रहीष्यसि।।७९।।
विष्णुदेहा यथा गावो विष्णुदेहस्तथा शिवः ।।
द्विजाय दत्त्वा गोमूल्यं गृहाण स्वामिनं शुभे।।८०।।
यज्ञपत्नीं यथा दातुं क्षमः स्वामी सदैव तु ।।
तथा सा स्वामिनं दातुमीश्वरीति श्रुतेर्मतम्।।८१।।
इत्युक्त्वा स सभामध्ये तत्रैवान्तरधीयत ।।
हृष्टास्ते सा च संहृष्टा दक्षिणां दातुमुद्यता ।। ८२ ।।
कृत्वा शिवा पूर्णहोमं सा शिवं दक्षिणां ददौ ।।
स्वस्तीत्युक्त्वा च जग्राह कुमारो देवसंसदि ।।८३।।
उवाच दुर्गा संत्रस्ता शुष्ककण्ठौष्ठतालुका ।।
कृत्वाञ्जलिपुटा विप्रं हृदयेन विदूयता ।।८४।।
पार्वत्युवाच ।।
गोमूल्यं मत्पतिसममिति वेदे निरूपितम्।।
गवां लक्षं प्रयच्छामि देहि मत्स्वामिनं द्विज।।८५।।
तदा दास्यामि विप्रेभ्यो दानानि विविधानि च।।
आत्महीनो हि देहश्च कर्म्म किं कर्तुमीश्वरः।।८६।।
सनत्कुमार उवाच ।।
गवां लक्षेण मे देवि वल्गुना किं प्रयोजनम् ।।
दत्तस्यामूल्य रत्नस्य गवां प्रत्यर्पणेन च।।८७।।
स्वस्य स्वस्य स्वयं दाता लोकः सर्वो जगत्त्रये।।
कर्त्तुरेवेप्सितं कर्म भवेत्किं वा परेच्छया ।। ८८ ।।
दिगम्बरं पुरः कृत्वा भ्रमिष्यामि जगत्त्रयम्।।
बालकानां बालिकानां समूहस्मितकारणम्।।८९।।
इत्युक्त्वा ब्रह्मणः पुत्रो गृहीत्वा शङ्करं मुने।।
सन्निधौ वासयामास तेजस्वी देवसंसदि।।९०।।
दृष्ट्वा शिवं गृह्यमाणं कुमारेण च पार्वती।।
समुद्यता तनुं त्यक्तुं शुष्ककण्ठौष्ठतालुका।। ।। ९१ ।।
विचिन्त्य मनसा साध्वीत्येवमेव दुरत्ययम् ।।
न दृष्टोऽभीष्टदेवश्च न च प्राप्तं फलं व्रते ।। ९२ ।।
एतस्मिन्नन्तरे देवाः पार्वतीसहितास्तदा ।।
सद्यो ददृशुराकाशे तेजसां निकरं परम् ।। ९३ ।।
कोटिसूर्य्यप्रभोर्ध्वं च प्रज्वलन्तं दिशो दश ।।
कैलासशैलपुरतः सर्वदेवादिभिर्युतम् ।। ९४ ।।
सर्वाश्रयं गणाच्छन्नं विस्तीर्णं मण्डलाकृतिम् ।।
तच्च दृष्ट्वा भगवतस्तुष्टुवुस्ते क्रमेण च ।। ।। ९५ ।।
विष्णुरुवाच ।।
ब्रह्माण्डानि च सर्वाणि यल्लोमविवरेषु च ।।
सोऽयं ते षोडशांशश्च के वयं यो महाविराट् ।। ९६ ।।
ब्रह्मोवाच ।।
वेदोपयुक्तं दृश्यं यत्प्रत्यक्षं द्रष्टुमीश्वर ।।
स्तोतुं तद्वर्णितुमहं शक्तः किं स्तौमि तत्परः ।।९७।।
श्रीमहादेव उवाच ।।
ज्ञानाधिष्ठातृदेवोऽहं स्तौमि ज्ञानपरं च किम् ।।
सर्वानिर्वचनीयं तं त्वां च स्वेच्छामयं विभुम् ।। ९८ ।।
धर्म उवाच ।।
अदृश्यमवतारेषु यद्दृश्यं सर्वजन्तुभिः ।।
किं स्तौमि तेजोरूपं तद्भक्तानुग्रहविग्रहम् ।। ९९ ।।
देवा उचुः ।।
के वयं त्वत्कलांशाश्च किं वा त्वां स्तोतुमीश्वराः ।।
स्तोतुं न शक्ता वेदा यं न च शक्ता सरस्वती ।। १०० ।।
मुनय उचुः ।।
वेदान्पठित्वा विद्वांसो वयं किं वेदकारणम् ।।
स्तोतुमीशा न वाणी च त्वां वाङ्मनसयोः परम् ।। १०१ ।।
सरस्वत्युवाच ।।
वागधिष्ठातृदेवीं मां वदन्ते वेदवादिनः ।।
किञ्चिन्न शक्ता त्वां स्तोतुमहो वाङ्मनसोः परम् ।। १०२ ।।
सावित्र्युवाच ।।
वेदप्रसूरहं नाथ सृष्ट्वा त्वत्कलया पुरा ।।
किं स्तौमि स्त्रीस्वभावेन सर्वकारणकारणम्।।१०३।।
लक्ष्मीरुवाच ।।
त्वदंशविष्णुकान्ताहं जगत्पोषणकारिणी।।
किं स्तौमि त्वत्कलासृष्टा जगतां बीजकारणम् ।। १०४ ।।
हिमालय उवाच ।।
हसन्ति सन्तो मां नाथ कर्मणा स्थावरं परम्।।
स्तोतुं समुद्यतं क्षुद्रः किं स्तौमि स्तोतुमक्षमः ।। १०५ ।।
क्रमेण सर्वे तं स्तुत्वा देवा विररमुर्मुने ।।
देव्यश्च मुनयः सर्वे पार्वती स्तोतुमुद्यता ।। १०६ ।।
धौतवस्त्रा जटाभारं बिभ्रती सुव्रता व्रते ।।
प्रेरिता परमात्मानं व्रताराध्यं शिवेन च ।।१०७।।
ज्वलदग्निशिखारूपा तेजोमूर्तिमती सती ।।
तपसां फलदा माता जगतां सर्वकर्मणाम् ।। १०८ ।।
पार्वत्युवाच ।।
कृष्ण जानासि मां भद्रं नाहं त्वां ज्ञातुमीश्वरी ।।
के वा जानन्ति वेदज्ञा वेदा वा वेदकारकाः ।।१०९।।
त्वदंशास्त्वां न जानन्ति कथं ज्ञास्यन्ति ते कलाः।।
त्वं चापि तत्त्वं जानासि किमन्ये ज्ञातुमीश्वराः ।। ११० ।।
सूक्ष्मात्सूक्ष्मतमोऽव्यक्तः स्थूलात्स्थूलतमो महान् ।।
विश्वस्त्वं विश्वरूपश्च विश्वबीजं सनातनः ।। १११ ।।
कार्य्यं त्वं कारणं त्वं च कारणानां च कारणम् ।।
तेजस्स्वरूपो भगवान्निराकारो निराश्रयः ।। ११२ ।।
निर्लिप्तो निर्गुणः साक्षी स्वात्मारामः परात्परः ।।
प्रकृतीशो विराड्बीजं विराड्रूपस्त्वमेव च ।।
सगुणस्त्वं प्राकृतिकः कलया सृष्टिहेतवे ।। ११३ ।।
प्रकृतिस्त्वं पुमांस्त्वं च वेदाऽन्यो न क्वचिद्भवेत् ।।
जीवस्त्वं साक्षिणो भोगी स्वात्मनः प्रतिबिम्बकम् ।। ११४ ।।
कर्म त्वं कर्मबीजं त्वं कर्मणां फलदायकः ।।
ध्यायन्ति योगिनस्तेजस्त्वदीयमशरीरि यत् ।।
केचिच्चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम् ।। ११५ ।।
वैष्णवाश्चैव साकारं कमनीयं मनोहरम् ।।
शङ्खचक्रगदापद्मधरं पीताम्बरं परम् ।।११६।।
द्विभुजं कमनीयं च किशोरं श्यामसुन्दरम् ।।
शान्तं गोपाङ्गनाकान्तं रत्नभूषणभूषितम् ।। ११७ ।।
एवं तेजस्विनं भक्ताः सेवन्ते सन्ततं मुदा ।।
ध्यायन्ति योगिनो यत्तत्कुतस्तेजस्विनं विना ।। १३. ।।
तत्तेजो बिभ्रतां देव देवानां तेजसा पुरा ।।
आविर्भूता सुराणां च वधाय ब्रह्मणा स्तुता ।। ११९ ।।
नित्या तेजस्त्वरूपाऽहं धृत्वा वै विग्रहं विभो ।।
स्त्रीरूपं कमनीयं च विधाय समुपस्थिता ।। १२० ।।
मायया तव मायाऽहं मोहयित्वाऽसुरान्पुरा ।।
निहत्य सर्वाञ्छैलेन्द्रमगमं तं हिमालयम् ।। १२१ ।।
ततोऽहं संस्तुता देवैस्तारकाक्षेण पीडितैः ।।
अभवं दक्षजायायां शिवस्त्री भवजन्मनि ।।१२२।।
त्यक्त्वा देहं दक्षयज्ञे शिवाऽहं शिवनिन्दया ।।
अभवं शैलजायायां शैलाधीशस्य कर्मणा ।। १२३ ।।
अनेकतपसा प्राप्तः शिवश्चात्रापि जन्मनि ।।
पाणिं जग्राह मे योगी प्रार्थितो ब्रह्मणा विभुः ।। १२४ ।।
शृङ्गारजं च तत्तेजो नालभं देवमायया ।।
स्तौमि त्वामेव तेनेश पुत्रदुःखेन दुःखिता ।। १२५ ।।
व्रते भवद्विधं पुत्रं लब्धुमिच्छामि साम्प्रतम् ।।
देवेन विहिता वेदे सांगे स्वस्वामिदक्षिणा ।। १२६ ।।
श्रुत्वा सर्वं कृपासिन्धो कृपां मे कर्तुमर्हसि ।।
इत्युक्त्वा पार्वती तत्र विरराम च नारद ।। १२७ ।।
भारते पार्वतीस्तोत्रं यः शृणोति सुसंयतः ।।
सत्पुत्रं लभते नूनं विष्णुतुल्यपराक्रमम् ।। १२८ ।।
संवत्सरं हविष्याशी हरिमभ्यर्च्य भक्तितः ।।
सुपुण्यकव्रतफलं लभते नात्र संशयः ।। १२९ ।।
विष्णुस्तोत्रमिदं ब्रह्मन्सर्वसम्पत्तिवद्धर्नम् ।।
सुखदं मोक्षदं सारं स्वामिसौभाग्यवर्द्धनम् ।।१३०।।
सर्वसौन्दर्य्यबीजं च यशोराशिविवर्द्धनम् ।।
हरिभक्तिप्रदं तत्त्वज्ञानबुद्धिसुखप्रदम् ।। १३१ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे पुण्यकव्रते पतिदाने पार्वतीकृतं श्रीकृष्णस्तोत्रकथनं नाम सप्तमोऽध्यायः ।। ७ ।।