ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ०६

विकिस्रोतः तः
← अध्यायः ०५ ब्रह्मवैवर्तपुराणम्
अध्यायः ०६
वेदव्यासः
अध्यायः ०७ →

शौनक उवाच ।।
नारायणवचः श्रुत्वा नारदो हृष्टमानसः ।।
किं पप्रच्छ पुनः साधो तन्मे ब्रूहि तपोधन ।। १ ।।
सूत उवाच ।।
नारायणवचः श्रुत्वा नारदो हृष्टमानसः ।।
व्रतारम्भविधानं च संप्रष्टुमुपचक्रमे ।। ।। २ ।।
नारद उवाच ।।
कृतं केन प्रकारेण व्रतमेतच्छुभावहम्।।
तन्मे ब्रूहि मुनिश्रेष्ठ पार्वत्या भर्तुराज्ञया ।।३।।
ललाभ जन्म भूतेशः कृते सुव्रतया व्रते ।।
ब्रह्मन्केन प्रकारेण तन्नः शंसितुमर्हसि ।। ४ ।।
नारायण उवाच।।
कथयित्वा कथां दिव्यां विधानं च व्रतस्य च ।।
स्वयं विधाता तपसां जगाम तपसे शिवः ।। ५ ।।
हरेराराधनव्यग्रो मूर्त्तिभेदधरो हरिः ।।
हरिभावनशीलश्च हरिध्यानपरायणः ।। ।। ६ ।।
परमानन्दपूर्णश्च ज्ञानानन्दः सनातनः ।।
दिवानिशं न जानाति हरिमन्त्रं बहिः स्मरन् ।। ७ ।।
प्रहृष्टमनसा देवी पार्वती भर्तुराज्ञया ।।
किङ्करान्प्रेरयामास विप्रांश्च व्रतहेतवे ।। ८ ।।
आनीय सर्वद्रव्याणि व्रते योग्यानि यानि च।।
व्रतं कर्तुं समारेभे शुभदा सा शुभे क्षणे ।। ९ ।।
सनत्कुमारो भगवानाजगाम विधेः सुतः ।।
मूर्त्तिमांस्तेजसा राशिः प्रज्वलन्ब्रह्मतेजसा ।।१०।।
ब्रह्माऽऽजगाम हृष्टश्च ब्रह्मलोकात्सभार्य्यकः ।।
अतित्रस्तो हि भगवानाजगाम महेश्वरः ।। ११ ।।
विष्णुः क्षीरोदशायी च सलक्ष्मीकश्चतुर्भुजः ।।
भगवाञ्जगतां पाता शास्ता भर्त्ता सपार्षदः ।। १२ ।।
वनमालाधर श्यामो भूषितो रत्नभूषणैः ।।
तथा सम्भृतसम्भारो रत्नयानेन नारद ।। १३ ।।
सनकश्च सनन्दश्च कपिलश्च सनातनः ।।
आसुरिश्च क्रतुर्हंसो वोढुः पञ्चशिखोऽरुणिः ।। १४ ।।
यतिश्च सुमतिश्चैव वसिष्ठश्च सहानुगः ।।
पुलहश्च पुलस्त्यश्चाप्यत्रिश्च भृगुरंगिराः ।। १५ ।।
अगस्त्यश्च प्रचेताश्च दुर्वासाश्च्यवनस्तथा ।।
मरीचिः कश्यपः कण्वो जरत्कारुश्च गौतमः ।। १६ ।।
बृहस्पतिरुतथ्यश्च संवर्तः सौभरिस्तथा ।।
जाबालिर्जमदग्निश्च जैगीषव्यश्च देवलः ।। ।। १७ ।।
गोकामुखो वक्ररथः पारिभद्रः पराशरः ।।
विश्वामित्रो वामदेव ऋष्यशृंगो विभाण्डकः ।। १८ ।।
मार्कण्डेयो मृकण्डुश्च पुष्करो लोमशस्तथा ।।
कौत्सो वत्सश्च दक्षश्च बालाग्निरघमर्षणः ।। १९ ।।
कात्यायनः कणादश्च पाणिनिः शाकटायनः ।।
शंकुरापिशलिश्चैव शाकल्यः शङ्ख एव च ।। २० ।।
एते चान्ये च बहवः सशिष्या मुनयो मुने ।।
आवां च धर्म्मपुत्रौ च नरनारायणौ समौ ।। २१ ।।
दिक्पालाश्च तथा देवा यक्षगन्धर्वकिन्नराः ।।
आजग्मुः पर्वताः सर्वे सगणाः पार्वतीव्रते ।। २२ ।।
हिमालयः शैलराजः सापत्यश्च सभार्यकः ।।
सगणः सानुगश्चैव रत्नभूषणभूषितः ।। २३ ।।
तथा सम्भृतसम्भारो नानाद्रव्यसमन्वितः ।।
मणि माणिक्यरत्नानि व्रते योग्यानि यानि च ।। २४ ।।
नानाप्रकारवस्तूनि जगत्यां दुर्लभानि च ।।
लक्षं च गजरत्नानामश्वरत्नं त्रिलक्षकम् ।। २९ ।।
दशलक्षं गवां रत्नं शतलक्षं सुवर्णकम् ।।
रुचकानां हीरकाणां स्पर्शानां च तथैव च ।। २६ ।।
मुक्तानां च चतुर्लक्षं कौस्तुभानां सहस्रकम् ।।
सुस्वादुनानाद्रव्याणां लक्षभाराणि कौतुकी ।।
अनन्तरत्नप्रभव आजगाम सुताव्रते ।।२७।।
ब्राह्मणा मनवः सिद्धा नागा विद्याधरास्तथा ।।
संन्यासिनो भिक्षुकाश्च बन्दिनः पार्वतीव्रते ।। २८ ।।
विद्याधरी नर्तकी च नर्त्तकाऽप्सरसां गणाः ।।
नानाविधा वाद्यभाण्डा आजग्मुः शिवमन्दिरम् ।। २९ ।।
कैलासराजमार्गं च चन्दनेन सुसंस्कृतम् ।।
आम्रपल्लवसूत्राढ्यं कदलीस्तम्भशोभितम् ।। ३० ।।
दूर्वाधान्यफलैः पर्णलाजपुष्पैर्विभूषितम् ।।
निर्मितं पद्मरागेण ददृशुस्ते गणा मुदा ।। ३१ ।।
उच्चैः सिंहासनेष्वेते पूजिताः शङ्करेण च ।।
कैलासवासिनः सर्वे परमानन्दसंयुताः ।। ३२ ।।
दानाध्यक्षः शुनासीरः कुबेरः कोशरक्षकः ।।
आदेष्टा च स्वयं सूर्य्यः परिवेष्टा जलाधिपः ।। ३३ ।।
दध्नां नद्यः सहस्राणि दुग्धानां च तथैव च ।।
सहस्राणि घृतानां च गुडानां च शतानि च ।। ३४ ।।
माध्वीकानां सहस्राणि तैलानां च शतानि च ।।
लक्षाणि चैव तक्राणां बभूवुः पार्वतीव्रते ।।३५।।
पीयूषाणां च कुम्भानि शतलक्षाणि नारद ।।
मिष्टान्नानां शर्कराणां बभूवुर्लक्षराशयः ।।
यवगोधूमचूर्णानां घृताक्तानां च नारद ।। ३६ ।।
स्वस्तिकानां च पूर्णानां बभूवुर्लक्षराशयः ।।
गुडसंस्कृतलाजानां बभूवुः कोटिराशयः।।३७।।
शालीनां पृथुकानां च राशीनां दशकोटयः।।
वरतण्डुलराशीनां मुने संख्या न विद्यते ।। ३८ ।।
स्वर्णरौप्यप्रवालानां मणीनां च महामुने ।।
बभूवुः पर्वतास्तत्र कैलासे पार्वती व्रते ।। ३९ ।।
पायसं पिष्टकं चैव शाल्यन्नं सुमनोहरम् ।।
चकार लक्ष्मीः पाकं च व्यञ्जनं घृतसंस्कृतम् ।। ४० ।।
बुभुजे देवर्षिगणैः शिवो नारायणेन च ।।
बभूवुर्लक्षविप्राश्च परिवेषणकारकाः ।। ४१ ।।
ताम्बूलं च ददौ तेभ्यः कर्पूरादिसुवासितम् ।।
रत्नसिंहासनस्थेभ्यो विप्रलक्षाः सुदक्षकाः ।। ४२ ।।
रत्नसिंहासनस्थं च विष्णुं क्षीरोदशायिनम् ।।
सेव्यमानं पार्षदैश्च सस्मितैः श्वेतचामरैः ।। ४३ ।।
ऋषिभिः स्तूयमानं च सिद्धैर्देवगणैस्तथा ।।
विद्याधरीणां नृत्यानि पश्यन्तं सस्मितं मुदा ।। ४४ ।।
गन्धर्वाणां च संगीतं श्रुतवन्तं मनोहरम् ।।
पप्रच्छ शङ्करो ब्रह्मन्ब्रह्मेशं प्रीतिपूर्वकम् ।। ४८५ ।।
ब्रह्मणा प्रेरितो युक्तं व्रतं कर्त्तव्यमीप्सितम् ।।
देवर्षिगणपूर्णायां सभायां संपुटाञ्जलिः ।। ४६ ।।
श्रीमहादेव उवाच ।।
मदीयं वचनं नाथ श्रीनिवास शृणु प्रभो ।।
तपस्स्वरूप तपसां कर्मणां च फलप्रद ।। ४७ ।।
व्रतानां जपयज्ञानां पूजानां सर्वपूजित ।।
सर्वेषां बीजरूपेण वाञ्छाकल्पतरो हरे ।। ४८।।
सुपुण्यं च व्रतं कर्त्तुं ब्रह्मन्निच्छति पार्वती ।।
पुत्रार्थिनी सा शोकार्त्ता हृदयेन विदूयता ।। ४९ ।।
रतिभंगे कृते देवैर्व्यर्थवीर्य्यशुचार्दिता ।।
प्रबोधिता मया साध्वी विविधैर्वचनामृतैः ।। ५० ।।
सत्पुत्रं स्वामिसौभाग्यं सुव्रता याचते व्रते ।।
ताभ्यां विना न सन्तुष्टा स्वप्राणांस्त्यक्तुमिच्छति ।। ५१ ।।
पुरा त्यक्त्वा स्वदेहं च पितृयज्ञे च मानिनी ।।
मन्निन्दया हिमवति पुनर्जन्म ललाभ सा ।। ५२ ।।
सर्वं जानासि वृत्तान्तं सर्वज्ञं त्वां वदामि किम् ।।
दीनां तां वद तत्त्वज्ञ परिणामशुभप्रदाम् ।। ५३ ।।
दुर्निवार्य्यश्च सर्वेश स्त्रीस्वभावश्च चापलः।।
दुस्त्यज्यं योगिभिः सिद्धैरस्माभिश्च तपस्विभिः ।। ५४ ।।
जितेन्द्रियैर्जितक्रोधैः स्त्रीरूपं मोहकारणम् ।।
सर्वमायाकरण्डं च कामवर्द्धनकारणम् ।। ५५ ।।
ब्रह्मास्त्रं कामदेवस्य दुर्भेद्यं जयकारणम् ।।
सुनिर्मितं च विधिना सर्वाद्यं विधिपूर्वकम् ।। ५६ ।।
मोक्षद्वारकपाटं च हरिभक्तिनिरोधनम् ।।
संसारबन्धनस्तम्भरज्जुरूपमकृन्तनम् ।। ५७ ।।
वैराग्यनाशबीजं च शश्वद्रागविवर्द्धनम् ।।
पत्तनं साहसानां च दोषाणामालयं सदा ।। ५८ ।।
अप्रत्ययानां क्षेत्रं च स्वयं कपटमूर्तिमत् ।।
अहङ्काराश्रयं शश्वद्विषकुम्भं सुधामुखम् ।। ५९ ।।
सर्वैरसाध्यमानं च दुराराध्यं च सर्वदा ।।
स्वकार्य्यसाध्याचाराढ्यं कलहांकुरकारणम् ।। ६० ।।
सर्वं निवेदितं ब्रह्मन्कर्त्तव्यं वक्तुमर्हसि ।।
कार्य्यं सर्वं परामर्शे परिणामसुखावहम् ।। ६१ ।।
श्रीनारायण उवाच ।।
इत्येवमुक्त्वा भगवान्निरीक्ष्य ब्रह्मणो मुखम् ।।
विरराम सभामध्ये स्तुत्वा च कमलापतिम् ।। ६२ ।।
शङ्करस्य वचः श्रुत्वा प्रहस्य जगदीश्वरः ।।
हितं च नीतिवचनं प्रवक्तुमुपचक्रमे ।। ६३ ।।
श्रीविष्णुरुवाच ।।
सुपुण्यकव्रतं सारं सतीसन्तानहेतवे ।।
स्वामिसौभाग्यबीजं च पत्नी ते कर्तुमिच्छति ।। ६४ ।।
सर्वासाध्यं दुराराध्यं सर्वकामफलप्रदम् ।।
सुखदं सुखसारं च मोक्षदं पार्वतीश्वर ।। ६९ ।।
आत्मा साक्षिस्वरूपश्च ज्योतीरूपः सनातनः ।।
निराश्रयश्च निर्लिप्तो निरुपाधिर्निरामयः ।। ६६ ।।
भक्तप्राणश्च भक्तेशो भक्तानुग्रहकारकः।।
दुराराध्यो हि योऽन्येषां भक्तानामतिसाधकः ।। ६७ ।।
भक्त्यधीनो हि भगवान्सर्वसिद्धो हि निष्फलः ।।
ते यस्य च कलाः पुंसो ब्रह्मविष्णुमहेश्वराः ।। ६८ ।।
महान्विराड्यदंशश्च निर्लिप्तः प्रकृतेः परः ।।
अव्ययो निग्रहश्चोग्रो भक्तानुग्रहविग्रहः ।। ६९ ।।
उग्रग्रहो ग्रहाणां च ग्रहनिग्रहकारकः।
त्रिकोटिजन्ममध्ये च न साध्यो भवता विना ।। ७० ।।
लब्धवा हि भारते जन्म हरिभक्तिं लभेन्नरः ।।
सेवनं क्षुद्रदेवानां कृत्वा सप्तसु जन्मसु ।। ७१ ।।
सूर्य्यमन्त्रमवाप्नोति केवलं स तदाशिषा ।।
सूर्य्यमन्त्रं समाराध्य त्रिषु जन्मसु भारते ।। ७२ ।।
 प्राप्नोति शैवं मन्त्रं च सर्वदं मानवो मुदा ।।
संसेव्य परया भक्त्या त्वामेवं सप्तजन्मसु ।। ७३ ।।
प्राप्नोति मायामन्त्रं च त्वत्पदाब्जप्रसादतः ।।
शतं जन्मसु चाराध्य मायां नारायणीं पराम् ।। ७४ ।।
नारायणकलां सेव्यां समवाप्नोति मानवः ।।
कलां निषेव्य वर्षेऽत्र पुण्यक्षेत्रे सुदुर्लभे ।। ७५ ।।
कृष्णभक्तिमवाप्नोति भक्तसंसर्गहैतुकीम् ।।
संप्राप्य भक्तिं निष्पक्वां भ्रामंभ्रामं च भारते ।। ७६ ।।
प्राप्नोति परिपक्वां च भक्तिं भक्तनिषेवया ।।
तदा भक्तप्रसादेन देवानामाशिषा शिव ।।
श्रीकृष्णमन्त्रं प्राप्नोति निर्वाणफलदं परम् ।। ७७ ।।
कृष्णव्रतं कृष्णमन्त्रं सर्वकामफलप्रदम् ।।
कृष्णतुल्यो भवेद्भक्तश्चिरं कृष्णनिषेवया ।। ७८ ।।
महति प्रलये पातः सर्वेषां वै सुनिश्चितम् ।।
न पातः कृष्णभक्तानां साधूनामविनाशिनाम् ।। ७९ ।।
अविनाशिनि गोलोके मोदन्ते कृष्णकिंकराः ।।
हसन्ति ते सुनिश्चिन्ता देवान्ब्रह्मादिकाञ्छिव ।।८० ।।
त्वं संहर्त्ता च सर्वेषां न भक्तानां महेश्वर ।।
माया मोहयते सर्वान्भक्तान्न कृपया मम ।। ८१ ।।
माया नारायणी माता सर्वेषां कृष्णभक्तिदा ।।
न कृष्णभक्तिं प्राप्नोति विना मायानिषेवणम् ।। ८२ ।।
सा च नारायणी माया मूलप्रकृतिरीश्वरी ।।
कृष्णप्रिया कृष्णभक्ता कृष्णतुल्याऽविनाशिनी ।। ८३ ।।
सा च तेजस्स्वरूपा च स्वेच्छाविग्रहधारिणी ।।
आविर्भूता च देवानां तेजसाऽसुरनिग्रहे ।। ८४ ।।
निहत्य दैत्यसंघांश्च दक्षपत्न्यां च भारते ।।
ललाभ दक्षस्तपसा जन्म चानेकजन्मनः ।। ।। ८५ ।।
त्यक्त्वा देहं पितुर्यज्ञे सा सती तव निन्दया ।।
जगाम देवी गोलोकं कृष्णशक्तिः सनातनी ।। ८६ ।।
गृहीत्वा विग्रहं तस्या गुणरूपाश्रय परम् ।।
भ्रामंभ्रामं भारते त्वं विषण्णोऽभूः पुरा हर ।। ८७ ।।
प्रबोधितो मया त्वं च श्रीशैलेषु सरित्तटे ।।
ललाभ जन्म सा शैलकान्तायामचिरेण च ।। ८८ ।।
करोतु पुण्यकं साध्वी सुव्रता सुव्रतं शिवा ।।
राजसूयसहस्राणां पुण्यं शंकर पुण्यके ।। ८९ ।।
राजसूयसहस्राणां व्रते यत्र धनव्ययः ।।
न साध्यं सर्वसाध्वीनां व्रतमेतत्त्रिलोचन ।। ९० ।।
स्वयं भूतेशनाथस्त्वं पुण्यकस्य प्रभावतः ।।
पार्वतीगर्भजातश्च वरः पुत्रो भविष्यति ।। ९१ ।।
स्वयं देवगणानां स यस्मादीशः कृपानिधिः ।।
गणेश इति विख्यातो भविष्यति जगत्त्रये।।९२।।
यस्य स्मरणमात्रेण विघ्ननाशो भवेद्ध्रुवम्।।
जगतां हेतुनाऽनेन विघ्ननिघ्नाभिधो विभुः ।।९३।।
नानाविधानि द्रव्याणि यस्माद्देयानि पुण्यके।।
भुक्त्वा लम्बोदरत्वं च तेन लम्बोदरः स्मृतः।।९४।।
शनिदृष्ट्या शिरश्छेदाद्गजवक्त्रेण योजितः ।।
गजाननः शिशुस्तेन सर्वेषां सर्वसिद्धिदः ।।९९।।
दन्तभङ्गः परशुना पर्शुरामस्य वै यतः ।।
हेतुना तेन विख्यातश्चैकदन्ताभिधः शिशुः ।। ९६ ।।
पूज्यश्च सर्वदेवानामस्माकं जगतां विभुः ।।
सर्वाग्रे पूजनं तस्य भविता मद्वरेण वै ।। ९७ ।।
पूजासु सर्वदेवानामग्रे संपूज्य तं जनः ।।
पूजाफलमवाप्नोति निर्विघ्नेन वृथाऽन्यथा ।। ९८ ।।
गणेशं च दिनेशं च विष्णुं शम्भुं हुताशनम् ।।
दुर्गामेतान्सन्निषेव्य पूजयेद्देवतान्तरम् ।। ९९ ।।
गणेशपूजने विघ्नं निर्मूलं जगतां भवेत् ।।
निर्व्याधिः सूर्य्यपूजायां शुचिः श्रीविष्णुपूजने ।। १०० ।।
मोक्षश्च पापनाशश्च यशश्चैश्वर्यमुत्तमम् ।।
तत्त्वज्ञानं सुतृप्तीनां बीजं शंकरपूजनात् ।। १०१ ।।
स्वबुद्धिशुद्धिजननं कीर्त्तितं वह्निपूजनम् ।।
विधिसंस्कृतवह्नेस्तु पूजातो ज्ञानतो मृतिः ।। १०२।।
दाता भोक्ता च भवति शंकराग्निनिषेवणात् ।।
हरिभक्तिप्रदं चैव परं दुर्गार्च्चनं शिवम् ।। १०३ ।।
विपरीतं त्रिजगतामेतेषां पूजनं विना ।।
एवं क्रमो महादेव कल्पे कल्पेऽस्ति निश्चितम् ।। १०४ ।।
एते शश्वद्विद्यमाना नित्याः सृष्टिपरायणाः ।।
आविर्भावतिरोभावौ चैतेषामीश्वरेच्छया ।। ।। १०५ ।।
इत्युक्त्वा श्रीहरिस्तत्र विरराम सभातले ।।
प्रहृष्टा देवता विप्राः पार्वत्या सह शंकरः ।। १०६ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे व्रताज्ञाग्रहणं नाम षष्ठोऽध्यायः ।। ६ ।।