ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः २५

विकिस्रोतः तः
← अध्यायः २४ ब्रह्मवैवर्तपुराणम्
अध्यायः २५
वेदव्यासः
अध्यायः २६ →

सौतिरुवाच ।।
क्षणेन विप्रप्रवरो मुदाऽन्वितो जगाम शम्भोः सदनं मनोहरम् ।।
ऊर्ध्वं ध्रुवाद्योजनलक्षमीप्सितं महार्हरत्नौघविनिर्मितं महत् ।। १ ।।
निराश्रये योगबलेन शम्भुना धृतं विचित्रं विविधालयान्वितम् ।।
दृष्टं सुपुण्याशयसाधकैर्वरैर्मुनीन्द्रवर्यैः परिपूरितं शुभम् ।। २ ।।
मयूखशून्यं रविचन्द्रयोर्मुने हुताशनैर्वेष्टितमेव केवलम् ।।
प्राकाररूपैरतिरिक्तवर्द्धितैरुच्चैरसंख्याप्रमितैः शिखोज्ज्वलैः ।। ३ ।।
पुरं वरं योजनलक्षविस्तृतं त्रिकोटिरत्नेन्द्रगृहान्वितं सदा ।।
विराजितं हीरकसारनिर्मितैश्चित्रैर्विचित्रैर्विविधैर्मनोहरैः ।। ४ ।।
माणिक्यमुक्तामणिदर्पणैर्युतं नस्वप्नदृष्टं द्विज विश्वकर्मणः ।।
आकल्पमेकैः शिवसेवितैर्जनैर्निषेवितं सन्ततमेव शौनक ।। ५ ।।
सिद्धैर्नियुक्तं शतकोटिलक्षैकैस्त्रिकोटिलक्षैश्च युतं स्वपार्षदैः ।।
युक्तं त्रिलक्षैर्विकटैश्च भैरवैः क्षेत्रैश्चतुर्लक्षशतैश्च वेष्टितम् ।। ६ ।।
सुरद्रुमैर्वेष्टितमेव सन्ततं मन्दारवृक्षप्रवरैः सुपुष्पितैः ।।
विराजितं सुन्दरकामधेनुभिर्यथा बलाकाशतकैर्नभस्तलम् ।। ७ ।।
दृष्ट्वा मुनिर्विस्मयमाप मानसे किं नात्र चित्रं सुरयोगिनां गुरौ ।।
लोकं त्रिलोकाच्च विलक्षणं परं भीमृत्युरोगार्त्तिजराहरं वरम् ।। ८ ।।
दूरे सभामण्डलमध्यगं शिवं ददर्श शान्तं शिवदं मनोहरम् ।।
पद्मत्रिनेत्रं विधुपञ्चवक्त्रं गङ्गाधरं निर्मलचन्द्रशेखरम् ।। ९ ।।
प्रतप्तहेमाभजटाधरं विभुं दिगम्बरं शुभ्रमनन्तमक्षरम् ।।
मन्दाकिनीपुष्करबीजमालया कृष्णेति नामैव मुदा जपन्तम् ।। 1.25.१० ।।
सुनीलकण्ठं भुजगेन्द्रमण्डितं योगीन्द्रसिद्धेन्द्र मुनीन्द्रवन्दितम् ।।
सिद्धेश्वरं सिद्धविधानकारणं मृत्युंजयं कालयमान्तकारकम् ।। ११ ।।
प्रसन्नहास्यास्यमनोहरं वरं विश्वाश्रयाणां शिवदं वरप्रदम् ।।
सदाऽऽशुतोषं भवरोगवर्जितं भक्तप्रियं भक्तजनैकबन्धुम् ।। १२ ।।
गत्वा समीपं मुनिरेष शूलिनं ननाम मूर्ध्ना पुलकाङ्कविग्रहः ।।
वीणां त्रितन्त्रीं क्वणयन्पुनर्जगौ कृष्णं स तुष्टाव कलं सुकण्ठः ।। १३ ।।
दृष्ट्वा मुनीन्द्रप्रवरं च सस्मितं विधेः सुतं वेदविदां वरिष्ठम् ।।
योगीन्द्रसिद्धेन्द्रमहर्षिभिः समं हर्षेण पीठादुदपश्यदीश्वरः ।। १४ ।।
ददौ च तस्मै मुनये स संभ्रमादालिङ्गनं चाशिषमासनादिकम् ।।
पप्रच्छ भद्रागमनप्रयोजनं तपोधनं तं तपसा च शौनक ।। १५ ।।
सद्रत्नसिंहासनसुन्दरे परश्चोवास शम्भुर्वरपार्षदैः सह ।।
नोवास धातुस्तनयः कृताञ्जलिस्तुष्टाव भक्त्या प्रणतः प्रभुं द्विज ।। १६।।
गन्धर्वराजेन कृतेन नारदः स्तोत्रेण रम्येण शुभप्रदेन च ।।
स्तुत्वा प्रणामं पुनरेव कृत्वा भवाज्ञयोवास भवस्य वामतः ।। १७ ।।
चकार तत्रैव निवेदनं शिवे मनोऽभिलाषं निजकामपूरके ।।
श्रुत्वा मुनेस्तद्वचनं कृपानिधिर्द्रुतं प्रतिज्ञाय चकार चोमिति ।। १८ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे कैलासं प्रति नारदागमनं नाम पञ्चविंशतितमोऽध्यायः ।। २५ ।।