बौधायनश्रौतसूत्रम्/प्रश्नः १८

विकिस्रोतः तः
Jump to navigation Jump to search

18.1
बृहस्पतिसवेन यक्ष्यमाणो भवति
स उपकल्पयतेऽश्वचतुस्त्रिꣳ शा दक्षिणाः कृष्णाजिनꣳ सुवर्णरजतौ च रुक्मौ पर्णमयं पात्रमाज्यमभिषेचनायाथ वै ब्राह्मणं भवति
परिस्रजी होता भवत्यरुणो मिर्मिरस्त्रिशुक्र इत्येष ह वै परिस्रजी यः खलतिः परिकेश्योऽथ हैष मिर्मिरो यः शुक्लो विक्लिधस्तिलकवान्पिङ्गाक्षोऽथ हैष त्रिशुक्रो यस्त्रिवेदो दीक्षते
तस्यैकरात्रीणस्य सोमं क्रीणन्ति
तिस्र उपसदस्
तायते त्रिवृदग्निष्टोमो रथंतरसामा प्रवर्ग्यवान्गायत्रीष्वेक स्तोमः
प्रज्ञातं देवसुवाꣳ हविषां करणं तस्य बार्हस्पत्योऽतिग्राह्यो बार्हस्पत्यः पशुरुपालम्भ्यः
समानमाभिषेकस्य कालादभिषेकस्य काले यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳ रुक्माभ्यां पर्युपास्य पर्णमये पात्र आज्यमानीयाभिषिञ्चति बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन्। सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमꣳ सि ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर्यन्त्रेण बृहस्पतिसवेनाभिषिञ्चामीति
समुन्मृष्टे समुत्क्रोशन्तीति समानमा मुखस्य विमार्जनात् १
18.2
तस्य प्रातःसवने सन्नेषु नाराशꣳ सेष्वेकादश दक्षिणा नीयन्त एकादश माध्यंदिने सवने सन्नेषु नाराशꣳ सेष्वश्वद्वादशास्तृतीयसवने सन्नेषु नाराशꣳ सेषु
माध्यंदिन एव सवनेऽश्वं दद्यादिति ह स्माह मौद्गल्यः
स वा एष नैमार्जनो यज्ञः
स यथा ह वा इयं गैरेयी नदी निमृजत्येवꣳ ह वा एष एतेन यज्ञक्रतुनेष्ट्वा पाप्मानं भ्रातृव्यं निमृजन्नेति
स एतस्मिन्नेव पूर्वपक्षे चतुष्टोमेनाग्निष्टोमेन यजेत पुरा भ्रेषाच्छान्त्यै
राजा राजसूयेनेजान इच्छति ब्राहस्पतिसवेनाभिषिच्येयेति
तदु वा आहुर्न वै राजसूयाभिषिक्तोऽन्येन यज्ञक्रतुनाभिषिच्येताप्रत्यवरोही ह भवतीत्युभाभ्यां ब्रह्मक्षत्राभ्यामभिषिच्या इत्यभिषिच्येतैवेति
दीक्षते
तस्य तिस्रो दीक्षास्तिस्र उपसदः
समानमाभिषेकस्य कालादभिषेकस्य काले माध्यंदिनीया एवैनं चमसा निमृजन्तो यन्ति
चतुर्विँश एष भवति

राजा राजसूयेन यक्ष्यमाण आध्यायति त्रिषु वर्णेष्वभिषिक्तेष्वध्यभिषिच्येय पुरोहिते स्थपतौ सूत इति
पुरोहितो दीक्षते
तस्य तिस्रो दीक्षास्तिस्र उपसदः
समानमाभिषेकस्य कालादभिषेकस्य काले शुक्रामन्थिनोः सꣳस्रावेणाभिषिञ्चति
चतुष्टोम एष भवति २
18.3
स्थपति स्थपतिसवेन यक्ष्यमाणो भवति स उपकल्पयत आर्षभं चर्म सुवर्णरजतौ च रुक्मावौदुम्बरं पात्रं दध्यभिषेचनाय
दीक्षते
तस्य तिस्रो दीक्षास्तिस्र उपसद आग्नेयस्य मारुती पृश्निः पष्ठौह्युपालम्भ्या भवति
सप्त हवीꣳषि प्रातःसवनीयाननुवर्तन्ते यदाग्नेयो भवत्यग्निमुखाद्ध्यृद्धिरित्येतानि
समानमाभिषेकस्य कालादभिषेकस्य काले यजमानायतन आर्षभं चर्म प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳ रुक्माभ्यां पर्युपास्यौदुम्बरे पात्रे दध्यानीयाभिषिञ्चति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर्यन्त्रेण स्थपतिसवेनाभिषिञ्चामीति
समुन्मृष्टे समुत्क्रोशन्तीति समानमा मुखस्य विमार्जनात्
स एष स्थपतिसवः सप्तदशोऽग्निष्टोम एष हैनेनातः पूर्वमीजिरे ३
18.4
सूतः सूतसवेन यक्ष्यमाणो भवति स उपकल्पयते कृष्णाजिनꣳ सुवर्णरजतौ च रुक्मौ पर्णमयं पात्रꣳ हिरण्यं घृतमभिषेचनाय
दीक्षते
तस्य तिस्रो दीक्षास्तिस्र उपसदोऽष्टौ हवीꣳषि प्रातःसवनीयाननुवर्तन्ते यदाग्नेयो भवत्याग्नेयो वै ब्राह्मण इत्येतानि
समानमाभिषेकस्य कालादभिषेकस्य काले यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳ रुक्माभ्यां पर्युपास्य पर्णमये पात्रे घृतमानीय हिरण्येनोत्पूयाभिषिञ्चति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर्यन्त्रेण सूतसवेनाभिषिञ्चामीति
समुन्मृष्टे समुत्क्रोशन्तीति समानमा मुखस्य विमार्जनात्
स एष सूतसवः सप्तदशोऽग्निष्टोम एष एव सूतसव एष ग्रामणीसव एष ऋतुसव ऋतवो हैनेनातः पूर्वमीजिरे ४
18.5
सोमसवेन यक्ष्यमाणो भवति स उपकल्पयते सौमीꣳ सूतवशां कृष्णाजिनꣳ सुवर्णरजतौ च रुक्मौ पर्णमयं पात्रं पयोऽभिषेचनायाथ वै ब्राह्मणं भवति
यत्किंच राजसूयमृते सोमं तत्सर्वं भवतीति
स आमावास्येन हविषेष्ट्वाष्टावहान्यानुमतप्रभृतिभिरेति संवत्सरं चातुर्मास्यैः सप्तेन्द्र तुरीयप्रभृतिभिरथ रत्निनाꣳ हविर्भिर्यजतेऽथ देवसुवाꣳ हविर्भिर्यजतेऽथैताꣳ सौमीꣳ सूतवशामालभते
तस्या असमुदिते यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳ रुक्माभ्यां पर्युपास्य पर्णमये पात्रे पय आनीयाभिषिञ्चत्यषाढं युत्सु पृतनासु पप्रिं सुवर्षामप्स्वां वृजनस्य गोपाम्। भरेषुजाꣳ सुक्षितिꣳ सुश्रवसं जयन्तं त्वामनु मदेम सोम ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर्यन्त्रेण सोमसवेनाभिषिञ्चामीति
समुन्मृष्टे समुत्क्रोशन्तीति समानमा मुखस्य विमार्जनादथ सꣳसृपाꣳ हविर्भिर्यजतेऽथ पञ्चहविषा दिशामवेष्ट्या यजतेऽथ द्विपशुना पशुबन्धेन यजतेऽथ सात्यदूतानाꣳ हविर्भिर्यजतेऽथ पूर्वैः प्रयुजाꣳ हविर्भिर्यजतेऽथ पौर्णमासवैमृधाभ्यामिष्ट्वोत्तरैः प्रयुजाꣳ हविर्भिर्यजतेऽथ देविकाहविर्भिर्यजतेऽथ त्रैधातवीयया यजतेऽथ सौत्रामण्या यजते
संतिष्ठते सोमसवोऽर्धचतुर्दशैर्मासैः ५
18.6
पृथिसवेन यक्ष्यमाणो भवति स उपकल्पयते रोहितं चर्मानडुहꣳ सुवर्णरजतौ च रुक्मावौदुम्बरं द्रो णं चतुःस्रक्ति चतुष्टयीरपो दिग्भ्यः संभृता अथ वै ब्राह्मणं भवति

यत्किंच राजसूयमनुत्तरवेदीकं तत्सर्वं भवतीति
स आमावास्येन हविषेष्ट्वाष्टावहान्यानुमतप्रभृतिभिरेति सप्तेन्द्र तुरीयप्रभृतिभिरथ रत्निनाꣳ हविर्भिर्यजतेऽथ देवसुवाꣳ हविर्भिर्यजतेऽथैतां चतुर्हविषमिष्टिं निर्वपत्याग्नेयमष्टाकपालमैन्द्र मेकादशकपालं वैश्वदेवं द्वादशकपालं बार्हस्पत्यं चरुमिति
तस्या असमुदिते यजमानायतने रोहितं चर्मानडुहं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳ रुक्माभ्यां पर्युपास्यौदुम्बरे द्रो णे चतुष्टयीरपः समवनीयाभिषिञ्चति ये मे पञ्चाशतं ददुरश्वानाꣳ सधस्तुतिः । द्युमदग्ने महि श्रवो बृहत्कृधि मघोनां नृवदमृत नृणाम्॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर्यन्त्रेण पृथिसवेनाभिषिञ्चामीति
समुन्मृष्टे समुत्क्रोशन्तीति समानमा मुखस्य विमार्जनादथ सꣳसृपाꣳ हविर्भिर्यजतेऽथ पञ्चहविषा दिशामवेष्ट्या यजतेऽथोपातीत्य द्विपशुं पशुबन्धꣳ सात्यदूतानाꣳ हविर्भिर्यजतेऽथ पूर्वैः प्रयुजाꣳ हविर्भिर्यजतेऽथ पौर्णमासवैमृधाभ्यामिष्ट्वोत्तरैः प्रयुजाꣳ हविर्भिर्यजतेऽथ देविकाहविर्भिर्यजतेऽथ त्रैधातवीयया यजतेऽथ सौत्रामण्या यजते
संतिष्ठते पृथिसवोऽध्यर्धेन मासेन ६
18.7
गोसवेन यक्ष्यमाणो भवति स उपकल्पयतेऽयुतं दक्षिणाः सुवर्णरजतौ च रुक्मौ पर्णमयं पात्रं प्रतिधुगभिषेचनाय
दीक्षते
तस्य षड्दीक्षाः षडुपसदः
समानमाभिषेकस्य कालादभिषेकस्य काले यजमानायतने कृष्णाजिनमात्रं वेदेरनुद्धतं भवति
तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳ रुक्माभ्यां पर्युपास्य पर्णमये पात्रे प्रतिधुगानीय बृहत स्तोत्रं प्रत्यभिषिञ्चति रेवज्जातः सहसा वृद्धः क्षत्राणां क्षत्रभृत्तमो वयोधाः । महान्महित्वे तस्तभानः क्षत्रे राष्ट्रे च जागृहि । प्रजापतेस्त्वा परमेष्ठिनः स्वाराज्येनाभिषिञ्चामि ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर्यन्त्रेण गोसवेनाभिषिञ्चामीति
समुन्मृष्टे समुत्क्रोशन्तीति समानमा मुखस्य विमार्जनात्
स एष गोसवः षट्त्रिꣳ शः सर्व उक्थ्य उभयसामायुतदक्षिणः
पवमाने कण्वरथंतरं कुर्वन्ति ७
18.8
ओदनसवेन यक्ष्यमाणो भवति स उपकल्पयते रोहितं चर्मानडुहꣳ सुवर्णरजतौ च रुक्मौ शतमानं च प्रवर्तं चतुरो वर्णान्ब्राह्मणꣳ राजन्यं वैश्यꣳ शूद्रं चतुरो रसान्मधु सुरां पय अपश्चत्वारि पात्राणि सौवणꣳर्! राजतं काꣳ स्यं मृन्मयं चतस्रो दक्षिणाः शतमानꣳ हिरण्यं तिसृधन्वमष्ट्रां माषैः पूर्णं कमण्डलुं चतुष्टयीः शलाकाः पर्णमय्यौ नैयग्रोध्यावाश्वत्थ्यौ फाल्गुनपाच्यौ चत्वारि नानावृक्ष्याणि पात्राणि सक्तूꣳस्त्रीणि दर्भपुञ्जीलान्यौदुम्बरं द्रो णं चतुःस्रक्ति चतुषटयीरपो दिग्भ्यः संभृताः शतं च रथं चैतेनोपकॢप्तेन रोहिणीमायतीमुपरमत्यथ रोहिण्येति पूर्वाग्निमन्ववस्यत्युत्तपनीयꣳ शालीनोऽन्वाहार्यपचनमाहिताग्निरथाध्वर्युरपररात्र आद्रुत्य सꣳशास्त्येकौदनꣳ श्रपयतेति
तं तथा श्रपयन्ति यथा पुरादित्यस्योदयाच्छृतो भवत्युद्यता सूर्येण कार्य इति ब्राह्मणम्
अथैतमोदनꣳ श्रपयित्वाभिघार्योदञ्चमुद्वासयत्यथैतां पात्रीं निर्णिज्योपस्तीर्य तस्यामेनमसंघ्नन्निवोद्धरति
सर्पिरासेचनं कृत्वा प्रभूतमाज्यमानीयाथैताꣳश्चतुरो वर्णान्दक्षिणत उदङ्मुखानुपवेशयत्यथान्वारब्धे यजमाने जुहोति सिꣳहे व्याघ्र उत या पृदाकविति चतस्रः स्रुवाहुतीर्
हुत्वाहुत्वैव सꣳस्रावैः प्रवर्तमभिघारयति राडसि विराडसि सम्राडसि स्वराडसीत्यथैतं प्रवर्तमग्रेणाहवनीयं पर्याहृत्य दक्षिणतो निदधाति ८
18.9
अथैतत्सौवर्णं पात्रं याचति
तस्मिꣳ स्तिरः पवित्रं मध्वानीय सक्तूनोप्य पर्णमयीभ्याꣳ शलाकाभ्यामुपमन्थतीन्द्रा य त्वा तेजस्वते तेजस्वन्तꣳ श्रीणामीति
तेजोऽसीति ब्राह्मणाय प्रयच्छति
तत्ते प्रयच्छामीति ब्राह्मणः प्रतिगृह्णात्यथ यजमानो मुखं विमृष्टे तेजस्वदस्तु मे मुखं तेजस्वच्छिरो अस्तु मे । तेजस्वान्विश्वतः प्रत्यङ्तेजसा संपिपृग्धि मेति
त्रिराचम्य प्रशꣳ सति
तस्मा एतच्चैव पात्रं ददाति शतमानं च हिरण्यम्
अथैतद्रा जतं पात्रं याचति
तस्मिꣳ स्तिरः पवित्रꣳ सुरामानीय सक्तूनोप्य नैयग्रोधीभ्याꣳ शलाकाभ्यामुपमन्थतीन्द्रा य त्वौजस्वत ओजस्वन्तꣳ श्रीणामीत्योजोऽसीति राजन्याय प्रयच्छति
तत्ते प्रयच्छामीति राजन्यः प्रतिगृह्णात्यथ यजमानो मुखं विमृष्ट ओजस्वदस्तु मे मुखमोजस्वच्छिरो अस्तु मे । ओजस्वान्विश्वतः प्रत्यङ्ङोजसा संपिपृग्धि मेति
त्रिराचम्य प्रशꣳ सति
तमा एतच्चैव पात्रं ददाति तिसृधन्वं चाथैतत्काꣳस्यं पात्रं याचति
तस्मिꣳ स्तिरः पवित्रं पय आनीय सक्तूनोप्याश्वत्थीभ्याꣳ शलाकाभ्यामुपमन्थतीन्द्रा य त्वा पयस्वते पयस्वन्तꣳ श्रीणामीति
पयोऽसीति वैश्याय प्रयच्छति

तत्ते प्रयच्छामीति वैश्यः प्रतिगृह्णात्यथ यजमानो मुखं विमृष्टे पयस्वदस्तु मे मुखम्पयस्वच्छिरो अस्तु मे । पयस्वान्विश्वतः प्रत्यङ्पयसा संपिपृग्धि मेति
त्रिराचम्य प्रशꣳ सति
तस्मा एतच्चैव पात्रं ददात्यष्ट्रां चाथैतन्मृन्मयं पात्रं याचति
तस्मिꣳ स्तिरः पवित्रमप आनीय सक्तूनोप्य फाल्गुनपाचीभ्याꣳ शलाकाभ्यामुपमन्थतीन्द्रा य त्वायुष्मत आयुष्मन्तꣳ श्रीणामीत्यायुरसीति शूद्रा य प्रयच्छति
तत्ते प्रयच्छामीति शूद्र ः! प्रतिगृह्णात्यथ यजमानो मुखं विमृष्ट आयुष्मदस्तु मे मुखमायुष्मच्छिरो अस्तु मे । आयुष्मान्विश्वतः प्रत्यङ्ङायुषा संपिपृग्धि मेति
त्रिराचम्य प्रशꣳ सति
तस्मा एतच्चैव पात्रं ददाति माषैश्च पूर्णं कमण्डलुम्
अथैतमोदनमभ्युत्सृप्य प्राश्नाति
तस्य यन्न सहते तदप्सु प्रवेशयत्यथ हिरण्याद्घृतं निष्पिबति
निष्पिबन्तमनुमन्त्रयत इममग्न आयुषे वर्चसे कृधि प्रियꣳ रेतो वरुण सोम राजन्। मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासदित्यथैतं प्रवर्तमद्भिः प्रक्षाल्य दक्षिणे कर्ण आबध्नीत आयुष्टे विश्वतो दधदित्यथैनमनुपरिवर्तयत आयुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसीत्यथैनं त्रिभिर्दर्भपुञ्जीलैः पवयति यतो वातो मनोजवा यतः क्षरन्ति सिन्धवः । तासां त्वा सर्वासाꣳ रुचाभिषिञ्चामि वर्चसेत्य्
अथास्य दक्षिणमक्षिकटं न्यचति समुद्र इवासि गह्मना सोम इवास्यदाभ्यः । अग्निरिव विश्वतः प्रत्यङ्सूर्य इव ज्योतिषा विभूरिति ९
18.10
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थातौदुम्बरे द्रो णे चतुष्टयीरपः समवनीय चतुरो ग्रहान्गृह्णात्यपां यो द्र वणे रसस्तमहमस्मा आमुष्यायणाय तेजसे ब्रह्मवर्चसाय गृह्णामीति पर्णमयेनापां य ऊर्मौ रसस्तमहमस्मा आमुष्यायणायौजसे वीर्याय गृह्णामीति नैयग्रोधेनापां यो मध्यतो रसस्तमहमस्मा आमुष्यायणाय पुष्ट्यै प्रजननाय गृह्णामीत्याश्वत्थेनापां यो यज्ञियो रसस्तमहमस्मा आमुष्यायणायायुषे दीर्घायुत्वाय गृह्णामीत्यौदुम्बरेणाथैतद्रो हितं चर्मानडुहं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳ रुक्माभ्यां पर्युपास्याभिषिञ्चत्यपां यो द्र वणे रसस्तेनाहमिममामुष्यायणं तेजसे ब्रह्मवर्चसायाभिषिञ्चामीति पर्णमयेनापां य ऊर्मौ रसस्तेनाहमिममामुष्यायणमोजसे वीर्यायाभिषिञ्चामीति नैयग्रोधेनापां यो मध्यतो रसस्तेनाहमिममामुष्यायणं पुष्ट्यै प्रजननायाभिषिञ्चामीत्याश्वत्थेनापां यो यज्ञियो रसस्तेनाहमिममामुष्यायणमायुषे दीर्घायुत्वायाभिषिञ्चामीत्यौदुम्बरेण

समुन्मृष्टे समुत्क्रोशन्तीति समानमा मुखस्य विमार्जनादुत्तरत एतद्धूपायितꣳ शतं तिष्ठति रथश्च
तदभिप्रैत्यभिप्रेहि वीरयस्वोग्रश्चेत्ता सपत्नहा । आतिष्ठ मित्रवर्धनस्तुभ्यं देवा अधिब्रवन्नित्यथ रथस्य पक्षसी संमृशत्यङ्कौ न्यङ्कावभितो रथं यविति
रथमातिष्ठत्यातिष्ठ वृत्रहन्निति प्रतिपद्यायं पृणक्तु रजसी उपस्थमित्यातोऽथैतच्छतं त्रिः प्रदक्षिणं परियाय पुरस्कृत्यायाति
तदध्वर्यवे ददाति
स एष ओदनसवो राज्ञो वा ब्राह्मणस्य वा वैश्यस्य वा पुष्टिकामस्य यज्ञः १०
18.11
पञ्चशारदीयेन यक्ष्यमाणो भवति
स उपकल्पयते सप्तदश निरष्टान्वत्सतरानेकहायनान्
स पुरस्तान्मार्गशीर्ष्यै पौर्णमास्या आमावास्येन हविषेष्ट्वा सपतदश मारुतीः पृश्नीर्वत्सतरीरालभतेऽभिप्रोक्षणतो वत्सतरान्स्थापयित्वोत्सृजन्त्यथेतराभिः सꣳस्थां कुर्वन्ति
संवत्सरे पर्यवेते मरुद्भ्यः सांतपनेभ्यः सप्तदश पृषतीर्वत्सतरीरालभतेऽभिप्रोक्षणतो वत्सतरान्स्थापयित्वोत्सृजन्त्यथेतराभिरेव सꣳस्थां कुर्वन्ति
द्वितीये संवत्सरे पर्यवेते मरुद्भ्यो गृहमेधिभ्यः सप्तदश कल्माषीर्वत्सतरीरालभतेऽभिप्रोक्षणतो वत्सतरान्स्थापयित्वोत्सृजन्त्यथेतराभिरेव सꣳस्थां कुर्वन्ति
तृतीये संवत्सरे पर्यवेते मरुद्भ्यः क्रीडिभ्यः सप्तदशावलिप्ता वत्सतरीरालभतेऽभिप्रोक्षणतो वत्सतरान्स्थापयित्वोत्सृजन्त्यथेतराभिरेव सꣳस्थां कुर्वन्ति
चतुर्थे संवत्सरे पर्यवेते मरुद्भ्यः स्वतवद्भ्यः सप्तदश राजीवा वत्सतरीरालभतेऽभिप्रोक्षणतो वत्सतरान्स्थापयित्वोत्सृजन्त्यथेतराभिरेव सꣳस्थां कुर्वन्त्येतदेवाहर्दीक्षते
संवत्सरमुख्यं बिभर्ति
द्वादशोपसदस्
तस्याहानि त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यः पञ्चदश उक्थ्यः सप्तदशोऽतिरात्रस्
तस्य मारुत स्तोमो भवत्यथैतेषां पशूनां त्रयः प्रथमेऽहन्नैन्द्रा मारुता उक्षाणः सवनीया आलभ्यन्त एवं द्वितीय एवं तृतीय एवं चतुर्थे
पञ्चोत्तमेऽहन्नालभ्यन्ते
वर्षिष्ठमिव ह्येतदहर्मन्यन्ते वर्षिष्ठः समानानां भवतीति ब्राह्मणम्
अथैतेषां पशूनां यदि नश्यति म्रियते वा याश्वमेधे प्रायश्चित्तिस्तां कृत्वाथान्यं तद्दैवत्यं तद्रू पं तज्जातीयं पशुमालभन्ते
स एष पञ्चशारदीयो राज्ञो वा ब्राह्मणस्य वा
यः कामयेत बहोर्भूयान्स्यामिति स पञ्चशारदीयेन यज्ञक्रतुना यजेत

बहोरेव भूयान्भवति ११
18.12
अग्निष्टुता यक्ष्यमाणो भवति
तस्य सर्वमेव समानम्पुरोरुच एवान्या अस्याजरासोऽग्न आयूꣳ षि पवस इत्यैन्द्र वायवस्य
यजा नो मित्रावरुणेति मैत्रावरुणस्याश्विना पिबतꣳ सुतमित्याश्विनस्य
द्वे विरूपे चरतः पूर्वापरं चरतो माययैतविति शुक्रामन्थिनोस्
त्रीणि शता त्री षहस्राण्यग्निमित्याग्रयणस्य
नियुनक्त्युक्थ्यस्य
नित्या ध्रुवस्याग्निनाग्निः समिध्यत इत्यैन्द्रा ग्नस्याग्निर्देवानां जठरमिति वैश्वदेवस्याग्निश्रियो यदुत्तम ईडे अग्निꣳ स्ववसमिति तिस्रो मरुत्वतीयानां श्रुधि श्रुत्कर्ण वह्निभिरिति माहेन्द्र स्य
विश्वेषामदितिर्यज्ञियानां त्वे अग्ने त्वामग्न इति तिस्र आदित्यस्य ग्रहस्य
नि त्वा यज्ञस्य साधनमिति सावित्रस्य
नित्या पात्नीवतस्य
नियुनक्ति हारियोजनस्य
स एष त्रिवृदग्निष्टुत्पवित्रं यथा ह वा इदं दावादभिदूना अभिवृष्टाः पुनर्णवा ओषधयो समुत्तिष्ठन्त्येवꣳ ह वा एष एतेन यज्ञक्रतुनेष्ट्वा शुचिः पूतो मेध्यो भवति
स यदि मुखेन पापकृन्मन्येत त्रिवृतं कुर्वीतैष ह वै मुखेन पापं करोति योऽनूचानस्य वा मुनेर्वा दुरवगतमवगच्छति

यदि बाहुभ्यां पञ्चदशं कुर्वीतैष ह वै बाहुभ्यां पापं करोति यो ब्राह्मणायोद्यच्छते
यद्युदरेण सप्तदशं कुर्वीतैष ह वा उदरेण पापं करोति योऽनाश्यान्नस्यान्नमश्नाति
यदि पद्भ्यामेकविꣳशं कुर्वीतैष ह वै पद्भ्यां पापं करोति १२
18.13
य आरट्टान्वा गान्धारान्वा सौवीरान्वा करस्करान्वा कलिङ्गान्वा गच्छति
स यदि सर्वश एव पापकृन्मन्येत चतुष्टोमेनाग्निष्टोमेन यजेत
तेन हैतेनर्तुपर्णो भाङ्गाश्विन ईजे शफालानाꣳ राजा
तेन हेष्ट्वा गृगयामभिप्रययौ
तꣳ हेन्द्रो ऽनुख्यायैवेक्षां चक्रेऽहमु त्वा तद्यातये यन्मा यज्ञक्रतोरन्तराय इति
स ह स्विन्न उदकमभ्यवेयाय
तꣳ ह तत्रैव स्त्रियं चकार
सा सुदेवला नामास सा हैतदेव राष्ट्रमभ्यारुरोह
सा स्त्री सती पुत्रान्जनयां चकार
तेभ्यो हेन्द्रः समदं दधौ
ते हता विदृढाः शिश्यिरे
तानुभयानन्तरेण रुदन्त्यासां चक्रेऽथो हेन्द्र आजगाम
तामु हाभ्युपेयाय
ताꣳ होवाच सुदेवला३ इति
भगव इति
प्रियं तवैतदिति
किं मे भगवः प्रियं भवैष्यतीत्येवं वै मम तदप्रियमासीद्यन्मा यज्ञक्रतोरन्तरायो वृणीष्व नु यतरे ते पुत्रा जीवेयुरिति
यानेव भगव स्त्री सत्यध्यगममिति होवाच
तस्मादाहुः स्त्रियाः पुत्राः प्रेयाꣳ सो भवन्तीति
स एतस्मिन्नेव पूर्वपक्षे चतुष्टोमेनाग्निष्टोमेन यजेत पुरा भ्रेषाच्छान्त्यै १३
18.14
इन्द्र स्तुता यक्ष्यमाणो भवति
तस्य सर्वमेव समानं पुरोरुच एवान्यास्
तिष्ठा हरी कस्य वृषा सुते सचेत्यैन्द्र वायवस्येन्द्रं वयं महाधन इति मैत्रावरुणस्य
द्विता यो वृत्रहन्तम इत्याश्विनस्य
स सूर आजनयञ्ज्योतिरिन्द्र मुत त्यदाश्वश्वियमिति शुक्रामन्थिनोर्भरेष्विन्द्र मित्याग्रयणस्य
नित्योक्थ्यस्य
नियुनक्ति ध्रुवस्य
महि क्षेत्रं पुरुश्चन्द्र मित्यैन्द्रा ग्नस्योरुं नो लोकमनुनेषि विद्वानिति वैश्वदेवस्य
नित्या मरुत्वतीयानां नित्या माहेन्द्र स्या नो विश्वाभिरूतिभिः कदाचन स्तरीरसीन्द्रा य गाव आशिरमिति तिस्र आदित्यस्य ग्रहस्येमां ते धियमिति सावित्रस्य
नियुनक्ति पात्नीवतसय
नित्या हारियोजनस्य
स एष पञ्चदश इन्द्र स्तुदिन्द्रि यकामस्य
यो वा ज्येष्ठबन्धुरपभूतः स्यात्स एतेन यज्ञक्रतुना यजेताश्नुते हैव ज्येष्ठताम् १४

अप्तोर्यामेण यक्ष्यमाणो भवति
दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदस्
त्रिवृद्बहिष्पवमानः पञ्चदशꣳ होतुराज्यꣳ सप्तदशं मैत्रावरुणस्यैकविꣳशं ब्राह्मणाच्छꣳ सिनस्त्रिणवमच्छावाकस्य
त्रयस्त्रिꣳ शो माध्यंदिनः पवमानश्चतुर्विँशꣳ होतुः पृष्ठꣳ रथंतरं च वैराजं च सामनी अन्यतरेणान्यतरत्परिष्टुवन्ति
चतुश्चत्वारिꣳ शं मैत्रावरुणस्य वामदेव्यं च शक्वरं च सामनी अन्यतरेणान्यतरत्परिष्टुवन्त्यष्टाचत्वारिꣳ शं ब्राह्मणाच्छꣳ सिनो नौधसं च वैरूपं च सामनी अन्यतरेणान्यतरत्परिष्टुवन्त्येकविꣳशमच्छावाकस्य कालेयं च रैवतं च सामनी अन्यतरेणान्यतरत्परिष्टुवन्ति
तमेतमष्टापृष्ठ इति छन्दोगा आचक्षते
त्रिणव आर्भवः पवमानस्त्रयस्त्रिꣳ शमग्निष्टोमसामैकविꣳशान्युक्थ्यानि सषोडशिकानि पञ्चदशानीतराणि त्रिवृद्राथंतरः सन्धिस् तत्क्षुद्राः पशवोऽतिसेदुः
सोमो वा एतदतिरिच्यमान इयाय
ते देवा अब्रुवन्नप्तोर्वा अयमत्यरेचि तस्य को याम इति
तदप्तोर्यामस्याप्तोर्यामत्वं तस्मा एतान्यतिरिक्तस्त्रोत्राण्यवकल्पयां चक्रुस्त्रिवृद्धोतुर्जराबोधीयं पञ्चदशं मैत्रावरुणस्य सौहविषꣳ सप्तदशं ब्राह्मणाच्छꣳ सिन उद्वꣳ शीयमेकविꣳशमच्छावाकस्य वारवन्तीयं तदु वा आहुर्यदच्छावाकचमसमनु यज्ञः संतिष्ठेतान्तं यज्ञं गमयेदथो हान्तं यजमानो गामुकः स्याधोत्र एव स्तुवीरन्होतानुशꣳ स्यात्तथा मध्यतो यज्ञः समाधीयत इति
तदु वा आहुः सर्वाण्येवाश्विनानि स्तुतशस्त्राणि स्युर्यद्ध किंच रात्रिमुपातिरिच्यते सर्वं तदाश्विनमिति न्वेकम्
अथापरं त्रिवृत्पञ्चदशꣳ सप्तदशमेकविꣳशम्

अथैतेषां देवता अग्निरिन्द्रो विश्वे देवा विष्णुरिति १५
18.16
मृत्युसवेन यक्ष्यमाणो भवति
स उपकल्पयते शार्दूलचर्म सुवर्णरजतौ च रुक्मौ वैयाघ्र्यावुपानहौ चार्मपक्ष्यावुपानहौ वृष्णिवाससं च क्षौमं च तिसृधन्वमासन्दीꣳ साधीवासं दुन्दुभिं विमितमौदुम्बरं द्रो णं चतुःस्रक्ति चतुष्टयीरपो दिग्भ्यः संभृताः शतं च रथं चैतेनोपकॢप्तेन चित्रामायतीमुपरमत्यथ चित्रयेति पूर्वाग्निमन्ववस्यत्युत्तपनीयꣳ शालीनोऽन्वाहार्यपचनमाहिताग्निरथान्वारब्धे यजमाने जुहोति व्याघ्रोऽयमग्नौ चरति प्रविष्ट इति षट्स्रुवाहुतीरथ यजमानायतने शार्दूलचर्म प्राचीनग्रीवमुत्तरलोमोपस्तृणाति यत्ते शिल्पं कश्यप रोचनावदिन्द्रि यावत्पुष्कलं चित्रभानु । यस्मिन्त्सूर्या अर्पिताः सप्त साकं तस्मिन्राजानमधिविश्रयेममित्यथ वैयाघ्र्यावुपानहावुपमुञ्चते द्यौरसीति दक्षिणे पादे पृथिव्यसीत्युत्तरेऽथ दक्षिणं जान्वाच्याभिसर्पति व्याघ्रो वैयाघ्रेऽधि विश्रयस्व दिशो महीः । विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्रा ष्ट्रमधि भ्राशदित्यथास्मै धनुः प्रयच्छति यथा राजसूये तथा
तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳ रुक्माभ्यां पर्युपास्यौदुम्बरे द्रो णे चतुष्टयीरपः समवनीयाभिषिञ्चति १६
18.17
या दिव्या आपः पयसा संबभूवुर्या अन्तरिक्ष उत पार्थिवीर्याः । तासां त्वा सर्वासाꣳ रुचाभिषिञ्चामि वर्चसा ॥
अभि त्वा वर्चसासिचं दिव्येन पयसा सह । यथासा राष्ट्रवर्धनस्तथा त्वा सविता करत्॥
इन्द्रं विश्वा अवीवृधन्समुद्र व्यचसं गिरः । रथीतमꣳ रथीनाम्वाजानां सत्पतिं पतिम्॥
वसवस्त्वा पुरस्तादभिषिञ्चन्तु गायत्रेण छन्दसेति पुरस्तादेता एव तिस्रोऽनुद्रुत्य रुद्रा स्त्वा दक्षिणतोऽभिषिञ्चन्तु त्रैष्टुभेन छन्दसेति दक्षिणत एता एव तिस्रोऽनुद्रुत्यादित्यास्त्वा पश्चादभिषिञ्चन्तु जागतेन छन्दसेति पश्चादेता एव तिस्रोऽनुद्रुत्य विश्वे त्वा देवा उत्तरतोऽभिषिञ्चन्त्वानुष्टुभेन छन्दसेत्युत्तरत एता एव तिस्रोऽनुद्रुत्य बृहस्पतिस्त्वोपरिष्टादभिषिञ्चतु पाङ्क्तेन छन्दसेत्युपरिष्टादथास्योर ऊर्ध्वमुन्मृज्यतेऽरुणं त्वा वृकमुग्रं स्वजंकरमित्यथास्य बाहू अनुमार्ष्टि प्र बाहवा सिसृतं जीवसे न इत्यथैनावुपावहरतीन्द्र स्य ते वीर्यकृतो बाहू उपावहरामीत्यत्रास्मै धनुः प्रयच्छति यदि पुरस्तादप्रत्तं भवति
समुन्मृष्टे समुत्क्रोशन्तीति समानमा मुखस्य विमार्जनाद्
उत्तरत एतद्धूपायितꣳ शतं तिष्ठति रथश्च
तदभिप्रैत्यभिप्रेहि वीरयस्वोग्रश्चेत्ता सपत्नहा । आतिष्ठ वृत्रहन्तमस्तुभ्यं देवा अधिब्रवन्नित्यथ रथस्य पक्षसी संमृशत्यङ्कौ न्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनु संचरन्तौ । दूरेहेतिरिन्द्रि यावान्पतत्री ते नोऽग्नयः पप्रयः पारयन्त्वित्यथ रथमुपतिष्ठते नमस्त ऋषे गदेत्यथ रश्मीनादत्त एवा ब्रह्मन्तवेदस्तु तिष्ठा रथे अधि यद्वज्रहस्तः । आ रश्मीन्देव युवसे स्वश्व इति
रथमातिष्ठत्यातिष्ठ वृत्रहन्रथमातिष्ठन्तं पर्यनु त्वेन्द्रो मदत्विन्द्रं विश्वा अवीवृधन्नित्यातोऽत्र धनुरधिज्यं कुरुते परि मा सेन्या घोषास्तन्मेऽनुमतिरनुमन्यतामिति द्वाभ्याम्
अथैतच्छतं त्रिः प्रदक्षिणं परियाय पुरस्कृत्यायात्यत्रास्मै प्रत्यवरोहणत आसन्दीं निदधाति

तां तथा प्रत्यवरोहति यथा राजसूये तथा १७
18.18
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता वारुणेन शृतेनोपरमति
वारुणस्य वारुण्यौ भवतः स्विष्टकृतः स्विष्टवत्यवत्रास्मा एतच्छतं ददात्यथैनं विमितेनाभिविघ्नन्ति
तस्योत्तरार्धे दुन्दुभिमासञ्जयति
तमस्तंयात्यादित्य आघ्नन्त्यथैनꣳ सꣳशास्ति यजमान वाचं यच्छ राष्ट्रे च जागृहीति
सोऽत ऊर्ध्वं वाचंयमो भवति
स यत्किंच व्याहरति ददामीत्येव व्याहरत्युपसंगच्छन्त एनमेते राजगृहाः सूतग्रामण्यः क्षत्रसंग्रहीतारः कारुविशा इति
तेभ्यः पष्ठौहीं वेहतं ददाति
तां ते पचमाना रमयन्तो जागरयन्त आसतेऽथाध्वर्युरपररात्र आद्रुत्य चतुष्टयीनामपां प्ररेके मन्थमुपमथ्यावघ्राय वानवघ्राय वा प्रयच्छति
तꣳ स भक्षयति तूष्णीम्
अथैनं नवनीतेनाभ्यनक्त्येना व्याघ्रं परिषस्वजाना इत्यथादित्यमुद्यन्तमुपतिष्ठत उदसावेतु सूर्य उदिदं मामकं वचः । उदिहि देव सूर्य सह वग्नुना मम । अहं वाचो विवाचनम्मयि वागस्तु धर्णसिरिति राजगृहान्विप्रव्रजतोऽनुमन्त्रयते यन्तु नद्यो वर्षन्तु पर्जन्याः सुपिप्पला ओषधयो भवन्तु । अन्नवतामोदनवतामामिक्षवतामेषाꣳ राजा भूयासमिति १८
18.19
अत्रैतद्द्वादशाहं व्रतं चरति
स यदि प्राङ्वोदङ्वोच्चरति चार्मपक्षीभ्यां क्षौमं वसानोऽथ यदि दक्षिणतः पश्चाद्वा वैयाघ्रीभ्यां वृष्णिवाससं वसानोऽथ द्वादशसु व्युष्टासु द्वे स्रुवाहुती जुहोति ये केशिनो नर्त इति द्वाभ्याम्
अथ प्रोष्ठमारोहत्यारोह प्रोष्ठं विषहस्व शत्रूनित्यथास्य शिरः प्रमन्दयति यत्सीमन्तं कङ्कतस्ते लिलेखेत्यथास्य केशान्वपति येनावपत्सविता क्षुरेणेति
प्रवपतोऽनुमन्त्रयते मा ते केशाननुगाद्वर्च एतदित्यथैनान्समुच्चित्य दर्भस्तब्मे निदधाति तेभ्यो निधानं बहुधा व्यैच्छन्नित्यथैनमुष्णोदकेनाप्लावयति बलं ते बाहुवोः सविता दधात्विति
तेन हैतेन मृत्युरीजे प्रजानामैश्वर्यमाधिपत्यꣳ राज्यं परीयामिति
ततो वै स प्रजानामैश्वर्यमाधिपत्यꣳ राज्यं पर्यैद्यः कामयेत समानानामैश्वर्यमाधिपत्यꣳ राज्यं परीयामिति स एतेन यज्ञक्रतुना यजेत
समानानामैश्वर्यमाधिपत्यꣳ राज्यं पर्येत्यथ हैतेन सुरथः शैव्य ईज आतिष्ठ्यं परमतामियामिति

ततो वै स आतिष्ठ्यं परमतामैद्यः कामयेतातिष्ठ्यं परमतामियामिति स एतेन यज्ञक्रतुना यजेतातिष्ठ्यꣳ हैव परमतामेति १९
18.20
सद्यस्क्रिया यक्ष्यमाणो भवति
स यूप्यं च वृक्षं छेदयति लाङ्गल्यं चेषां यूप्यस्य कारयति लाङ्गलं लाङ्गल्यस्य
तौ सꣳहत्य भुञ्जते वा नि वा दधत्यथास्यैतत्पुरस्तादेव जुष्टे देवयजने वेदिसंमितं विमितं कारितं भवति
तदेतेन लाङ्गलेन परिहार्यं कर्षयति
तस्मिञ्जघन्यवाप्यान्यवान्वापयित्वा परिघातयत्यथास्यैते रथा उपकॢप्ता भवन्ति चतुर्युक्प्रष्टिवाही द्वियोग स्थूरिरिति
तेषु काल एव दधिविनालानासञ्जयन्ति
स ग्रीष्मस्य जघन्याहःसु प्रजहितेषु यवेष्वृत्विजः पदेनाह्वापयतीष्ट्या वा मा याजयिष्यथ भक्तं वा वः कारयिष्यामीति
तेषूपसमेतेषु काल एव प्रातरग्निहोत्रं जुहोत्युपसंगच्छन्त एनमेत ऋत्विजोऽथैनानाह सद्यस्क्रिया मा याजयतेति
तं तथेतीतरे प्रत्याहुस्
तस्मै तदानीमेव सद्यस्कार्याꣳशालां कुर्वन्ति

तं तदानीमेव तीर्थादानीय पवयित्वा दीक्षणीयामिष्टिं निर्वपति
तस्याꣳ सꣳस्थितायां मुष्टी चैव न करोति वाचं च न यच्छति
निदधत्यस्मा एतद्धविरुच्छिष्टं व्रतभाजनम्
अथ प्रायणीयामिष्टिं निर्वपति
हविष्कृता वाचं विसृजतेऽत्रास्मा एतद्धविरुच्छिष्टं प्रयच्छन्ति व्रतभाजनमेतत्
प्रसूता एवैते रथा आजिं धावन्ति
योजनं प्राक्चतुर्युक्त्रैपदं दक्षिणा प्रष्टिवाही
गव्यूतिं पश्चाद्द्वियोगः
क्रोशमुदक्स्थूरिरिति
ते येनयेन संगच्छन्ते तस्मा आवेदयन्ते यजतेऽयमसावामुष्यायणोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ता सद्यस्क्रियेत्यायन्ति रथा आगतेषु रथेषु यद्विनालेषु नवनीतमुत्सीदति तद्विलाप्योत्पूयाज्यकुम्भे प्रत्यस्यति सद्यस्ताया इति २०
18.21
अथ प्रायणीयेन चरति
प्रायणीयेन चरित्वा पदेन चरति
पदेन चरित्वा त्रिवत्सेन साण्डेन वत्सतरेण राजानं क्रीत्वोह्यातिथ्यं निर्वपत्यातिथ्येन प्रचर्यैकगणा उपसदो भवन्ति
मध्यमयोपसदा प्रचर्योत्तरवेद्यै काले खलेवालीं मापयत्यथानडुहः संयुज्य यवान्प्रकृत्य मृणन्ति
यवपुरीषैवोत्तरवेदिर्भवत्यथ मध्येऽनडुहः संयुज्य प्राचो यवान्प्रगृह्णन्तो यन्ति
यवबर्हिरेवैषा महावेदिर्भवत्यथाहवनीयं प्रणयत्याहवनीयं प्रणीय सदोहविर्धाने संमिनोति
सदोहविर्धाने संमित्याग्नीषोमौ प्रणयत्यग्नीषोमौ प्रणीय वसतीवरीर्गृह्णाति
तास्तदानीमेव परिहृत्य प्रातरनुवाकमुपाकरोति
परिहिते प्रातरनुवाकेऽपोऽच्छैत्यद्भिरुदैत्यग्निष्टोमं क्रतुमुपैति
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्माश्विनाद्ग्राहादाश्विनं ग्रहं गृहीत्वा तिस्रो रशना आदाय लाङ्गल्यामभ्यैति
तस्यै कटे परमिव चषालभाजनं भवति
शकलान्तां लाङ्गल्यामुत्सृज्याथैतान्पशूनुपाकरोत्यग्नीषोमीयमाग्नेयमनूबन्ध्यमिति
18.22
तेषामनूचीनं वपाभिराद्र वन्ति २१

अग्नीषोमीयस्याध्वर्युर्वपया प्रथमया प्रपद्यतेऽनूची इतरे आहरन्ति
परिहितासु स्तोकीयासु शृतासु वपास्वग्नीषोमीयस्य वपया प्रचरति
परीतरे शाययन्ति
प्रातःसवनीयानामग्नीषोमीयस्य पशुपुरोडाशो मुख्यो भवति
स्तुते माध्यंदिने पवमानेऽग्नीषोमीयेण चरत्यनन्तर्हित आग्नेयस्य वपया चरति
स्वे धामन्नाग्नेयेन चरत्यनन्तर्हित एवानूबन्ध्यस्य वपया चरति
तृतीयसवनीयानामनूबन्ध्यस्य पशुपुरोडाशो मुख्यो भवत्यसमुदितेऽनूबन्ध्येन चरति
संतिष्ठते सद्यस्क्री
तस्य यदसद्यस्क्रियते व्यृद्धमेवास्य तत्पुनर्यज्ञ एवास्य तदथादित्याश्च ह वा अङ्गिरसश्च सुवर्गे लोके पस्पृधिरे
तेऽङ्गिरस आदित्यानभिप्रजग्मुरग्निना दूतेन श्वःसुत्या न इत्य्
अथास्माकमद्यसुत्येति २२
18.23
आदित्याः प्रोचुस्
तेषां नस्त्वꣳ होतेति
तेऽमुमादित्यमश्वꣳ श्वेतं भूतं दक्षिणां निन्यिरे हिरण्याभिभूतरशनं तस्मात्सद्यस्क्रियै श्वेताश्वो दक्षिणा हिरण्याभिभूतरशनो यच्छ्वेताश्व आदित्यस्य तद्रू पम्
अथ यद्धिरण्याभिभूतरशनो रश्मीनां तत्
तस्य त्रिवृतः सतश्चतुर्विँशौ माध्यंदिनार्भवौ भवतश्चतुश्चत्वारिꣳ शꣳ होतुः पृष्ठं चतुर्विँशमग्निष्टोमसाम
त्रिवृदन्यत्सर्वं श्वेतमश्वं ददात्यनुक्रिया यक्ष्यमाणो व्रीहिषु दीक्षते
स द्व्यहेन संतिष्ठत औपवसथ्यादेकमहः सुत्यमेकमहस्
तस्य त्रिवृत एव सतश्चत्वारिꣳ शौ माध्यंदिनार्भवौ भवतश्चतुश्चत्वारिꣳ शꣳ होतुः पृष्ठं चतुश्चत्वारिꣳ शमग्निष्टोमसाम
त्रिवृदेवान्यत्सर्वं श्वेतां वडबां ददाति
परिक्रिया यक्ष्यमाणो माषेषु दीक्षते
स त्र्यहेण संतिष्ठत आ क्र्यादेकमहरौपवसथ्यादेकमहः सुत्यमेकमहस्
तस्य त्रिवृत एव सतोऽष्टाचत्वारिꣳ शौ माध्यंदिनार्भवौ भवतोऽष्टाचत्वारिꣳ शꣳ होतुः पृष्ठम्
अष्टाचत्वारिꣳ शमग्निष्टोमसाम

त्रिवृदेवान्यत्सर्वं यथाश्रद्धं ददात्यतिक्रिया यक्ष्यमाणस्तिलेषु दीक्षते
स चतुरहेण संतिष्ठत आ क्रयादेकमहरोत्तरवेदेरेकमहरौपवसथ्यादेकमहः सुत्यमेकमहश्चतुष्टोम एष भवति २३
18.24
व्रात्यस्तोमेन यक्ष्यमाणो भवति
ते राजनि वा ब्राह्मणे वा प्रतिग्रहमिच्छन्ते मासाय वर्तवे वा
ते यमभिसंजानते तꣳ स्थपतिं कुर्वन्ति
स एषां व्रतानि चरति
सोऽधःसंवेश्यमाꣳ साश्यस्त्र्! युपायी भवति
तद्धि दीक्षितव्रतम्
अथ यत्कृष्णं वासः कृष्णतूषं परिधत्ते दीक्षितवसनस्य तद्रू पम्
अथ यत्कृष्णबलक्ष्यावजिने धारयति कृष्णाजिनयोस्तद्रू पम्
अथ यत्सुवर्णरजतौ रुक्मौ बिभर्ति परिघर्म्ययोस्तद्रू पम्
अथ यत्कृष्णमुष्णीषं धारयति दीक्षितोष्णीषस्य तद्रू पम्
अथ यच्चर्ममयैर्बाणवद्भिस्तिसृधन्वं धारयति दीक्षितदण्डस्य तद्रू पम्
अथ यद्व्रात्यवादं वदति दीक्षितवादस्य तद्रू पम्
अथ यत्खुर्यावुपानहौ धारयति नेद्दीक्षितः सन्नमेध्यमधितिष्ठानीति तत्
तस्य ह वा एतद्रू पस्य यज्ञस्य प्रतोददण्ड एव यूपः
प्रतोदपरिषेवणं चषालं रथमुखमाहवनीय ईषे वेदिर्युगमुत्तरवेदिरुत्तरयुगमुत्तरनाभिर्धनुर्धी हविधाने
पक्षसी आग्नीध्रीयमार्जालीयौ
कूबरꣳ सदः
किंकरावताना धिष्णिया
बन्धुरं पत्नीशालं रथोपस्थो गार्हपत्योऽधिष्ठानं पुराणगार्हपत्यस्
ते यमजं प्रमाथं पचन्ते स एषां पशुर्यमपूपं स्थालीपाकꣳस चरुपशुपुरोडाशौ
यां परिष्कन्दꣳ ह्वयति सा पुरोऽनुवाक्या
यदाहरति सा याज्या
यदश्नन्ति स वषट्कारो यां कुम्बां विमते सा पुरोऽनुवाक्या
यामधीवाक्याꣳ सा याज्या
यां विगणꣳ ह्वयति स शस्त्रस्य प्रतिगरो यदभिक्रोशन्ति स उद्गीथस्
ते य एवमेतं यज्ञक्रतुं परोक्षमुपेत्य प्रत्यक्षं नोपेयुः २४
18.25
यथा दीक्षितावकीर्णा विच्छिन्नसोमपीथा अनाश्यान्ना एवꣳ स्युस्
तस्माद्व्रात्यावस्थितस्य व्रात्यस्तोमेनानीजानस्य नाश्यं विच्छिन्नसोमपीथ इव ह्येषोऽनाश्यान्नस्

तेषां येऽनाहिताग्नयस्ते यथागृहं विपरेत्याग्नीनाधाय त्रयस्त्रिꣳ शतात्रयस्त्रिꣳ शता दक्षिणाभि स्थपतिमुपसमायन्ति
तेषां ब्रह्मबन्धुरामागधो मागधवाक्यो ब्रह्मबन्धुरपुꣳश्चलू पुꣳश्चलूवाक्या जरत्कद्र थो जरत्प्रयोग्याभ्यां युक्तो व्यृद्धा ब्रह्मवन्धुरपुꣳश्चलू पुꣳश्चलूवाक्या
व्यृद्धो जरत्कद्र थो जरत्प्रयोग्याभ्यां युक्तो व्यृद्धेनैव व्यृद्धं निरवदयते तदेतद्व्रात्यधनꣳ समवशान्तं दण्डोपानहꣳ शामूलाजिनं रथे तिष्ठन्सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति
दक्षिणानां काल एतदेवास्य भवत्यृत्विजो दक्षिणा विभजन्ते
तस्य प्रातःसवनीयाननुवर्तन्ते संज्ञान्यै हवीꣳष्यसंज्ञातमिव वा एते चरन्ति ये व्रात्यं चरन्ति
समेवैनान्ज्ञापयन्ति
माध्यंदिनीयाननुवर्तत ऐन्द्रा मारुत एकादशकपालोऽइन्द्रो वै व्रात्यो मारुतो ग्रामो ग्रामेणैवैनान्समीचो दधाति
तृतीयसवनीयाननुवर्तत आदित्येभ्यो भवद्वद्भ्यश्चरुरभूता इव वा एते चरन्ति ये व्रात्यं चरन्ति
भूतिमेवैनान्गमयन्त्यनूबन्ध्यस्य पशुपुरोडाशमनुवर्तत आदित्यश्चरुर्
अप्रतिष्ठिता इव वा एते चरन्ति ये व्रात्यं चरन्तीयं वा अदितिरस्यामेव प्रतितिष्ठन्ति २५
18.26
स एष ज्येष्ठानामग्निष्टोमस्
तस्य चत्वारि षोडशानि द्वौ पवमानावुभे एवाच्छावाकस्य स्तोत्रे
एष एव सन्कनीयसामुक्थ्यस्
तस्य षट्षोडशानि सर्वे पवमानाः सर्वाण्यच्छावाकस्य स्तोत्राणि
तेन हैतेन मरुत ईजिरे
तेषां विष्णु स्थपतिरासाथो हैतेन दैव्या व्रात्या ईजिरे
तेषां बुधः सौम्य स्थपतिरासाथो हैतेन कुरुब्रह्मणां पुत्रा ईजिरे
तेषामौपोदितिर्गौपालायनो वैयाघ्रपद्य स्थपतिरास
तेन हेष्ट्वा पञ्चालान्व्रात्या अभिप्रययुस्
तान्ह पितर ऊचुर्मा पुत्रकाः पञ्चालान्यासिष्टोपवादिनो वै पञ्चाला उप वो वदिष्यन्तीति
तान्हानादृत्यैव प्रययुस्
ते ह केशिनो दाल्भ्यस्योपवसथमाजग्मुस्
तान्ह श्वो भूते बहिष्पवमानꣳ सर्पतोऽन्वालेभिरे पवित्रं वै बहिष्पवमान आत्मानं पवयिष्यामह इति वदन्तोऽथ ह पञ्चालेषु गन्धर्वायणो वालेय आग्निवेश्योऽनूचान आस
तान्ह सह सर्पतः पप्रच्छ के सर्पन्तीति
वयं मरुत इति
तेषां वः क स्थपतिरित्यहं विष्णुरित्यौपोदितिर्गौपालायनो वैयाघ्रपद्यः प्रत्युवाच
यत्किं चकर्थ कस्तच्चचारेतीति ह परोक्षाव्रतमनुनिर्दिदेशेति

तान्होवाचाविदुषो व उपावादिष्माप वो ह्नुमह इति
पिता वै तत्पुत्रानुपावादीदिति हैनमूचुः पापीयसी ते प्रजा भविष्यतीति
तथा हैवास
ततो ह वा एतत्पञ्चालेषु गन्धर्वायणा वालेया आग्निवेश्याः पापायिता इव
महाकुलꣳ ह तत्पुरा बभूव
स यो व्रात्यमुपवदेदेवमेवैनमुपवदेदथ यो व्रात्योऽलं प्रतिवचनाय स्यादेवमेवैनं प्रतिब्रूयात् २६

अथातो भाल्लविस्तोमा इत्याचक्षते
त्रिवृदभ्यावर्ति पञ्चदशमग्निष्टोमसाम सर्वे षोडशाः पवमानाः
पञ्चदशमभ्यावर्ति सप्तदशमग्निष्टोमसाम सर्वे षोडशाः पवमानाः
सप्तदशमभ्यावर्त्येकविꣳशमग्निष्टोमसाम सर्वे षोडशाः पवमाना एकविꣳशमभ्यावर्ति त्रिणवमग्निष्टोमसाम सर्वे षोडशाः पवमानास्
त्रिणवमभ्यावर्ति त्रयस्त्रिꣳ शमग्निष्टोमसाम सर्वे षोडशाः पवमानास्
त्रयस्त्रिꣳ शमभ्यावर्ति त्रिणवमग्निष्टोमसाम सर्वे षोडशाः पवमानास्
त्रिणवमभ्यावर्त्येकविꣳशमग्निष्टोमसाम सर्वे षोडशाः पवमाना एकविꣳशमभ्यावर्ति सप्तदशमग्निष्टोमसाम सर्वे षोडशाः पवमानाः
सप्तदशमभ्यावर्ति पञ्चदशमग्निष्टोमसाम सर्वे षोडशाः पवमानाः
पञ्चदशमभ्यावर्ति त्रिवृदग्निष्टोमसाम सर्वे षोडषाः पवमानाः २७
18.28
अथ वै भवति
देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वतेति
स हेक्षां चक्रे प्रजापतिः कथं न्वहमसुरैर्देवान्व्यावर्तयेयमिति
स एतं यज्ञक्रतुमनिरुक्तमुपहव्यमपश्यत्
तस्मिन्नेनानुपाह्वयतेति
स यत्राह प्रातर्यावभ्यो देवेभ्य इति मरुद्भ्यः प्रातर्यावभ्यो देवेभ्य इति तत्राहाथ यत्राह सोमः पवत इतीन्दुः पवत इति तत्राहाथ यत्राहेन्द्रा य पुरोडाशानामिति शक्राय पुरोडाशानामिति तत्राहाथ यत्राह वायव इन्द्रा वायुभ्यामिति नियुत्वते शक्रनियुद्भ्यामिति तत्राहाथ यत्राह मित्रावरुणाभ्यामित्यृतायुभ्यामिति तत्राहाथ यत्राहाश्विभ्यामिति नासत्याभ्यामिति तत्राहाथ यत्राहेन्द्रा य सोमानिति शक्रायेन्दूनिति तत्राहाथ यत्राहेन्द्रा ग्निभ्यामिति शक्रजातवेदोभ्यामिति तत्राहाथ यत्राह विश्वेभ्यो देवेभ्य इति मरुद्भ्यो विश्वेभ्यो देवेभ्य इति तत्राहाथ यत्राहेन्द्रा य मरुत्वत इति शक्राय गणवत इति तत्राहाथ यत्राह महेन्द्रा येति महते शक्रायेति तत्राहाथ यत्राहादित्येभ्य महद्भ्य आदित्येभ्य इति तत्राहाथ यत्राह वनस्पतय इति वनर्नृपायेति तत्राहाथ यत्राह देवाय सवित्र इति महते देवाय सवित्र इति तत्राहाथ यत्राह विश्वेभ्यो देवेभ्य इति महद्भ्यो विश्वेभ्यो देवेभ्य इति तत्राहाथ यत्राह देवानां पत्नीभ्य इति महतीभ्यो देवानां पत्नीभ्य इति तत्राहाथ यत्राहेन्द्रा य हरिवत इति शक्राय मघवत इति तत्राह
धाना इन्दुभ्य इत्यु हैके संप्रदिशन्ति २८
18.29
तदेतदर्वागेव यज्ञायज्ञियस्य स्तोत्राद्यज्ञायज्ञियस्य वाव स्तोत्रे स तां निरुवाच
तꣳ हासुरा उपेक्षामेव चक्रिरे किं वा वै करोति किं वा नेति
स यदा विदां चकार न वा इम एतर्हि पापभद्र योयोरीशत इति तदेनां निरुवाच देवो वो द्र विणोदा इति
प्रजापतिर्वै देवो द्र विणोदाः
पूर्णां विवष्ट्यासिचमिति
पूर्णां व्युदचत्यासिचमिति तदुद्वा सिञ्चध्वमुप वा पृणध्वमित्यास्य कामंकामं पूरयाध्वा इति तदादिद्वो देव ओहत इति
साध्येभ्यो देवेभ्यः प्रजापतिः कामंकाममूहते
सप्तदश स्तोमो भवति
सप्तदशः प्रजापतिः
प्रजापतेराप्त्ययश्वोऽसितज्ञुर्दक्षिणा
प्राजापत्यो वा अश्वः

प्रजापतेरनुरूपत्वाय
यः पाप्मना भ्रातृव्येण व्याविवृत्सेत स एतेन यज्ञक्रतुना यजेत
व्येव पाप्मना भ्रातृव्येणावर्तत इन्द्रो वृत्रꣳ हत्वा परां परावतमगच्छदपाराधमिति मन्यमानस्
तं देवा यज्ञेनान्वैषुस्
ते शतमाशिरं दुहां चक्रिरे भूयो भागधेयं भूयसीं प्रीतिमभ्युपावर्त्स्यतीति वदन्तः
स ह प्रातःसवने नाजगाम
ते सर्व एव प्रातःसवनस्य भक्षयां चक्रुः
को ह्यपेन्द्र स्य सोमस्य भक्षयिष्यतीति
तꣳ संतिष्ठमाने प्रातःसवनेऽच्छावाकस्य शस्त्रं प्रति जक्षुस्
ते सर्व एव चमसाध्वर्यव आनन्दिनोऽच्छावाकस्य शस्त्रं प्रत्यागर्तुं दध्रिरे

सेन्द्रा इव ह्यमन्यन्त
तस्मात्तीव्रसोमे सर्व एव चमसाध्वर्यव आनन्दिनोऽच्छावाकस्य शस्त्रं प्रत्यागृणन्ति
सेन्द्रा इव हि मन्यन्ते
तर्हि वाव तदासीत्
तदु वा आहुः सर्व एवैतर्हि यज्ञः सेन्द्र इति
तꣳ हाभिषुषुवुः २९
18.30
इहा इहा इहेतीहेहीहेहीहेहीति ह वा एनं तदूचुर्बृहद्बृहद्बृहदितीदं ते बृहदन्नाद्यं तदभ्युपावर्तस्वेति ह वा एनं तदूचुस्
तदेतन्माध्यंदिनस्य सवनस्यान्यत्रापि निदानं स शृतकलशमेकधनानां प्रातःसवनेऽवनयेद्दधि माध्यंदिने सवने
विमथितं तृतीयसवने
सास्य तीव्रता
सप्तदश स्तोमो भवति
सप्तदशः प्रजापतिः
प्रजापतेराप्त्यै
गर्भिणी वडबा ललामी दक्षिणेन्द्रियं वै गर्भ इन्द्रियं ललामः
सेन्द्रियत्वाय
यो ज्यान्या वोपतपता वाणिमानं नीतः स्यात्स एतेन यज्ञक्रतुना यजेताश्नुते हैव तीव्रताम्
इन्द्रो ऽकामयत वि पाप्मानꣳ हनीय श्रैष्ठ्यं देवानां गच्छेयमिति

स एतं यज्ञक्रतुमपश्यत्
तमाहरत्
तेनायजत
ततो वै स वि पाप्मानमहत श्रैष्ठ्यं देवानामगच्छद्यः कामयेत वि पाप्मानꣳ हनीय श्रैष्ठ्यꣳ समानानां गच्छेयमिति स एतेन यज्ञक्रतुना यजेत
व्येव पाप्मानꣳ हते श्रैष्ठ्यꣳ समानानां गच्छति
तस्यातिग्राह्यो वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । अधस्पदं तमीं कृधि यो अस्माꣳभिदासत्युपयामगृहीतोऽसीन्द्राय त्वा वैमृधाय जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्राय त्वा वैमृधायेति
तस्य त्रिवृत्पञ्चदशौ विपर्यासꣳस्तोमौ भवतस्
ताः षड्गायत्र्यो गायत्री वै छन्दसां वि पाप्मानमहत
गायत्र्यैव तद्यजमानो वि पाप्मानꣳ हते ३०
18.31
इन्द्रो ऽकामयतौद्भिद्यꣳ श्रैष्ठ्यं देवानां गच्छेयमिति
स एतं यज्ञक्रतुमपश्यत्
तमाहरेत्
तेनायजत
ततो वै स औद्भिद्यꣳ श्रैष्ठ्यं देवानामगच्छद्यः कामयेतौद्भिद्यꣳ श्रैष्ठ्यꣳ समानानां गच्छेयमिति स एतेन यज्ञक्रतुना यजेता उद्भिद्यꣳ हैव श्रैष्ठ्यꣳ समानानां गच्छति
तस्यातिग्राह्योऽयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः । ऋषिर्विप्रः काव्येनोपयामगृहीतोऽसीन्द्राय त्वोद्भिदे जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्राय त्वोद्भिद इति

तस्य पञ्चदशैकविँशौ विपर्यासꣳस्तोमौ भवतस्
ताः षड्बृहत्यो बृहती वै छन्दसामुदभिनद्बृहत्यैव तद्यजमान उद्भिनत्तीन्द्रो ऽकामयत वलं भित्त्वा पशून्सृजेयेति
स एतं यज्ञक्रतुमपश्यत्
तमाहरत्
तेनायजत
ततो वै स वलं भित्त्वा पशूनसृजत
यः कामयेत वलं भित्त्वा पशून्सृजेयेति स एतेन यज्ञक्रतुना यजेत
वलमेव भित्त्वा पशून्सृजते
तस्यातिग्राह्य इन्द्र ओषधीरसनोदहानि वनस्पतीꣳ रसनोदन्तरिक्षम्। बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनामुपयामगृहीतोऽसीन्द्राय त्वा वलभिदे जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्राय त्वा वलभिद इति
तस्य सप्तदशैकविँशौ विपर्यासꣳस्तोमौ भवतस्
ताः षड्गायत्र्यो गायत्री वै छन्दसां वलमभिनद्गायत्र्यैव तद्यजमानो वलं भित्त्वा पशून्सृजते ३१
18.32
ऋतपेयेन यक्ष्यमाणो भवति
स यदशनानां कामयते तस्याशितो भूत्वा दीक्षते यद्वा लभते तस्य
स एकाहं नाश्नात्यथाश्नाति
द्व्यहं नाश्नात्यथाश्नाति
त्र्यहं नाश्नात्यथाश्नाति
सोऽत्रैव विराजमाप्नोति
राजानं क्रीत्वोह्यातिथ्यं निर्वपति

यद्यु वा एतदुपात्येति चतुरहं नाश्नात्यथाश्नाति
पञ्चाहं नाश्नात्यथाश्नाति
षडहं नाश्नात्यथाश्नाति
तिस्र उपसदस्
त्रिँशत्संपद्यन्ते
त्रिँशदक्षरा विराडन्नं विराड्विराजैवान्नाद्यमवरुन्द्धेऽथ य एकादश स्तन एवास्यै स
दुह एवैनां तेनाथ य एकत्रिꣳ श स्तन एवास्यै स
दुह एवैनां तेन
स उपसत्स्वाज्यव्रतो भवति
शीतस्य सर्पिषस्तिसृभिरङ्गुलीभिरुपहन्त्यथ द्वाभ्यामथैकया
शीतस्य वैव सर्पिषस्त्रिभिः पर्वभिरुपहन्त्यथ द्वाभ्यामथैकेन
विलीने वा सर्पिषि त्रीणि परूँष्यवदधात्यथ द्वे अथैकं त्रिस्तनद्विस्तनैकस्तनव्रतस्य रूपाणि कुर्वन्
सनादित्याद्दिवा पर्यावर्तते नाग्नेरधि नक्तम्
औदुम्बरः सोमचमसश्चतुःस्रक्तिर्ब्रह्मा त्रिवेदः सगोत्रः ३२
18.33
सप्तदश स्तोमो भवति
सप्तदशः प्रजापतिः
प्रजापतिमन्नाद्यं नोपानमत्
तं देवा ऋतसत्याभ्यामन्वैषुः
स यदश्नाति यदेवाशनेनावरुद्धं तस्यावरुद्ध्या इति तदथ यन्नाश्नाति यदेवानशनेनावरुद्धं तस्यावरुद्ध्या इति तदथ यदुपसत्स्वाज्यव्रतो भवत्येतद्वै देवानां प्रियं धाम यदाज्यं देवानामेव प्रियं धामावरुन्द्ध इति तदथ यन्नादित्याद्दिवा पर्यावर्तते नाग्नेरधि नक्तमेते वै देवानामृतसत्ये

नेद्देवानामृतसत्ये पृष्ठतः करवाणीत तदथ यदौदुम्बरो भवत्यूर्ग्वा अन्नाद्यमुदुम्बर ऊर्ज एवान्नाद्यस्यावरुद्ध्या इति तदथ यत्सोमचमसो भवत्येतद्वै देवानां परममन्नं यत्सोमः
परमेणैवास्मा अन्नाद्येनावरमन्नाद्यमवरुन्द्ध इति तदथ यच्चतुःस्रक्तिर्भवति यदेव दिशोऽन्नाद्यं प्राविशत्तस्यावरुद्ध्या इति तदथ यत्त्रिवेदा भवति न ह्येतामेकवेदा दक्षिणामुद्यन्तुमर्हतीति तदथ यत्सगोत्रो भवत्यात्मा वै सगोत्र आत्मन्नेव यज्ञस्य यशोऽन्नाद्यं प्रतिष्ठापयानीति तत् ३३
18.34
तं माध्यंदिनीयैश्चमसैः सहोन्नीय जुह्वति
तमृत्विजो हुतं दक्षिणानां काले ब्रह्मण उपातिदिशन्ति
तं ब्रह्मणः सन्तं पर्युपविश्य भक्षयन्ति यदृतं मन्यन्ते तेन
यदृतेन भक्ष्यन्ति तदृतपेयस्यर्तपेयत्वं दिशोऽकामयन्तान्नाद्यः स्यामान्नाद्यमवरुन्धीमह्यन्नाद्यमस्मासु प्रतितिष्ठेदिति
ता एतं यज्ञक्रतुमपश्यन्
तमाहरन्
तेनायजन्त
ततो वै ता अन्नाद्योऽभवन्नन्नाद्यमवारुन्धतान्नाद्यमासु प्रत्यतिष्ठद्यः कामयेतान्नादी मे प्रजा स्यादन्नाद्यमवरुन्धीतान्नाद्यमस्यां प्रतितिष्ठेदिति स एतेन यज्ञक्रतुना यजेतान्नाद्येवास्य प्रजा भवत्यन्नाद्यमवरुन्द्धेऽन्नाद्यमस्यां प्रतितिष्ठति
तस्य चतसृषु बहिष्पवमानोऽष्टास्वष्टास्वाज्यानि द्वादशो माध्यंदिनः पवमानः षोडशानि पृष्ठानि सविꣳश आर्भवः पवमानश्चतुर्विँशमग्निष्टोमसाम

तं दिशां चतुष्टोम इत्याचक्षते
छन्दाँस्यकामयन्त यशोऽश्नुवीमहि यशोऽवरुन्धीमहि यशोऽस्मासु प्रतितिष्ठेदिति
तान्येतं यज्ञक्रतुमपश्यन्
तमाहरन्
तेनायजन्त
ततो वै तानि यशोऽश्नुवत यशोऽवारुन्धत यश एषु प्रत्यतिष्ठद्यः कामयेत यशोऽश्नुवीय यशोऽवरुन्धीय यशो मयि प्रतितिष्ठेदिति स एतेन यज्ञक्रतुना यजेत
यश एवाश्नुते यशोऽवरुन्द्धे यशोऽस्मिन्प्रतितिष्ठति
तस्य स्तोमा अस्तुवतैकस्यामथ तिसृष्वेकस्यामथ तिसृषु
तमेतं छन्दसामेकत्रिक इत्याचक्षते
स्तोमा अकामयन्तेति समानः परिवादस्
तस्य स्तोमास्त्रिवृदथ त्रयः पञ्चदशास्त्रिवृदथ त्रयः सप्तदशास्त्रिवृदथ त्रय एकविꣳशास्
तमेतꣳ स्तोमानामेकत्रिक इत्याचक्षते ३४
18.35
इन्द्राग्नी वा अकामयेताꣳ समानलोकौ स्याव समानं लोकमियावेति
तावेतं यज्ञक्रतुमपश्यतां तमाहरतां तेनायजेतां ततो वै तौ समानलोकावभवताꣳ समानं लोकमैताꣳ समानलोकावप्यथ यौ कामयेताꣳ राजा च पुरोहितश्च समानलोकौ स्याव समानं लोकमियावेति तावेतेन यज्ञक्रतुना यजेयाताꣳ समानलोकावेव भवतः समानं लोकमितोऽश्वरथो यज्ञायुधः प्रासङ्ग्यश्चमसः सा ब्राह्मणस्य दक्षिणाश्वतरीरथः सर्वायुधोऽप्रासङ्ग्यः काꣳस्यस्तूणीबन्धः सा राजन्यस्य दक्षिणा
तस्य त्रिवृत्पञ्चदशौ विपर्यासꣳस्तोमौ भवतस्
त्रिवृदेव ब्राह्मणस्य पञ्चदशो राजन्यस्य
तमेतमिन्द्राग्नियोः कुलाय इत्याचक्षत एष एव सन्पितापुत्रीय एष सख्योर्यज्ञ एष भ्रात्रोः ३५
18.36
अभिचरणीयैः सोमैर्यक्ष्यमाणो भवति
स द्वयानि यज्ञायुधान्युपकल्पयते बाधकानि च तैल्वकानि च शवानसोऽधिषवणे फलके पुरुषास्थस्य वृषणौ
स यत्राध्वर्युरुपाꣳ शुं ग्रहीष्यन्राजानमभिषुणोति तस्य योऽँ! शुः परापतति तमेतस्मिन्पात्र आधायोपसंगृह्याथाहामुं जह्यथ त्वा होष्यामीत्या तमितोरास्तेऽथैतं भङ्गमाहवनीयेऽनुप्रहरतीदमहममुमामुष्यायणं परिप्लुना भङ्गेन विध्यामीत्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायत्य्
अथैतत्पात्रं खरे यथायतनꣳ सादयत्यमुष्य त्वा प्राणे सादयामीति
स यं कं च ग्रहं गृह्णात्येवमेवैनं गृह्णाति
यदु किं च पात्रꣳ सादयत्येवमेवैनत्सादयति
स एष त्रिवृदग्निष्टोम एकस्तोम एकहविर्धानस्
तꣳ श्येन इत्याचक्षतेऽथेषुः
समानमभिचरणीयꣳ शिल्पं तिसृषुतिसृषु स्तुवते
रथो हविर्धानम्
अथ संदँशः
समानमभिचरणीयꣳ शिल्पं द्वौ त्रयस्त्रिꣳ शौ मध्यत स्तोमौ भवतो द्वे हविर्धाने
अथेन्द्र वज्रः
समानमभिचरणीयꣳ शिल्पम्पञ्चदश एष भवति ३६
18.37
दुरशेन यक्ष्यमाणो भवति
स उपकल्पयते षष्टिꣳ शतमानानि हिरण्यानि त्रिँशतꣳ सुवर्णानि त्रिँशतꣳ रजतानि बह्वन्यद्धिरण्यं स आमावास्येन हविषेष्ट्वा सौर्यं चरुं निर्वपति
तस्मिन्सुवणꣳर्! शतमानं ददात्यथ सायꣳ हुतेऽग्निहोत्रे चान्द्र मसं चरुं निर्वपति
तस्मिन्रजतꣳ शतमानं ददाति
स एवमेवैताभ्यामिष्टिभ्यामहरहर्यजमानो मासमेत्यथ दीक्षते
दीक्षणीयायां द्वादशमानꣳ हिरण्यं ददाति

प्रायणीयायां चतुर्विँशतिमानं ददात्यातिथ्यायां द्वे चतुर्विँशतिमाने ददाति
प्रथमायामुपसदि चत्वारि ददाति
द्वितीयस्यामुपसद्यष्टौ ददाति
तृतीयस्यामुपसदि षोडश ददाति
चतुर्थ्यामुपसदि द्वात्रिँशतं ददाति
पञ्चम्यामुपसदि चतुःषष्टिं ददाति
षष्ठ्यामुपसद्यष्टाविँशꣳ शतं चतुर्विँशतिमानानां ददात्यथातः शतसंख्यैवाग्नीषोमीयस्य हुतायां वपायां द्वे शते ददात्याग्नेयस्य हुतायां वपायां चत्वारि ददाति
प्रातःसवनीयेष्वष्टौ ददाति
माध्यंदिनीयेषु षोडश ददाति
दक्षिणानां काले द्वात्रिꣳ शतं ददाति
तृतीयसवनीयेषु चतुःषष्टिं ददात्यनूबन्ध्यस्य हुतायां वपायामष्टाविꣳशꣳ शतानां ददाति
स यदेताभ्यामिष्टिभ्यामहरहर्यजते सूर्याचन्द्र मसोरेव तत्सायुज्यꣳ सलोकतामाप्नोति ३७
18.38
अथ यद्धिरण्यदक्षिणो भवति हिरण्मयमेव तद्यजमान आत्मानꣳ सꣳस्कुरुते

तस्य यदूर्ध्वं नाभेस्तत्सुवर्णमवाङ्रजतं यदा ह वै हिरण्मयो भवत्यथामृतो भवति
हिरण्मया ह वै देवास्
तस्मात्तेऽमृताः
सप्तदशस्तोमो भवति
सप्तदशः प्रजापतिः
प्रजापतेराप्त्ययुभे सामनी भवतश्छन्दोमयावेतत्पक्षौ यजमान आत्मानꣳ सꣳस्कुरुत एतस्य लोकस्य जित्यै
स यदेतेन यज्ञक्रतुना यजते सूर्याचन्द्र मसोरेव तत्सायुज्यꣳ सलोकतां जयति
तेन दुरशो दुरश इव ह्येतयोर्देवतयोर्लोकोऽथ दुर्णाशेन यक्ष्यमाणो भवति
स उपकल्पयतेऽनडुच्छतं च त्रयस्त्रिꣳ शतं च निष्कांस्तेन हैतेनानडुहो लोकं जयति
तेन हैतेन ज्योतिष्मन्तं लोकं जयति
तेन हैतेन ज्योतिषोऽधि स्वर्गं लोकं जयति
सप्तदशस्तोमो भवति
सप्तदशः प्रजापतिः
प्रजापतेराप्त्ययुभे सामनी भवतश्छन्दोमयावेवैतत्पक्षौ यजमान आत्मानꣳ सꣳस्कुरुत एतस्य लोकस्य जित्यै
स यदेतेन यज्ञक्रतुनेष्ट्वा न नश्यति तेन दुर्णाशस्

तद्दुर्णाशस्य दुर्णाशत्वं केशी ह दाल्भ्योऽपचितिकामोऽपचितिनेजे तन्नो नामनी परिहरन्ता इति
ततो ह वा एतत्पञ्चालराजानां नामानि परिहरन्ते ३८
18.39
शीर्षण्या इति केशानाचक्षते
कुशा इति दर्भान्
नद्याविति गैरेयकविमत्यौ
ततो वै सोऽपचितिमानभवद्यः कामयेतापचितिमान्त्स्यामिति स एतेन यज्ञक्रतुना यजेतापाचितिमानेव भवति
तस्य चतुर्विँशो बहिष्पवमानस्त्रिवृत्पञ्चदशान्याज्यानि
तास्तिस्रो गायत्र्यश्चतुर्विँशो माध्यंदिनः पवमानः पञ्चदशसप्तदशानि पृष्ठानि
ते द्वे त्रिष्टुभौ
त्रिणव आर्भवः पवमान एकविꣳशमग्निष्टोमसाम
सैका जगत्येतानि वै छन्दसामपचिततमान्यपचितिमानेव भवति य एवं वेदासावादित्योऽकामयत त्विषिमान्त्स्यामिति
स एतं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत

ततो वै स त्विषिमानभवद्यः कामयेत त्विषिमान्त्स्यामिति स एतेन यज्ञक्रतुना यजेत
त्विषिमानेव भवति
तस्य सौर्योऽतिग्राह्यः
सौर्यः पशुरुपालम्भ्य एकविँश एष भवति ३९
18.40
इन्द्रो ऽकामयतर्षभ इव पशूनामैश्वर्यमाधिपत्यꣳ राज्यं देवानां परीयामिति
स एतं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत
ततो वै स ऋषभ इव पशूनामैश्वर्यमाधिपत्यꣳ राज्यं देवानां पर्यैद्यः कामयेतर्षभ इव पशूनामैश्वर्यमाधिपत्यꣳ राज्यꣳ समानानां परीयामिति स एतेन यज्ञक्रतुना यजेतर्षभ इव पशूनामैश्वर्यमाधिपत्यꣳ राज्यꣳ समानानां पर्येति
तस्यातिग्राह्यो वृषा सो अꣳ शुः पवते हविष्मान्त्सोम इन्द्र स्य भाग ऋतयुः शतायुः । स मा वृषाणं वृषभं कृणोतु प्रियं विशाꣳ सर्ववीरꣳ सुवीरमुपयामगृहीतोऽसीन्द्रा य त्वर्षभाय जुष्टं गृह्णां इति
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वर्षभायेति
तस्य पञ्चदशस्य सत एकविँशꣳ होतुः प्रष्ठं ककुदो रूपम्
इन्द्रेण ह स्म वै पूर्वे समाजिगमिषन्तो वनिष्ठुसवेन यजन्ते तृप्तो न इन्द्र आविर्भविष्यति तस्मै कामान्वक्ष्याम इति वदन्तो
वनिष्ठुसवेन यक्ष्यमाणो भवति
स उपकल्पयते शतमुक्षवेहतः शतं दार्वाचितानि शतꣳ सर्पिष्पात्राञ्छतं पयःपात्राञ्छतं दधिपात्राञ्छतं वसापात्रानौदुम्बरीं नावमुभयतोऽभिपतनां परिगृहीतामथ प्रणेतॄन्
एतेनोपकॢप्तेन चित्रामायतीमुपरमत्यथ चित्रयेति पूर्वाग्निमन्ववस्यत्युत्तपनीयꣳ शालीनोऽन्वाहार्यपचनमाहिताग्निरथैतानि दार्वाचितानि प्रदोष एवाग्नावादधाति
तेषु प्रज्योतिषूक्षवेहतो निघ्नन्त्यथैषामभ्यर्धान्वनिष्ठून्मेदाꣳ सीति श्रपयन्त्यथोदित आदित्य आयातयत्यौदुम्बरीं नावमुभयतोऽभिपतनां परिगृहीतां प्रणेतृभिस्
तस्यामुपस्तृणीते पञ्चाशता सर्पिष्पात्रैः पञ्चाशता पयःपात्रैः पञ्चाशता दधिपात्रैः पञ्चाशता वसापात्रैस्
तस्यां वनिष्ठून्मेदाꣳ सीति संप्रकीर्याथाभिघारयति पञ्चाशता वसापात्रैः पञ्चाशता दधिपात्रैः पञ्चाशता पयःपात्रैः पञ्चाशता सर्पिष्पात्रैरथ पुरोऽनुवाक्यामन्वाह ४०
18.41
इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिनो वज्रबाहुः । सेदु राजा क्षेति चर्षणीनामरान्न नेमिः परि ता बभूवेति
यजतीन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति । ततो ददातु दाशुषे वसूनि चोदद्रा ध उपस्तुतश्चिदर्वाक्स्वाहेति
तृप्त एवास्मा इन्द्र आविर्भवति
तस्मै कामान्ब्रुवते
कानान्धꣳ ह वाध्र्यश्वं बृहस्पतिराङ्गिरसो याजयां चकार
तस्य होपवसथीयेऽहञ्छ्रद्धा वीयाय
स होवाचाध्वर्यो वि वै मे श्रद्धागात्सं मे यज्ञꣳ स्थापयेति
तꣳ होवाचान्यद्वै तदुपवसथः श्वस्ते यज्ञः सꣳस्थातेति
स होवाच समेव मे स्थापयेति
तस्य ह तावद्विदित्वाग्रेण हविर्धाने चर्मण्युलूखलमुसले निधायाꣳ शून्समवक्षुदां चकार यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे । इह द्युमत्तमं वद जयतामिव दुन्दुभिरित्य्
अथ होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य समुदायुत्य जुहवां चकार यथा जना सꣳस्तथे व्रतानि कोव्रतिनां व्रतमालोभयाति । कानान्धस्य प्रस्थितं वाध्र्यश्वस्य तीव्रसुतꣳ श्रवदिन्द्र जुषस्व स्वाहेति
स एष उन्मत्तस्य वा वीतश्रद्धस्य वा नीतस्य वा यज्ञः
सा यदागता स्यादथ चतुष्टोमेनाग्निष्टोमेन यजेत पुरा भ्रेषाच्छान्त्यै ४१
18.42
मनुर्वैवस्वतोऽकामयत प्रजाꣳ सृजेय प्रजामवरुन्धीय प्रजां विन्देया मा प्रजया चक्षीरन्निति
स एतं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत

ततो वै स प्रजामसृजत प्रजामवारुन्द्ध प्रजामविन्दतैनं प्रजयाचक्षत
यः कामयेत प्रजाꣳ सृजेय प्रजामवरुन्धीय प्रजां विन्देया मा प्रजया चक्षीरन्निति स एतेन यज्ञक्रतुना यजेत
प्रजामेव सृजते प्रजामवरुन्द्धे प्रजां विन्दत ऐनं प्रजया चक्षते
तस्य प्राचीनस्तोमास्त्रयस्त्रिवृतस्त्रयः पञ्चदशास्त्रयः सप्तदशास्त्रय एकविꣳशाः
सोऽकामयतान्नादी मे प्रजा स्यादन्नाद्यमवरुन्धीतान्नाद्यमस्यां प्रतितिष्ठेदिति
स एतं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत
ततो वै तस्यान्नादी प्रजाभवदन्नाद्यमवारुन्द्धान्नाद्यमस्यां प्रत्यतिष्ठद्यः कामयेतान्नादी मे प्रजा स्यादन्नाद्यमवरुन्धीतान्नाद्यमस्यां प्रतितिष्ठेदिति स एतेन यज्ञक्रतुना यजेतान्नाद्येवास्य प्रजा भवत्यन्नाद्यमवरुन्द्धेऽन्नाद्यमस्यां प्रतितिष्ठति
तस्य दश स्तोमा दशसुदशसु स्तुवते विराजो रूपम्वागाम्भृण्यकामयतापरिमितं यशोऽश्नुवीयेति
सैतं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत
ततो वै सापरिमितं यश आश्नुत
यः कामयेतापरिमितं यशोऽश्नुवीयेति स एतेन यज्ञक्रतुना यजेतापरिमितमेव यशोऽश्नुते

तस्य दशसु बहिष्पवमानः शते सहस्रेऽयुते प्रयुतेऽर्बुदे न्यर्बुदे समुद्रे मध्येऽन्ते परार्धे ४२
18.43
यमो वैवस्वतोऽकामयत पितृणामैश्वर्यमाधिपत्यꣳ राज्यं परीयामिति
स एतं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत
ततो वै स पितृणामैश्वर्यमाधिपत्यꣳ राज्यं पर्यैद्यः कामयेत समानानामैश्वर्यमाधिपत्यꣳ राज्यं परीयामिति स एतेन यज्ञक्रतुना यजेत
समानानामैश्वर्यमाधिपत्यꣳ राज्यं पर्येति
तस्य शते बहिष्पवमानः सहस्रेऽयुते नियुते प्रयुतेऽर्बुदे न्यर्बुदे समुद्रे मध्येऽन्ते परार्धे पद्वे पल्वे
नित्यमुक्त्वा मनसैव स्तुवानो मन्यत एतावति मे स्तुनमित्यथ सकृत्प्रवर्ग्य आतिथ्येन प्रचर्य गार्हपत्ये प्रवर्ग्यं प्रवृणक्ति
तेनाहवनीये प्रचरति
तं काल उद्वासयति
शिरो वा एतद्यज्ञस्य यदातिथ्यं यशः प्रवर्ग्यः
शीर्षन्नेव यज्ञस्य यशो दधातीति नु सकृत्प्रवर्ग्योऽथ सुते प्रवर्ग्यः
पवमानेन चरित्वाग्नीध्रे प्रवर्ग्यं प्रवृणक्ति
तेनाहवनीय एव प्रचरति
तं तदानीमेवोद्वासयति
यशः प्रवर्ग्यः
शीर्षन्नेव यज्ञस्य यशो दधातीति नु सुत्याप्रवर्ग्योऽथ सकृत्प्रवर्ग्योऽथ सुते प्रवर्ग्योऽथ सुत्याप्रवर्ग्यः ४३
18.44
पुरूरवा ह पुरा ऐडो राजा कल्याण आस
तꣳ होर्वश्यप्सराभिदध्यौ
तꣳ संवत्सरं कामयमानानुचचारैवꣳ ह स्म वै पूर्वेऽभिश्राम्यन्ति
तद्धातिचिरं मेने
तस्य ह धावतः पुरो रथं कर्तं दर्शयामास
तꣳ ह दृष्ट्वा राजावतस्थौ
तꣳ हावस्थाय न ददर्शाथो ह पुनरातस्थौ
तꣳ हास्थायैव ददर्श
स ह सारथिं पप्रच्छ सारथे किं पश्यसीति
त्वां भगव इति होवाच रथमश्वान्पन्थानमिति
स हेक्षां चक्रे दृप्यामि वै किलेति
तꣳ ह वागभ्युवाच न वै दृप्यस्यहं वै त्वामेतं कर्तमदीदृशमित्यथ कस्त्वमित्यहमुर्वश्यप्सरेति होवाच
सा त्वा संवत्सरं कामयमानान्वचारिषं तां मा जायां विन्दस्वेति
दुरुपचारा ह वै भवति देवा इति होवाच
का त उपचर्येति
शतं ममोपसदः स्युः
शतꣳ शतं मा सर्पिष्कुम्भा अहरहरागच्छेयुस्तदाशना स्यां
न त्वा नग्नं पश्येयमिति
सर्वमेवैतद्भगवति सुकरमिति होवाच
कथा त्वपि जाया पतिं नग्नं न पश्यतीत्यन्तर्वासं वसीथा इति होवाचानग्नो भवेति
तया सहोवासान्तवासं वसानः
सा ह स्म जाताञ्जातानेव पुत्रानपविध्यति
ताꣳ ह राजोवाच पुत्रकामा ह वै भगवति वयं मनुष्याः स्मो जाताञ्जातानु त्वमपविध्यसीति
सा होवाच पर्यवेतरात्रयो भवन्ति क्षीणायुषोऽन्ये
भूयः प्रियं करवावहा इति
सायुं चामावसुं च जनयां चकार
सा होवाचेमौ बिभृतेमौ सर्वमायुरेष्यत इति
प्राङायुः प्रवव्राज
तस्यैते कुरुपञ्चालाः काशिविदेहा इत्येतदायवं प्रव्राजम्प्रत्यङमावसुस्
तस्यैते गन्धारय स्पर्शवोऽराट्टा इत्येतदामावसवम् ४४
18.45
अथो हास्या एषा पूर्वचित्तिरप्सरा स्वसा बभूव
सा हेक्षां चक्रे ज्योग्वै मे स्वसा मनुष्येष्ववात्सीद्धन्तैनामच्छायानीति

तया सहागत्यैव संगमं न लेभेऽथो हास्या अवियूथमुपस्थापदासैवꣳ ह स्म वै पूर्वासां महिषीणाꣳ रूपं भवति
तद्वृकरूपं कृत्वा प्रमाथं चिकायाथो हास्या उरणः क्षीरप आसन्दीपादे बद्ध आस
तꣳ सा प्रममाथ
तस्मिन्ह्रियमाणे रुरुवेऽयमवीरज इति
तच्छ्रुत्वा राजोत्पपात
तामभ्यानश तामभ्युपेयाय
तꣳ सा नकुली भूत्वा प्रत्युपेयाय
तस्य हान्तर्वासमवलुलोपाथ ह सा विद्युतं जनयां चकार
तꣳ सा विद्युति नग्नमनुचख्यवथो ह राजाजगामास्वारुहं वा अहमजीत उरुणमत्यसारुहंहि नूनमिति प्रत्यहं प्रजहिष्यामीति
किं व्यभूदिति
नग्नं त्वादर्शमिति होवाच
तस्यां प्रव्रजितायामप्रियविद्धः शोचꣳश्चचार

तꣳ होवाच बृहस्पतिराङ्गिरसो हन्त त्वा शदेन याजयिष्याम्यापयि त्वा पुनर्जिन्विष्यामीति
तꣳ शदेन बृहस्पतिराङ्गिरसो याजयां चकार
ताꣳ हावभृथादेवोदेत्य प्रतिददर्श
ताꣳ ह पुत्रौ प्रतीत्योचतुरिह नौ नय यत्र ते गतिर्बलिनौ वां पितरमशुशुच इति
सा होवाच सं वां पुत्रकौ जनेय साहमिह तिस्र एव रात्रीर्वत्स्यामि नो ब्राह्मणस्य वचो मोघमसदिति
तया सह तिस्र एव रात्रीरुवासान्तर्वासं वसानस्
तस्याꣳ रेतः सिषिचे
सा होवाच कथमिदꣳ स्यादिति
कथꣳ हि नूना३मिति राजा प्रत्युवाच
सा होवाच नवां कुम्भीमाहरेति
तस्यामेनन्निःषिषेचाथ ह कुरुक्षेत्रे बिसवत्यो नाम पुष्करिण्यस्
तासामुत्तरार्ध्या सुवर्णसवनी

तस्यामेनन्निचखान
तदश्वत्थो जज्ञे शम्या परिवृतो रेतसोऽश्वत्थ आशयाच्छम्येषैव शमीगर्भस्य सृष्टिरेतन्निदानम्
अथ वै भवति
सर्वेण वै देवाः सुवर्गं लोकमायन्निति
स यत्र हैतद्यज्ञो देवेभ्योऽधि मनुष्यान्प्रत्यवरुरोहाश्वत्थꣳ हैव तत्प्रत्यवरुरोह
तस्यारणी चक्रिरेऽयं वाव स यज्ञ इत्यथो खलु य एव कश्चाश्वत्थः स शमीगर्भः
स यदाहोर्वश्यस्यायुरसि पुरूरवा इत्येतेषामेवैतत्पितापुत्राणां नामानि गृह्णात्यथो सामान्यमेवैतदूहेत
तस्यां प्रव्रजितायां पुन रेवाप्रियविद्धः शोचꣳश्चचार
तꣳ होवाच बृहस्पतिराङ्गिरसो हन्त त्वौपशदेन याजयिष्यामि वि वै तेऽप्रियमेवैष्यतीति
तमौपशदेन बृहस्पतिराङ्गिरसो याजयां चकार
ततो वै तस्याप्रियं विनिनाय
तौ ह वा एतौ पौरूरवसौ नाम शदौपशदौ
स यो वित्तꣳ सिषाधयिषेत्तꣳ शदेन याजयेत्
तस्य दशसु बहिष्पवमान एकैकोपशीयत ऐकविꣳशत्यै सुनोतीहैवाथ योऽर्पियं विनिनीषेत्तमौपशदेन याजयेत्
तस्यैकविꣳशत्यां बहिष्पवमान एकैकावशीयत आ दशभ्योऽथ प्राजापत्यौ नाम शदौपशदौ
तस्य तिसृषु बहिष्पवमानस्
तिस्रस्तिस्र उपशीयन्त आ षट्त्रिꣳ शतः
षट्त्रिꣳ शत्सु बहिष्पवमानस्
तिस्रस्तिर्सोऽवशीयन्त आ तिसृभ्योऽथ नैध्रुवस्य कश्यपस्य शदौपशदौ
तस्य चतसृषु बहिष्पवमानश्चतस्रश्चतस्र उपशीयन्त आष्टाचत्वारिꣳ शतोऽष्टाचत्वारिꣳ शत्सु बहिष्पवमानश्चतस्रश्चतस्रोऽवशीयन्त आ चतसृभ्यः ४५
18.46
देवासुरा ह यत्र महासंग्रामꣳ संयेतिरे तद्धेमानि भूतानि द्वेधैव व्यपचक्रेमुर्देवानेवान्वन्यान्यसुरानेवान्वन्यानि

बृहस्पतिर्देवानां पुरोहित आसीदुशना काव्योऽसुराणाम्ब्रह्मण्वन्तो देवा आसन्ब्रह्मण्वन्तोऽसुरास्
ते बहून्संग्रामानविजयमाना आसां चक्रिरे
तेषां न कतरे चन भविष्यदाजज्ञुर्गन्धर्वो हैव सूर्यवर्चा भविष्यदाजज्ञे
तस्यो हेन्द्रो जायाया उपहास्य आस
ताꣳ होवाचामुदिताङ्गि त्वमिदं गन्धर्वं पृच्छ किमर्थमिदं देवासुरा न विजयन्तीति
तं तथेति होवाच त्वमपि श्व आगच्छतादिति
स हान्तः समुद्रे हिरण्मय्या नावया सहजानि कुमारयां चक्रेऽथो हेन्द्र आजगाम
स ह सौवर्णः पटरो भूत्वा नौमण्ड उपशिश्लेष
तꣳ हागतमेव विदित्वा पप्रच्छामुदिताङ्ग त्वमिदं ब्रूहि किमर्थमिदं देवासुरा न विजयन्तीति
मोच्चैरिति होवाच कर्णिनी वै नौराप इति
ब्रह्मण्वन्तो देवा इति होवाच ब्रह्मण्वन्तोऽसुरा इति
तच्छ्रुत्वेन्द्रो हरिशुकरूपं कृत्वोत्पपात

तꣳ ह दृष्ट्वैवाह मघवन्भो इति यतरेषाꣳ हरिस्ते जेष्यन्तीति
स ह गत्वैवोशनसं काव्यमुपमन्त्रयां चक्रे जयन्त्या च दुहित्रा चतसृभिश्च कामदुघाभिः
स हाज्ञप्तोऽसुरेभ्योऽधि देवानुपसमियाय
ततो ह वा एतद्देवा असुरान्महासंग्रामं जिग्युः ४६
18.47
स ह गुरुरिव मेने गरमिव गीर्त्वा बहु वित्तमसुराणां प्रतिगृह्य
स होवाच गुरुरिवास्मि गरमिव गीर्त्वा बहु वित्तमसुराणां प्रतिगृह्य हन्त मा याजयेति
तं द्वादशस्तोमेनाग्निष्टोमेन बृहस्पतिराङ्गिरसो याजयां चकार
तेन हेष्ट्वोर्ध्वꣳहिरण्यमुज्जगार
तद्ध दृष्ट्वेक्षां चक्रे हन्ताहमिदमसुरेभ्यो निर्हराणीति
तद्धेन्द्र आज्ञायैव शिलां चकार
ते ह वा एत औशनसा नाम कुरुक्षेत्रे पर्वतगाः

स ह लघुरिवाचरदप्रतिष्ठितः
स होवाच लघुरिव वा अस्म्यप्रतिष्ठितो हन्त मा याजयेति
तमेकविꣳशतिस्तोमेनाग्निष्टोमेन बृहस्पतिराङ्गिरसो याजयां चकार
ततो वै स प्रतितस्थवथो हेन्द्र ः! कामदुघा अवरुरुधे
तꣳ ह सायमेतमुवाच प्रातरेतादिति
प्रातरेतमुवाच सायमेतादिति
स एवमेव संवत्सरं नेनीयामास
स होवाच प्रातरेतादिति
मा सायमात्थ सायमेतादिति
मा प्रातरात्थ कोऽयमेतः कतमोऽयमेतो यमेनमेतं मघवन्ब्रवीषीति होक्त्वा प्रवव्राजाथो हेन्द्र उक्थानि कामदुघाश्चकार
ताꣳ ह स वरुणाय प्रददाविदं तव मम चेदममुष्य च नौ सहेति
बृहस्पतय आङ्गिरसायेदं नावाख्यास्ता विधारया नावहस्येदमज्यसीति विष्णवे शिपिविष्टाय चेत्येषैवोक्थानाꣳ सृष्टिरेतन्निदानम्

अथो हास्यैव मनुर्वैवस्वतः शून्यमानः सन्सखास
तस्मै चतुर्थीं प्रददौ
ताꣳ सोऽस्यां न्यदधात्
सेयं कृष्टिरेवैष कृष्टेः सृष्टिरेतन्निदानं तौ ह वा एतावौशनसौ नाम पुनस्तोमौ भवतः
स यो गुरुरिव मन्येत गरमिव गीर्त्वायाज्यं वा याजयित्वाप्रतिग्राह्यस्य वा प्रतिगृह्य तं द्वादशस्तोमेनाग्निष्टोमेन याजयेदश्नुते हैव लघुताम्
अथ यो लघुरिव चरेदप्रतिष्ठितस्तमेकविꣳशतिस्तोमेनाग्निष्टोमेन याजयेत्
प्रत्येव तिष्ठति ४७
18.48
अथ प्रणोदः
समानमभिचरणीयम्प्रातःसवनीयाननुवर्ततेऽग्नये प्रवते पुरोडाशोऽष्टाकपालस्
त्रिवृदेष भवत्यथ विबाधः
समानमभिचरणीयꣳ शिल्पम्माध्यंदिनीयाननुवर्ततेऽग्नये विबाधवते पुरोडाशोऽष्टाकपालस्
त्रिवृदेवैष भवत्यथ प्रतिनोदः
समानमभिचरणीयꣳ शिल्पं तृतीयसवनीयाननुवर्ततेऽग्नये प्रतीकवते पुरोडाशोऽष्टाकपालस्
त्रिवृदेवैष भवत्यथाग्नेरतिव्याधः
समानमभिचरणीयꣳ शिल्पम्
अनूबन्ध्यस्य पशुपुरोडाशमनुवर्ततेऽग्नये वसुमते पुरोडाशोऽष्टाकपालस्
त्रिवृदेवैष भवत्यथेन्द्र वज्रः
समानमभिचरणीयꣳ शिल्पम्पञ्चदश एष भवति
शुनस्कर्णो ह वै शैव्यो राजा पुण्यकृद्बहुयाज्यास

स ह पापीयाञ्जनतां प्रतिहितां प्रतिख्यायर्त्विजः पप्रच्छास्ति स्वित्स यज्ञक्रतुर्येनाहमिष्ट्वैव प्रयायामित्यस्ति हीति हैनमृत्विजः प्रत्यूचुस्
तस्मा अध्वर्युरयोनीनपुरोरुक्कान्ग्रहान्जग्राह
स्वराण्युद्गाता सामान्यनैडान्यनिधनानि
पराङेवर्ग्मियꣳ होतानुवाच
स हावभृथादेवोदेत्य ममार
यं द्विष्यात्तस्यैवं यज्ञं कुर्यादुपसृतं वा याजयेत्
क्षिप्रꣳ हैवास्माल्लोकात्प्रैत्यथ राशिमरायावित्याचक्षते चतुष्टोमे राशिकृतं धान्यं ददाति
स राशिश्चतुष्टोम एव मरायकृतं स मरायोऽथाञ्जनाभ्यञ्जनावित्याचक्षत आक्ताक्षा अलंकृता ऋत्विजः प्रचरन्ति
स आञ्जनोऽभ्यक्ताः शामूलवाससः
सोऽभ्यञ्जनोऽथ विषूचीनशालो भ्रातृव्यवतो यज्ञः
स तथा देवयजनं जोषयते यथा प्राचीनमाहवनीयात्प्रवणꣳ स्यात्प्रतीचीनं गार्हप्तयादिति
तदेते विषूचीनशाले मापयन्ति
प्रचरन्ति प्राञ्चः प्रत्यञ्चः प्रचरन्ति
मध्ये गार्हपत्यो भवति
मध्यत आसीनाय भक्षानाहरन्त्यनुदिशꣳ स्तोमौ स्यातामित्येतदेकम्
एकविꣳशौ स्यातामित्येतदेकम्
अनादृत्य तच्चतुष्टोमावेव कुर्वन्ति ४८
18.49
देवासुरा ह यत्र महासंग्रामꣳ संयेतिरे तद्ध शिबिरौशीनरो देवानां वर्गादसुरान्जिगाय
तस्यो हेन्द्रो जितवरं ददौ
स होवाच शिबिर्नैष्ठ्यं भयं न गच्छेदिति
तं वर्षिष्ठीयप्रस्थे सर्वतोमुखेन याजयां चकार ततो ह वा एतच्छिबिं नैष्ठ्यं भयं न गच्छति
यं कामयेतानपजय्यं जयेदिति तं वर्षिष्ठीयप्रस्थे सर्वतोमुखेन याजयेदनपजय्यमेव जयति

तदेताश्चतस्रः शाला अनुदिशं मापयन्ति
प्रचरन्ति प्राञ्चः प्रचरन्ति दक्षिणा प्रचरन्ति प्रत्यञ्च उदञ्चः प्रचरन्ति
मध्ये गार्हपत्यो भवति
मध्यत आसीनायाश्वतरीरथैर्भक्षान्संवहन्त्यनुदिशꣳ स्तोमाः स्युरित्येतदेकम्
एकविꣳशाः स्युरित्येतदेकम्
अनादृत्य तच्चतुष्टोमानेव कुर्वन्ति
पार्थः
पार्थी ह स्थपतिर्देवानैप्सत्
स ह सुतसोमान्सहस्रदक्षिणान्सहस्रमसुनोत्
स ह देवानाप
स एतान्सोमानाहरिष्यन्नुपकल्पयते शालाः सहस्रꣳ सहस्राणि सहस्रमश्वतरीरथांस्तदेताः शाला अनुदिशं मापयन्ति द्वे च शते पञ्चाशतं च पुरस्तादेवं दक्षिणत एवं पश्चादेवमुत्तरतः
प्रचरन्ति प्राञ्चः प्रचरन्ति दक्षिणा प्रचरन्ति प्रत्यञ्च उदञ्चः प्रचरन्ति
मध्ये गार्हपत्यो भवति
मध्यत आसीनायाश्वतरीरथैर्भक्षान्संवहन्त्यनुदिशꣳ स्तोमाः स्युरित्येतदेकम्
एकविꣳशाः स्युरित्येतदेकम्
अनादृत्य तच्चतुष्टोमानेव कुर्वन्ति ४९
18.50
यमाभ्याꣳ स्तोमाभ्यां यक्ष्यमाणो भवति
स तथा देवयजनं जोषयते यथान्तरेण चात्वालोत्करावुदक्संचरी स्यादिति
तदेते प्रबाहुक्शाले मापयन्ति
स दक्षिणाध्याꣳर्! शालामध्यवसाय मथित्वाग्नीन्विहृत्य दीक्षणीयामिष्टिं निर्वपत्य्
अथोत्तराध्याꣳर्! शालामध्यवसाय मथित्वाग्नीन्विहृत्य दीक्षणीयामिष्टिं निर्वपति
तयेह प्रचर्याथामुत्र प्रचरतीह दीक्षाहुतीर्जुहोत्यथामुत्रेह प्रायणीयामिष्टिं निर्वपत्यथामुत्र
तयेह प्रचर्याथामुत्र प्रचरतीह पदेन चरित्वा राजानं क्रीत्वोह्यातिथ्यं निर्वपत्यथामुत्र
तेनेह प्रचर्याथामुत्र प्रचरतीह प्रथमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्यथामुत्रेह मध्यमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्यथामुत्रेह महावेद्यै पूर्वं परिग्राहं परिगृह्णात्यथामुत्रेहोत्तमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्यथामुत्रेहाहवनीयं प्रणयत्यथामुत्रेह सदोहविर्धाने संमिनोत्यथामुत्रेहाग्नीषोमौ प्रणयत्यथामुत्रेह यूपस्यावृता यूपमुच्छ्रयति स्वर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरोत्यथामुत्र
तस्येह प्रसिद्धं वपया चरित्वा वसतीवरीर्गृह्णात्यथामुत्रेह पशुपुरोडाशं निर्वपत्यथामुत्र
तेनेह प्रचर्याथमुत्र प्रचरतीहाग्नीषोमीयेण प्रचरत्यथामुत्रेह वसतीवरीः परिहृत्य पयाꣳ सि विशिष्योपवसन्त्यथामुत्रेह त्वेव संविशन्तीह राजानमुपावहृत्य प्रातरनुवाकमुपाकरोत्यथामुत्रेहानुपूवꣳर्! सवनानि संतिष्ठन्त आ समुदितादेवमेवोत्तरस्याꣳ शालायाꣳ सवनानि संतिष्ठन्त आ समुदितादिहावभृथेन प्रचरत्यथामुत्रेहोदयनीयामिष्टिं निर्वपत्यथामुत्र

तयेह प्रचर्याथामुत्र प्रचरतीहैव मैत्रावरुणीं वशामुपाकरोत्यथामुत्र
तयेह प्रचर्याथामुत्र प्रचरति
समान्युदवसनीयेष्टिरथ यत्प्राक्सवनेभ्योऽधि व्यतिषक्तानि कर्माणि क्रियन्ते तस्माद्यमावन्तरुदरे व्यतिषक्तौ सह शयाते
अथ यदनुपूवꣳर्! सवनानि संतिष्ठन्ते तस्मादनुपूर्वौ जायेते
अथ यदूर्ध्वꣳसवनेभ्योऽधि व्यतिषक्तानि कर्माणि क्रियन्ते तस्मात्सहाशयन्ति सह पाययन्ति सह चरतोऽथ यत्समान्यरणिस्तस्मात्समानी योनिर्
अग्निश्च ह वा आदित्यश्च समानलोकं जिगीषमाणावेतं यज्ञक्रतुमपश्यतां तमाहरतां तेनायजेतां ततो वै तौ समानलोकावभवताꣳ समानं लकमैतां यः कामयेताग्नेश्चादित्यस्य च समानं लोकमियामिति स एतेन यज्ञक्रतुना यजेताग्निश्चैवादित्यस्य च समानं लोकमेति ५०
18.51
वाजयाजी ह वा अन्यो भवत्यन्य उ वाजपेययाज्येष ह वै वाजयाजी यः पेयैरनिष्ट्वाथ वाजेन यजत एष उ वाजपेययाजी यः पेयैरिष्ट्वाथ वाजेन यजते
तस्मादु पेयैरेवेष्ट्वाथ वाजेन यजेत

पेयैर्यक्ष्यमाणो भवति
सोऽनिष्ट्वैव पौर्णमासीं दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदः
स तथा राजानं क्रीणाति यथा मन्यतेऽमावास्यायै मे यज्ञियेऽहन्सुत्या संपत्स्यत इति
तस्य तथा संपद्यते
प्रसिद्धेन कर्मणोपवसथादेत्यथ वसतीवरीः परिहृत्य पयाꣳ सि विशिष्योपवसन्त्यथैताꣳ सवनेष्टिं निर्वपत्याग्नेयमष्टाकपालमिन्द्र मेकादशकपालं वैश्वदेवं द्वादशकपालं तया द्वादशाहानि यजतेऽथ त्रयोदशेऽह्नि पौर्णमासेन हविषा यजते येनास्यानिष्टं भवत्यथ चतुर्दशेऽहन्यामावास्येन ह्वैषा यजते येनास्यानिष्टं भवत्यथैतेषां यज्ञक्रतूनामेकेन यजतेऽथ पुनर्दीक्षते
स एवमेव संवत्सरं यजते
तस्याहानि त्रिवृत्पञ्चदशोऽथ त्रिवृत्सप्तदशोऽथ त्रिवृदेकविꣳशोऽथ त्रिवृत्त्रिणवोऽथ त्रिवृत्त्रयस्त्रिꣳ शोऽथ त्रिवृच्चतुष्टोमो मासानामेव रूपं पेयाः
संवत्सरस्य रूपं वाज एवमस्यैष संवत्सरः परीष्ट एवमाप्तो भवत्यथाहीनविधिस्
तस्याहानि त्रिवृत्पञ्चदशः सप्तदशश्चतुष्टोमस्त्रिवृदेवाथैकविꣳशोऽथ त्रिणवोऽथ चतुष्टोमस्त्रिवृदेवाथ त्रयस्त्रिꣳ शोऽथ चतुष्टोमस्त्रिवृदेवाथ चतुश्चत्वारिꣳ शोऽथ चतुष्टोमोऽथातिरात्रो
द्वादश मासाः सप्तदश क्रतवो नवसु मासेषु नव क्रतूनुपैत्यथातिशिष्यन्ते त्रयश्च मासा अष्टौ च क्रतवः
स द्वौ त्रिरात्रौ कुरुत एकं च द्विरात्रं यद्यु वा एतदुपात्येति चतुष्टोमेनाग्निष्टोमेन यजेत
मासानामेव रूपꣳ स्तुतशस्त्राणि संवत्सरस्य रूपमग्निष्टोमो वाज एवमस्यैष संवत्सरः परीष्ट एवमाप्तो भवत्यथातोऽयुजश्चैव युग्माश्चैकस्याꣳस्तुवतेऽथ तिसृष्विति न्वयुजोऽथ युग्माश्चतुसृषु स्तुवतेऽथाष्टास्विति युग्मा अयुजां चैव युग्मानां चैव सायुज्यꣳ सलोकतामाप्नुवन्ति य एतेनायनेन यन्ति य उ चैनदेवं विदुः ५१
18.52
अथातो दिशामेव
त्रिवृत्प्राच्यै
पञ्चदशो दक्षिणायै
सप्तदशः प्रतीच्ययेकविँश उदीच्यै
त्रिणव इत ऊर्ध्वायै

त्रयस्त्रिँशोऽमुतोऽवाच्यै
सर्वासामेव चतुष्टोमो दिशामेव सायुज्यꣳ सलोकतामाप्नुवन्ति य एतेनायनेन यन्ति य उ चैनदेवंविदुरथात ऋतूनामेव
त्रिवृद्वसन्तस्य
पञ्चदशो ग्रीष्मस्य
सप्तदशो वर्षाणाम्
एकविँशः शरदस्
त्रिणवो हेमन्तस्य
त्रयस्त्रिँशः शिशिरस्य
सर्वेषामेव चतुष्टोम ऋतूनामेव सायुज्यꣳ सलोकतामाप्नुवन्ति य एतेनायनेन यन्ति य उ चैनदेवं विदुरथात ऋषीणामेव
त्रिवृद्वसिष्ठस्य
पञ्चदशो भरद्वाजस्य
सप्तदशो विश्वामित्रस्यैकविँशो जमदग्नेस्
त्रिणवः कश्यपस्य
त्रयस्त्रिँशो गौतमस्यागस्त्यस्य चतुष्टोमः
सर्वेषामेव चतुष्टोम ऋषीणामेव सायुज्यꣳ सलोकतामाप्नुवन्ति य एतेनायनेन यन्ति य उ चैनदेवं विदुरथातो देवतानामेव
त्रिवृदग्नेः
पञ्चदश इन्द्रस्य
सप्तदशः प्रजापतेरेकविँशोऽमुष्य तपतस्
त्रिणवश्चन्द्रमसस्
त्रयस्त्रिँशो विश्वेषां देवानां सर्वासामेव चतुष्टोमो देवतानामेव सायुज्यꣳ सलोकतामाप्नुवन्ति य एतेनायनेन यन्ति य उ चैनदेवं विदुः ५२
18.53
अथातो दर्शपूर्णमासयोरयनमित्याचक्षते
सूर्याचन्द्रमसोरयनमित्येक आहुः
पौर्णमासेन सोमेन यक्ष्यमाणो भवति
दीक्षते
तस्यापरिमिता दीक्षाः षडुपसदः
स तथा राजानं क्रीणाति यथा मन्यते पौर्णमास्यै मे यज्ञियेऽहन्सुत्या संपत्स्यत इति

तस्य तथा संपद्यते
प्रसिद्धेन कर्मणोपवसथादेत्यथ वसतीवरीः परिहृत्य पयाꣳ सि विशिष्योपवसन्त्यथ प्रातराग्नेयं पशुमुपाकरोति
तस्याग्नीषोमीय उपालम्भ्यो भवति
तस्य प्रातःसवनीयाननुवर्तन्ते पौर्णमासहवीꣳषि
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरेषाꣳ हविषाम्
ऋजुधा ज्योतिरुक्थ्यः संतिष्ठत आमावास्येन सोमेन यक्ष्यमाणो भवति
दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदः
स तथा राजानं क्रीणाति यथा मन्यतेऽमावास्यायै मे यज्ञियेऽहन्सुत्या संपत्स्यत इति
तस्य तथा संपद्यते
प्रसिद्धेन कर्मणोपवसथादेत्यथास्यैतदहरिन्द्रा य वत्सा अपाकृता भवन्त्यैन्द्रं पयो दोहयति संनाय्यस्य वावृता तूष्णीं वाथ वसतीवरीः परिहृत्य पयाँसि विशिष्योपवसन्त्यथ प्रातराग्नेयं पशुमुपाकरोति
तस्यैन्द्र ऋषभ उपालम्भ्यो भवति
तस्य प्रातःस्वनीयाननुवर्तन्त आमावास्यानि हवीꣳषि
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरेषाꣳ हविषम्
ऋजुधा ज्योतिरतिरात्रः संतिष्ठते
सूर्याचन्द्रमसयोरेव तत्सायुज्यꣳ सलोकतामाप्नुवन्ति य एतेनायनेन यन्ति य उ चैनदेवं विदुर्य उ चैनदेवं विदुः ५३