बृहद्यात्रा/अध्यायः ७

विकिस्रोतः तः
← अध्यायः ६ बृहद्यात्रा
अध्यायः ७
अध्यायः ८ →

अध्याय-७ चन्द्रबलम्[सम्पाद्यताम्]

सत्य आह गतिकर्मकल्पहा जन्मगस् तु हिमगुर्यियासतः।

तत्र देहनवतेऽवजायते तेन कर्मसु न साधकः स्मृतः॥

तच् च तस्य बहुभिर् विशोधितं लग्नम् एव सुतरां यतस् तनुः।

तुल्यदेहनवतां प्रपद्य किं सोदयोदयम् उवाच शोभनम्॥

अष्टवर्गपरिशोधितः शशी श्रेष्ठतां समनुवर्तते यदा।

जन्मगोऽपि हि तदा प्रशस्यते योऽष्टवर्गशुभदः स शोभनः॥

सप्तमायदशषट्त्रिजन्मगो नेष्टदो द्विनिधनोपगैर् ग्रहैः।

बन्धुरिःफनवपञ्चमस्थितैश् चेष्टदो यदि विलोमवेश्मगः॥

यस्य गोचरफलप्रमाणता तस्य वेधफलम् इष्यते न वा।

प्रायशो न बहुसंमतं त्व् इदं स्थूलमार्गफलदो हि गोचरः॥

यस्योत्सृजत्य् उडुपतिः पुरुषोऽपसव्यं जन्मर्क्षम् आपदम् उपैति स भूमिपालः।

यायी तथेतरगृहोपगते सितादौ यायीतरेश् वरजयो बहुले क्षयश् च॥

होराराशाव् उपचयगृहे जन्मभे वा यियासोर् हानिर् हानाव् उडुगणपतौ वृद्धिर् आपूर्यमाणे।

पक्षस्य् आदाव् अपचयगृहे हानिर् आपूर्यमाणे वृद्धिस् तूक्ता ह्रसति हिमगौ कृष्णपक्षादिसंस्थे॥

उपचयगृहयुक्तः सव्यगः शुक्लपक्षे शुभम् अभिलषमाणः सौम्यमध्यस्थितो वा।

सखिवशिगृहयुक्तः कारकर्क्षेऽपि चेन्दुर् जयसुखफलदाता तत्प्रहर्तान्य् अथातः॥

प्रक्षीणेऽप्य अनुपचयस्थितेऽपे यायाद् विश्रब्धं यदि सखिवश्यकारकर्क्षे।

नैवं चेद् उदयगृहात् स्वजन्मभाद् वा सम्पूर्णेऽप्य् उपचयगेऽपि न प्रयायात्॥

भृगुसुतबुधभिन्ने रुक् सुरेड्येन मृत्युर् भयम् असितकुजाभ्यां केतुना स्त्रीप्रणाशः।

अपटुकिरणकान्तौ गच्छतः शत्रुवृद्धिः सविकृतपरिवेषे नेत्रनाशः शशाङ्के॥E१०