बृहद्यात्रा/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ बृहद्यात्रा
अध्यायः ६
अध्यायः ७ →

अध्यायः-६ मुहूर्तः[सम्पाद्यताम्]

गरवणिजविष्टिपरिवर्जितानि करणानि यातुर् इष्टानि।

गरम् अपि कैश् चिच् छस्तं वणिजं च वणिक्क्रियास्व् एव।

शिवभुजगमित्रपितृवसुजलविश्वविरिञ्चिपङ्कजप्रभवाः।

इन्द्राग्नीन्द्रनिशाचरवरुणार्यमयोनयश् चाह्नि॥

रुद्राजाहिर्बुध्न्याः पूषा दस्रान्तकाग्निधातारः।

इन्द्वदितिगुरुहरिरवित्वष्ट्रनिलाख्याः क्षणा रात्रौ॥

अह्नः पञ्चदशांशो रात्रेश् चैवं मुहूर्त इति संज्ञा॥

स च विज्ञेयस् तज्ज्ञैश् छायायन्त्राम्बुभिर् युक्त्या॥

नक्षत्रवत् क्षणानं परिघादि तदीश्वरैः समं चिन्त्यं।

फलम् अपि तद् एव दृष्टं गर्गाद्यैस् तत्र च श्लोकाः॥

अहोरात्रं च सम्पूर्णं चन्द्रनक्षत्रयोजितम्।

तन्नक्षत्रमुहूर्ताश् च समकर्मगुणाः स्मृताः॥

अष्टमेऽर्धदिवसे समे शुभो यो विरिञ्चविभुसंज्ञितः क्षणः।

तेन यानम् अपहाय दक्षिणां सर्वदिक्ष्व् अभिजिता प्रशस्यते॥E७