बृहद्यात्रा/अध्यायः ३४
← अध्यायः ३३ | बृहद्यात्रा अध्यायः ३४ |
अध्यायः - ३४ जयोत्तर
[सम्पाद्यताम्]दिग्दाहक्षतजरजोश्मवृष्टिपातैर् निर्घातक्षितिचलनाद् इवैकृतैश् च।
युद्धान्ते मृगशकुनैश् च दीप्तनादैर् नो भद्रं भवति जयेऽपि पार्थिवस्य॥
शुभा मृगपतत्रिणो मृदुसमीरणो ह्लादकृत्
ग्रहाः स्फुटमरीचयो विगतरेणुदिङ्मण्डलम्।
यदान्यद् अपि वैकृतं न विजयावसाने भवेत्
तदा सुखम् अकण्टकं नृपतिर् अत्ति देशं रिपोः।
उद्वाहम् अकालोत्सवम् अभिषेकं चात्मजस्य यः कृत्वा।
प्रस्थानाविहतः सोऽभ्येति ततश् चोत्सवदिनेषु॥
परविषयपुराप्तौ साधुदेवद्विजस्वं
कुलजनवनिताश् च क्ष्माधिपो नोपरुन्ध्यात्।
विगजतुरगशस्त्रान्नार्तिभीतांश् च हन्याच्
छुभतिथिदिवसर्क्षे हृष्टसैन्यो वशेच् च॥
स्वविषयम् उपगम्य मानवेन्द्रोऽवलिम् उपयाचितकानि चाधिकानि।
निगदितविधिनैव संप्रदद्यात् प्रथमगणासुरभूतदैवतेभ्यः॥
इति मनुजपतिर् यथोपदेशं भगणविदां प्रकरोति यो वचांसि।
स सकलनृपमण्डलाधिपत्यं व्रजति दिविव पुरन्दरोऽचिरेण॥E६