बृहद्यात्रा/अध्यायः ३२

विकिस्रोतः तः
← अध्यायः ३१ बृहद्यात्रा
अध्यायः ३२
अध्यायः ३३ →

अध्यायः - ३२ उत्पात[सम्पाद्यताम्]

परिवेषोऽर्कशशिनोः शत्रुपक्षग्रहैः सह।

स्निग्धोऽखण्डश् च जयदः पापदो बहुमण्डलः॥

प्रतिलोमोऽतिबहुलो नेष्ट इष्टः प्रदक्षिणः।

नीहारः पांशुपातश् च हितः स्निग्धः प्रदक्षिणः॥

गन्धर्वनगरं हन्ति प्राक्प्रभृत्य् अवनीश्वरम्।

बलेशं युवराजं च पुरोहितम् इति क्रमात्॥

सिताद्यं ब्राह्मणादींश् च विदिक्षु वर्णसङ्करान्।

प्रदक्षिणं तु यात्रायां जयदं नेष्टम् अन्यथा॥

दिशां दाहोऽथ जयदः प्रदक्षिण उपागतः।

श्वभ्रोन्नते वधो राज्ञो जयाय व्यत्ययेन च॥

घृताम्बुपयसां स्रावे च्युते वृक्षाच् च तत्क्षयः।

तैले च नाशो मुख्यानां रक्ते शस्त्रकृतं भयम्॥

मद्येन तु मिथो भेदो रुग्भयं दधिनिस्रवे।

कुसुमात् कुसुमोत्पत्तौ परचक्रागमं वदेत्॥

बहुतोयेऽतिसंशोषः कूपेऽसृक्पूर्तिविस्रवः।

राज्ञोऽब्दार्धाद् वधं कुर्युः स्रोतोऽल्पत्वे परागमः॥

वृष्टिविद्युत्स्वनैर् व्यभ्रे चरस्थिरविपर्यये।

दिनोल्कायां च पीड्यन्ते जना भूपतिभिः सह॥

सप्ताहं सन्ततान्य् अतो वृष्टिर् हन्यान् नराधिपम्।

अनग्निज्वलने पुंसां व्याधिर् आश्व् एव जायते॥

पीडा राष्ट्रस्य षण्मासाद् उष्णशीतविपर्यये।

मासेऽष्टमे नृपस्यान्तो निनादे पशुपक्षिणाम्॥

नगरारण्यसत्त्वानाम् अरण्यपुरसेवने।

राष्ट्रपीडाधिके वर्षे मुख्यलोकस्य च क्षयः॥

स्तम्भोपलकुसूलार्चापीठशय्यापसर्पणे।

गदने चापि देशस्य नाशं मासत्रयाद् वदेत्॥

गोनागाश्ववधोऽब्दार्धे व्यत्ययो वा नृपान्तकृत्।

देशनाशस् तथा स्त्रीणां खगाहिपशुसम्भवे॥

धान्यरसमद्यभोजनफलपुष्पस्नेहमांसवस्त्राणाम्।

सिकतारजोरसात्मकसशर्कराङ्गारवर्षेषु॥

सुतपत्नी क्षुद्राज्ञा नृपदेशचमूपमरणसंक्लेशाः।

भेदोऽपदोऽथ मन्त्रिव्याधिविनाशभूपक्रोधाः॥

निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम्।

भवति च यस्यां दिशि तद्दिश्यं नरपतिमुख्यं न चिराद् धन्यात्॥

मृगपशुरासभवाजिगजानां वियतरवो न चिराद् भयदाता।

विबुधपतिध्वजतोरणपातः फलम् इदम् एव करोति नृपाणाम्॥E१८