बृहद्यात्रा/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ बृहद्यात्रा
अध्यायः ३
अध्यायः ४ →

अध्यायः-३ तितिगुणः[सम्पाद्यताम्]

नन्दा भद्रा विजयाश् चाथ रिक्ताः पूर्णाश् चैताः फलम् एवं विदध्युः।

नेष्टा मध्या प्रवराश् चेति शुक्ले कृण्णे चिन्त्यास् तिथयस् ताः प्रतीपाः॥

सर्वाः शस्तास् तिथयः शुक्लपक्षे हित्वा त्र्य्ंशं बहुलेऽन्त्यं च कैश्चित्।

षष्ठ्यष्टम्योर् वसुलब्धापि याता द्वादश्यां वा नाशम् आशु प्रयाति॥

प्रतिपदि फलम् एके पञ्चदश्यां च नेष्टं जगुर् इदम् इति तज्ज्ञैर् याप्यम् एवावधार्यम्।

किम् अपि किम् अपि नूनं तैः समीक्ष्योक्तम् एतत् समवचनविघाते युक्तता केन चिन्त्या॥E३