बृहद्यात्रा/अध्यायः २
← अध्यायः १ | बृहद्यात्रा अध्यायः २ |
अध्यायः ३ → |
अध्यायः-२ तिथिगुणः
[सम्पाद्यताम्]यात्राकालम् अतः परं मुनिमतान्य् आलोक्य संख्यापया-
(म्य)भ्युद्धुष्य पृथूक्तम् अक्षरगुरौ सम्पन्न्नम् ईशं भुवः।
ज्ञाते जन्मनि तस्य यानसमयं वांछन्ति होराविदस्
त्व् अज्ञातेऽप्य् अफलेषु नाक्षरम् इव प्राहात्र रत्नावलिम्॥
विदिते होराराशौ स्थानबलपरिग्रहे ग्रहाणां च।
आयुषि च परिज्ञाते शुभम् अशुभं वा फलं वाच्यम्॥
अन्ये वदन्त्य् अविदिते (त्व)पि जन्मकाले
योग्यः प्रयाणसमयो मनुजेश्वराणाम्।
प्रश्नोदयोद्भवफल्(आन्वित)सिद्धिभाग्यस्
तत्त्वार्थविन्निग(द)ति स्म वचो वशिष्ठः॥
अपृच्छतः पृच्छतो वा यियासोर् यस्य कस्य चित्।
होराकेन्द्रत्रिकोणेभ्यस् तस्य विन्द्याच् छुभाशुभम्॥
दैवज्ञस्य हि दैवेन सदसत्फलवांछतः।
अवशो गोचरं मर्त्यः सर्वः समुपनीयते॥
अश्रौषीच् च पुरा विष्णोर् ज्ञानार्थं समुपस्थितः।
वचनं लोकनाथस्य निःसृतं मुखपङ्कजात्॥
यत् सारं पृच्छतः पुंसो ग्रहरा(श्या)श्रितं फलम्।
तत्सारं तस्य जन्म स्याद् य(द्य)प्य् अन्यगृहे भवेत्॥
बुध्वा शास्त्रं यथान्यायं बलाबलविधानतः।
यथोक्तं जातके सर्वं तथैवात्रापि चिन्तयेत्॥
तस्मान् नृपः कुसुमरत्नफलाग्रहस्तः
प्रातः प्रणम्य रवये हरिदिङ्मुखस्थः।
होराङ्गशास्त्रकुशलान् हितकारिणश् च
संहृत्य दैवगणकान् सकृद् एव पृच्छेत॥
अथ नृपतिसमीपे दैववित् पृष्टमात्रह्
फलम् उद्यनिमित्तैस् तर्कयेच् छास्त्रदृष्ट्या।
सद् इति सदसि वाच्यं यद्य् अपि स्याद् असत् तत्
स्फुटम् पै कथनीयं भूभुजे मन्त्रिणे वा॥
सुमधुरफलपुष्पक्षीरवृक्षावृतायां
चरणगतिसुखायां गोशकृत्पेयवत्याम्।
सलिलकुसुमवत्यां स्नानिनो भद्रमूर्ध्वं
ग्रहभगणगतिज्ञः प्रादिशेत् पृच्छकस्य॥
स्तनचरणतलौष्ठाङ्गुष्ठहस्तोपराङ्गं
श्रवणवदननासागुह्यरन्ध्राणि भूपः।
स्पृशति यदि कराग्रैर् गण्डकट्यंसकं वा
प्रवदति शुभशब्दं वाहिनी शास्ति शत्रून्॥
उदयम् उदयपं वा जन्मभं जन्मपं वा
तद् उपचयगृहं वा वीक्ष्य लग्ने यियासोः।
विनिहतम् अरिपक्षं विद्धि शत्रोर् इदं वा
यदि हिबुकसमेतं पृच्छतोऽस्तस्थितं वा॥
पार्ष्णिग्राहः पृष्ठतो भास्करस्य प्राग् यातव्यस्तिग्मरश्मेश् च यानः।
आक्रन्दार्कात् सप्तमे यः स्थितश् च तत्तुल्यास्ते शक्तितश् चिन्तयीयाः॥
जीवज्ञार्कसितापरैः सुतसुहृद्दुश्चित्कलग्नायगैः
सिद्धार्थोऽरिगणान् विजित्य न चिरात् प्रष्टा समेत्यालयम्।
लग्ने वा कुजमन्दयोः सुतगते जीवे रवौ कर्मगे
लाभे कर्मणि वा सितेन्दुसुतयोः प्रष्टुर् जयो निश्चितः॥
तस्मिन्न् एव भवेद् योगे यदि शुक्रोऽष्टम् आश्रितः।
प्रष्टारम् उद्यमाद् एव हतशक्तिर् विशस्त्य् अरिः॥
गुर्वर्कशशिभिः सिद्धिर् लग्नारिदशमस्थितैः।
तद्वल् लग्नारिरन्ध्रस्थैर्जीवशुक्रदिवाकरैः॥
सचिवाप्तिर् गुरावाये कर्मण्य् असितवक्रयोः।
चतुर्थे ज्ञेऽष्टमे चन्द्रे जायास्थे च सिते जयः॥
कर्मण्य् आरे रवावाये तृतीयस्थेऽर्कनन्दने।
चन्द्रे षष्ठे विलग्नस्थैः शेषैः प्रष्टुर्ध्रुवो जयः॥
सहजेऽर्कार्किभूपुत्रैः सौम्यैर् लग्नगतैर् जयः।
गुरौ वा लग्नगे पापैर् लाभे कर्मणि वा स्थितैः॥
माहेयम(न्द)योः षष्ठे लग्ने गुरुशशाङ्कयोः।
सितचन्द्रजयोर् अन्ते जयः कर्मणि तीक्ष्णगौ॥
इत्य् योगाः शुभाः प्रोक्ताः प्रश्नकाले जयाश्रिताः।
अशुभास् तु भवन्त्य् अत्र तान् प्रवक्ष्याम्य् अतः परम्॥
युद्धे भङ्गो यमेन्द्वारैर् नवमात्मजलग्नगैः।
शशाङ्कयमयोर् लग्ने मृत्युर् भूसुतदृष्टयोः॥
सवक्रे निधने मन्दे मृत्युर् लग्ने दिवाकरे।
चन्द्रेऽस्मिन् त्र्यायमृत्युस्थे ससूर्ये वा वदेद् वधम्॥
वक्रज्ञशशिभिर् द्यूने प्रष्टुर् नाशोऽपि गच्छतः।
क्षुन्माराशत्रुवृद्धिश् च लग्ने माहेयशुक्रयोः॥
चन्द्रावनीजयोर् मूर्तौ षष्ठे शशिजशुक्रयोः।
निधनस्थे सहस्रांशौ विज्ञेयो मन्त्रिणो वधः॥
तनयस्य वधः प्रष्टुः पापैर् उदयपुत्रगैः।
सचन्द्रे रुधिरे लग्ने भङ्गः सूर्यात्मजेक्षिते॥
द्यूननैधनगे चन्द्रे लग्नं याते दिवाकरे।
विपर्यये वा यातस्य त्रासभङ्गवधागमः॥
द्वित्रिकेन्द्रस्थितैः पापैः सौम्यैश् च बलवर्जितैः।
अष्टमस्थे निशानाथे प्रष्टुर् बन्धवधात्ययाः॥
कुजचन्द्रमसोर् द्यूने स्वभेदोऽर्कबुधोदये।
तद्वन् मन्दारयोर् युद्धे भङ्गः सौम्यार्कयोस् तथा॥
सर्वैस् तु नवमे राजा हन्ति मन्त्रिपुरोहितान्।
योगेऽस्मिन्न् उदये चन्द्रे सुतस्थपतिदेशिकान्॥
अर्कार्कसुतयोर् लग्ने दृष्टयोः क्षितिसूनुना।
चन्द्रेऽस्ते विबलैः सौम्यैः प्रष्टुः सेनापतेर् वधः॥
विधने वक्रयमयोश्चन्द्रेऽस्ते लग्नगे रवौ।
ज्ञे तृतीये च विक्रम्य समन्त्री हन्यते नृपः॥
मूर्घोदयं शुभसुहृद्युतवीक्षितं वा
लग्नं शुभाश् च बलिनः शुभवर्गलग्ने।
सिद्धिप्रदं भवति नेष्टम् अतोऽन्यथा तज्
जन्मप्रयाणफलयुक्तिभिर् अन्यद् उद्यम्॥
निधनहिबुकहोरासप्तमार्थेषु पापा
न शुभफलकराः स्युः पृच्छतां मानवानाम्।
दशमभवनयुक्तेष्व् एषु सौम्याः प्रशस्ताः
सदसद् इदम् अशेषं यानकालेऽपि चिन्त्यम्॥E३५