सामग्री पर जाएँ

बृहद्दैवज्ञरञ्जनम्/गोचरप्रकरणं

विकिस्रोतः तः


अथ द्वात्रिंशत्तमं गोचरप्रकरणं[] प्रारभ्यते ।
तत्रादौ ईश्वरग्रहयोरभेद उक्तः लोमशसंहितायाम् –
मुनिरुवाच ।
[]रामः कृष्णश्च भो विप्र नृसिंहो सूकरस्तथा ।
एते पूर्णावताराश्च ह्यन्ये जीवांशका मताः ॥ १ ॥
अवताराण्यनेकानि अजस्य परमात्मनः ।
जीवानां कर्मफलदो ग्रहरूपो जनार्दनः ॥ २ ॥
दैत्यानां बलनाशाय देवानां बलवृद्धये ।
धर्मसंस्थापनार्थाय ग्रहा जाता इमे क्रमात् ॥ ३ ॥
रामावतारः सूर्यस्य चंद्रस्य यदुनायकः ।
[]नृसिंहो भूमिपुत्रस्य बौद्धः सोमसुतस्य च ॥ ४ ॥
वामनो विबुधेज्यस्य भार्गवो भार्गवस्य च ।
[]कूर्मो भास्करपुत्रस्य []सैंहिकेयस्य []सूकरः ॥ ५ ॥
केतोर्मीनावतारश्च ये चान्ये तेपि खेटजाः ।
परमात्मांशमधिकं येषु ते खेचराभिधाः ॥ ६ ॥
जीवांशमधिकं येषु जीवास्ते वै प्रकीर्तिताः ।
सूर्यादिभ्यो ग्रहेभ्यश्च परमात्मांशनिःसृतः ॥ ७ ॥
सूर्यारुणसंवादे –
ग्रहाणां फलकर्तृत्वमस्ति नो वेति संशयः ।
केचिद्वदंति तेषां तु कर्मसूचकतामिति ॥ ८ ॥
तथा च-
प्राक्कर्मसूचकखगाः कथमेषु भुक्तिः प्राक्कर्मभोगशमनाय हि भोगमूचुः ।
केचित्तथा दुरितहृज्जगदीशभक्तिः किंनो ग्रहाभिगत एव स एव विष्णुः ॥ ९ ॥
तथा च शार्ङ्गधरः –
देवताग्रहरूपेण मनुष्याणां शुभाशुभम् ।
फलं प्रागर्जितं यच्च तद्ददाति स्वकीयकम् ॥ १० ॥
लल्लोपि –
सकलमपि धिष्ण्यमंडलमवनिनिबद्धं विनिर्मितं धात्रा ।
तत्र ग्रहा ग्रहेष्वपि शुभाशुभं सर्वजंतूनाम् ॥ ११ ॥
वसिष्ठः-
ग्रहा राज्यं प्रयच्छंति ग्रहा राज्यं हरंति च ।
ग्रहैस्तु व्यापितं सर्वं त्रैलोक्यं सचराचरम् ॥ १२ ॥
बृहस्पतिरपि –
ग्रहाधीनं जगत्सर्वं ग्रहाधीना नरावराः ।
कालज्ञानं ग्रहाधीनं ग्रहाः कर्मफलप्रदाः ॥ १३ ॥
सृष्टिरक्षणसंहाराः सर्वे चापि ग्रहानुगाः ।
कर्मणः फलदातारः सूचकाश्च ग्रहाः सदा ॥ २४ ॥
दुष्करं भवसंयोगकाले दुःस्थानमाययुः ।
तत्फलानन्वयायेवं तदा पूज्यतमा ग्रहाः ॥ १५ ॥
वसिष्ठः –
उच्छ्रयपतनानि नृणां खचराधीनानि विशेषतो यस्मात् ।
अखिलानामपि लोकानां वृद्धिस्तस्माद्ग्रहाश्च पूज्यतमाः ॥ १६ ॥
गोचरबलचिंतायां ये न विदंति यथाक्रमं चेति ।
गोचरबलानभिज्ञास्त्वति लोके यांति हास्यतां सुजनैः ॥ १७ ॥
शुभकर्मणि सर्वत्र ग्रहाणां गोचरं फलम् ।
पूर्वैरुक्तं यतोस्माभिरुच्यते ग्रहगोचरम् ॥ १८ ॥
अथ ग्रहाणां नामकथनम् । यादवः –
रविविधुक्षितिजा बुधवाक्पती भृगुशनी च तमः शिखिनो ग्रहाः ।
न च सदा भ्रमणाद्भगणो नृणां ददति धातुसमं फलमुक्तवत् ॥१९॥
कश्यपः-
छिन्नोपि विष्णुचक्रेण सुधामयशिरास्तमः ।
केशवस्य वरेणासौ तथापि ग्रहतां गतः ॥२०॥
नारदोपि –
अमृतास्वादनाद्राहुः शिरश्छिन्नोपि सोमृतः ।
विष्णुना तेन चक्रेण तथापि ग्रहतां गतः ॥ २१॥
अथ ग्रहाणां संज्ञाः । बृहज्जातके –
हेलिः सूर्यश्चंद्रमा शीतरश्मिर्हेम्नाविज्ज्ञो बोधनश्चंद्रपुत्रः ।
आरो वक्रः क्रूरदृक्चावनेयः कोणो मंदः सूर्यपुत्रो ऽसितश्च ॥ २२ ॥
जीवोंगिराः सुरगुरुर्वचसां पतीज्यौ शुक्रो भृगुर्भृगुसुतः सित आस्फुजिच्च ।
राहुस्तमो सुरगुरुश्च शिखी च केतुः पर्यायमन्यमुपलभ्य वदेच्च लोकात् ॥ २३ ॥
अथ सौम्यपापविवेकः ।
अर्द्धोनेंद्वर्कसौराराः पापज्ञस्तद्युतो परे ।
शुभाः पापौ तमःकेतू विष्णुधर्मोत्तरोदितौ ॥ २४ ॥
क्रूरा वक्रा महाक्रूराः सौम्या वक्रा महाशुभाः।
सहजाः स्युः स्वभावस्थाः सौम्याः क्रूराश्च शीघ्रगाः ॥ २५ ॥
अथ पुरुषाधिपकथनम् ।
पुंसां सूर्यारवागीशौ योषितां चंद्रभार्गवौ ।
क्लीबानां बुधमंदौ च पतयः परिकीर्तिताः ॥ २६ ॥
अथ ग्रहाणां स्वामिनः । श्रीपतिः-
सूर्यादितः शिव शिवागुहविष्णुवेंद्रकालाः क्रमेण पतयः कथिता ग्रहाणाम् ।
वह्न्यंबुभूमिहरिशक्रशचीविरिंच्यस्तेषां पुनर्मुनिवरैः प्रतिदेवताश्च ॥ २७ ॥
राहोरधिपतिः कालः प्रत्यधीशो भुजंगमः ।
तथा केतोश्चित्रगुप्तः स्वयंभू ऋषिभिः स्मृतः ॥ २८ ॥
अथ ग्रहाणां वाहनानि । ब्रह्मगुप्तः –
सिंहाश्वकौ कर्कमृगौ च मेषौ नरो मयूरो वृषभस्तु सैरभः ।
छागो महाजश्च वदंति तज्ज्ञाः सूर्यादिकानामिति वाहनानि ॥ २९ ॥
अथ ग्रहाणां गृहम् । वृद्धयवनजातके –
इदं जगत्स्थावरजंगमाख्यं सर्वं रवींद्वात्मकमाहुराद्याः ।
तस्योद्भवोत्रापचयश्च दृष्टो भूमंडलेप्येव तदात्मकं तत् ॥ ३० ॥
तस्यार्धमाद्यं विहितं मघादि सार्पांतिचान्द्रं विहितं परार्धम् ।
क्रमेण सूर्यः प्रददौ ग्रहाणां व्यस्तेन ताराधिपतिस्तथैव ॥ ३१ ॥
बुधस्य शुक्रस्य धरासुतस्य बृहस्पतेर्भास्करनंदनस्य ।
द्वे द्वे गृहे तेषु यथानुरूपं फलं विधेयं निपुणं विदग्धैः ॥ ३२ ॥
कालीदासोपि –
पंचाननाख्यो हि यथेभचक्रे पंचाननाख्यो हि तथा भचक्रे ।
एनं हरिः पालयितुं क्षमोऽस्य कृतं तदित्येतदगारमाद्यैः ॥ ३३ ॥
सिंहादिचक्रार्धपती रविः स्याद्विलोमकीटादिभखंडपोब्जः ।
पतंगधाम्ना सविधं तमीशः स्थातुं कुलीरं त्वकरोह(द)गारम् ॥३४॥
उच्चोच्चमार्गे चरतां ग्रहाणां बुधाननानां भवनोरिनेंदौ ।
प्रतिष्ठितान्पालयतः पुराणैर्द्विजैरथोकांसि यथा क्रमेण ॥ ३५ ॥
अथैवं गतिकारणं संचारैर्ग्रहाणां भौमादीनां फलितैक्यगतिरष्टभेदात्मिकेत्याह। सूर्यसिद्धांते –
वक्रानुवक्रा कुटिला मंदा मंदतरा समा ।
तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः ॥ ३६ ॥
तथातिशीघ्रा शीघ्राख्या मंदा मंदतरा समा ।
ऋज्वीति पंचधा ज्ञेया या वक्रा सानु वक्रगा ॥ ३७ ॥
अथाष्टधा गतिकारणम् । होरानुभवदर्पणे-
अर्कयुक्तश्चोदयः स्याद्द्वितीये शीघ्रगो भवेत् ।
रवेस्तृतीये समता गतिर्मंदा चतुर्थके ॥ ३८ ॥
पंचमेप्यथवा षष्ठे किंचिद्वक्रा च वक्रगा ।
सप्तमाष्टमयोरर्कादतिवक्रा गतिर्भवेत् ॥ ३९ ॥
नवमे दशमे भानोः खेटानां कुटिला गतिः ।
एकादशे द्वादशे च शीघ्रा शीघ्रतरा क्रमात् ।
रविसंयुतखेटस्य गतिरस्ताह्वया भवेत् ॥ ४० ॥
अथ ग्रहाणामंतश्चर्यालक्षणम् । महानिबंधे –
आत्मा रविः शीतकरश्च चेतः सत्वं धराजः शशिजश्च वाणी ।
ज्ञानं सुखं चेंद्रगुरुर्मदश्च शुक्रः शनिः कालनरस्य दुःखम् ॥ ४१ ॥
अथांगविभागः । महानिबंधे –
शिरःप्रदेशे वदने दिनेशो वक्षःस्थले चापि गले कलावान् ।
पृष्ठोदरे भूतनयश्च पीडां करोति सौम्यश्चरणे च पाणौ ॥ ४२ ॥
कटिप्रदेशे जघने च जीवः कविश्च गुह्यस्थलमुष्कयुग्मे ।
जानूरुदेशे नलिनीशसूनुश्चारेण वा जन्मनि चिंतनीयम् ॥ ४३ ॥
कस्मिन् कार्ये केषां ग्रहाणां बलं ग्राह्यम् ।
उद्वाहे चोत्सवे जीवः सूर्यो भूपालदर्शने ।
संग्रामे धरणीपुत्रो विद्याभ्यासे बुधो बली ॥ ४४ ॥
यात्रायां भार्गवः प्रोक्तो दीक्षायां च शनैश्चरः ।
चंद्रमा सर्वकार्येषु प्रशस्तो गृह्यते बुधैः ॥ ४५ ॥
गर्गोपि –
रविर्नृपविलोकने सुरगुरुर्विवाहोत्सवे रणे धरणिनंदनो भृगुसुतः प्रयाणे बली ।
शनिश्च खलु दीक्षणे निखिलशास्त्रबोधे बुधः शशी सकलकर्मसु ध्रुवमुदाहृतं सूरिभिः ॥ ४६ ॥
अर्कांगारकमंदास्तु सम्यक्पृष्ठोदयाः स्मृताः ।
राहुजीवभृगुज्ञास्तु ग्रहाः स्युर्मस्तकोदयाः ॥ ४७ ॥
अथ ग्रहाणामवस्था ।
वयांसि तेषां स्तनपानबाल्य किशोरका यौवनमध्यवृद्धाः ।
अतीव वृद्धा इति चंद्रभौमज्ञशुक्रजीवार्कशनैश्चराणाम् ॥ ४८ ॥
त्रैलोक्यप्रकाशे-
बुधः शिशुर्युवा भौमः शुक्रेंदू मध्यमौ परे ।
वृद्धो बुधो विधुर्बालो बालिका स्त्री प्रकीर्तिता ॥ ४९ ॥
अथ कालबलिनः ।
प्रातःकाले जीवबुधौ मध्याह्ने 'कुजभास्करौ ।
अपराह्णे चंद्रसितौ संध्याकाले तमःशनी ॥ ५० ॥
अथ ग्रहधातुमाह ।
भौमार्कौ पित्तमाख्यातौ श्लेष्मकौ चन्द्रभार्गवौ ।
समधातू गुरुबुधौ ग्रहाः शेषास्तु वातिकाः ॥ ५१ ॥
कटुकौ कुजमादित्यौ क्षाराम्लौ चन्द्रभार्गवौ ।
बुधः कषायिको जीवो मधुतिक्तौ तमःशनी ॥ ५२ ॥
द्विपदौ भार्गवगुरू भूपुत्रार्कौ चतुष्पदौ ।
पक्षिणौ बुधसौरी च चंद्रराहू सरीसृपौ ॥ ५३ ॥
विप्रौ शुक्रगुरू क्षत्रं कुजार्कौ शूद्र इंदुजः ।
इंदुर्वैश्यः स्मृतो म्लेच्छौ सैंहिकेयशनैश्चरौ ॥ ५४ ॥
अथ ग्रहाणां वर्णानाह ।
भौमो रक्तो गुरुः पीतो बुधो नीलः शशी सितः ।
कविः शुभ्रो रविर्गौरः कृष्णो राहुः शनिः पुनः ॥ ५५ ॥
रवी राजा शशी राज्ञी मंगलो मंडलाधिपः ।
ज्ञः कुमारो गुरुर्मंत्री सितो नेता परौ भृती ॥ ५६ ॥
अथ स्नाय्वादिस्वामित्वमाह ।
स्नायुसत्वगुल्ममज्जासुखानां स्वामिनौ शशिभास्करौ ।
शोणिताधिपतिर्भौमः शुक्रस्याधिपतिर्भृगुः ॥ ५७ ॥
बुधश्चैतन्यबुद्धीनां जीवो जीवाधिपो भवेत् ।
मनसश्चन्द्रमाः स्वामी भवेदेषां वपुःस्थितिः ॥ ५८ ॥
ऊर्ध्वदृष्टी कुजादित्यावधोदृष्टी तमःशनी ।
तिर्यग् दृष्टी भृगुबुधौ चंद्रजीवौ समेक्षणौ ॥ ५९ ॥
अथ ग्रहाणां राशिभोगः ।
कर्णप्रकाशे –
सौरी सुंदरि सार्द्धमब्दयुगलं वर्षं समासं गुरू राहुर्मासदशाष्टकं तु कथितं मासं सपक्षं कुजः ।
सूर्यः शुक्रबुधास्त्रयोपि कथिता मासैकतुल्या ग्रहाश्चंद्रः पादयुतं दिनद्वयमिति प्रोक्तेति राशिस्थितिः ॥ ६० ॥
अथ ग्रहाणां वेधस्थानमाह । श्रीपतिः –
सर्वे लाभगृहस्थितासस्त्रिखरिपुष्वर्को मृगार्की त्रिषट्प्राप्तौ त्र्याघखमन्मथारिषु शशी खास्तारिवर्ज्यं भृगुः ।
धीधर्मास्तधनेषु वाक्पतिररिस्वाष्टांबुखस्थो बुधः श्रेष्ठो जन्मगृहादिगोचरविधौ विद्धो न चेत्स्याद्ग्रहैः ॥ ६१ ॥
लाभविक्रमखशत्रुषु स्थितः शोभनो निगदितो दिवाकरः ।
खेचरैः सुततपोजलांत्यगैर्व्यार्किभिर्यदि न विध्यते तदा ॥ ६२ ॥
द्यूनजन्मरिपुलाभखत्रिगश्चंद्रमाः शुभफलप्रदस्तदा ।
स्वात्मजांत्यमृतिबंधुधर्मगैर्विध्यते न विबुधैर्यदि ग्रहैः ॥ ६३ ॥
विक्रमायरिपुगः शुभः कुजः स्यात्तदांत्यसुतधर्मगैः खगैः ।
चेन्न विद्ध इनसूनुरप्यसौ किंतु धर्मघृणिना न विध्यते ॥ ६४ ॥
स्वांबुशत्रुमृतिखायगः शुभो ज्ञस्तदा न खलु विध्यते तदा ।
आत्मजत्रितय आद्यनैधनप्रांत्यगैर्विविधुभिर्नभश्चरैः ॥ ६५ ॥
स्वायधर्मतनयद्युनस्थितो नाकनायकपुरोहितः शुभः ।
रिःफरंध्रखजलत्रिगैर्यदा विध्यते गगनचारिभिर्न हि ॥ ६६ ॥
आसुताष्टमतपोव्ययायगो विद्ध आस्फुजिदशोभनः स्मृतः ।
नैधनास्ततनुकर्मधर्म धीलाभवैरिसहजस्थखेचरैः ॥ ६७ ॥
एवमत्र खचरव्यधान्विताः स्वं फलं नहि दिशंति गोचरे ।
वामवेधविधिना त्वशोभना अप्यमी शुभफलं दिशत्यलम् ॥ ६८ ॥
वैद्यनाथः-
जन्मभाद्गणयेच्चंद्रो जन्मभाद्वेधको ग्रहः ।
वामवेधः स विज्ञेयः कथितः शौनकादिभिः ॥ ६९ ॥
लल्लः-
यस्मिन् राशौ गताः खेटाः खेटराशेर्गता ग्रहाः ।
वामवेधः स विज्ञेयो ग्रहः शुभफलो मतः ॥ ७० ॥
श्रीपतिस्तु-
ये वदंति खचरव्यधक्रमं नो ग्रहक्रमविदो हि गोचरे ।
ते मृषा वचनभाषिणो जना यांति हास्यमपकीर्तिलांछिताः ॥ ७१ ॥
नारदः –
न ददाति शुभं किंचिद्गोचरे वेधसंस्थितः ।
तस्माद्वेधं विचार्याथ कथ्यते तच्छुभाशुभम् ॥ ७२ ॥
नामवेधविधानेन शोभनस्त्वशुभोपि वा ।
अतस्तान् द्विविधान् वेधान् विचार्याथ वदेत्फलम् ॥ ७३ ॥
अज्ञात्वा विविधान् वेधान् यो ग्रहज्ञः फलं वदेत् ।
स मृषावचनाभाषी हास्यं याति नरैः सदा ॥ ७४ ॥
सौम्येक्षितेनिष्टफलः शुभः स्यात्पापवीक्षितः ।
निष्फलौ तौ ग्रहौ स्वेन शत्रुणा यौ निरीक्षितौ ॥ ७५ ॥
नीचराशौ गतो यश्च शत्रोः क्षेत्रगतोपि वा ।
शुभाशुभफलं नैव दद्यादस्तंगतोपि वा ॥ ७६ ॥
श्रीपतिरपि –
असद्ग्रहः सौम्यनिरीक्षितश्च शुभप्रदः स्यादशुभेक्षितो यः ।
तौ निष्फलौ द्वावपि खेचरेंद्रौ यः शत्रुणा स्वेन निरीक्षितश्च ॥ ७७ ॥
स्वनीचगेस्तगेपि वा रिपोर्गृहे स्थिते ग्रहे ।
वृथा फलं प्रकीर्तितं समस्तमेव सूरिभिः ॥ ७८ ॥
राशिप्रवेशे सूर्यारौ मध्ये शुक्रबृहस्पती ।
प्रांत्यस्थौ शनिशीतांशू फलदः सर्वदा बुधः ॥ ७९ ॥
ज्योतिःप्रकाशे –
प्रवेशकाले भौमार्कौ शुक्रज्यौ राशिमध्यगो ।
निर्गच्छंतौ शनींदू च सर्वदा फलदो बुधः ॥ ८० ॥
रविर्दिनं पंच कुजस्तथाष्टौ बुधे द्वयं त्रीणि दिनानि शुक्रः ।
मासं गुरुर्मासचतुष्क्रमैर्निर्गंतव्यराशौ फलदा भवति ॥ ८१ ॥
लल्लोपि-
सूर्यारसौम्यास्फुजितोक्षनाग सप्तद्विघस्रान्विधुरग्निनाडी ।
तमोयमेज्यास्त्रिरसाश्विमासान् गंतव्यराशेः फलदाः पुरस्तात् ॥ ८२ ॥
ज्योतिःसागरे –
भानुर्ददाति गंतव्यराशौ पंचदिनं फलम् ।
चन्द्रो नाडीत्रयं भौमो दिनान्यष्टौ बुधो द्वयम् ॥ ८३ ॥
सार्धमासं गुरुः शुक्रश्चतुर्दिनमथार्कजः ।
मासषट्कं फलं राहुः केतुर्मासत्रयं तथा ॥ ८४ ॥
मुहूर्तकल्पद्रुमे –
मेषादिद्वादशं राशिं यत्र जीवो हि तिष्ठति ।
पूर्वराशिफलं प्रोक्तं अष्टाविंशतिवासराः ॥ ८५ ॥
रत्नकोशे-
विलोमगत्या यदि वातिगत्या प्रयाति यो राशिमतीत्य शेषम् ।
हित्वा तदीयं गगनेचरोसौ दद्यात् फलं पूर्वगृहे यदुक्तम् ॥ ८६ ॥
वक्रातिचारेण गृहांतरेपि स्थितो ग्रहः पूर्वफलो यदि स्यात् ।
देशांतरं कार्यवशाद्गतोपि स्वदेशधर्मं न जहाति मर्त्यः ॥ ८७ ॥
यावंति यो वक्रगतो दिनानि भवेत्स वक्रा यदि वातिचारे ।
दशांशतुल्यानि फलानि तेषां दद्यात्फलं पूर्वगृहे यदुक्तम् ॥ ८८ ॥
गर्गोपि –
भौमादीनां ग्रहाणां हि पंचानामपि नित्यशः ।
अतिचारे च वक्रे च पूर्वराशिफलं वदेत् ॥ ८९ ॥
संहितासारे –
यस्मिन्गृहे स्थितो दीपस्तत्रोद्योतं करोति वै ।
एवं ग्रहोपि यत्र स्यात्तत्रैव फलदः स्मृतः ॥ ९० ॥
चागतिचारवक्रेण यो यत्रावस्थितो ग्रहः ।
स तद्राशिफलं दद्याद्गोचरे फलसाधने ॥ ९१ ॥
वसिष्ठमाण्डव्यपराशरात्रिगर्गांगिराव्यासकुलस्य वाक्यम् ।
वक्रातिचारे सुरराजमंत्री यत्रागतस्तत्र फलं ददाति ॥ ९२ ॥
अतिचारे च वक्रे च ग्रहाणांतर्गतं फलम् ।
बृहस्पतेस्तु तन्नास्ति पूर्वराशिफलप्रदम् ॥ ९३ ॥
फलसंग्रहे-
द्विजन्मनि पंचमसप्तगाश्चतुरष्टमद्वादशंधर्मयुताः ।
धनधान्यप्राणहिरण्यहरा रविराहुशनैश्चरभूमिसुताः ॥ ९४ ॥
द्वादशदशमचतुर्थे जन्मनि षष्ठाष्टगे तृतीये च ।
व्याधिर्विदेशगमनं मित्रविरोधं सुरगुरुः कुरुते ॥ ९५ ॥
तृतीयैकादशे षष्ठे शन्यर्ककुजराहवः ।
चत्वारस्तस्य राज्यं वा शरीरे सौख्यमादिशत् ॥ ९६ ॥
द्वादशे जन्मगे राशौ द्वितीये च शनैश्चरः ।
सार्द्धानि सप्तवर्षाणि तदा दुःखैर्युतो भवेत् ॥ ९७ ॥
अथ गोचरे पृथक्फलानि । लल्लः-
स्थानं जन्मनि नाशयेद्दिनकरः कुर्याद्द्वितीये भयं दुश्चिक्ये श्रियमातनोति हिबुके मानक्षयं यच्छति ।
दैन्यं पंचमगः करोति रिपुहा षष्ठेर्थहा सप्तमे पीडामष्टमगः करोति पुरुषं कांतिक्षयं धर्मगः ॥ ९८ ॥
कर्मसिद्धिजनकस्तु कर्मगो वित्तलाभकृदथायसंस्थितः ।
द्रव्यहानिजनितां महापदां यच्छति व्ययगतो दिवाकरः ॥ ९९ ॥
वाराहीये –
जन्मन्यायासदोर्कः क्षपयति विभवान्कोष्ठरोगाध्वदाता वीतभ्रंशं द्वितीये दिशति नच सुख वंचनाद्दृग्रुजं च ।
स्थानप्राप्तिं तृतीये धननिचयमुदा कल्पकृच्चारिहंता रोगान् धत्ते चतुर्थे जनयति च मुहुः स्रग्धरा भोगविघ्नम् ॥१००
पीडाः स्युः पंचमस्थे सवितरि बहुशो रोगारिजनिताः षष्ठर्को हंति रोगान् क्षपयति च रिपूंश्छोकांश्च नुदति ।
अध्वानं सप्तमस्थो जठरगदभय दैन्यं च कुरुते रुक्त्रासौ चाष्टमस्थे भवति सुवदनान् स्वापि वनिता ॥ १ ॥
अथ रविफलम् ।
रवावापदैन्यं रुगिति नवमे विभवमपि विरोधा जय प्राप्तोत्युग्रं दशमगृहगे कर्मसिद्धिं क्रमेण ।
जयं स्थानं मानं विभवमपि चैकादशे रोगनाशं सुवृत्तानां चेष्टा भवति सफला द्वादशे नेतरेषाम् ॥ २॥
अथ रविचक्रम् । श्रीपतिः-
मूर्ध्नि त्रीणि मुखे त्रीणि स्कंधे बाहुकरद्वये ।
वक्षः पंचैकनाभौ च गुह्यैकं जानुनोर्द्वयम् ॥ ३॥
चरणे द्वे षट्क-ऋक्षाणि सूर्यभाद्गणयेत्क्रमात् ॥ ४ ॥
मूर्ध्नि श्रीवदने तु मिष्टमशनं स्कंधे धनं स्वामिता बाह्वोर्बाहुबलं तथा करयुगे चौर्यं हृदि स्वं बहु ।
नाभ्यामल्पतरेण रुष्यति परस्त्रीसंगमो गुह्यके जानुस्थे रविभे विदेशगमनं पादे मितं जीवनम् ॥ ५॥
लल्लः –
यस्मिन्नृक्षे भवेत्सूर्यस्तत्रादौ त्रीणि मस्तके ।
त्रीणि वक्त्रे प्रदातव्या एकैकं स्कंधयोर्द्वयोः ॥ ६ ॥
एकैकं बाहुयुग्मे तु एकैकं तु करद्वयोः ।
हृदये पंच ऋक्षाणि नाभावेकं विनिर्दिशेत् ॥ ७ ॥
गुह्ये चैकं प्रदातव्यं एकैकं जानुयुग्मके ।
शेषाणि षट्ऋक्षाणि पादयोर्विनियोजयेत् ॥ ८ ॥
मस्तके राजसन्मानं मुखे मिष्टान्नभोजनम् ।
स्कंधे स्कंधधरो ज्ञेयो स्थानभ्रंशो भुजे भवेत् ॥ ९ ॥
हस्तयोस्तस्करो धूर्तो लक्ष्मीवान्हृदये स्मृतः ।
नाभौ संतोषवान्धीरो गुह्ये स्यात्पारदारिकः ।
जान्वोर्विदेशगमनं अल्पायुः पादयोर्भवेत् ॥ ११० ॥
अथ चंद्रफलम् । लल्लः –
जन्मन्यन्नं दिशतु हिमगुर्वित्तनाशं द्वितीये दद्याद्द्रव्यं सहजभवने कुक्षिरोगं चतुर्थे ।
कार्यभ्रंशं तनयगृहगे वित्तलाभं च षष्ठे द्यूने द्रव्यं युवतिसहिते मृत्युसंस्थेल्पमृत्युः ॥ ११ ॥
नृपभयं कुरुते नवमः शशी दशमधामततस्तु महत्सुखम् ।
विविधमायगतः कुरुते धनं व्ययगतश्च रुजश्च धनक्षयम् ॥ १२ ॥
वाराहसंहितायाम् –
शशी जन्मन्यन्नप्रवर शयनाच्छादनकरो द्वितीये मानार्थौ ग्लपयति सविघ्नंश्च भवति ।
तृतीये वस्त्रस्त्रीधननिचयसौख्यानि लभते चतुर्थे विश्वासः शिखरिणभुजंगेन सदृशः ॥ १३ ॥
दैन्यं व्याधिं शुचमपि शशी पंचमे मार्गविघ्नं षष्ठे वित्तं जनयति सुखं शत्रुरोगक्षयं च ।
यानं मानं शयनमशनं सप्तमे वित्तलाभं मदाक्रांतिं फणिनि हिमगौ चाष्टमे भीर्नरस्य ॥ १४ ॥
नवमगृहगो बंधोद्वेगं श्रमोदररोगकृद्दशमभवने चाज्ञाकर्मप्रसिद्धकरः शशी ।
उपचयसुहृत्संयोगार्थप्रमोदमुपांत्यगो वृषभचरितान् दोषानंते करोति हि स व्ययान् ॥ १५ ॥
अथ चंद्रचक्रम् । गर्गः-
एकं मुखे भषट् शीर्षे त्रीणि दक्षिणहस्तके ।
हृदि षट् वामहस्ते त्रिः कुक्षौ षट् पादयोर्द्वयम् ॥ १६ ॥
वदने हरते द्रव्यं शीर्षे राज्यादिलाभदम् ।
हानिस्तु दक्षिणे हस्ते हृदये स्त्रीसमागमः ॥ १७ ॥
वामहस्ते रोगभयं कुक्षौ सौख्यं जयं तथा ।
पादौ हानिर्भ्रमश्चैव चंद्रचक्रफलं स्मृतम् ॥ १८ ॥
लल्लः –
षण्मुखे षट् पृष्ठे च षट् बाह्वोर्गुह्यके त्रयः ।
त्रीणि पादौ त्रीणि कंठे कर्तव्यं गणकोत्तमैः ॥ १९ ॥
राकादिनस्थनक्षत्राद्गणकैर्गणयेत्तदा ।
यावच्च जन्मनक्षत्रं फलं ज्ञेयं क्रमेण च ॥ १२० ॥
मुखे स्वस्थानहानिः स्याद्धनलाभो हि पृष्ठके ।
हस्तद्वयेऽर्थलाभः स्याद्गुह्ये च स्त्रीसुखं भवेत् ॥ २१ ॥
पादाभ्यां भ्रमणं देशे कंठे सर्वसुखी भवेत् ॥ २२ ॥

मंगल ग्रहः

अथ भौमफलम् ।
प्रथमगृहगः क्षोणीसूनुः करोत्यरिजं भयं क्षपयति धनं वित्तस्थाने तृतीयगतोर्थदः ।
अरिभयकरः पाताले द्रव्यं क्षिणोति च पंचमे रिपुगृहगतः कुर्याद्द्विजं रुजं सदनस्थितः ॥ २३ ॥
जनयति निधनस्थः शत्रुबाधा धराजो दिशति नवमसंस्थः कायपीडामतीव ।
शुभमपि दशमस्थो लाभगो भूरिलाभं व्ययभवनगतोसौ व्याधिमर्थस्य नाशम् ॥ २४ ॥
वाराहीये-
कुजेभिघातः प्रथमे द्वितीये नरेंद्रपीडा कलहादिदोषैः ।
भृशं च पित्तानलरोगचैौरैः कृपेंद्रवज्रप्रतिमोपि यः स्यात् ॥ २५ ॥
तृतीयगश्चौरकुमारकेभ्यो भौमः सकाशात्फलमादधाति ।
प्रदीप्तिमाज्ञां धनमौर्णिकानि धात्वाकराख्यानि किलापराणि ॥ २६ ॥
भवति धरणिजे चतुर्थगे ज्वरजठरगदासृगुद्भवः ।
कुपुरुषजनिताच्च संगमात्प्रसभमपि करोति चाशुभम् ॥ २७ ॥
रिपुगदकोपभयानि पंचमे तनयकृताश्च शुचो महीसुते ।
द्युतिरपि नास्य चिरं भवेत्स्थिरा शिरसि कपेरिव मालतीकृता ॥ २८ ॥
रिपुभयकलहैर्विवर्जितः सकनकविद्रुमताम्रकागमः ।
रिपुभवनमहीसुते किमपरवक्त्रविकारमीक्षते ॥ २९ ॥
कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमे क्षरत्क्षतजरूक्षितः क्षपितवित्तमानोष्टमे ।
कुजे नवमसंस्थिते परिभवार्थनाशादिभिर्विलंबितगतिर्भवत्यबलदेहधातुक्रमैः ॥ १३० ॥
दशमगृहगते समं महीजे विविधधनाप्तिरुपांत्यगे जयश्च ।
जनपदमुपरि स्थितश्च भुक्ते वनमिव षट्चरणाः सुपुष्पिताग्रम् ॥ ३१ ॥
नानाव्ययैर्द्वादशगे महीसुते संताप्यतेऽनर्थशतैश्च मानवः ।
स्त्रीकोपवित्तैश्च सनेत्रवेदनैर्योपींद्रवंशाभिजनेन गर्वितः ॥ ३२ ॥
अथ भौमचक्रम् । लल्लोपि –
यस्मिन्नृक्षे भवेद्भौमः ततस्त्रीणि मुखे न्यसेत् ।
नेत्रे त्रीणि त्रीणि शीर्षे बाह्वोर्द्वौ चापि संन्यसेत् ॥ ३३ ॥
कंठे द्वे हृदये पंच गुह्ये त्रीणि चतुष्पदे ।
मुखे रोगो धनं नेत्रे यशो मूर्ध्नि धनं हृदि ॥ ३४ ॥
कंठे हिक्का स्त्रियो गुह्ये पादे देशांतरभ्रमः ।
वामबाहौ भवेद्रोगो दक्षिणे शोकमेव च ।
भौमभादात्मभं यावद्गणनीयमनुक्रमात् ॥ ३५ ॥
गर्गस्तु-
भौमर्क्षात्रियमतयं मुखे शिरसि वा चत्वारि बाह्वोश्चतुः कंठे द्वौ हृदये च पंच गदितं गुह्ये त्रयं निर्दिशेत् ।
षट्पादद्वितयेथ मिष्टमशनं चास्ये तु राज्यं शिरे हिक्का कंठगते धनं हृदिगते स्त्रीसंगमं गुह्यके ॥ ३६ ॥
वामे हस्ते रोगमृत्युर्दक्षिणे तु जयं शुभम् ।
देशांतरे गतिः पादे भौमचक्रे फलं वदेत् ॥ ३७ ॥

बुध ग्रह

अथ बुधफलम् ।
बुधः प्रथमधामगो दिशति बंधमर्थं धने धनं रिपुभयान्वितं सहजजश्चतुर्थेर्थदः ।
अनिर्वृतिकरो भवेत्तनयगोरिगः स्थानदः करोति मदनस्थितो बहुविधां शरीतपदाम् ॥ ३८ ॥
अष्टमे शशिसुतो धनवृद्धिं धर्मगस्तु महतीं धनपीडाम् ।
कर्मगः सुखमुपांत्यगतोर्थं द्वादशे भवति वित्तविनाशम् ॥ ३९ ॥
वाराहस्तु –
दुष्टवाक्यपिशुनाहितभेदैर्बाधवैः सकलहैश्च हृतस्वः ।
जन्मगे शशिसुते पथि गच्छन् स्वागतेपि कुशलं न शृणोति ॥ ॥ १४० ॥
परिभवो धनगते धनलब्धिः सहजगे शशिसुते सुहृदाप्तिः ।
नृपतिशत्रुभयशंकितचित्तो द्रुतपदं व्रजति दुश्चरितैः स्वैः ॥ ४१ ॥
चतुर्थगे स्वजनकुटुंबवृद्धयो धनागमो भवति च शीतरश्मिजे ।
सुतस्थिते तनयकलत्रविग्रहे निषेवते न च रुचिरामपि स्त्रियम् ॥ ४२ ॥
सौभाग्यं विजयमथोन्नतिं च षष्ठे वैकल्यं कलहमतीव सप्तमे ज्ञः ।
मृत्युस्थे सुतजयवस्त्रवित्तलाभनैपुण्यं भवति मतिप्रहर्षिणीयम् ॥ ४३ ॥
विघ्नकरो नवमः शशिपुत्रः कर्मगतो रिपुहा धनदश्च ।
सप्रमदं शयनं च विधत्ते तद्ग्रहदोथ कथास्तरणं च ॥ ४४ ॥
धनसुखसुत योषिन्मित्र वाह्याप्तितुष्टिस्तुहिनकिरणपुत्रे लाभगे मृष्टवाक्यः ।
रिपुपरिभवरोगैः पीडितो द्वादशस्थे न सहति परिभोक्तुं मालिनीयोगसौख्यम् ॥ ४५ ॥
अथ बुधचक्रम् । लल्लः-
बुधचक्रं प्रवक्ष्यामि पुरुषाकारमुत्तमम् ।
त्रीणि शीर्षे च धिष्ण्यानि विद्याप्राप्तिं करोति वै ॥ ४६ ॥
मुखे त्रीणि बलप्राप्तिर्वामपादे चतुष्टयम् ।
चत्वारि दक्षिणे हस्ते सुखवृद्धिं च लाभदः ॥४७॥
हृदये पंच लाभाय द्वयं गुह्ये तु रोगदम् ।
त्रीणि दक्षिणपादे च त्रीणि स्युर्वामपादके ॥ ४८ ॥
स्थानभ्रंशो रुजा पीडा कलहः स्वजनैः सह ।
देहस्थबुधमाहात्म्यं कथितं पूर्वसूरिभिः ॥ ४९ ॥
अथ गुरुफलम् ।
भयं जन्मन्यर्थो जनयति धने चार्थमतुलं तृतीयेंगक्लेशं दिशति च चतुर्थेर्थविलयम् ।
सुखं पुत्रस्थाने रुजमपि च कुर्यादरिगृहे धनस्याप्तिं द्यूने धननिचयनाशं च निधने ॥ १५० ॥
धर्मगतो धनवृद्धिकर: स्यात्प्रीतिहरो दशमेमरपूज्यः ।
स्थानधनानि ददाति स चाये द्वादशगस्तनुमानसपीडाम् ॥ ५१ ॥
वाराहीसंहितायाम् –
जीवे जन्मन्यपगतधनधीः स्थानभ्रष्टो बहुकलह युतः ।
प्राप्यार्थेर्थान् मुनिरपि कुरुते कांतास्याब्जे भ्रमरविलसितम् ॥ ५२ ॥
स्थानभ्रंशात्कार्यविघाताच्च तृतीयेऽनेकैः क्लेशैर्बंधुजनोत्थैश्च चतुर्थे ।
जीवे शांतिं पीडितचित्तश्च स विंदेन्नैव ग्रामे वापि वने मत्तमयूरे ॥ ५३ ॥
जनयति च तनयभवनमुपगतः परिजनशुभसुतकरितुरगवृषान् ।
सकनकपुरगृहयुवतिवसनकृन्मणिगुणनिकरकृदपि विबुधगुरुः ॥ ५४ ॥
न सखीवदनं तिलकोज्वलं न भवनं शिखिकोकिलनादितम् ।
हरिणाप्लुतशावविचित्रितं रिपुगते मनसः सुखदं गुरौ ॥ ५५ ॥
त्रिदशगुरुः शयन रतिभोगं धनशमनं कुसुमान्युपवाह्यम् ।
जनयति सप्तमराशिमुपेतो ललितपदां च गिरां धिषणां च ॥ ५६ ॥
बंधं व्याधिं चाष्टमे शोकमुग्रं मार्गक्लेशं मृत्युतुल्यांश्च रोगान् ।
नैपुण्याज्ञा पुत्रकर्मार्थसिद्धिं धर्मे जीवः शालिनीनां च लाभः ॥ ५७ ॥
स्थानकल्पधनहा दशमर्क्षगस्तत्प्रदो भवति लाभगो गुरुः ।
द्वादशं ध्वनिविलोमदुःखभाग्याति यद्यपि नरो रथोद्धतः ॥ ५८ ॥
अथ गुरुचक्रम् । गर्गोपि –
शीर्षे चत्वारि राज्यं युगपरिगणितं सव्यहस्ते च लक्ष्मीः कंठे चैकं विभूतिर्मदनशरमितं वक्षसि प्रीतिलाभम् ।
षड्भिः पीडांघ्रियुग्मे जलधिपरिमितं वामहस्ते च मृत्युर्नेत्रोभौ त्रीणि दद्यान्नृपतिसमसुखं वाक्पतेश्चक्रमेतत् ॥ ५९ ॥

शुक्रग्रहः

अथ []शुक्रफलम् । श्रीपतिः –
जन्मन्यरिक्षयकरो भृगुजोर्थदोर्थे दुश्चिक्यगः सुखकरो धनदश्चतुर्थे ।
स्यात्पुत्रकृत्तनयगोरिगतोरिवृद्धिं शोकप्रदो मदनगो निधनेर्थदाता ॥ १६० ॥
जनयति विविधांबराणि धर्मे न सुखकरो दशमस्थितस्तु शुक्रः ।
धननिचयकरः स लाभसंस्थो व्ययभवने च गतोपि द्रव्यनाशम् ॥ ६१ ॥
वाराहीये –
प्रथमगृहोपगो भृगुसुतः स्मरोपकरणैः सुरभिमनोज्ञगंधकुसुमांबरैरुपचयम् ।
शयनगृहासनाशनयुतः स चानुकुरुते समदविलासिनी मुखसरोजषट्चरणताम् ॥ ६२ ॥
शुक्रे द्वितीयगृहगे प्रसवार्थधान्यभूपालसन्नति कुटुंबहितान्यवाप्य ।
स सेवते कुसुमरत्नविभूषितश्च काम वसंततिलकद्युतिमूर्धजोपि ॥ ६३ ॥
आज्ञार्थमानास्पदभूतिवस्त्रशत्रुक्षयान्दैत्यगुरुस्तृतीय ।
धत्ते चतुर्थश्च सुहृत्समाजमुपेंद्रवज्रप्रतिमां च शक्तिम् ॥ ६४ ॥
जनयति शुक्रः पंचमसंस्थो गुरुपरितोषं बंधुजनाप्तिम् ।
सुतधनलब्धिं मित्रसहायान् नवसिततत्वं चारिबलेषु ॥ ६५ ॥
षष्ठो भृगुः परिभवरोगतापदः स्त्रीहेतुकं जनयति सप्तमोऽशुभम् ।
यातोष्टमं भवनपरिच्छदप्रदो लक्ष्मीवतीमुपनयति स्त्रियं च सः ॥ ६६ ॥
नवमे तु धर्मवनितासुखभाग्भृगुजेऽर्थवस्त्रनिचयश्च भवेत् ।
दशमेऽवमानकलहान् नियमात्प्रमिताक्षराण्यपि वदन् च लभते ॥ ६७ ॥
उपांत्यगो भृगोः सुतः सुहृद्धनान्नगंधदो धनांबरायमोंत्यगे स्थिरस्तु नांबरागमः ॥ ६८ ॥
अथ शुक्रचक्रम् | श्रीपतिः-
चत्वारि मस्तके राज्यं कंठे चत्वारि भूषणम् ।
हृदये पंच सौभाग्यं गुह्ये त्रीणि रिपोर्भयम्॥६९॥
जंघायां पंच मिष्टान्नं पादयोः षट् सुखं धनम् ।
शुक्रस्य पुरुषाकारे फलं प्रोक्तं विचक्षणैः ॥ १७० ॥
लल्लः—
शुक्रचक्रं प्रवक्ष्यामि नररूपेण संस्थितम् ।
धननाशो मुखे त्रीणि पंच शीर्षे च लाभदः ॥ ७१ ॥
त्रीण्येव दक्षिणे पादे हानिः क्लेशकरः स्मृतः ।
तत्फलं वामपादे च त्रीणि धिष्ण्यानि विन्यसेत् ॥ ७२ ॥
हृदये पंचभिः सौख्यं करयोश्च चतुश्चतुः ।
मित्रपुत्रसुखप्राप्तिं करोति भृगुजो ध्रुवम् ॥ ७३ ॥
अथ शनिफलम् ।
चित्तभ्रंशं दिनकरसुतो जन्मराशिं प्रपन्नो वित्ते संस्थो धनहरणकृद्वित्तलाभं तृतीये ।
पाताले शत्रुवृद्धिं सुतभवनगतः पुत्रभृत्यार्थनाशं षष्ठस्थानेर्थलाभं जनयति मदने दोषसंघातिमार्किः ॥ ७४ ॥
शरीरपीडां निधने च धर्मे धनक्षयं कर्मणि दौर्मनस्यम् ।
उपांत्यगो वित्तमनर्थमन्त्यं शनिर्ददातीत्थमिदं हि गोचरे ॥ ७२ ॥
वाराहस्तु-
प्रथमे रविजे विषवह्निहतः स्वजनैर्वियुतः कृतबंधुवधः ।
परदेशमुपेत्य सुहृद्भवना विसुखार्तसुतोटकदीनमुखः ॥ ७६ ॥
चारवशाद्द्वितीयगृहगे रवितनये रूपसुखापवर्जिततनुर्विगतमदबलः ।
अन्यगुणैः कृतं वसुचयं तदपि खलु भवत्यधिवंशपत्रपतितं न बहु न च चिरम् ॥ ७७ ॥
सूर्यसुते तृतीयगृहगे धनानि लभते दासपरिच्छदोष्ट्रमहिषाश्वकुंजरखरान् ।
सद्मविभूतिसौख्यममितगदव्युपरमं भीरुरपि प्रशास्त्यधिरिपूंश्च वीरललितैः ॥ ७८ ॥
चतुर्थे गृहं सूर्यपुत्रेभ्युपेते सुहृद्वित्तभार्यादिभिर्विप्रयुक्तः ।
भवत्यस्य सर्वत्र चासाधुदुष्टं भुजंगप्रयातानुकारं च चित्तम् ॥ ७९ ॥
सुतधनंपरिहीनः पंचमस्थे प्रचुरकलहयुक्तश्चार्कपुत्रे ।
विनिहतरिपुरोगः षष्ठयाते पिबति च वनितास्यं श्रीपुटोष्ठम् ॥ १८० ॥
गच्छत्यध्वानं सप्तमे चाष्टमे च हीनः स्त्रीपुत्रैः सूर्यजे दीनचेष्टः ।
तद्वद्धर्मस्थे वैरहृद्रोगबंधैर्धर्मोप्युच्छिद्येद्वैश्वदेवीक्रियाद्याः ॥ ८१ ॥
कर्मप्राप्तिर्दशमेर्थक्षयश्च विद्याकीर्त्योः परिहानिश्च सौरे ।
तैक्ष्ण्यं लाभे परयोषार्थलाभश्चांत्ये प्राप्नोत्यपि शोकोर्मिमालाम् ॥ ८२ ॥
अथ शनिपादः । विशेषोयं चूडामणौ—
जन्मे रसे रुद्रसुवर्णपादे द्विपंचनंदा रजतं शुभं च ।
त्रिसप्तदिक् ताम्रपदं वदंति वेदाष्टरिःफे खलु लोहपादम् ॥ ८३ ॥
अथ शनिवाहनम् ।
जन्मर्क्षाद्वृष्टिनक्षत्रसंख्यानंदैर्विभाजयेत्।
शेषांकैर्वाहनं ज्ञेयं यस्मिन्नुक्तं शुभाशुभम् ॥ ८४ ॥
गर्दभस्तु हयो हस्ती मेषजंबुकसिंहकाः ।
काको मयूरो हंसश्च नवैते वाहनाः स्मृताः ॥ ८५ ॥
तिथिवारं च नक्षत्रं नामाक्षरसमन्वितम् ।
नवभिस्तु हरेद्भागं शेषं वाहनमुच्यते ॥ ८६ ॥
गर्दभो वाजिनो हस्ती मेषो जंबुकसिंहयोः ।
काको मयूरो हंसश्च नवैते शनिवाहनाः ॥ ८७ ॥
गर्दभे च महादुःखं वाजिनं सुखसंपदा ।
हस्ती मिष्टान्नभोक्तव्यं मेषो विमुखजायते ॥ ८८ ॥
जंबुके मरणं ज्ञेयं मयूरार्थसुखप्रदम् ।
हंसाच्च लभते लाभं वाहनानां फलं त्विदम् ॥ ८९ ॥
श्रीपतिः-
एवं मंदर्क्षमास्ये सुखमथ युगलं व्याधिकृद्गुह्यसंस्थं युग्मं दृष्टयोरभीष्टं वितरति शिरसि त्रीणि साम्राज्यदानि ।
पंचारोग्याय कुक्षेर्जलधिपरिमितिर्वामपाणौ षडंघ्रिर्दुःखं क्लेशोपलब्धौ जलधिमिति करे दक्षिणे मंगलोत्थैः ॥ १९० ॥
अथ शनिचक्रम् । लल्लोपि-
मुखाद्गुह्ये ततो नेत्रे शीर्षे वामकरे हृदि ।
वामांघ्रौ दक्षिणे पादे दक्षहस्ते शनिर्गतिः ॥ ९१ ॥
वक्त्रे संतापमेकं प्रचुरतरधनं दक्षिणे हस्तविद्यात् पादौ दद्याच्च षड्भिः परवदनवशं वामहस्ते च मृत्युः ।
पंचोरस्यैव धार्यं बहुधनसुखदं त्रीणि शीर्षे च राज्यं नेत्रे युग्मे द्वयोर्वा गुदयुगुलमृतिः सौरिचक्रे प्रदिष्टम् ॥ ९२ ॥
अन्योपि-
यस्मिन् शनिश्चरति वक्रगतं ततश्च चत्वारि दक्षिणकरेंघ्रियुगेभषट्कम् ॥
चत्वारि वामकरगोप्युदरे पंच मूर्ध्नि त्रयं नयनयोर्द्वितयं गुदे च ॥ ९३॥
रोगो लाभं तथा ध्वानमधनं लाभमेव च ।
सौभाग्यमल्पमृत्युश्च शनेः प्रोक्तं क्रमात्फलम् ॥ ९४ ॥
अथ राहुफलम् । श्रीपतिः-
राहुर्जन्मगतो भयं च कलहं सौभाग्यमानक्षयं चित्तभ्रंशमहत्सुखं नृपभयं चार्थक्षयं यच्छति ।
संतापं कलहं च वित्तमधिकं शीघ्रं विनाशं नृणां केतुस्तत्फलमेव राशिषु वदेच्छंसंति गर्गादयः ॥ ९५ ॥
अथ राहुचक्रम्। सारोद्धारे –
यस्मिन्नृक्षे भवेद्राहुस्तत्राद्याः सप्त पादयोः ।
दक्षिणे तु भुजे पंच शिरसि त्रीणि दापयेत् ॥ ९६ ॥
द्वे ऋक्षे हृदये न्यस्य मुखे चैकं न्यसेद्बुधः ।
पंच वामकरे ज्ञेये ऋक्षमेकं तु नाभिषु ॥ ९७ ॥
तथा च त्रीणि गुह्येषु राहुचक्रे महाफलम्।
धनहानिर्भवेत्पादे संतापं दक्षिणे करे ॥ ९८ ॥
शीर्षे शत्रुजयं विद्यात् हृदये दुर्जनप्रियम् ।
मुखे दुर्जनसंहारं मृत्युर्वामकरे भवेत् ॥ ९९ ॥
गुह्ये तु सर्वनाशाय विचार्यैवं फलं वदेत् ॥ २०० ॥
गर्गोपि –
वक्त्रे त्रीणि विधुंतुदो गदभयं चत्वारि कंठे धनं नेत्रे द्वौ सुखदोपि राज्यसुखदं पंचर्क्षकं मस्तके ।
रोगी मृत्युभयं द्वयं तु करयोश्चत्वारि पादद्वये चत्वार्येव सुखं हृदि त्रिनिधनं गुह्ये द्वयं बंधनम् ॥ १ ॥

केतुग्रहः

अथ []केतुफलम् । श्रीपतिः-
रोगं वैरं सुखं भीतिः शुचं वित्तगतिं गदम् ।
पापं शोकगदं वैरं जन्मभात्कुरुते शिखी ।
यस्मिन्नृक्षे स्थितः केतुस्तदादि फलमादिशेत् ॥ २ ॥
अथ केतुचक्रम् |
नेत्रे द्वौ रोगशोकाय पंचास्ये लाभदायकः ॥ ३ ॥
शीर्षे त्रीणि च धिष्ण्यानि राजसन्मानदायकः ।
चत्वारि करयोः केतुर्यशौलाभसुखप्रदः ॥ ४ ॥
पादौ चत्वारि धिष्ण्यानि भ्रमणोद्वेगकारकः ।
हृदये पंच धिष्ण्यानि कलहं स्वजनैः सह ॥ ५ ॥
कुक्षौ चत्वारि भानीह भयरोगमृतिप्रदः।
गोचरे यो ग्रहोनिष्टस्तस्य चक्रफलं शुभम् ।
यदि स्यात्समता ज्ञेया शुभे द्वंद्वे शुभं वदेत् ॥ ६ ॥
अथ ग्रहाणां दोषशान्त्यर्थं स्नानौषधयः । श्रीपतिः-
मनःशिलैलासुरदारु कुंकुमैरुशीरज्येष्ठीमधुपद्मकान्वितैः ।
सताम्रपुष्पैर्विषमस्थिते रवौ शुभावहं स्नानमुदाहृतं बुधैः ॥ ७ ॥
पंचगव्यगजदानमिश्रितैः शंखशुक्तिकुमुदस्फटिकैश्च ।
शीतरश्मिकृतवैकृतहंति स्नानमेतदुदितं नृपतीनाम् ॥ ८ ॥
बिल्वचंदन बलारुणपुष्पैर्हिंगुलकफलिनीबकुलैश्च ।
स्नानमद्भिरिह मांसियुताभिर्भौमदोषविनिवारणमाहुः ॥ ९ ॥
गोमयाक्षतफलैः सरोचनैः क्षौद्रशुक्तिभवमूलहेमभिः ।
स्नानमुक्तमिदमत्र भूभृतां बोधनाशुभनिवारणं बुधैः ॥ २१० ॥
मालती कुसुमशुभ्रसर्षपैः पल्लवैश्च मदयंतिकोद्रवैः ।
मिश्रमंबुमधुकेन च स्फुटं वैकृतं गुरुकृतं निकृंतति ॥ ११ ॥
एलया च शिलया समन्वितैर्वारिभिः सकलमूलकुंकुमैः ।
स्नानतो भृगुसुतोपपादितं दुःखमेति विलयं न संशयः ॥ १२ ॥
असित तिलांजनलोध्रबलाभिः शतकुसुमाघनलाजयुताभिः ।
रवितनये कथितं विषमस्थे दुरितहृदाप्लवनं मुनिमुख्यैः ॥ १३ ॥
विन्यस्य माहिषं शृंगं हरितालं मनःशिलाम् ।
गुग्गुलं चांबुसंयुक्तं स्नानं राहुप्रशांतये ॥ १४ ॥
लोध्रदर्भतिलपत्रजमुस्ताहस्तिदानमृगनाभिपयोभिः ।
स्नानमुक्तमिदमध्यमराहोः साजमूत्रमिदमेव च केतोः ॥ १५ ॥
ज्योतिःप्रकाशे—
सिद्धार्थलोध्ररजनीद्वयभद्रमुस्ता चांद्रं रजः सफलिनीसुरुमाविमिश्रैः ।
स्नानं कुरुष्व ग्रहदोषनिवारणाय सर्वे ग्रहा दिनकरप्रमुखाः शुभाः स्युः ॥ १६ ॥
सदौषधैर्यांति गदा विनाशं यथा यथा दुःखभयानि मंत्रैः ।
तथोदितस्नानावधानतापि ग्रहाशुभं नाशमुपेत्यवश्यम् ॥ १७ ॥
तदन्यः –
लाजाकुट्टबलामिश्रं प्रियंगुघनसर्षपः ।
देवदारुहरिद्राभिः पुंखालोध्रेण संयुतः ॥ १८ ॥
वारिभिः स्नानमुक्तं हि प्रोक्तं दानपुरस्सरम् ।
एतत्सामान्यतः सर्वग्रहपीडोपशांतये ॥ १९ ॥
यथा सिद्धौषधै रोगा नश्येयुर्मंत्रतो भयम् ।
तथा स्नानविधानेन ग्रहदोषः प्रणश्यति ॥ २२० ॥

ग्रहेभ्यः दानपदार्थानि (कल्याण ज्योतिषतत्त्वांकः, पृ. ३६६)
सूर्यः चन्द्रः मंगलः बुधः गुरुः शुक्रः शनिः राहुः केतुः
माणिक्यः वंशपात्रम् विद्रुम, पृथिवी कांस्यपात्रम् पीत धान्यम् श्वेत चन्दनम् नीलम,तिलाः सप्तधान्यानि कम्बल,मृगनाभि
गोधूम, गुडः श्वेत व्रीहि मसूर,द्विदल हरितवस्त्रम् पीतवस्त्रम्, स्वर्ण श्वेत व्रीहि माष, तैलम् माष, हेमनाग माष
सवत्सा गौ श्वेत वस्त्रम् गोधूम् गजदन्तं, घृतम् घृतम्, पीतफलम् श्वेतवस्त्रम् कृष्णवस्त्रम् नीलवस्त्रम्,गोमेदः वैदूर्यमणि
कमलपुष्पम् श्वेतचन्दनम् रक्तवृषभ मुद्गः,पन्ना पीततैलम् श्वेतपुष्पम् कुरथी, लौह कृष्णपुष्पम् कृष्णपुष्पम्
नवीनगृह श्वेतपुष्प गुड, रक्तचन्दनम् स्वर्ण, दासी पोखराज चंद्रिका, हीरकः महिषी खड्ग, तिल तिलतैलम्
रक्तचन्दनम् शर्करा, चन्द्रिका रक्तवस्त्रम् सर्वपुष्प, रत्नानि हरिद्रा घृत, स्वर्ण कृष्णगौ तैलम, अयस रत्न, स्वर्ण
रक्तवस्त्रम् वृषभ, घृत रक्तपुष्पम् कर्पूरम्, शास्त्रम् पुस्तकम्, मधु श्वेतअश्व, दधि कृष्णपुष्प सूर्पम्, कम्बलम् लौह, मेषः
स्वर्ण, ताम्र शंख, दधि स्वर्ण, ताम्र अनेकफलानि लवणम्, शर्करा सुगन्धितद्रव्याः उपानह सतिलं ताम्रपात्रम् शस्त्रम्
केसर,मूंगा मोती, कर्पूर केशर, मृगनाभि षड्रसभोजनम् भूमि, छत्रम् शर्करा, गौ, भूमि मृगनाभि, स्वर्ण स्वर्ण, रत्न सप्तधान्याः
दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा
जपसं ७००० ज.सं. ११००० ज.सं. १०००० ज.सं. ९००० ज.सं. १९००० ज.सं. १६००० ज.सं. २३००० ज.सं. १८००० ज.सं. १७०००

अथ सूर्यादीनां दानानि । ज्योतिर्निबंधे-
कौसुंभवस्त्रं गुडहेमताम्रं माणिक्यगोधूमहिरण्यपद्मम् ।
सवत्सगोदानमिति प्रणीतं दुष्टाय सूर्याय मसूरिकाश्च ॥ २१ ॥
घृतकलशं सितवस्त्रं दधि शंखमौक्तिकं सुवर्णं च ।
रजतं च शंखं दद्याच्चन्द्रारिष्टोपशांतये ॥ २२॥
प्रवालगोधूममसूरिकाश्च वृषश्च ताम्रः करवीरपुष्पम् ।
आरक्तवस्त्रं गुडहेमताम्रं दुष्टाय भौमाय सचंदनं वा ॥ २३ ॥
नीलं वस्त्रं मुद्गदानं बुधाय रत्नं दद्याद्दासिका हेम सर्पिः ।
कांस्यं दंतः कुंजरस्याथ मेषो रौप्यं सर्वं पुष्पजात्यादिकं च ॥ २४ ॥
अश्वः सुवर्णं शुभपीतवस्त्रं सपीतधान्यं लवणं च पुष्पम् ।
सशर्करं तद्रजनीप्रयुक्तं दुष्टाय शान्त्यै गुरवे प्रणीतम् ॥ २५ ॥
चित्रवस्त्रमिह दानवार्चिते दुष्टगे मुनिवरैः परिणीतम् ।
तंदुलं घृतसुवर्णरूपकं वज्रकं परिमलो धवलोश्वः ॥ २६ ॥
नीलकं महिषी वस्त्रं कृष्णलोहसदक्षिणम् ।
तैलमाषकुलित्थाश्च शनिरिष्टप्रशांतये ॥ २७ ॥
राहोर्दानं बुधैर्मेषो गोमेदं शस्त्रकंबलम् ।
सौवर्णं नागरूपं च सतिलं ताम्रभाजनम् ॥ २८ ॥
केतोर्वैदूर्यममलं तैलं मृगमदस्तथा ।
ऊर्णा तिलाश्च धान्यैकं महाजःक्लेशशांतये ॥ २९ ॥
अमृतकुंभग्रंथे –
वस्त्रं धेनुः पाटला तोयकुंभः कांस्यं पात्रं वाज्यपूर्णं रथश्च ।
व्रीहीद्राज्या हेममाणिक्यमेतद्दानं प्रोक्तं प्रीतये भास्करस्य ॥ २३० ॥
शंखो रौप्यमयः शशी च कलशो दुग्धप्रपूर्णस्तथा स्थाली कांस्यमयी च मौक्तिकफलं श्रीखंडकं तंदुलाः ।
कर्पूरं च सितांवरं च कुमुदं व्राज्याहिका स्फाटिकं त्वेलाचेक्षुरिदं सदा निगदितं दानं शशिप्रीतये ॥ ३१ ॥
रक्तोनड्वान् विद्रुमं रक्तवस्त्रं रक्तं धान्यं ताम्रपात्रं गुडश्च ।
लाक्षा रक्तं चंदनं चाज्यकुंभं पूगान्येतद्दानमुक्तं कुजस्य ॥ ३२ ॥
शोणं वस्त्रं नीलवस्त्रं च धान्यं नीलं रक्तं हेम गोरोचनं च ।
नारंगीनि स्वस्वकाले फलानि चैतद्दानं प्रीतये स्याद्बुधस्य ॥ ३३ ॥
पीतं दुकूलमथ कंबलकं च पीतं धान्यं हिरण्यहरितालहरिद्रकाश्च ।
जंबीरकं त्वपि च पीतफलानि वंशपात्रं त्विदं ननु बृहस्पतिदानमुक्तम् ॥ ३४ ॥
अश्वः श्वेतः श्वेतधान्यं च वस्त्रं श्वेतं रूप्यं बीजपूरं फलं च ।
कर्पूरं च श्वेतगंधं च पुष्पं शुक्रस्योक्तं प्रीतये दानमेतत् ॥ ३५ ॥
कृष्णां धेनुं वृषभमपि तिलानंजनं तैलकुंभं कृष्णं रत्नं त्रपु च महिषीं कृष्णधान्यांबराणि ।
तीव्रं द्रव्यं समरिचलवंगादिकं गुग्गुलं च दद्याल्लोहं फलमपि शनिप्रीतये चोक्तमेतत् ॥ ३६ ॥
शूर्पं खड्गसुवर्णनागसहितं धान्यैः फलैः सप्तभिः कूष्मांडं तिलतंदुलाश्च लवणं कस्तूरिकां सर्षपान् ।
नालीकेरमुपानहौ शुभमणिं गोमेदकं शय्यकां दद्याच्छीशककृष्णधान्यवसनं राहुग्रहपीतये ॥ ३७ ॥
मेषश्च चित्रवसनं त्वथ माषदाली वैदूर्यरत्नमपि कर्बुरकंबलश्च ।
कार्पासदाडिमफलानि सुगंधतैलमैरंडकाश्च कथितं त्विति केतुदानम् ॥ ३८ ॥
अथ दानकालः । बृहस्पतिः –
यमभे कुजवारस्थे चतुर्दश्यष्टमीयुते ।
कृष्णे पापोदये कुर्याद्दुष्टग्रहविवर्जनम् ॥ ३९ ॥
सूर्यादिकानां यद्दानं जपहोमार्चनादिकम् ।
तेषां वारे प्रकुर्वीत संतुष्टास्ते भवंति हि ॥ २४० ॥
अथ मुद्रिकाः । श्रीपतिः-
माणिक्यं तरणेः सुजात्यममलं मुक्ताफलं शीतगोर्माहेयेस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् ।
देवेज्यस्य च पुष्पराजमसुराचार्यस्य वज्रं शनेः नीलं निर्मलमन्ययोश्च गदिते गोमेदवैदूर्यके ॥ ४१ ॥
स्मृतिः –
तारताम्रसुवर्णानामर्कषोडशखेंदुभिः ।
त्रिभिस्तु वेष्टिता मुद्रा तीव्रदारिद्र्यनाशिनी ॥ ४२ ॥
अथ त्रिशक्तिमुद्रिकाः ।
धार्यं तुष्ट्यै विद्रुमं भौमभान्वो रौप्यं शुक्रेन्दोश्च हेमेंदुजस्य ।
मुक्तासूरेर्लोहमर्कात्मजस्य राजावर्तः कीर्तितः शेषयोश्च ॥ ४३ ॥
धेनुः शंखोरुणरुचिवृषः कांचनं पीतवस्त्रं श्वेतश्चाश्वः सुरभिरसिता कृष्णलोहं महाजः ।
सूर्यादीनां मुनिभिरुदिता दक्षिणास्तु ग्रहाणां स्नानैर्दानैर्हवनबलिभिस्तेत्र तुष्यंति यस्मात् ॥ ४४ ॥
अथ ग्रहस्थापनम् । स्मृतिरत्नावल्याम् –
मध्ये तु भास्करं विद्याच्छशिनं पूर्वदक्षिणे ।
दक्षिणे लोहितं विद्याद्बुधमीशानकोणके ॥ ४५ ॥
गुरुमुत्तरतः स्थाप्य पूर्वस्यां दिशि भार्गवः ।
पश्चिमे तु शनिः स्थाप्यो राहुर्दक्षिणपश्चिमे ॥ ४६ ॥
पश्चिमोत्तरतः केतुर्ग्रहाणां स्थापनं स्मृतम् ॥ ४७ ॥
अथ सूर्यादीनां यंत्राण्यरिष्टनाशनाय धार्याणि । यंत्रचिन्तामणौ-
रसेंदुनागा नगवाणरामा युग्मांक वेदा नवकोष्ठमध्ये ।
विलिख्य धार्यं गदनाशनाय वदंति गर्गादिमहामुनींद्राः ॥ ४८ ॥
नगद्विनंदा गजषट्समुद्रा शिवाक्षदिग्बाण विलिख्य कोष्ठे ।
चंद्रकृता रिष्टविनाशयनाय धार्यं मनुष्यैः शशियंत्रमीरितम् ॥ ४९ ॥
गजाग्निदिश्याथ नवाद्रिबाणा पातालरुद्रारस संविलेख्या ।
भौमस्य यंत्रं क्रमतो विधार्यमनिष्टनाशं प्रवदंति गर्गाः ॥ २५० ॥
नवाब्धिरुद्रा दिङ्नागषष्ठा बाणार्कसप्ता नवकोष्ठयंत्रे ।
विलिख्य धार्यं गदनाशहेतवे वदंति यंत्रं शशिजस्य धीराः ॥ ॥ ५१ ॥
दिग्बाणसूर्या शिवनंदसप्ता षड्विश्वनागाः क्रमतोंककोष्ठे ।
विलिख्य धार्यं गुरुयंत्रमीरितं रुजाविनाशाय वदंति तद्बुधाः ॥ ५२ ॥
रुद्रांगविश्वा रविदिग्गजाख्या नगामनुश्चांकक्रमाद्विलेख्या ।
भृगोः कृतारिष्टनिवारणाय धार्यं हि यंत्रं मुनिना प्रकीर्तिता ॥ ५३ ॥
अर्काद्रिमन्वास्मररुद्रअंका नागाख्य तिथ्या दश मन्दयन्त्रम् ।
विलिख्य भूर्जोपरिधार्यविद्वच्छनेः कृतारिष्टनिवारणाय ॥ ५४ ॥
विश्वाष्टतिथ्या मनुसूर्यदिश्या खगामहींद्रैकदशांककोष्ठे ।
विलिख्य यंत्रं सततं विधार्यं राहोः कृतारिष्टनिवारणाय ॥ ५५ ॥
मनुखेचरभूपातिथि विश्व शिवा दिग्सप्तादशस्सूर्यमिता ।
क्रमतो विलिखेन्नवकोष्ठमिते परिधार्य नरादुःखनाशकराः ॥ ५६ ॥
ग्रहाणां मन्त्राः-
तथा ग्रहदोषनिवारणाय वैदिकमंत्रैर्जपेत् । संहिता यर्जुवेदे []आकृष्णेनेति रविमन्त्रम् । [१०]इमं देवा असपनँ इति चन्द्रमन्त्रम् । [११]अग्निर्मूर्द्धादिवति भौममन्त्रम् । [१२]उद्बुध्यस्वाग्ने इत्यादि बुधमन्त्रम् । बृहस्पते अतियदर्यो इत्यादि(वासं 26.3) बृहस्पतिमन्त्रम् । [१३]अन्नात्परिस्रुते इत्यादि (वासं १९.७५)भृगुमन्त्रम् । [१४]शन्नोदेवीति(वासं 36.12) शनिमन्त्रम् । [१५]कयानश्चित्रेति राहुमन्त्रम् । [१६]केतुं कृण्वन्नेति केतुमन्त्रम् ।
अथ जपस्थानमाह ।
शुचिस्थाने स्वगृहे जलाशये देवालये वा शुचिर्भूत्वा विधिवज्जपं कुर्यात्कारयेद्वा । तदुक्तं स्मृतौ-
गृहे त्वेकगुणं जाप्यं नद्यां तु द्विगुणं स्मृतम् ।
गवां गोष्ठे दशगुणं अग्न्यागारे शताधिकम् ॥ ५७ ॥
तीर्थादिषु सहस्रं स्यादनंतं विष्णुसंनिधौ ॥ इति ॥ ५८ ॥
तदनंतरं दशांशहोमः समिधतः कर्तव्यः ।
ग्रहाणां समिधम् । श्रीपतिः –
अर्काद्ब्राह्ममहीरुहात्खदिरतोपामार्गतः पिप्पलादार्द्रौदुंबरशाखिनोप्यथ शमी दूर्वाकुशेभ्यः क्रमात् ।
सूर्यादिग्रहमंडलस्य समिधो होमाय कार्या बुधैः सुस्निग्धाः सरलास्त्वचावनिमिताः प्रादेशमात्राः स्थिताः ॥ ५९ ॥
ज्योतिःशास्त्राज्ज्ञायते कालमानं तस्माद्यज्ञस्तेन तुष्यंति देवाः ।
तुष्टा देवा साधयंतीप्सितार्थं तस्मात्तज्ज्ञा यत्नतः पूजनीयाः ॥ २६० ॥
बृहस्पतिः—
यज्ञाशक्तौ च सर्वेषां ग्रहाणां स्वस्वमन्त्रकैः ।
जपेद्वा विप्रमुख्यैस्तु दत्वा म्नायोक्तदक्षिणाम् ॥ ६१ ॥
अशक्तौ तु जपाद्यादि दानरूपेण दक्षिणाम् ।
तदभावे तदा मन्त्रैस्तर्पयेद्वा पृथक् पृथक् ॥ ६२ ॥
श्रीपतिः –
सांवत्सरे वेदविदांगणेषु सर्वत्र दानग्रहणे प्रदिष्टः ।
दानविशेषः –
तत्रापि दानेषु नवग्रहाणामतिप्रशस्तो न कश्चिदन्यः ॥ ६३ ॥
भानुस्तांबूलदानादपहरति नृणां वैकृतं वासरोक्त सोमः श्रीखण्डदानादवनितनुभवो भोजनात्पुष्पदानात् ।
सौम्यः शक्रस्य मन्त्री हरिहरनमनाद्भार्गवः शुक्लवस्त्रैस्तैलस्नानात्प्रभाते दिनकरतनयो ब्रह्मनत्यापरौ च ॥ ६४ ॥
प्रत्येकग्रहाणां दोषहरणम् । तदन्यः-
राहुदोषं बुधो हन्यादुभयास्तु शनैश्चरः ।
त्रयाणां भूमिजो हंति चतुर्णां दानवार्चितः ॥ ६५ ॥
पंचानां देवमन्त्री च षण्णां दोषं तु चन्द्रमाः ।
सप्तदोषं रविर्हन्याद्विशेषादुत्तरायणे ॥ ६६ ॥
ग्रहकृतारिष्टानिवारणाय विशेषोपायः ।
देवब्राह्मणवन्दनाद्गुरुवचःसंपादनात्प्रत्यहं साधूनामभिभाषणाच्छ्रुतिरवश्रेयस्कथाकर्णनात् ।
होमादध्वरदर्शनाच्छुचिमनोभावाज्जपादानतो नो कुर्वंति कदाचिदेव पुरुषस्यैवं ग्रहाः पीडनम् ॥ ६७ ॥
इति श्रीज्योतिर्विद्गयादत्तात्मज रामदीनविरचिते संग्रहे बृहद्दैवज्ञरंजने द्वात्रिंशं गोचरप्रकरणं समाप्तम् ॥

  1. पुराणेषु ग्रहाः, ग्रहोपरि वैदिक संदर्भा
  2. बृहत्पाराशरहोराशास्त्रम् २.२
  3. नृसिंहोपरि टिप्पणी
  4. कूर्मोपरि टिप्पणी
  5. राहु उपरि संक्षिप्त टिप्पणी
  6. वराहोपरि टिप्पणी
  7. शुक्रोपरि पौराणिकसंदर्भाः
  8. केतु उपरि टिप्पणी, [http://puranastudy.000space.com/pur_index15/nachiketa.htm आरुणकेतुक उपरि टिप्पणी]
  9. आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ -वासं 33.४3
  10. इमं देवा ऽअसपत्नꣳ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
    इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽ एष वो ऽमी राजा सोमो स्माकं ब्राह्मणाना राजा ॥ -वासं ९.४०
  11. अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।
    अपाᳬं रेताᳬंसि जिन्वति ॥ - वासं 3.12
  12. उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सꣳ सृजेथाम् अयं च ।अस्मिन्त् सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानाश् च सीदत ॥- वासंं 18.61
  13. अन्नात् परिस्रुतो रसं ब्रह्मणा व्यपिबत् क्षत्रं पयः सोमं प्रजापतिः ।
    ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
  14. शं नो देवीर् अभिष्टय ऽ आपो भवन्तु पीतये । शं योर् अभि स्रवन्तु नः ॥ - वा.सं. ३६.१२
  15. कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा । कया शचिष्ठया वृता ॥ - वा.सं. २७.३९
  16. केतुं कृण्वन्न् अकेतवे पेशो मर्या ऽ अपेशसे । सम् उषद्भिर् अजायथाः(वा.सं. २९.३७) ॥