बृहत्संहिता/अध्यायः ८४

विकिस्रोतः तः
← अध्यायः ८३ बृहत्संहिता
अध्यायः ८४
वराहमिहिरः
अध्यायः ८५ →

८४ दन्तकाष्ठलक्षणाध्यायः ।।

वल्लीलतागुल्मतरुप्रभेदैः
स्युर्दन्तकाष्ठानि सहस्रशो यैः ।
फलानि वाच्यान्यथ[क्.अति] तत्प्रसङ्गो
मा भूदतो वच्म्यथ कामिकानि ।। ८४.०१ ।।

अज्ञातपूर्वाणि न दन्तकाष्ठान्य्
अद्यान्न पत्रैश्च समन्वितानि ।
न युग्मपर्वाणि न पाटितानि
न चऊर्ध्वशुष्काणि विना त्वचा च ।। ८४.०२ ।।

वैकङ्कतश्रीफलकाश्मरीषु
ब्राह्मी द्युतिः क्षेमतरौ सुदाराः ।
वृद्धिर्वटे +अर्के प्रचुरं च तेजः
पुत्रा मधूके सगुणाः[क्.ककुभे] प्रियत्वम् ।। ८४.०३ ।।

लक्ष्मीः शिरीषे च तथा करञ्जे
प्लक्षे +अर्थसिद्धिः समभीप्सिता स्यात् ।
मान्यत्वं आयाति जनस्य जात्यां
प्राधान्यं अश्वत्थतरौ वदन्ति ।। ८४.०४ ।।

आरोग्यं आयुर्बदरीबृहत्योर्
ऐश्वर्यवृद्धिः खदिरे सबिल्वे ।
द्रव्याणि चैष्टान्यतिमुक्तके स्युः
प्राप्नोति तान्येव पुनः कदम्बे ।। ८४.०५ ।।

नीपे[क्.निम्बे] +अर्थाप्तिः करवीरे +अन्नलब्धिर्
भाण्डीरे स्याद्*अन्नं एवं[क्.इदं एव] प्रभूतम् ।
शम्यां शत्रूनपहन्त्यर्जुने च
श्यामायां च द्विषतां एव नाशः ।। ८४.०६ ।।

शाले +अश्वकर्णे च वदन्ति गौरवं
सभद्रदारावपि चाटरूषके ।
वाल्लभ्यं आयाति जनस्य सर्वतः
प्रियङ्गुअपामार्गसजम्बुदाडिमैः ।। ८४.०७ ।।

उदङ्मुखः प्राङ्मुख एव वाअब्दं
कामं यथेष्ठं[ऊ.यथेष्टं] हृदये निवेश्य ।
अद्यादनिन्दन्[क्.अनिन्द्यं] च सुखौपविष्टः
प्रक्षाल्य जह्याच्च शुचिप्रदेशे ।। ८४.०८ ।।

अभिमुखपतितं प्रशान्तदिक्स्थं
शुभं अतिशोभनं ऊर्ध्वसंस्थितं यत् ।
अशुभकरं अतो +अन्यथा प्रदिष्टं
स्थितपतितं च करोति मृष्टं अन्नम् ।। ८४.०९ ।।