बृहत्संहिता/अध्यायः ८३

विकिस्रोतः तः
← अध्यायः ८२ बृहत्संहिता
अध्यायः ८३
वराहमिहिरः
अध्यायः ८४ →

८३ दीपलक्षणाध्यायः ।।

वामावर्तो मलिनकिरणः सस्फुलिङ्गो +अल्पमूर्तिः
क्षिप्रं नाशं व्रजति विमलस्नेहवर्त्यन्वितो +अपि ।
दीपः पापं कथयति फलं शब्दवान्वेपनश्च
व्याकीर्णार्चिर्विशलभमरुद्यश्च नाशं प्रयाति ।। ८३.०१ ।।

दीपः संहतमूर्तिरायततनुर्निर्वेपनो दीप्तिमान्
निःशब्दो रुचिरः प्रदक्षिणगतिर्वैदूर्य[क्.वैडूर्य]हेमद्युतिः ।
लक्ष्मीं क्षिप्रं अभिव्यनक्ति सुचिरं[क्.रुचिरं, क्ऽस्त्र्. सुचिरम्] यश्चौद्यतं दीप्यते
शेषं लक्षणं अग्निलक्षणसमं योज्यं यथायुक्तितः ।। ८३.०२ ।।