सामग्री पर जाएँ

बृहत्संहिता/अध्यायः ४९

विकिस्रोतः तः
← अध्यायः ४८ बृहत्संहिता
अध्यायः ४९
वराहमिहिरः
अध्यायः ५० →

४९ खड्गलक्षणाध्यायः ।।

 अङ्गुलशतार्धं उत्तम ऊनः स्यात्*पञ्चविंशतिः[क्.पञ्चविंशतिं] खड्गः ।
 अङ्गुलमानाज्ज्ञेयो व्रणो +अशुभो विषमपर्वस्थः ।। ४९.०१ ।।

 श्रीवृक्षवर्धमानऽतपत्रशिवलिङ्गकुण्डलाब्जानाम् ।
 सदृशा व्रणाः प्रशस्ता ध्वजऽयुधस्वस्तिकानां च ।। ४९.०२ ।।

 कृकलासकाककङ्कक्रव्यादकबन्धवृश्चिकऽकृतयः ।
 खड्गे व्रणा न शुभदा वंशानुगताः प्रभूताश्च ।। ४९.०३ ।।

 स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृग्मनो +अनुगतः ।
 अस्वन इति चानिष्टः प्रोक्तविपर्यस्त इष्टफलः ।। ४९.०४ ।।

 क्वणितं मरणायौक्तं पराजयाय प्रवर्तनं कोशात् ।
 स्वयं उद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे ।। ४९.०५ ।।

नाकारणं विवृणुयान्न विघट्टयेच्च
पश्येन्न तत्र वदनं न वदेच्च मूल्यम् ।
देशं न चास्य कथयेत्प्रतिमानयेन्न
नैव स्पृशेन्नृपतिरप्रयतो +असियष्टिम् ।। ४९.०६ ।।

 गोजिह्वासंस्थानो नीलोत्पलवंशपत्रसदृशश्च ।
 करवीरपत्रशूलाग्रमण्डलाग्राः प्रशस्ताः स्युः ।। ४९.०७ ।।

 निष्पन्नो न छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः ।
 मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्ने ।। ४९.०८ ।।

 यस्मिन्त्सरुप्रदेशे व्रणो भवेत्तद्वदेव खड्गस्य ।
 वनितानां इव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा ।। ४९.०९ ।।

 अथ वा स्पृशति यदङ्गं प्रष्टा निस्त्रिंशभृत्तदवधार्य ।
 कोशस्थस्यऽदेश्यो व्रणो +अस्ति शास्त्रं विदित्वेदम् ।। ४९.१० ।।

 शिरसि स्पृष्टे प्रथमे +अङ्गुले द्वितीये ललाटसंस्पर्शे ।
 भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चत्रुथे च ।। ४९.११ ।।

 *नासाउष्ठ[क्.नासोष्ठ]कपोलहनुश्रवणग्रीव*अंसके च[क्.अंसकेषु] पञ्चाद्याः ।
 उरसि द्वादशसंस्थस्त्रयोदशे कक्षयोर्ज्ञेयः ।। ४९.१२ ।।

 स्तनहृदयौदर*कुक्षिनाभौ[क्.कुक्षिनाभीषु] तु चतुर्दशादयो ज्ञेयाः ।
 नाभिमूले कट्यां गुह्ये चएकोनविंशतितः ।। ४९.१३ ।।

 ऊर्वोर्द्वाविंशे स्यादूर्वोर्मध्ये व्रणस्त्रयोविंशे ।
 जानुनि च चतुर्विंशे जङ्घायां पञ्चविंशे च ।। ४९.१४ ।।

 जङ्घामध्ये गुल्फे पार्ष्ण्यां पादे तदङ्गुलीष्वपि च ।
 षड्विंशतिकाद्यावत्त्रिंशदिति मतेन गर्गस्य ।। ४९.१५ ।।

 पुत्रमरणं धनाप्तिर्धनहानिः सम्पदश्च बन्धश्च ।
 एकाद्यङ्गुलसंस्थैर्व्रणैः फलं निर्दिशेत्क्रमशः ।। ४९.१६ ।।

 सुतलाभः कलहो हस्तिलब्धयः पुत्रमरणधनलाभौ ।
 क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ।। ४९.१७ ।।

 लब्धिर्*हानिः स्त्रीलब्धयो[क्.हानिस्त्रीलब्धयो] बधो वृद्धिमरणपरितोषाः ।
 ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ।। ४९.१८ ।।

 वित्ताप्तिरनिर्वाणं धनऽगमो मृत्युसम्पदो +अस्वत्वम् ।
 ऐश्वर्यमृत्युराज्यानि च क्रमात्त्रिंशदिति यावत् ।। ४९.१९ ।।

 परतो न विशेषफलं विषमसमस्थास्तु पापशुभफलदाः ।
 कैश्चिदफलाः प्रदिष्टास्त्रिंशत्परतो +अग्रं इति यावत् ।। ४९.२० ।।

 करवीरौत्पलगजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः ।
 शुभदो +अनिष्टो गोमूत्रपङ्कमेदःसदृशगन्धः ।। ४९.२१ ।।

 कूर्मवसाअसृक्क्षारौपमश्च भयदुःखदो भवति गन्धः ।
 वैदूर्यकनकविद्युत्प्रभो जयऽरोग्यवृद्धिकरः ।। ४९.२२ ।।

इदं औशनसं च शस्त्रपानं
रुधिरेण श्रियं इच्छतः प्रदीप्ताम् ।
हविषा गुणवत्सुताभिलिप्सोः
सलिलेनाक्षयं इच्छतश्च वित्तम् ।। ४९.२३ ।।

वडवाउष्ट्रकरेणुदुग्धपानं
यदि पापेन समीहते +अर्थसिद्धिम् ।
झषपित्तमृगाश्वबस्तदुग्धैः
करिहस्तच्छिदये सतालगर्भैः ।। ४९.२४ ।।

आर्कं पयो हुडुविषाणमषीसमेतं
पारावतऽखुशकृता च *युतः[क्.युतं] प्रलेपः ।
शास्त्रस्य तैलमथितस्य ततो +अस्य पानं
पश्चात्शितस्य न शिलासु भवेद्विघातः ।। ४९.२५ ।।

क्षारे कदल्या मथितेन युक्ते
दिनौषिते पायितं आयसं यत् ।
सम्यक्शितं चाश्मनि नैति भङ्गं
न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ।। ४९.२६ ।।