बृहत्संहिता/अध्यायः ४८

विकिस्रोतः तः
← अध्यायः ४७ बृहत्संहिता
अध्यायः ४८
वराहमिहिरः
अध्यायः ४९ →

४८ पट्टलक्षणाध्यायः ।।

 विस्तरशो निर्दिष्टं पट्टाणां लक्षणं यदाचार्यैः ।
 तत्संक्षेपः क्रियते मया +अत्र सकलार्थसम्पन्नः ।। ४८.०१ ।।

 पट्टः शुभदो राज्णां मध्ये +अष्टावङ्गुलानि विस्तीर्णः ।
 सप्त नरेन्द्रमहिष्याः षड्युवराजस्य निर्दिष्टः ।। ४८.०२ ।।

 चतुरङ्गुलविस्तारः पट्टः सेनापतेर्भवति मध्ये ।
 द्वे च प्रसादपट्टः पञ्चैते कीर्तिताः पट्टाः ।। ४८.०३ ।।

 सर्वे द्विगुणायामा मध्यादर्धेन पार्श्वविस्तीर्णाः ।
 सर्वे च शुद्धकाञ्चनविनिर्मिताः श्रेयसो वृद्ध्यै ।। ४८.०४ ।।

 पञ्चशिखो भूमिपतेस्त्रिशिखो युवराजपार्थिवमहिष्योः ।
 एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ।। ४८.०५ ।।

 क्रियमाणं यदि पत्रं सुखेन विस्तारं एति पट्टस्य ।
 वृद्धिजयौ भूमिपतेस्तथा प्रजानां च सुखसम्पत् ।। ४८.०६ ।।

 जीवितराज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः ।
 मध्ये स्फुटितस्त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः ।। ४८.०७ ।।

 अशुभनिमित्तौत्पत्तौ शास्त्रज्ञः शान्तिं आदिशेद्राज्ञः ।
 शस्तनिमित्तः पट्टो नृपराष्ट्रविवृद्धये भवति ।। ४८.०८ ।।