सामग्री पर जाएँ

बृहत्संहिता/अध्यायः ४३

विकिस्रोतः तः
← अध्यायः ४२ बृहत्संहिता
अध्यायः ४३
वराहमिहिरः
अध्यायः ४४ →

४३ नीराजनाध्यायः ।।

 भगवति जलधरपक्ष्मक्षपाकरार्कईक्षणे कमलनाभे ।
 उन्मीलयति *तुरङ्ग[क्.तुरङ्गन]करिनरनीराजनं कुर्यात् ।। ४३.०१ ।।

 द्वादश्यां अष्टम्यां *कार्तिक[क्.कार्त्तिक]शुक्लस्य पञ्चदश्यां वा ।
 आश्वयुजे वा कुर्यान्नीराजनसंज्ञितां शान्तिम् ।। ४३.०२ ।।

 नगरौत्तरपूर्वदिशि प्रशस्तभूमौ प्रशस्तदारुमयम् ।
 षोडशहस्तौच्छ्रायं दशविपुलं तोरणं कार्यम् ।। । ४३.०३ ।।

 सर्जौदुम्बर*ककुभशाखामय[क्.शाखाककुभमयं]शान्तिसद्म कुशबहुलम् ।
 वंशविनिर्मितमत्स्यध्वजचक्रालङ्कृतद्वारम् ।। ४३.०४ ।।

 प्रतिसरया तुरगाणां भल्लातकशालिकुष्ठसिद्धार्थान् ।
 कण्ठेषु निबध्नीयात्पुष्ट्यर्थं शान्तिगृहगाणाम् ।। ४३.०५ ।।

 रविवरुणविश्वदेवप्रजेशपुरुहूतवैष्णवैर्मन्त्रैः ।
 सप्ताहं शान्तिगृहे कुर्यात्शान्तिं तुरङ्गाणाम् ।। ४३.०६ ।।

 अभ्यर्चिता न परुषं वक्तव्या नापि ताडनीयास्ते ।
 पुण्याहशङ्खतूर्यध्वनिगीतरवैर्विमुक्तभयाः ।। ४३.०७ ।।

 प्राप्ते अष्टमे +अह्नि कुर्यादुदङ्मुखं तोरणस्य दक्षिणतः ।
 कुशचीरऽवृतं आश्रमं अग्निं पुरतो +अस्य वेद्यां च ।। ४३.०८ ।।

 चन्दनकुष्ठसमङ्गाहरितालमनःशिलाप्रियङ्गुवचाः ।
 दन्त्यमृताअञ्जनरजनीसुवर्णपुष्प्यग्निमन्थाश्[क्.सुवर्णपुष्पाग्निमन्थाश्] च ।। ४३.०९ ।।

 श्वेतां सपूर्णकोशां कटम्भरात्रायमाणसहदेवीः ।
 नागकुसुमं स्वगुप्तां शतावरीं सोमराजीं च ।। ४३.१० ।।

 कलशेष्व्*एताः[क्.एतान्] कृत्वा सम्भारानुपहरेद्*वलिं[क्.ऊ.बलिं] सम्यक् ।।
 भक्ष्यैर्नानाकारैर्मधुपायसयावकप्रचुरैः ।। ४३.११ ।।

 खदिरपलाशौदुम्बरकाश्मर्यश्वत्थनिर्मिताः समिधः ।
 स्रुक्कनकाद्रजताद्वा कर्तव्या भूतिकामेन ।। ४३.१२ ।।

 पूर्वाभिमुखः श्रीमान्वैयाघ्रे चर्मणि स्थितो राजा ।
 तिष्ठेदनलसमीपे तुरगभिषग्दैववित्सहितः ।। ४३.१३ ।।

 यात्रायां यदभिहितं ग्रहयज्ञविधौ महेन्द्रकेतौ च ।
 वेदीपुरोहितानललक्षणं अस्मिंस्तदवधार्यम् ।। ४३.१४ ।।

 लक्षणयुक्तं तुरगं द्विरदवरं चएव दीक्षितं स्नातम् ।
 अहतसिताम्बरगन्धस्रग्*धूम[क्.ऊ.धूपा]अभ्यर्चितं कृत्वा । ४३.१५ ।।

 आश्रमतोरणमूलं समुपनयेत्सान्त्वयन्शनैर्वाचा ।
 वादित्रशङ्खपुण्याहनिःस्वनऽपूरितदिगन्तम् ।। ४३.१६ ।।

 यद्यानीतस्तिष्ठेद्दक्षिणचरणं हयः समुत्क्षिप्य ।
 स जयति तदा नरेन्द्रः शत्रून्*नचिराद्[क्.अचिराद्] विना यत्नात् ।। ४३.१७ ।।

 त्रस्यन्नैष्टो राज्ञः परिशेषं चेष्टितं द्विपहयानाम् ।
 यात्रायां व्याख्यातं तदिह विचिन्त्यं यथायुक्ति ।। ४३.१८ ।।

 पिण्डं अभिमन्त्र्य दद्यात्पुरोहितो वाजिने स यदि जिघ्रेत् ।
 अश्नीयाद्वा जयकृद्विपरीतो +अतो +अन्यथाअभिहितः ।। ४३.१९ ।।

 कलशौदकेषु शाखां आप्लाव्याउदुम्बरीं स्पृशेत्तुरगान् ।
 शान्तिकपौष्टिकमन्त्रैरेवं सेनां सनृपनागाम् ।। ४३.२० ।।

 शान्तिं राष्ट्रविवृद्ध्यै कृत्वा भूयो +अभिचारकैर्मन्त्रैः ।
 मृत्मयं अरिं विभिन्द्यात्शूलेनौरःस्थले विप्रः ।। ४३.२१ ।।

 खलिनं हयाय दद्यादभिमन्त्र्य पुरोहितस्ततो राजा ।
 आरुह्यौदक्पूर्वां यायान्नीराजितः सबलः ।। ४३.२२ ।।

 मृदङ्गशङ्खध्वनिहृष्टकुञ्जरस्रवन्मदऽमोदसुगन्धमारुतः ।
 शिरोमणि*प्रान्त[क्.व्रात]चलत्प्रभाचयैर्ज्वलन्विवस्वानिव तोयदात्यये ।। ४३.२३ ।।

 हंसपङ्क्तिभिरितस्ततो +अद्रिराट्सम्पतद्भिरिव शुक्लचामरैः ।।
 मृष्टगन्धपवनानुवाहिभिर्धूयमानरुचिरस्रगम्बरः । ४३.२४ ।।

 नैकवर्णमणिवज्रभूषितैर्भूषितो मुकुटकुण्डलाङ्गदैः ।
 भूरिरत्नकिरणानुरञ्जितः शक्रकार्मुक*रुचिं[क्.रुचं] समुद्वहन् ।। ४३.२५ ।।

 उत्पतद्भिरिव खं तुरङ्गमैर्दारयद्भिरिव दन्तिभिर्धराम् ।
 निर्जितारिभिरिवामरैर्नरैः शक्रवत्परिवृतो व्रजेन्नृपः ।। ४३.२६ ।।

 सवज्रमुक्ताफलभूषणो +अथ वा सितस्रगुष्णीषविलेपनाम्बरः ।
 धृतऽतपत्रो गजपृष्ठं आश्रितो घनौपरिइवैन्दुतले भृगोः सुतः ।। ४३.२७ ।।

 सम्प्रहृष्टनरवाजिकुञ्जरं निर्मलप्रहरणांशुभासुरम् ।
 निर्विकारं अरिपक्षभीषणं यस्य सैन्यं अचिरात्स गां जयेत् ।। ४३.२८ ।।