बृहत्संहिता/अध्यायः ३७

विकिस्रोतः तः
← अध्यायः ३६ बृहत्संहिता
अध्यायः ३७
वराहमिहिरः
अध्यायः ३८ →

३७ प्रतिसूर्यलक्षणाध्यायः ।।

 प्रतिसूर्यकः प्रशस्तो दिवसकृदृतुवर्णसप्रभः स्निग्धः ।
 वैदूर्यनिभः स्वच्छः शुक्लश्च क्षेमसौभिक्षः ।। ३७.०१ ।।

 पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय ।
 प्रतिसूर्याणां माला दस्युभयऽतङ्कनृपहन्त्री ।। ३७.०२ ।।

 दिवसकृतः प्रतिसूर्यो जलकृदुदग्दक्षिणे स्थितो +अनिलकृत् ।
 उभयस्थः सलिलभयं नृपं उपरि निहन्त्यधो जनहा ।। ३७.०३ ।।