बृहत्संहिता/अध्यायः ३६

विकिस्रोतः तः
← अध्यायः ३५ बृहत्संहिता
अध्यायः ३६
वराहमिहिरः
अध्यायः ३७ →

३६ गन्धर्वनगरलक्षणाध्यायः ।।

 उदगादि पुरोहितनृपबलपतियुवराजदोषदं खपुरम् ।
 सितरक्तपीतकृष्णं विप्रऽदीनां अभावाय ।। ३६.०१ ।।

 नागरनृपतिजयऽवहं उदग्विदिक्स्थं विवर्णनाशाय ।
 शान्तऽशायां दृष्टं सतोरणं नृपतिविजयाय ।। ३६.०२ ।।

 सर्वदिगुत्थं सततोथितं च भयदं नरेन्द्रराष्ट्राणाम् ।
 चौराटविकान्हन्याद्धूमानलशक्रचापऽभम् ।। ३६.०३ ।।

 गन्धर्वनगरं उत्थितं आपाण्डुरं अशनिपातवातकरम् ।
 दीप्ते नरेन्द्रमृत्युर्वामे +अरिभयं जयः सव्ये ।। ३६.०४ ।।

 अनेकवर्णऽकृति खे प्रकाशते पुरं पताकाध्वजतोरणान्वितम् ।
 यदा तदा नागमनुष्यवाजिनां पिबत्यसृग्भूरि रणे वसुन्धरा ।। ३६.०५ ।।