बृहत्संहिता/अध्यायः २७

विकिस्रोतः तः
← अध्यायः २६ बृहत्संहिता
अध्यायः २७
वराहमिहिरः
अध्यायः २८ →

२७ वातचक्राध्यायः ।।

 आषाढपौर्णमास्यां तु यद्यैशानो +अनिलो भवेत् ।
 अस्तं गच्छति तीक्ष्णांशौ सस्य सम्पत्तिरुत्तमा ।। २७.०१ ।।

पूर्वः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णितश्
चन्द्रार्कांशुसटा*कलाप[क्.अभिघात]कलितो वायुर्यदाआकाशतः ।
नैकान्तस्थितनीलमेघ*पटला[क्.पटलां] शारद्य*संवर्धिता[क्. संवर्धितां] ।
वासन्तौत्कटसस्यमण्डित*तला सर्वा मही शोभते[क्.तलां विद्यात्तदा मेदिनीम्] ।। २७.०२ ।।

यदा *वह्नौ[क्.अग्नेयो] वायुर्*वहति गगने +अखण्डिततनुः[क्.मलयशिखरऽस्फालनपटुः]
प्लवत्यस्मिन्योगे भगवति पतङ्गे प्रवसति ।
तदा नित्यौद्दीप्ता ज्वलनशिखरऽलिङ्गिततला
स्वगात्रौष्मौच्छ्वासैर्वमति वसुधा भस्मनिकरम् ।। २७.०३ ।।

तालीपत्रलतावितानतरुभिः शाखामृगान्नर्तयन्
योगे +अस्मिन्प्लवति *ध्वनिः सपरुषो[क्.ध्वनन्सुपरुषो] वायुर्यदा दक्षिणः ।
तद्वद्योगसमुत्थितस्तु[क्.सर्वोद्योगसमुन्नताश्च] गजवत्तालाङ्कुशैर्घट्टिताः
कीनाशा इव मन्दवारि*कणिका[क्.कणिकान्] मुञ्चन्ति मेघास्तदा ।। २७.०४ ।।

सूक्ष्मैलालवलीलवङ्गनिचयान्व्याघूर्णयन्सागरे
भानोरस्तमये प्लवत्यविरतो वायुर्यदा नैरृतः ।
क्षुत्*तृष्णऽवृत[क्.तृष्णामृत]मानुषास्थिशकलप्रस्तारभारच्छदा
मत्ता प्रेतवधूरिवौग्रचपला भूमिस्तदा लक्ष्यते ।। २७.०५ ।।

यदा रेणुउत्पातैः *प्रविचलसटाटोपचपलः[क्.प्रविकटसटाटोपचपलः]
प्रवातः *पश्चाच्चेद्[क्.पश्चार्धे] दिनकरकरऽपातसमये ।
तदा सस्योपेता *प्रवरनिकरऽबद्धसमरा[क्.प्रवरनृव्राबद्धसमरा]
क्षितिः स्थानस्थानेष्व्[क्.धरा स्थाने स्थानेष्व्] अविरतवसामांसरुधिरा ।। २७.०६ ।।

आषाढीपर्वकाले यदि किरणपतेरस्तकालौपपत्तौ
वायव्यो वृद्धवेगः *पवनघनवपुः पन्नगार्द्धानुकारि[क्.प्लवति धनरिपुः पन्नगादानुकारी] ।
जानीयाद्वारिधाराप्रमुदित*मुदितऽमुक्त[क्.मुदितां मुक्त]मण्डूककण्ठां
सस्यौद्भासएकचिह्नां सुखबहुलतया भाग्यसेनां इवौर्वीम् ।। २७.०७ ।।

मेरुग्रस्तमरीचिमण्डलतले ग्रीष्मावसाने रवौ
वात्यामोदिकदम्बगन्धसुरभिर्वायुर्यदा चौत्तरः ।
विद्युद्भ्रान्तिसमस्तकान्तिकलना मत्तास्तदा तोयदा
उन्मत्ता इव नष्टचन्द्रकिरणां गां पूरयन्त्यम्बुभिः ।। २७.०८ ।।

वृत्तायां आषाढ्यां कृष्णचतुर्थ्यां अजैकपादऋक्षे[क्.ऐशानो यदि शीतलो +अमरगणैः संसेव्यमानो भवेत्] ।
यदि वर्षति पर्जन्यः प्रावृत्शस्ता न चेन्न तदा[क्.पुन्नागागुरुपारिजातसुरभिर्वायुः प्रचण्डध्वनिः] ।। २७.०९ ।।

नष्टचन्द्रार्ककिरनं नष्टतारं न चेन्नभः[क्.आपूर्णोदकयौवना वसुमती सम्पन्नसस्याकुला] ।
न तां भद्रपदां मन्ये यत्र देवो न वर्षति[क्.धर्मिष्ठाः प्रणतारयो नृपतयो रक्षन्ति वर्णांस्तदा] ।। २७.१० ।।