बृहत्संहिता/अध्यायः १०१

विकिस्रोतः तः
← अध्यायः १०० बृहत्संहिता
अध्यायः १०१
वराहमिहिरः
अध्यायः १०२ →

१०१ राशिविभागाध्यायः ।।

 अश्विन्यो +अथ भरण्यो बहुलापादश्च कीर्त्यते मेषः ।
 वृषभो बहुलाशेषं रोहिण्यो +अर्धं च मृगशिरसः ।। १०१.०१ ।।

 मृगशिरो +अर्धं रौद्रं पुनर्वसोर्[क्.पुनर्वसोर्च] अंशकत्रयं मिथुनः[क्.मिथुनम्] ।
 पादश्च *पुनर्वसुतस्तिष्यः श्लेषा[क्.पुनर्वसोः सतिष्यो +अश्लेषा] च कर्कटकः ।। १०१.०२ ।।

 सिंहो +अथ मघा पूर्वा च फल्गुनी पाद उत्तरायाश्च ।
 तत्परिशेषं हस्तश्चित्राद्यर्धं च कन्याख्यः ।। १०१.०३ ।।

 तौलिनि चित्रान्त्यार्धं स्वातिः पादत्रयं विशाखायाः ।
 अलिनि विशाखापादस्तथानुराधान्विता ज्येष्ठा ।। १०१.०४ ।।

 मूलं अषाढा पूर्वा प्रथमश्चाप्युत्तरांशको धन्वी ।
 मकरस्तत्परिषेशं श्रवणः पूर्वं धनिष्ठार्धम् ।। १०१.०५ ।।

 कुम्भो +अन्त्यधनिष्ठार्धं शतभिषगंशत्रयं च पूर्वायाः ।
 भद्रपदायाः शेषं तथोत्तरा रेवती च झषः ।। १०१.०६ ।।

 अश्विनीपित्र्यमूलऽद्या मेषसिंहहयऽदयः ।
 विषमऋक्षान्निवर्तन्ते पादवृद्ध्या यथोत्तरम् ।। १०१.०७ ।।