बृहत्पाराशरहोराशास्त्रम्/अध्यायः ७२ (समुदायाष्टकवर्गाध्यायः)

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७१ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ७३ →

अथ समुदायाष्टकवर्गाध्यायः ॥ ७२॥


द्वादशारं लिखेच्चकं जन्मलग्नादिभैर्युतम् ।
सर्वाष्टकफलान्यत्र संयोज्य प्रतिभं न्यसेत् ॥ १॥

समुदायाभिधानोऽयमष्टवर्गः प्रकथ्यते ।
अतः फलानि जातानां विज्ञेयानि द्विजोत्तम ॥ २॥

त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः ।
पञ्चविंशादित्रिंशान्तफला मध्यफला स्मृताः ॥ ३॥

अतः क्षीणफला ये ते राशयः कष्टदुःखदा ।
शुभे श्रेष्ठफलान् राशीन् योजयेन्मतिमान्नरः ॥ ४॥

कष्टराशीन् सुकार्येषु वर्जयेद् द्विजसत्तम ।
श्रेष्ठराशिगतः खेटः शुभोऽन्यत्राऽशुभप्रदः ॥ ५॥

तन्वादिव्ययपर्यन्तं दृष्ट्वा भाव्फलानि वै ।
अधिके शोभनं ज्ञेयं हीने हानिं विनिर्दिशेत् ॥ ६॥

मध्ये मध्यफलं ब्रूयाद् तत्तद्भावसमुद्भवम् ।
मध्यात् फलाधिके लाभो लाभात् क्षीणगतोव्ययः ॥ ७॥

लग्नं फलाधिकं यस्य भोगवानर्थवान् हि सः ।
विपरीतेन दारिद्र्यं भवत्येव न संशयः ॥ ८॥

दशावदिह भावानां कृत्वा खंडत्रयं बुधः ।
पश्येत् पापसमारूढं खंडे कष्टकरं वदेत् ॥ ९॥

सौम्यैर्युक्तं शुभं ब्रूयान्मिश्रैर्मिश्रफलं यथा ।
क्रमाद् बाल्याद्यवस्थासु खंडत्रयफलं वदेत् ॥ १०॥

रेखाभिः सप्तभिर्युक्ते मासेमृत्युभयं नृणाम् ।
सुवर्णं विंशतिपलं दद्यात् द्वौ तिलपर्वतौ ॥ ११॥

रेखाभिरष्टभिर्युक्ते मासे मृत्युबशो नरः ।
असत्फलविनाशाय दद्यात् कर्पूरजां तुलाम् ॥ १२॥

रेखाभिर्मवभियुक्ते मासे सर्पभयं वदेत् ।
अश्वैश्चतुर्भिः संयुक्तं रथं दद्याच्छुभाप्तये ॥ १३॥

रेखाभिर्दशभिर्युक्ते मासे शस्त्रभयं तथा ।
दद्याच्छुभफलावाप्त्यै कवचं वज्रसंयुतम् ॥ १४॥

अभिशापभयं यत्र रेखा रुद्रसमा द्विज ।
दिक्पलस्वर्णघटितां प्रदद्यात् प्रतिमां विधोः ॥ १५॥

युक्ते द्वादशरेखाभिर्जले मृत्युभयं वदेत् ।
सशस्यभूमिः विप्राय दत्वा शुभफलं भवेत् ॥ १६॥

विश्वप्रमितरेखाभिर्व्याघ्रान्मृत्युभयं तथा ।
विष्णोर्हिरण्यगर्भस्य दानं कुर्याच्चुभाप्तये ॥ १७॥

शत्रप्रमितरेखाभिर्युक्ते मासे मृतेर्भयम् ।
वराहप्रतिमां दद्यात् कनकेन विनिर्मिताम् ॥ १८॥

तिथितिश्च नृपाद् भीतिर्दद्यात् तत्र गजं द्विज ।
रिष्टं षोडशभिर्दद्यात् मूर्तिं कल्पतरोस्तथा ॥ १९॥

सप्तेन्दुभिर्व्याधिभयं दद्यात् धेनुं गुडं तथा ।
कलहोऽष्टेन्दुभिर्दद्याद् रत्नगोभूरिरण्यकम् ॥ २०॥

अङ्केन्दुभिः प्रवासः स्याच्छान्तिं कुर्याद् विधानतः ।
विंशत्या बुद्धिनाशः स्याद् गणेशं तत्र पूजयेत् ॥ २१॥

रोगपीडैकविंशत्या दद्याद् धान्यस्य पर्वतम् ।
यमाश्विभिर्बन्धुपीडा दद्यादादर्शकं द्विज ॥ २२॥

त्रयोविंशत्रिसंयुक्ते मासे क्लेशमवाप्नुयात् ।
सौवर्णीं प्रतिमां दद्याद्रवेः सप्तपलैर्बुधः ॥ २३॥

वेदाश्विभिर्बन्धुहीनो दद्याद् गिदशकं नृपः ।
सर्वरोगविनाशार्थं जपहोमादिकं चरेत् ॥ २४॥

धीहानिः पञ्चविंशत्या पूज्या वागीश्वरी तदा ।
षड्विंशत्याऽर्थहानिः स्यात् स्वर्णं दद्याद्विचक्षणः ॥ २५॥

तथा च सप्तविंशत्या श्रीसुक्तं तत्र संजपेत् ।
अष्टविंशतिसंयुक्ते मासे मासे हानिश्च सर्वथा ॥ २६॥

सूर्यहोमश्च विधिना कर्त्तव्यः शुभकांक्षिभिः ।
एकोनत्रिंशता चापि चिन्तव्याकुलितो भवेत् ॥ २७॥

घृतवस्त्रसुवर्णानि तत्र दद्यात् विचक्षणः ।
त्रिंशता पूर्णधान्याप्तिरिति जातकनिर्णयः ॥ २८॥

त्रिंशाधिकामी रेखाभिर्धनपुत्रसुखाप्तयः ।
चत्वारिंशाधिकाभिश्च पुण्यश्रीरुपचीयते ॥ २९॥

अष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु ।
अतोऽष्टवर्गसंशुद्धिरनेष्या सर्वकर्मसु ॥ ३०॥

तावद्गोचरमन्वेष्यं यावन्न प्राप्यतेऽष्टकम् ।
अष्टवर्गे तु सम्प्राप्ते गोचरं विफलं भवेत् ॥ ३१॥