बृहत्पाराशरहोराशास्त्रम्/अध्यायः ७३ (रश्मिफलाध्यायः)

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७२ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ७४ →

 अथ रश्मिफलाध्यायः ॥ ७३॥


अथ रश्मीन् प्रवक्ष्यामि ग्रहाणां द्विजसत्तम ।
दिन् नवेष्विषुसप्ताष्टशराः स्वोच्चे करो रवेः ॥ १॥

नीच खं चान्तरे प्रोक्ता रश्मयश्चानुपात्तः ।
नीचोनं तु ग्रहं भार्धाधिकं चक्राद्विशोधयेत् ॥ २॥

स्वीयरश्मिहतं षड्भिर्भजेत् स्यू रश्मयः स्वकाः ।
अपरैरत्र संस्कारविशेषः कथितो यथा ॥ ३॥

स्वोच्चभे ते त्रिगुणिताः स्वत्रिकोणे द्विसंगुणाः ।
स्वमे त्रिघ्ना द्विसंभक्ता अधिमित्रगृहे तथा ॥ ४॥

वेदघ्ना रामसंभक्ता मित्रमे षड्गुणास्ततः ।
पञ्चभक्तास्तथा शत्रुगृहे चेद् दलिताः कराः ॥ ५॥

अधिशत्रुगृहे द्विघ्नाः पञ्चभक्ताः समे समाः ।
शनिशुक्रौ विना ताराग्रहा अस्ते गता यदि ॥ ६॥

विरश्मयो भवन्त्येवं ज्ञेयाः स्पष्टकरा द्विज ।
रश्मियोगवशादेवं फलं वाच्यं विचक्षणैः ॥ ७॥

एकादि पञ्चपर्यन्तं रश्मिसंख्या भवेद्यदि ।
दरिद्रा दुःखसंतप्ता अपि जाताः कुलोत्तमे ॥ ८॥

परतो दशकं यावत् निर्धना भारवासकाः ।
स्त्रीपुत्रगृहहीनाश्च जायन्ते मनुजा भुवि ॥ ९॥

अकादशस्वल्पपुत्राः स्वल्पवित्ताश्च मानवाः ।
द्वादशस्वल्पवित्ताश्च धूर्ता मूर्खाश्च निर्बलाः ॥ १०॥

चौर्यकर्मरता नित्यं चेत् त्रयोदश रश्मयः ।
चतुर्दशसु धर्मात्मा कुटुम्बानां च पोषकाः ॥ ११॥

कुलोचितक्रियासक्तो धनविद्यासमन्वितः ।
रश्मिभिः पञ्चदशभिः सर्वविद्यागुणान्वितः ॥ १२॥

स्ववंशमुख्यो धनवानित्याह भगवान् विधिः ।
परतश्च कुलेशाना बहुभृत्या कुटुम्बिनः ॥ १३॥

कीर्तिमन्तो जनैः पूर्णाः सर्वे च सुखिनः क्रमात् ।
पञ्चाशज्जनपालश्चेदेकविंशतिरश्मयः ॥ १४॥

दानशीलः कृपायुक्तो द्वाविंशतिसुरश्मिषु ।
सुखयुक् सौम्यशीलश्चेत् त्रयोविंशतिरश्मयः ॥ १५॥

आत्रिंशत् परतः श्रीमान् सर्वसत्त्वसमन्वितः ।
राजप्रियश्च तेजस्वी जनैश्च बहुभिर्वृतः ॥ १६॥

अत ऊर्ध्वं तु सामन्तश्चत्वारिंशत् करावधि ।
जनानां शतमारब्य सहस्रावधिपोषकः ॥ १७॥

अत ऊर्ध्वन्तु भूपालः पंचाशत् करिणावधि ।
तत ऊर्ध्वकरैर्विप्र चक्रवर्ती नृपो भवेत् ॥ १८॥

एवं प्रसूतिकालोत्थनभोगकरसम्भवम् ।
कुलक्रमनुसारेण जातकस्य फलं वदेत् ॥ १९॥

क्षत्रियश्चक्रवर्ती वैश्यो राजा प्रजायते ।
शूद्रश्च सधनो विप्रो यज्ञकर्मक्रियारतः ॥ २०॥

उच्चाभिमुखखेटस्य कराः पुष्टफलप्रदाः ।
नीचाभिमुखखेटस्य ततो न्यूनफलप्र्दाः ॥ २१॥

सर्वेषामेव खेटानामेवं रश्मिवशाद्द्विज ।
शुभं वाऽप्यशुभं चापि फलं भवति देहिनाम् ॥ २२॥

रश्मिज्ञानं विना सम्यक् न फलं ज्ञातुमर्हति ।
तस्माद्रश्मीन् प्रसाध्यैव फलं वाच्यं विचक्षणैः ॥ २३॥