बृहत्पाराशरहोराशास्त्रम्/अध्यायः ७४ (सुदर्शनचक्रफलाध्यायः)

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७३ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ७५ →

अथ सुदर्शनचक्रफलाध्यायः ॥ ७४॥


अथोच्यते मया विप्र रहस्यं ज्ञानमुत्तमम् ।
जगतामुपकाराय यत् प्रोक्तं ब्रह्मण स्वयम् ॥ १॥

चक्रं सुदर्शनं नाम यद्वशात् प्रस्फुटं फलम् ।
नृणां तन्वादिभावानां ज्ञातुं शक्नोति दैववित् ॥ २॥

जन्मतो मृत्युपर्यन्तं वर्षमासदिनोद्भवम् ।
शुभं वाऽप्यशुभं सर्वं तच्छृणुष्वैकमानसः ॥ ३॥

एककेन्द्रोद्भवं रम्यं लिखेद् वृत्तत्रयं द्विज ।
द्वादशारं च तत् कुर्याद् भवेदेवं सुदर्शनम् ॥ ४॥

तत्राद्यवृत्ते लग्नाद्या भावा लेख्याः सखेचराः ।
तदूर्ध्ववृत्ते चन्द्राच्च भवाः खेटसमन्विताः ॥ ५॥

तदूर्ध्ववृत्ते सूर्याच्च क्रमात् भवा ग्रहान्विताः ।
एवमेकैकभावेऽत्र भवेद्भानां त्रयं त्रयम् ॥ ६॥

अत्र तु प्रथमो भावो लग्नेन्दुरविभिर्युतः ।
तं प्रकल्प्य तनुं त्वग्रे ज्ञेया भावा धनादयः ॥ ७॥

तत्र तत्र ग्रहस्थित्या ज्ञेयं तत्तत्फलं बुधैः ।
तनुभावे शुभः सूर्यो ज्ञेयोऽन्यत्राशुभप्रदः ॥ ८॥

पापोऽपि स्वोच्चराशिस्थो न भवत्यशुभप्रदः ।
एवं शुभाऽशुभं दृष्ट्वा तत्तद्भावफलं वदेत् ॥ ९॥

यो भावः स्वामिसौम्याभ्यां युक्तो दृष्टोऽयमेधते ।
पापैर्दृष्टो युतो यो वा तस्य हानिः प्रजायते ॥ १०॥

ज्ञेयं सग्रहभावस्य ग्रहयोगसमं फलम् ।
अग्रहस्य तु भावस्य ग्रहदृष्टिसमं फलम् ॥ ११॥

शुभैरेव शुभं पापैर्शुभं मिश्रखेचरैः ।
शुभाधिके शुभं ज्ञेयमशुभं त्वशुभाधिके ॥ १२॥

एवं भावेषु खेटानां योगं दृष्टिं विलोक्य च ।
तारतम्येन वाच्यानि फलानि द्विजसत्तम ॥ १३॥

यत्र नैव ग्रहः कश्चिन्न दृष्टि कस्यचिद् भवेत् ।
तदा तद्भावजं ज्ञेयं तत्स्वामिवशतः फलम् ॥ १४॥

शुभोऽपि शुभवर्गेषु ह्यधिकेष्वशुभप्रदः ।
पापोऽपि शुभवर्गेषु ह्यधिकेषु शुभप्रदः ॥ १५॥

स्वभोच्चस्य शुभस्यात्र वर्गा ज्ञेयाः शुभवाहाः ।
शत्रोः क्रूरस्य नीचस्य षड्वर्गा अशुभप्रदाः ॥ १६॥

एवं सर्वेषु खेटेषु भवेष्वपि द्विजोत्तम ।
शुभाशुभत्वं सञ्चिन्य्त ततस्तत्फलमादिशेत् ॥ १७॥

यदा सुदर्शनादेव फलं सिद्ध्यति देहनाम् ।
तदा किं मुनिभिः सर्वैर्लग्नादेव फलं स्मृतम् ॥ १८॥

इति म संशयो जातस्तं छेत्तुमर्हति ।
पृथग्भगौ यदाऽर्केन्दू लग्नादन्यत्र संस्थितौ ॥ १९॥

तदा सुदर्शनाच्चक्रात् फलं वाच्यं विचक्षणैः ।
एकभे द्वौ त्रयो वा चेत् तदा लग्नात् फलं वदेत् ॥ २०॥

अथ विप्र प्रवक्ष्येऽहं प्रतिवर्षादिजं फलम् ।
अस्मात् सुदर्शनादेव दशान्तरदशावशात् ॥ २१॥

तन्वाद्यैर्वर्षमास्सार्धद्विकधस्रान् प्रवर्तयेत् ।
भवेशादिद्वादशानां दशा वर्षेषु कल्पयेत् ॥ २२॥

तदाद्यन्तर्दशास्तद्वन्मासादौ तद्बलैः फलम् ।
तं तं भावं प्रकल्प्याङ्कं तत्तत्तन्वादिजं द्विज ॥ २३॥

तत् तल्लग्नात् केन्द्रकोणाष्टमे सौम्याः शुभप्रदाः ।
यत्र भावे सैंहिकेयो भवेत् तद्भावहानिकृत् ॥ २४॥

पापा वा यत्र बहवस्तत्तद्भावविनाशनम् ।
विरिष्फारिशुभैः पापैस्त्रिषडायस्थितैः शुभम् ॥ २५॥

एवं प्रत्यब्दमासादौ भावानां फलचिन्तनम् ।
द्वादशानां दशाऽवृत्त्या दशाश्चायुषि चिन्तयेत् ॥ २६॥

एवं सुदर्शनाच्चक्राद् वर्षमासादिजं फलम् ।
ज्ञात्वा तथाष्टवर्गोत्थमुभाभ्यां फलनिर्णयः ॥ २७॥

उभयत्र समत्वे हि सम्पूर्णं तत् फलं वदेत् ।
विषमत्वे यदाधिक्यं तत्फलं च बलक्रमात् ॥ २८॥