बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५४ (कुजदशान्तर्दशाफलाध्यायः)
दिखावट
← अध्यायः ५३ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ५५ → |
अथ कुजदशान्तर्दशाफलाध्यायः ||५४|| कुजे स्वान्तर्गते विप्र लग्नात्केन्द्रत्रिकोणगे | लाभे वा शुभसंयुक्ते दुष्चिक्ये धनसंयुते ||१|| लग्नाधिपेन संयुक्ते राजाऽनुग्रहवैभवम् | लक्ष्मीकटोक्षचिह्नानि नष्टराज्यार्थलाभकृत् ||२|| पुत्रोत्सवादिसन्तोषो गृहे गोक्षीरसङ्कलम् | स्वोच्चे वा स्वर्क्षगे भौमे स्वांशे वा बलसंयुते ||३|| गृहक्षेत्राभिवृद्धिश्च गोमहिष्यादिलाभकृत् | महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ||४|| अथाऽष्टमव्यये भौमे पापदृग्योगसंयुते | मूत्रकृर्च्छादिरोगश्च कष्टाधिक्यं व्रणाद्भयम् ||५|| चौराहिराजपीडा च धनधान्यपरुक्षयः | द्वितीये द्यूननाथे तु देहजाड्यं मनोव्यथा ||६|| तद्दोषपरिहारार्थं रुद्रजाप्यं च कारयेत् | अनड्वाहं प्रदद्वाच्च कुजदोषनिवृत्तये ||७|| तेन तुष्टो भवेद् भौमः शङ्करस्य प्रसादतः | आरोग्यं कुरुते तस्य सर्वसम्पत्तिदायकम् ||८|| कुजस्यान्तर्गते राहौ स्वोच्चे मूलत्रिकोणगे | शुभैर्युक्ते शुभैर्दृष्टे केन्द्रलाभतृकोणगे ||९|| तत्काले राजसम्मानं गृहभूम्यादिलाभकृत् | कलत्रपुत्रलाभः स्याद्व्यवसायात्फलाधिकम् ||१०|| गङ्गास्नानफलावाप्तिं विदेशगमनं तथा | तथाऽष्टमव्यये राहौ पापयुक्तेऽथ वीक्षिते ||११|| चौराहिव्रणभीतिश्च चतुष्पाज्जीवनशनम् | वातपित्तरुजोभीतिः कारागृहनिवेशनम् ||१२|| धनस्थानगते राहौ धननास्अं महद्भयम् | सप्तमस्थानगे वाऽपि ह्यपमृत्युभयं महत् ||१३|| नागपूजां प्रकुर्वीत देवब्राह्मणभोजनं | मृत्युञ्जयजपं कुर्यादायुरारोग्यलब्धये ||१४|| कुजस्यान्तर्गते जीवे त्रिकोणे केन्द्रगेऽपि वा | लाभे वा धनसंयुक्ते तुङ्गांशे स्वांशगेपि वा ||१५|| सत्कीर्ती राजसम्मानं धनधान्यस्य वृद्धिकृत् | गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ||१६|| दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा | भाग्यकर्माधिपैर्युक्ते वाहनाधिपसंयुते ||१७|| लग्नाधिपसमायुक्ते शुभांशे शुभवर्गगे | गृहक्षेत्राभिवृद्धिश्च गृहे कल्याणसम्पदः ||१८|| देहारोग्यं महत्कीर्तिगृहे गोकुलसंग्रहः | चतुष्पाज्जीवलाभः स्याद्व्यवसायात्फलाधिकम् ||१९|| कलपुत्रसौख्यं च राजसम्मानवैभवम् | षष्ठाष्टमव्यये जीवे नीचे वास्तंगते सति ||२०|| पापग्रहेण संयुक्ते दृष्टे वा दुर्बले सति | चौराहिनृपभीतिश्च पित्तरोगादिसम्भवम् ||२१|| प्रेतबाधा भृत्यनाशः सोदराणां विनाशनम् | द्वितीयद्यूननाथे तु ह्यपमृत्युज्वरादिकम् | तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ||२२|| कुजस्यान्तर्गते मन्दे स्वर्क्षे केन्द्रत्रिकोणगे | मूलत्रिकोणकेन्द्रे वा तुङ्गांशे स्वांशगे सति ||२३|| लग्नाधिपतिना वापि शुभदृष्टियुतेऽसिते | राज्यसौख्यं यशोवृद्धिः स्वग्रामे धान्यवृद्धिकृत् ||२४|| पुत्रपौत्रसमायुक्तो गृहे गोधनसंग्रहः | स्ववारे राजसम्मानं स्वमासे पुत्रवृद्धिकृत् ||२५|| नीचादिक्षेत्रगे मन्दे तथाऽष्टव्ययराशिगे | म्लेच्छवर्गप्रभुभयं धनधन्यादिनाशनम् ||२६|| निगडे बन्धनं व्याधिरन्ते क्षेत्रनाशकृत् | द्वितीयद्यूननाथे तु पापयुक्ते महद्भयम् ||२७|| धननाशश्च सञ्चारे राजद्वेषो मनोव्यथा | चौराग्निनृपपीडा च सहोदरविनाशनम् ||२८|| बन्धुद्वेषः प्रमाद्यैश्च जीवहानिश्च जायते | अकस्माच्च मृतेर्भीतिः पुत्रदारादिपीडनम् ||२९|| कारागृहादिभीदिश्च राजदण्डो महद्भयम् | दायेशात्केन्द्रराशिस्थे लाभस्थे वा त्रिकोणगे ||३०|| विदेशयानं लभते दुष्कीर्तिर्विविधा तथा | पापकर्मरतो नित्यं बहुजीवादिहिंसकः ||३१|| विक्रयः क्षेत्रहानिश्च स्थानभ्रंशो मनोव्यथा | रणे पराजयश्चैव मूत्रकृर्च्छान्महद्भयम् ||३२|| दायेशादथ रन्ध्रे वा व्यये वा पापसंयुते | तद्भुक्तौ मरणं ज्ञेयं नृपचौरादिपीडनम् ||३३|| वातपीडा च शूलादिज्ञातिश्त्रुभयं भवेत् ||३४|| तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् | ततः सुखमवाप्नोति शङ्करस्य प्रसादतः ||३५|| कुजस्यान्तर्गते सौम्ये लग्नात्केन्द्रत्रिकोणगे | सत्कथाश्चाऽजपादानं धर्मबुद्धिर्महद्यशः ||३६|| नीतिमार्गप्रसङ्गश्च नित्यं मिष्टान्नभोजनम् | वाहनाम्बरपश्वादिर्राजकर्म सुखानि च ||३७|| कृषिकर्मफले सिद्धिर्वारणाम्बरभूषणम् | नीचे वास्तङ्गते वापि षष्ठाष्टव्ययगेऽपि वा ||३८|| हृद्रोगं मानहानिश्च निगडं बन्धुनाशनम् | दारपुत्रार्थनाशः स्याच्चतुष्पाज्जीवनाशनम् ||३९|| दशाधिपेन संयुक्ते शत्रुवृद्धिर्महद्भयम् | विदेशगमनं चैव नानारोगास्तथैव च ||४०|| राजद्वारे विरोधश्च कलहः स्वजनैरपि | दायेशात्केन्द्रत्रिकोणे वा स्वोच्चे युक्तार्थलाभकृत् ||४१|| अनेकधननाथत्वं राजसम्मनमेव च | भूपालयोगं कुरुते धनम्बरविभूषणम् ||४२|| भूरवाद्यमृदंगादि सेनापत्यं महत्सुखम् | विद्याविनोदविमला वस्त्रवाहनभूषणम् ||४३|| दारपुत्रादिविभवं गृहे लक्ष्मीः कटाक्षकृत् | दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ||४४|| तद्दाये मानोहानिः स्यात्क्रूरबुद्धिस्तु क्रूरवाक् | चौराग्निनृपपीडा च मार्गे दस्युभयादिकम् ||४५|| अकस्मात्कलहश्चैव बुधमुक्तौ न संशयः | द्वितीयद्यूननाथे तु महाव्याधिर्भयङ्करः ||४६|| अश्वदानं प्रकुर्वीत विष्णोर्नामसहस्रकम् | सर्वसम्पत्प्रदं विप्र सर्वारिष्टप्रशान्तये ||४७|| कुजस्यान्तर्गते केतौ त्रिकोणे केन्द्रगेऽपि वा | दिश्चिक्ये लाभगे वाऽपि शुभयुक्ते शुभेक्षिते ||४८|| राजानुग्रहशान्तिश्च बहुसौख्यं धनागमः | किञ्चित्फलं दशादौ तु भूलाभः पुत्रलाभकृत् ||४९|| राजसंलाभकार्याणि चतुष्पाज्जीवलाभकृत् | योगकारकसंस्थाने बलवीर्यसमन्विते ||५०|| पुत्रलाभो यशोवृद्धिर्गृहे लक्ष्मीः कटाक्षकृत् | भृत्यवर्गधनप्राप्तिः सेनापत्यं महत्सुखम् ||५१|| भूपालमित्रं कुरुते यागाम्बरादिभूषणम् | दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ||५२|| कलहो दन्तरोगश्च चौरव्याघ्रादिपीडनम् | ज्वरातिसारकुष्ठादिदारपुत्रादिपीडनम् ||५३|| द्वितीयसप्तमस्थाने देहे व्याधिर्भविष्यति | अपमानमनस्तापो धनधान्यादिप्रच्युतिम् ||५४|| कुजस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे | स्वोच्चे वा स्वर्क्षगे वाऽपिशुभस्थानाधिपेऽथवा ||५५|| राज्यलाभो महत्सौख्यं गजाश्वाम्बरभूषणम् | लग्नाधिपेन सम्बन्धे पुत्रदारादिवर्धनम् ||५६|| आयुषो वृद्धिरैश्वर्यं भाग्यवृद्धिसुखं भवेत् | दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ||५७|| तत्काले श्रियमाप्नोति पुत्रलाभं महत्सुखम् | स्वप्रभोश्च महत्सौख्यं धनवस्त्रादिलाभकृत् ||५८|| महारजप्रसादेन ग्रामभूम्यादिलाभदम् | भुक्त्यन्ते फलमाप्नोति गीतनृत्यादिलाभकृत् ||५९|| पुण्यतीर्थस्नानलाभं कर्माधिपसमन्विते | पुण्यधर्मदयाकूपतडागं कारयिष्यति ||६०|| दायेशाद्रन्ध्ररिष्फस्थे षष्ठे वा पापसंयुते | करोति दुःखबाहुल्यं देहपीडां धनक्षयं ||६१|| राजचौरादिभीतिञ्च गृहे कलहमेव च | दारपुत्रादिपीडां च गोमहिष्यादिनाशकृत् ||६२|| द्वितीयद्यूननाथे तु देहबाधा भविष्यति | श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ||६३|| कुजस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे | मूलत्रिकोणलाभे वा भाग्यकर्मेशसंयुते ||६४|| तद्भुक्तौ वाहनं कीर्तिं पुत्रलाभं च विन्दति | धनधान्यसमृद्धिः स्याद् गृहे कल्याणसम्पदः ||६५|| क्षेमारोग्यं महद्धैर्यं राजपूज्यं महत्सुखम् | व्यवसायात्फलाधिक्यं विदेशे राजदर्शनम् ||६६|| दायेशात्षष्ठरिष्फे वा व्यये वा पापसंयुते | देहपीडा मनस्तापः कार्यहानिर्महद्भयम् ||६७|| शिरोरोगो ज्वरादिश्च अतिसारमथापि वा | द्वितीयद्यूननाथे तु सर्पज्वरविषाद्भयम् ||६८|| सुतपीडाभयं चैव शान्ति कुर्याद्यथाविधि | देहारोग्यं प्रकुरुते धनधान्यचयं तथा ||६९|| कुजस्यान्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे | भार्यवाहनकर्मेशलग्नाधिपसमन्विते ||७०|| करोति विपुलं राज्यं गन्धमाल्याम्बरादिकम् | तडागं गोपुरादीनां पुण्यधर्मादिसंग्रहम् ||७१|| विवाहोत्सवकर्माणि दारपुत्रादिसौख्यकृत् | पितृमातृसुखावाप्तिं गृहे लक्ष्मीः कटाक्षकृत् ||७२|| महारजप्रसादेन स्वेष्टसिद्धिसुखादिकम् | पूर्णे चन्द्रे पूर्णफलं क्षीणे स्वल्पफल्ं भवेत् ||७३|| नीचारिस्थऽष्टमे षष्ठे दायेशाद्रिपुरन्ध्रके | मरणं दारपुत्राणां कष्टं भूमिविनाशनम् ||७४|| पशुधान्यक्षयश्चैव चौरादिरणभीतिकृत् | द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ||७५|| देहजाड्यं मनोदुःखं दुर्गा लक्ष्मीजपं चरेत् | श्वेतां गां महिषीं दद्यादनेमारोग्यमादिशेत् ||७६|| -