बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४९ (कालचक्रदशाफलाध्यायः)

विकिस्रोतः तः
← अध्यायः ४८ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ५० →



 अथ कालचक्रदशाफलाध्यायः ||४९||

कथयाम्यथ विप्रेन्द्र कालचक्रदशाफलम् |
तत्रादौ राशिनाथानां सूर्यादीनां फलं ब्रुवे ||१||

रक्तपित्तादितो व्याधिं नृणामर्कफलं वदेत् |
धनकीर्तिप्रजावृद्धिवस्त्राभरणदः शशी ||२||

ज्वरमाशु दिशेत् पैत्त्यं ग्रन्थिस्फोटं कुजस्तथा |
प्रजानां च धनानां च सदा वृद्धिं बुधो दिशेत् ||३||

धनं कीर्तिं प्रजावृद्धिं नानाभोगं बृहस्पतिः |
विद्यावृद्धिर्विवाहश्च गृहं धान्यं भृगोः फलम् ||४||

तापाधिक्यं महद्दुःखं बन्धुनाशः शनेः फलम् |
एवमर्कादियोगेन वदेद्राशिदशाफलम् ||५||

मेषे तु रक्तपीडा च वृषभे धान्यवर्द्धनम् |
मिथुने ज्ञानसम्पान्नश्चान्द्रे धनपतिर्भवेत् ||६||

सूर्यक्षे शत्रुबाधा च कन्या स्त्रीणां च नाशनं |
तालिके राजमन्त्रित्वं वृश्चिके मरणं भवेत् ||७||

अर्थलाभो भवेच्चापे मेषस्य नवभागके |
मकरे पापकर्माणि कुम्भे वाणिज्यमेव च ||८||

मीने सर्वार्थसिद्धिश्च वृश्चिकेष्वग्नितो भयम् |
तौलिके राजपूज्यश्च कन्यायां शत्रुवर्धनम् ||९||

शशिभे दारसम्बाधा सिंहे च त्वक्षिरोगकृत् |
मिथुने वृत्तिबाधा स्याद्वृषभस्य नवांशके ||१०||

वृषभे त्वर्थलाभाश्च मेषे तु ज्वररोगकृत् |
मीने तु मातुलप्रीतिः कुम्भे शत्रुप्रवर्द्धनम् ||११||

मृगे चौरस्य सम्बाधा धनुषि शस्त्रवर्धनम् |
मेषे तु शस्त्रसंघातो वृषभे कलहो भवेत् ||१२||

मिथुने सुखमाप्नोति मिथुनस्य नवांशके |
कर्कटे सङ्कटप्राप्तिः सिंहे राजप्रकोपकृत् ||१३||

कन्यायां भ्रातृपूजा व तौलिके प्रियकृन्नरः |
वृश्चिके पितृबाधा स्यात् चापे ज्ञानधनोदयः ||१४||

मकरे जलभीतिः स्यात् कुम्भे धान्यविवर्धनम् |
मीने च सुखसम्पत्तिः कर्कटस्य नवांशके ||१५||

वृश्चिके कलः पीडा तौलिके ह्यधिकं फलम् |
कन्यायामतिलाभश्च शशांके मृगबाधिका ||१६||

सिंहे च पुत्रलाभश्च मिथुने शत्रुवर्द्धनम् |
वृषेः चतुष्पदाल्लाभो मेषांशे पशुतो भयम् |
मीने तु दीर्घयात्रा स्यात् सिंहस्य नवभागके ||१७||

कुम्भे तु धनलाभश्च मकरे द्रव्यलाभकृत् |
धनुषि भ्रातृसंसर्गो मेषे मातृविवर्द्धनम् ||१८||

वृषभे पुत्रवृद्धिः स्यान्मिथुने शत्रुवर्द्धनम् |
शशिभे तु स्त्रियां प्रीतिः सिंहे व्याधिविवर्द्धनम् ||१९||

कन्यायां पुत्रवृद्धिः स्यात्कन्याया नवमांशके |
तुलायामर्थलाभश्च वृश्चिके भ्रातृवर्द्धनम् ||२०||

चापे च तातसौख्यं च मृगे मातृविरोधिता |
कुम्भे पुत्रार्थलाभश्च मीने शत्रुविरोधिता ||२१||

अलौ जायाविरोधश्च तुले च जलबाधता |
कन्यायां धनवृद्धिः स्यात् तुलाया नवभागके ||२२||

कर्कटे ह्यर्थनाशश्च सिंहे राजविरोधिता |
मिथुने भूमिलाभश्च वृषभे चाऽर्थलाभकृत् ||२३||

मेषे सर्पादिभीतिः स्यान्मीने चैव जलाद् भयम् |
कुम्भे व्यापारतो लाभो मकरेऽपि रुजो भयम् ||२४||

चापे तु धनलाभः स्याद् वृश्चिकस्य नवांशके |
मेषे तु धनलाभः स्याद् वृषे भूमिविवर्द्धनम् ||२५||

मिथुने सर्वसिद्धिः स्यात्कर्कटे सर्वसिद्धिकृत् |
सिंहे तु पूर्ववृद्धिः स्यात्कन्यायां कलहो भवेत् ||२६||

तौलिके चार्थलाभः स्याद् वृश्चिके रोओगमाप्नुयात् |
चापे तु सुतवृद्धिः स्याच्चापस्य नवमांशके ||२७||

मकरे पुत्रलाभः स्यात्कुम्भे धान्यविवर्द्धनम् |
मीने कल्याणमाप्नोति वृश्चिके विषबाधिता ||२८||

तौलिके त्वर्थलाभश्च कन्यायां शत्रुवर्द्धनम् |
शशिभे स्र्/इयमाप्नोति सिंहे तु मृगबाधिता ||२९||

मिथुने वृक्षबाधा च मृगस्य नवभागके |
वृषभे त्वर्थलाभश्च मेषभे त्वक्षिरोगकृत् ||३०||

मीने तु दीर्घयात्रा स्यात्कुम्भे धनविवर्द्धनम् |
मकरे सर्वसिद्धिः स्याच्चापे शत्रुविवर्द्धनम् ||३१||

मेषे सौख्यविनाशश्च वृषभे मरणं भवेत् |
युग्मे कल्याणमाप्नोति कुम्भस्य नवमांशके ||३२||

कर्कटे धनवृद्दिः स्यात् सिंहे तु राजपूजनम् |
कन्यायामर्थलाभस्तु तुलायां लाभमाप्नुयात् ||३३||

वृश्चिके ज्वरमाप्नोति चापे शत्रुविवर्द्धनम् |
मृगे जायाविरोधश्च कुम्भे जलविरोधता ||३४||

मीने तु सर्वसौभाग्यं मीनस्य नवभागके |
दशाअंशक्रमेणैवं ज्ञात्वा सर्वफलं वदेत् ||३५||

क्रूरग्रहदशाकाले शान्तिं कुर्याद्विचक्षणः |
यत् प्रोक्तं राजयोगादौ संज्ञाध्याये च यत् फलम् ||३६||

तत्सर्वं चत्रकाले हि सुबुद्ध्या योजयेद् बुधः |
इति संक्षेपतः प्रोक्तं कालचक्रदशाफलम् ||३७||

-