बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४८ (विशेषनक्षत्रदशाफलाध्यायः)

विकिस्रोतः तः
← अध्यायः ४७ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ४९ →



 अथ विशेषनक्षत्रदशाफलाध्यायः ||४८||

स्थानस्थितिवशेनैवं फलं प्रोक्तं पुरातनैः |
मिथो भावेशसम्बन्धात्फलानि कथयाम्यहम् ||१||

लग्नेशस्य गशाकाले सत्कीतिर्देहजं सुखम् |
धनेशस्य दशायां तु क्लेशो वा मृत्युतो भयम् ||२||

सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् |
सुखाधीशदशायां तु गृहभूमिसुखं भवेत् ||३||

पञ्चमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् |
रोगेशस्य दशाकाले देहपीडा रिपोर्भयम् ||४||

सप्तमेशस्य पाके तु स्त्रीपीडा मृत्युतो भयम् |
अष्टमेशदशाकाले मृत्युभीतिर्धनक्षतिः ||५||

धर्मशस्य दशायां च भूरिल्लाभो यशःसुखम् |
दशमेशदशाकाले सम्मानं नृपसंसदि ||६||

लाभेशस्य दशाकाले लाभे बाधा रुजोभयम् |
व्ययेशस्य दशा नृणां बहुकष्टप्रदा द्विज ||७||

दशारम्भे शुभस्थाने स्थितस्यापि शुभं फलम् |
अशुभस्थानगस्यैवं शुभस्यापि न शोभनम् ||८||

पञ्चमेशेन युक्तस्य कर्मेशस्य दशा शुभा |
नवमेशेन युक्तस्य कर्मेशस्यातिशभना ||९||

पञ्चमेशेन युक्तस्य ग्रहस्यापि दशा शुभा |
तथा धर्मपयुक्तस्य दशा परमशोभना ||१०||

सुखेशसहितस्यापि धर्मेशस्य दशा शुभा |
पञ्चमस्थानगस्यापि मानेशस्य दशाशुभा ||११||

एवं त्रिकोणनाथानां केन्द्रस्थानां दशाः शुभाः |
तथा कोणस्थितानां च केन्द्रेशानां दशाः शुभाः ||१२||

केन्द्रेशः कोणभावस्थः कोणेशः केन्द्रगो यदि |
तयोर्दशां शुभां प्राहुर्ज्योतिःशास्त्रविदो जनाः ||१३||

षष्ठाष्टमव्ययाधीशा अपि कोणेशसंयुता |
तेषां दशाऽपि शुभदा कथिता कालकोविदैः ||१४||

कोणेशो यदि केम्द्रस्थः केन्द्रेशो यदि कोणगः |
ताभ्यां युक्तस्य खेटस्य दृष्टियुक्तस्य चैतयोः ||१५||

दशां शुभप्रदां प्राहुर्विद्वांसो दैवचिन्तकाः |
लग्नेशो धर्मभावस्थो धर्मेशो लग्नगो यदि ||१६||

एतयोस्तु दशाकाले सुखधर्मसमुद्भवः |
कर्मेशो लग्नराशिस्थो लग्नेशः कर्मभावगः ||१७||

तयोर्दशाविपाके तु राज्यलाभो भवेद्ध्रुवम् |
त्रिषडायगतानां च त्रिषडायाधिपैर्युजम् ||१८||

शुभानामपि खेटानां दशा पापफलप्रदा |
मारकस्थानगानां च मारकेशयुजामपि ||१९||

रन्ध्रस्थानगतानां च दशाऽनिष्टफलप्रदा |
एवं भावेशसम्बन्धादूरनीयं दशाफलम् ||२०||

-