बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४७ (दशाफलाद्यायः)
दिखावट
(अध्यायः ४७ (दशाफलाद्यायः) इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ४६ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ४८ → |
अथ दशाफलाद्यायः ||४७|| श्रुताश्च बहुधा भेदा दशानां च मया मुने | फलं च कीदृशं तासां कृपया मे तदुच्यताम् ||१|| साधारणं विशिष्टञ्च दशानां द्विविधं फलम् | ग्रहाणां च स्वभावेन स्थानस्थितिवशेन च ||२|| ग्रहवीर्यानुसारेण फलं ज्ञेयं दशासु च | आद्यद्रेष्काणगे खेटे दशारम्भे फलं वदेत् ||३|| दशामध्ये फलं वाच्यं मध्यद्रेष्काणगे खगे | अन्ते फलं तृतीयस्थे व्यस्तं खेटे च वक्रगे ||४|| दशारम्भे दशादीशे लग्नगे शुभदृग्युते | स्वोच्चे स्वभे स्वमैत्रे वा शुभं तस्य दशाफलम् ||५|| षष्ठाऽष्टमव्ययस्थे च नीचास्तरिपुभस्थिते | अशुभं तत्फलं चाऽथ ब्रुवे सर्वदशाफलम् ||६|| मूलत्रिकोणे स्वक्षेत्रे स्वोच्चे वा परमोच्चगे | केन्द्रत्रिकोणलाभस्थे भाग्यकर्माधिपैर्युते ||७|| सूर्ये बलसमायुक्ते निजवर्गबलैर्युते | तस्मिन्दाये महत् सौख्यं धनलाभादिकं शुभम् ||८|| अत्यन्तं राजसन्मानमश्वांदोल्यादिकं शुभम् | सुताधिपसमायुक्ते पुत्रलाभं च विन्दति ||९|| धनेशस्य च सम्बन्धे गजान्तैश्वर्यमादिशेत् | वाहनाधिपसम्बन्धे वाहनात्रयलाभकृत् ||१०|| नृपलतुष्टिर्वित्ताढ्यः सेनाधीशः सुखी नरः | वस्त्रवाहनलाभश्च दशायां बलिनो रवेः ||११|| नीचे षडष्टके रिःफे दुर्बले पापसंयुते | राहुकेतुसमायुक्ते दुह्स्थानाधिपसंयुते ||१२|| तस्मिन्दाये महापीडा धनधान्यविनाशकृत | राजकोपः प्रवासश्च राजदण्डो धनक्षयः ||१३|| ज्वरपीडा यशोहानिर्बन्धुमित्रविरोधकृत | पितृक्षयभयं चैव गृहे त्वशुभमेव च ||१४|| पितृवर्गे मनस्तापं जन्द्वेषं च विन्दति | शुभदृष्टियुते सूर्ये मध्ये तस्मिन् क्वचित्सुखम् | पापग्र्हेण सन्दृष्टे वदेत्पापफलं बुधः ||१५|| एवं सूर्यफलं विप्र संक्षेपादुदितं मया | विंशोत्तरीमतेनाथ ब्रुवे चन्द्रदशाफलम् ||१६|| स्वोच्चे स्वक्षेत्रगे चैव केन्द्रे लाभत्रिकोणगे | शुभग्रहेण संयुक्ते पूर्णे चन्द्रेबलैर्युते ||१७|| कर्मभाग्याधिपैर्युक्ते वाहनेशबलैर्युते | आद्यन्तैश्वर्यसौभाग्यधनधान्यादिलाभकृत ||१८|| गृहे तु शुभकार्याणि वाहनं राजदर्शनम् | यत्नकार्यार्थसिद्धिः स्याद् गृहे लक्ष्मीकटाक्षकृत् ||१९|| मित्रप्रभुवशाद्भाग्यं राज्यलाभं महत्सुखम् | अश्वान्दोल्यादिलाभं च श्वेतवस्त्रादिकं लभेत् ||२०|| पुत्रलाभादिसन्तोषं गृहगोधनसंकुलम् | धनस्थानगते चन्द्रे तुङ्गे स्वक्षेत्रगेऽपि वा ||२१|| अनेकधनलाभं च भाग्यवृद्धिर्महत्सुखम् | निक्षेपराजसन्मानं विद्यालाभं च विन्दति ||२२|| नीचे वा क्षीणचन्द्रे वा धनहानिर्भविष्यति | दुश्चिक्ये बलसंयुक्ते क्वचित्सौख्यं क्वचिद्धनम् ||२३|| दुर्बले पापसंयुक्ते देहजाड्यं मनोरुजम् | भृत्यपीडा वित्तहानिर्मातृवर्गजनाद्वधः ||२४|| षष्ठाष्टमव्यये चन्द्रे दुर्बले पापसंयुते | राजद्वेषो मनोदुःखं धनधान्यादिनाशनम् ||२५|| मातृक्लेषं मनस्तापं देहजाड्यं मनोरुजम् | दुःस्थे चन्द्रे बलैर्युक्ते क्वचिल्लाभं क्वचित्सुखम् | देहजाड्यं क्वचिच्चैव शान्त्या तत्र शुभं दिशेत् ||२६|| स्वभोच्चादिगतस्यैवं नीचशत्रुभगस्य च | ब्रवीमि भूमिपुर्तस्य शुभाऽशुभदशाफलम् ||२७|| परमोच्चगते भौमे स्वोच्चे मूलत्रिकोणगे | स्वर्क्षे केन्द्रत्रिकोणे वा लाभे वा धनगेऽपि वा ||२८|| सम्पूर्णबलसंयुक्ते शुभदृष्टे शुभांशके | राज्यलाभं भूमिलाभं धनधान्यादिलाभकृत् ||२९|| आधिक्यं राजसम्मानं वाहनाम्बरभूषणम् | विदेशे स्थानलाभं च सोदराणां सुखं लभेत् ||३०|| केन्द्रे गते सदा भौमे दुश्चिक्ये बलसंयुते | पराक्रमाद्वित्तलाभो युद्धे शत्रुजयो भवेत् ||३१|| कलत्रपुत्रविभवं राजसम्मानमेव च | दशादौ सुखमाप्नोति दशान्ते कष्टमादिशेत् ||३२|| नीचादिदुष्टभावस्थे भौमे बलविवर्जिते | पापयुक्ते पापदृष्टे सा दशा नेष्टदायिका ||३३|| एवं राहोश्च केतोश्च कथयामि गृहादिकम् | तयोर्दशाफलज्ञप्त्यै तवाऽग्रे द्विजनन्दन ||३४|| राहोस्तु वृषभं केतोर्वृश्चिकं तुङ्गसंज्ञकम् | मूलत्रिकोणकं ज्ञेयं युग्मं चापं क्रमेण च ||३५|| कुम्भाली च गृहौ प्रोक्तौ कन्यामीनौ च केनचित् | तद्दाये बहुसौख्यं च धनधान्यादिसम्पदाम् ||३६|| मित्र्प्रभुवशादिष्टं वाहनं पुत्रसम्भवः | नवीनगृहनिर्माणं धर्मचिन्ता महोत्सवः ||३७|| विदेशराजसन्मानं वस्त्रालङ्कारभूषणम् | शुभयुक्ते शुभैर्दृष्टे योगकारकसंयुते ||३८|| केन्द्रत्रिकोओणलाभे वा दुश्चिक्ये शुभराशिगे | महाराजप्रसादेन सर्वसम्पत्सुखावहम् ||३९|| यवनप्रभुसन्मानं ग्र्हे कल्याणसम्भवम् | रन्ध्रे वा व्ययगे राहौ तद्दाये कष्टमादिशेत् ||४०|| पापग्रहेण सम्बन्धे मारकग्र्हसंयुते | नीचराशिगते वापि स्थानभ्रंशो मनोव्यथा ||४१|| विनाशो दारपुत्राणां कुत्सितान्नं च भोजनम् | दशादौ देहपीडा च धनधान्यपरिच्युतिः ||४२|| दशामध्ये तु सौख्यं स्यात् स्वदेशे धनलाभकृत् | दशान्ते कष्टमाप्नोति स्थानभ्रंशो मनोव्यथा ||४३|| यः सर्वेषु नाभोगेषु बुधैरतिशुभः स्मृतः | तस्य देवेन्द्रपूज्यस्य कथयामि दशाफलम् ||४४|| स्वोच्चे स्वक्षेत्रगे जीवे केन्द्रे लाभत्रिकोणगे | मूलत्रिकोणलाभे वा तुंगांशे स्वांशगेऽपि वा ||४५|| राज्यलाभं महापौरुषं राजसन्मानकीर्तनम् | गजवाजिसमायुक्तं देवब्राह्मणपूजनम् ||४६|| दारपुत्रादिसौख्यं च वाहनांबरलाभजम् | यज्ञादिकर्मसिद्धिः स्याद्वेदान्तश्रवणादिकम् ||४७|| महाराजप्रसादेनाऽभीष्टसिद्धिः सुखावहा | आन्दोलिकादिलाभश्च कल्याणं च महत्सुखम् ||४८|| पुत्रदारादिलाभश्च अन्नदानं महत्प्रियम् | नीचास्तपापसंयुक्ते जीवै रिष्फाष्टसंयुते ||४९|| स्थानभ्रंशं मनस्तापं पुत्रपीडामहद्भयम् | पश्वादिधनहानिश्च तीर्थयात्रादिकं लभेत् ||५०|| आदौ कष्टफलं चैव चतुष्पाज्जीवलाभकृत् | मध्यान्ते सुखमाप्नोति राजसम्मानवैभवम् ||५१|| अथ सर्वेषु खेटेषु योऽतिहीनः प्रकीर्तितः | तस्य भास्करपुत्रस्य कथयामि दशाफलम् ||५२|| स्वोच्चे स्वक्षेत्रगे मन्दे मित्रक्षेत्रेऽथ वा यदि | मूलत्रिकोणे भाग्ये वा तुंगांशे स्वांशगेऽपि वा ||५३|| दुश्चिक्ये लाभगे चैव राजसम्मानवैभवम् | सत्कीर्तिर्धनलाभश्च विद्यावादविनोदकृत् ||५४|| महाराजप्रसादेन गजवाहनभूषणम् | राजयोगं प्रकुर्वीत सेनाधीशान्महत्सुखम् ||५५|| लक्ष्मीकटाक्षचिह्नानि राज्यलाभं करोति च | गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ||५६|| षष्ठाष्टमव्यये मन्दे नीचे वाऽस्तङ्गतेऽपि वा | विषशस्त्रादिपीडा च स्थाभ्रंशं महद्भयम् ||५७|| पितृमातृवियोगं च दारपुत्रादिपीडनम् | राजवैसःअम्यकार्याणि ह्यनिष्टं बन्धनं तथा ||५८|| शुभयुक्तेक्षिते मन्दे योगकारकसंयुते | केन्द्रत्रिकोणलाभे वा मीनगे कार्मुके शनौ ||५९|| राज्यलाभं महोत्साहं गजश्वाम्बरसंकुलम् ||६०|| अथ सर्वनभोगेषु यः कुमारः प्रकीर्तितः | तस्य तारेशपुत्रस्य कथयामि दशाफलम् ||६१|| स्वोच्चे स्वक्षेत्रसंयुक्ते केन्द्रलाभत्रिकोणगे | मित्रक्षेत्रसमायुक्ते सौम्ये दाये महत्सुखम् ||६२|| धनधान्यादिलाभं च सत्कीर्तिधनसम्पदाम् | ज्ञानाधिक्यं नृपप्रीतिं सत्कर्मगुणवर्द्धनम् ||६३|| पुत्रदारादिसौख्यं च देहारोग्यं महत्सुखम् | क्षीरेण भोजनं सौख्यं व्यापाराल्लभते धनम् ||६४|| शुभदृष्टियुते सौम्ये भाग्ये कर्माधिपे दशा | आधिपत्ये बलवती सम्पूर्ण्फलदादिका ||६५|| पापग्रहयुते दृष्टे राजद्वेषं मनोरुजम् | बन्धुजनविरोधं च विदेशगमनं लभेत् ||६६|| परप्रेष्यं च कलहं मूर्तकृर्च्छान्महन्भयम् | षष्ठाष्टमव्यये सौम्ये लाभभोगार्थनाशनम् ||६७|| वातपीडां धनं चैवं पाण्डुरोगं विनिर्दिशेत् | नृपचौराग्निभीतिं च कृषिगोभूमिनाशनम् ||६८|| दशादौ धनधान्यं च विद्यालाभं महत्सुखम् | पुत्रकल्याणसम्पत्तिः सन्मार्गे धनलाभकृत् ||६९|| मध्ये नरेन्द्रसन्मानमन्ते दुःखं भविष्यति ||७०|| यस्तमोग्रहयोर्मध्ये कबन्धः कथ्यते बुधैः | तस्य केतोरिदानीं ते कथेयामि दशाफलम् ||७१|| केन्द्रे लाभे त्रिकोणे व शुभराशौ शुभेक्षिते | स्वोच्चे वा शुभवर्गे वा राजप्रीतिं मनोनुगम् ||७२|| देशाग्रामाधिपत्यं च वाहनं पुत्रसम्भवम् | देशान्तरप्रयाणं च निर्दिशेत् तत् सुखावहम् ||७३|| पुत्रदारसुखं चैव चतुष्पाज्जीवलाभकृत् | दुश्चिक्ये षष्ठलाभे वा केतुर्दाये सुखं दिशेत् ||७४|| राज्यं करोति मित्रांशं गजवाजिसमन्वितम् | दशदौ राजयोगश्च दशामध्ये महद्भयम् ||७५|| अन्ते दूराटनं चैव देहविश्रमणं तथा | धने रन्ध्रे व्यये केतौ पापदृष्टियुतेक्षिते ||७६|| निगडं बन्धुनाशं च स्थानभ्रंशं मनोरुजम् | शूद्रसङ्गादिलाभं च कुरुते रोगसंकुलम् ||७७|| अथ भूतेषु यः शुक्रा मदरूपेण तिष्ठति | तस्य दैत्यगुरोर्विप्र कथयामि दशाफलम् ||७८|| परमोच्चगते शुक्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे | नृपाऽभिषेकसम्प्राप्तिर्वाहनाऽम्बरभूषणम् ||७९|| गजाश्वपशुलाभं च नित्यं मिष्ठान्नभोजनम् | अखण्डमण्डलाधीशाराजसन्मानवैभवम् ||८०|| मृदङ्गवाद्यघोषं च गृहे लक्ष्मीकटाक्षकृत् | त्रिकोणस्थे निजे तस्मिन् राज्यार्थगृहहसम्पदः ||८१|| विवाहोत्सवकार्याणि पुत्रकल्याणवैभवम् | सेनाधिपत्यं कुरुते इष्टबन्धुसमागनम् ||८२|| नष्टराज्याद्धनप्राप्तिं गृहे गोधनसङ्ग्रहम् | षष्ठाष्टमव्यये शुक्रे नीचे वा व्ययराशिगे ||८३|| आत्मबन्धुजनद्वेषं दारवर्गादिपीडनम् | व्यवसायात्फ्लं नष्टं गोमहिष्यादिहानिकृत् ||८४|| दारपुत्रादिपीडा वा आत्मबन्धुवियोगकृत् | भाग्यकर्माधिपत्येन लग्नवाहनराशिगे ||८५|| तद्दशायां महत्सौख्यं देशग्रामाधिपालता | देवालयतडागादिपुण्यकर्मसु संग्रहः ||८६|| अन्नदाने महत्सौख्यं नित्यं मिष्ठान्नभोजनम् | उत्साहः कीर्तिसम्पत्ती स्त्रीपुत्रधनसम्पदः ||८७|| स्वभुक्तौ फलमेवं स्याद्बलान्यन्यानि भुक्तिषु | द्वितीयद्यूननाथे तु देहपीडा भविष्यति ||८८|| तद्दोषपरिहारार्थं रुद्रं वा त्र्यम्बकं जपेत् | स्वेतां गां महिषीं दव्यादारोग्यं च ततो भवेत् ||८९|| -