बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४६ (दशाध्यायः)

विकिस्रोतः तः
← अध्यायः ४५ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ४७ →



अथ दशाध्याय ||४६||

सर्वज्ञोऽसि महर्षे त्वं कृपया दीनवत्सल |
दशाः कतिविधाः सन्ति तन्मे कथय तत्त्वतः ||१||

साधु पृष्टं स्वया विप्र लोकानुग्रहकारिणा |
कथयामि तवाग्रेऽहं दशभेदाननेकशः ||२||

दशाबहुविधास्तासु मुख्या विंशोत्तरी मता |
कैश्चिदष्टोत्तरी कैश्चित् कथिता षोडशोत्तरी ||३||

द्वादशाब्दोत्तरी विप्र दशा पञ्चोत्तरी तथा |
दशा शतसमा तद्वत् चतुराशीतिवत्सरा ||४||

द्विसप्ततिसमा षष्टिसमा षड्त्रिंशवत्सरा |
नक्षत्राधारिकाश्चेताः कथिताः पूर्वसूरिभिः ||५||

अथा कालदशा चक्रदशा प्रोक्ता मुनीश्वरैः |
कालचक्रदशा चाऽया मान्यासर्वदशासु या ||६||

दशाऽथ चरपर्याया स्थिराख्या च दशा द्विज |
केन्द्राद्य च दशा ज्ञेया कारकादिग्रहोद्भवा ||७||

ब्रह्मग्रहाश्रितर्क्षाद्या दशा प्रोक्ता तु केनचित् |
माण्डूकी च दशा नाम तथा स्थूलदशा स्मृता ||८||

योगार्धजदशा विप्र दृग्दशा च ततः परम् |
त्रिकोणाख्या दशा नाम तथा राशिदशा स्मृता ||९||

पञ्चस्वरदशा विप्र विज्ञेया योगिनीदशा |
दशा पैण्डी तथांशी च नैसर्गिकदशा तथा ||१०||

अष्टवर्गदश सन्ध्यादसा पाचकसंज्ञिका |
अन्यास्तारादशाद्याश्च न स्वर्गाः सर्वसम्मताः ||११||

कृत्तिकातः समारभ्य त्रिरावृत्य दशाधिपाः |
आचंकुरागुशबुकेशुपूर्वा विहगाः क्रमात् ||१२||

वह्निभाज्जन्मभं यावद् या संख्या नवतष्टिता |
शेषाद्दशाधिपो ज्ञेयस्तमारभ्य दशां नयेत् ||१३||

विंशोत्तरशतं पूर्णमायुः पूर्वमुदाहृतम् |
कलै विंशोत्तरी तस्माद् दशा मुख्या द्विजोत्तम ||१४||

दशासमाः क्रमादेषां षड् दशाऽश्वा गजेन्दवः |
नृपाला नवचन्द्राश्च नवचन्द्रा नगा नखाः ||१५||

दशामनां भयातघ्नं भभोगेन हृतं फलम् |
दशाया भुक्तवर्षाद्य भोग्यं मानाद् विशोधितम् ||१६||

लग्नेशात् केन्द्रकोणस्थे राहौ लग्नं विना स्थिते |
अष्टोत्तरी दशा विप्र विज्ञेया रौद्रभादितः ||१७||

चतुष्कं त्रितयं तस्मात् चतुष्कं त्रितयं पुनः |
एवं स्वजन्मभं यावद् विगणय्य यथाक्रमम् ||१८||

सूर्यश्चन्द्रः कुजः सौम्यः शनिर्जीवस्तमो भृगुः |
एते दशाधिपा विप्र ज्ञेयाः केतुं विना ग्रहाः ||१९||

रसाः पञ्चेन्दवो नागाः सप्तचन्द्राश्च खेन्दवः |
गोऽब्जाः सूर्याः कुनेत्राश्च रव्यादीनां दशासमाः ||२०||

दशाब्दांघ्रिश्च पापानां शुभानां त्र्यंश एव हि |
एकैकभे दशामानं विज्ञेयं द्विजसत्तम ||२१||

ततस्तद्यातभोगाध्यां भुक्तं भोग्यं च साधयेत् |
विंशोत्तरीवदेवात्र ततस्तत्फलमादिशेत् ||२२||

कृष्णपक्षे दिवा जन्म शुक्लपक्षे तथा निशि |
तदा ह्यष्टोत्तरी चिन्त्या फलार्थञ्च विशेषतः ||२३||

चन्द्रहोरागते कृष्णे सूर्यहोरागते सितेए |
लग्ने नृणां फलज्ञप्त्यै विचिन्त्या षोडशोत्तरी ||२४||

पुष्यभाज्जन्मभं यावद् या संख्या गजतष्टिता |
रविर्भौमो गुरुर्मन्दः केतुश्चन्द्रो बुधो भृगुः ||२५||

इति क्रमाद् दशाधीशाः ज्ञेया राहुं विना ग्रहाः |
रुद्राद्येकोत्तराः संख्या धृत्यन्तं वत्सराः क्रमात् ||२६||

शुक्रांशके प्रजातस्य विचिन्त्या द्वादशोत्तरी |
जन्मभात् पौष्णभं यावत् संख्या हि वसुतष्टिता ||२७||

सूर्यो गुरुः शिखी ज्ञोऽगुः कुजो मन्दो निशाकरः |
विना शुक्रं दशाधीशा द्विचयात् सप्ततः समाः ||२८||

अर्कांश कर्कलग्ने पञ्चोत्तरी मता |
मित्रर्क्षाज्जन्मभं यावत् संख्या सप्तविभाजिता ||२९||

एकादिशेषे विज्ञ्याः क्रमात्सप्तदशाधिपाः |
रविर्ज्ञोऽर्कसुतो भौमः शुक्रश्चन्द्रो वृहस्पतिः ||३०||

एकोत्तराच्च विज्ञेया द्वादशाद्याः क्रमात्समाः |
धृत्यन्ताः सप्तखेटानां राहुकेतू विना द्विज ||३१||

वर्गोत्तमगते लग्ने दशा चिन्त्या शताब्दिका |
पौष्ण्भाज्जन्मपर्यन्तं गणयेत् सप्तभिर्भजेत् ||३२||

शेषाङ्के रवितो ज्ञेया दशा शतसमाह्वया |
रविश्चन्द्रो भृगुर्ज्ञश्च जीवो भौमः शनिस्तथा ||३३||

क्रमदेते दशाधीशा बाणा बाणा दिशो दश |
नखा नखाः खरामाश्च समाज्ञेया द्विजोत्तम ||३४||

कर्मेशे कर्मगे ज्ञेया चतुराशीतिका दशा |
पवनाज्जन्मभं यावद् या सण्ख्या सप्तभाजिता ||३५||

शेषे रवीन्दुभौमज्ञा गुरुशुक्रशनैश्चराः |
दशाधीशाः क्रमादेषां ज्ञेया द्वादशवत्सराः ||३६||

मूलाज्जन्मर्क्षपर्यन्तं गणयेदष्टभिर्भजेत् |
शेषाद्दशाधीपा ज्न्' एया अष्टौ रव्यादयः क्रमात् ||३७||

नव वर्षाणि सर्वेषां विकेतूनां नभःसदाम् |
लग्नेशे सप्तमे यस्य लग्ने वा सप्तमाधिपे ||३८||

चिन्तनीया दशा तस्य द्विसप्ततिसमाह्वया |
विंशोत्तरीवदत्राऽपि भुक्तं भोग्यं च साधयेत् ||३९||

यदार्को लग्नराशिस्थश्चिन्त्या षष्टिसमा तदा |
दास्रात् त्रयं चतुष्कं च त्रयं चेति पुनः पुनः ||४०||

गुर्वर्कभूसुतानां च दशा दश दशाब्दकाः |
ततः शशिज्ञशुक्रार्कपुत्रागूनां रसाब्दकाः ||४१||

श्रवणाज्जन्मभं यावत् संख्या वसुविभाजिता |
शेषे चन्द्ररवीज्यारबुधार्किभृगुराहवः ||४२||

क्रमाद्दशाधिपास्तेषामेकाद्येकोत्तराः समा |
लग्ने दिनेऽर्कहोरायां चन्द्रहोरागते निशि ||४३||

सूर्यस्याऽर्धास्तयः पूर्वं परस्तादूदयादपि |
पञ्च पञ्च घटी सन्ध्या दशनाडी प्रकीर्तिता ||४४||

सन्ध्याद्वयञ्च विंशत्या नाडिकाभिः प्रकीर्तितम् |
दिनस्य विंशतिर्घट्यः पूर्णसंज्ञा उदाहृताः ||४५||

निशायाः मुग्धसंज्ञाश्च घटिका विंशतिश्च याः |
सूर्योदये च या सन्ध्या खण्डाख्या द/सनाडिका ||४६||

अस्तकाले च या सन्ध्या सुधाख्या दशनाडिका |
पूर्णमुग्धघटीमाने द्विगुणे तिथिभिर्भजेत् ||४७||

तथा खण्डसुधाघट्यौ चतुर्घ्ने तिथिभिर्भजेत् |
लब्धं वर्षादिकं मानं सूर्यादीनां खचारिणाम् ||४८||

एकादिसंख्यया निघ्नं दशामानं पृथक् क्रमात् |
राहुकेतुयुतानां च नवानां कालसंज्ञकम् ||४९||

रात्रौ लग्नाश्रिताद्राशेर्दिने लग्नेश्वराश्रिताम् |
सन्ध्यायां वित्तभावस्थान्नेया चक्रदशा बुधैः ||५०||

दशा वर्षाणि राशीनामेकैकस्य दशामितिः |
क्रमाच्चक्रस्थितानाञ्च विज्ञातव्या द्विजोत्तम ||५१||

अथाऽहं शङ्करं नत्वा कालचक्रदशां ब्रुवे |
पार्वत्यै कथिता पूर्वं सादरं या पिनाकिना ||५२||

तस्याः सारं समुद्धृत्य तवाग्रे द्विजमन्दन |
शुभाऽशुभं मनुष्याणां यथा जानन्ति पण्डिताः ||५३||

द्वादशारं लिखेच्चक्रं तिर्यगूर्घ्वसमानकम् |
गृहा द्वादश जायन्ते सव्येऽसव्ये द्विधा द्विज ||५४||

द्वितीयादिषु कोष्ठेषु राशीन् मेषादिकान् लिखेत् |
एवं द्वादशराश्याख्यं कालचक्रमुदीरितम् ||५५||

अश्विन्यादित्रयं सव्यमार्गे चक्रे व्यवस्थितम् |
रोहिण्यादित्रयं चैवमपसव्ये व्यविस्थितम् ||५६||

एवमृक्षविभागं हि कृत्वा चक्रं समुद्धरेत् |
अश्विन्यदितिहस्तक्षेमूलप्रोष्ठपदाभिधाः ||५७||

वह्निवातादिविश्वर्क्षरेवत्यः सव्यतारकाः |
एतद्दशोषुपादानामश्विन्यादौ च वीक्षयेत् ||५८||

देहजीवौ कथं वीक्ष्यौ नक्षत्राणां पदेषु च |
विशदं तत्प्रकारं च मैत्रेय कथयामयहम् ||५९||

देहजीवौ मेषचापौ दास्राद्यचरणस्य च |
मेषाद्याश्चापपर्यन्तं राशिपाश्च दशाधिपाः ||६०||

मृगयुग्मे देहजीवौ द्वितीयचरणे स्मृतौ |
क्रमात् मिथुनपर्यन्तं राशिपाश्च दशाधिपाः ||६१||

दास्रादिदशताराणां तृतीयचरणे द्विज |
गौर्देहो मिथुनं जीवो द्व्येकार्केशदशाङ्कपाः ||६२||

क्वक्षिरामर्क्षनाथाश्च दशाधिपतयः क्रमात् |
अश्विन्यादिदशौडूनां चतुर्थचरणे तथा ||६३||

कर्कमीनौ देहजीवौ कर्कादिनवराशिपाः |
दशाधीशाश्च विज्ञेया नवैते द्विजसत्तम ||६४||

यमेज्यचित्रातोयर्क्षाऽहीर्बुध्न्याः सव्यतारकाः |
एतत्पञ्चोडुपादानां भरण्यादौ विचिन्तयेत् ||६५||

याम्यप्रथमपादस्य देहजीवावलिर्झषः |
नागागर्तुपयोधीषुरामाक्षीन्द्वर्कभेश्वराः ||६६||

याम्यद्वितीयपादस्य देहजीवौ घटाङ्गने |
रुद्रदिङ्नन्दचन्द्राक्षिरामाब्धीष्वङ्गभेश्वराः ||६७||

याम्यतृतीयपादस्य देहजीवौ तुलाङ्गने |
सप्ताष्टाङ्कदिगीशार्कगजाद्रिरमभेश्वराः ||६८||

कर्को देहो धनुर्जीवो याम्यतुर्यपदे द्विज |
वेदबाणाग्निनेत्रेन्दुसूर्येशाशाङ्कभेश्वराः ||६९||

सप्तमेवं विजानीयादसव्यं कथयाम्यहम् |
द्वादशारां लिखेच्चकं पूर्ववद् द्विजसत्तम ||७०||

द्वितीयादिषु कोष्ठेषु वृश्चिकाद् व्यस्तमालिखेएत् |
रोहिणी च मघा द्वीशः कर्णश्चेति चतुष्टयम् ||७१||

उक्तं चाऽसव्यनाक्षत्रं पूर्वाचार्यैर्द्विजोत्तम |
एतद्वेदोडुपादानां रोहिनीवन्निरीक्षयेत् ||७२||

रोहिण्यादिपदे देहजीवौ कर्किधनुर्धरौ |
नवदिग्रुद्रसूर्येन्दुनेत्राग्नोष्वब्धिभेश्वराः ||७३||

धातृद्वितीचरणे देहजीवौ तुलस्त्रियौ |
अङ्कागवसुसूर्येशदिगङ्कवसुजूकपाः ||७४||

तृतीयचरणे ब्राह्म देएहजीवौ घटाङ्गने |
षड्बाणब्धिगुणक्षीन्दुनन्ददिग्रुद्रभेश्वराः ||७५||

रोहिण्यन्तपदे देहजीवावलिजषौ स्मृतौ |
सूर्येन्दुद्विगुणेष्वब्धितर्कशैलाष्टभेश्वराः ||७६||

चान्द्ररौद्रभगार्यम्णमित्रेन्दुवसुवारुणम् |
एतत्ताराष्टकं विज्ञैर्विज्ञेयं चान्द्रवत् क्रमात् ||७७||

कर्को देहो झषो जीवो मृगाद्यचरणे द्विज |
व्यस्तान्मीनादिकर्कान्तराशिपाश्च दशाधिपाः ||७८||

गौर्देहो मिथुनं जीवो द्वितीयचरणे मृगे |
त्रिद्व्येकाङ्कदिशीशार्कचन्द्राक्षिभवनाधिपाः ||७९||

देहजीवौ नक्रयुग्मे तृतीयचरणे मृगे |
त्रिबाणाब्धिरसागाष्टसूर्येशदशभेश्वराः ||८०||

मेषो देहो धनुर्जीवो चतुर्थचरणे मृगे |
व्यस्ताच्चापादिमेषान्तराशिपाश्च दशाधिपाः ||८१||

अपसव्यगणे त्वेवं देहजीवदशादिकम् |
पार्वत्यै शम्भुना प्रोक्तमिदावींकथितं मया ||८२||

केषां च कति वर्षाणि दशेशानां महामुने |
दशाया भुक्तभोग्याद्यं तदारम्भ प्रचक्ष्व मे ||८३||

भूतैकविंशगिरयो नवदिक्षोडशाब्धयः |
सूर्यादीनां दशाब्धाः स्यू राशीनां स्वामिनो वशात् ||८४||

नरस्य जन्मकाले वा प्रश्नकाले यदंशकः |
तदादिनवराशिनामब्दास्तस्यायुरुच्यते ||८५||

सम्पूर्णायुर्भवेदादावर्धमंशस्य मध्यके |
अंशान्ते परमं कष्टमित्याहुरपरे बुधाः ||८६||

ज्ञात्वैवं स्फुटसिद्धान्तं राश्यंशं गणयेद् बुधः |
अनुपातेन वक्ष्यामि तदुपायमतः परम् ||८७||

गततारास्त्रिभिर्भक्ताः शेषं चैव चतुर्गुणम् |
वर्तमानपदेनाढ्यं राशीनामंशको भवेत् ||८८||

मेषे शतं वृषेऽक्षाष्टौ मिथुने त्रिगजाः समाः |
कर्कटेऽङ्गगजाः प्रोक्तास्तावन्तस्तत्त्रिकोणयोः ||८९||

जनो यत्रांशके जातो गतनाडीपलादिभिः |
तदांशस्य हताः स्वाब्दाः पञ्चभूमिविभाजिताः ||९०||

एवं महादशारम्भो भवेदंशाद्यथा क्रमात् |
गणयेन्नवपर्यन्तं तत्तदायुः प्रकीर्तितम् ||९१||

पदस्य भुक्तघट्याद्यैः स्वाब्दमानं हतं ततः |
भभोगांघ्रिहृतं भुक्तं भोग्यं मानाद् विशोधितम् ||९२||

चन्द्राङ्कांशकला भुक्ताः स्वाब्दमानहता हृताः |
द्विशत्या भुक्तवर्षाद्यं ज्ञेयं भोग्यं ततो बुधैः ||९३||

सव्याख्ये प्रथमांशो यः स देह इति कथ्यते |
अन्त्यांशो जीवसंज्ञः स्याद् विलोममपसव्यके ||९४||

देहादिं गणयेत् सव्ये जीवादिमपसव्यके |
एवं विज्ञाय दैवज्ञस्ततस्तत्फलमादिशेत् ||९५||

कालचक्रगतिः प्रोक्ता त्रिधा पूर्वमहर्षिभिः |
मण्डूकाख्या गतिश्चैका मर्कटीसंज्ञकाऽपरा ||९६||

सिंहावलोकनाख्या च तृतीया परिकीर्तिता |
उत्प्लुत्य गमनं विज्ञा मण्डूकाख्यं प्रचक्षते ||९७||

पृष्ठतो गमनं नाम मर्कटीसंज्ञकं तथा |
वाणाच्च नवपर्यन्तं गतिः सिंहावलोकनम् ||९८||

कन्याकर्कटयोः सिंहयुग्मयोर्मण्डूय्की गतिः |
कर्ककेसरिणोरेवं कथ्यते मर्कटीं गतिः ||९९||

मीनवृश्चिकयोश्चापमेषयोः सैंहिकी गतिः |
इति सञ्चिन्त्य विज्ञेयं कालचक्रदशाफलम् ||१००||

मण्डूकगतिकाले हि सव्ये बन्धुजने भयम् |
पित्रोर्वा विषशस्त्राग्निज्वरचोरादिजं भयम् ||१०१||

केसरीयुग्ममण्डूके मातुर्मरण्मादिशेत् |
स्वमृतिं राजभितिं वा सन्निपातभयं भवेत् ||१०२||

मर्कटीगमने सव्ये धनधान्यपशुक्षयः |
पितुर्मरणमालस्यं तत्समानां च व मृतिः ||१०३||

सव्ये सिंहावलोके तु पशुभीतिर्भवेन्नृणाम् |
सुहृत्स्नेहादिनाशश्च समानजनपीडनम् ||१०४||

पतनं वापि कूपादौ विषशस्र्ताग्निजं भयम् |
वाहनात् पतनं वापि ज्वरार्तिः स्थाननाशनम् ||१०५||

मण्डूकगमने वामे स्त्रीसुतादिप्रपीडनम् |
ज्वरं च श्वापदाद् भीतिं वदेद् विज्ञः पदच्युतिम् ||१०६||

मर्कटीगमने वाऽपि जलभीतिं पदच्युतिम् |
पितुर्नाशं नृपक्रोधं दुर्गारण्याटनं वदेत् ||१०७||

सिंहावलोकने वामे पदभ्रंशः पितुर्मृतिः |
तत्समानमृतिर्वाऽपि फलमेवं विचिन्तयेत् ||१०८||

मीनात् तु वृश्चिके याते ज्वरो भवति निश्चितः |
कन्यातः कर्कटे याते भ्रातृबन्धुविनाशनम् ||१०९||

सिंहात्तु मिथुने याते स्त्रिया व्याधिर्भवेद् ध्रुवम् |
कर्कटाच्च हरौ याते वधो भवति देहिनाम् ||११०||

पितृबन्धुमृतिं विद्याच्चापान्मेषे गते पुनः |
भयं पापखगैर्युक्ते शुभखेटयुते शुभम् ||१११||

शुभं वाऽप्यशुभं वाऽपि कालचक्रदशाफलम् |
राशिदिक्भागतो वापि पूर्वादिदिग्तभश्चरात् ||११२||

तद्दिगावभागे वक्तव्यं तद्दशासमये नृणाम् |
यथोपदेशमार्गेण सर्वेषां द्विजसत्तम ||११३||

कन्यातः कर्कटे याते पूर्वभागे महत्फलम् |
उत्तरं देशमाश्रित्य शुभा यात्रा भविष्यति ||११४||

सिंहात्तु मिथुने याते पूर्वभागं विवर्जयेत् |
कार्यान्तेऽपि च नैऋत्यां सुखं यात्रा भविष्यति ||११५||

कर्कटात् सिंहभे याते कार्यहानिश्च दक्षिणे |
दक्षिणां दिशमाश्रित्य प्रत्यगागमनं भवेत् ||११६||

मीनात्तु वृश्चिके याते उदग् गच्छति सङ्कटम् |
चापाच्च मकरे याते सङ्कटं जायते ध्रुवम् ||११७||

चापान्मेषे तु यात्रायां व्याधिर्बन्धो मृतिर्भवेत् |
वृश्चिके तु सुखं सम्पत् स्त्रीप्राप्तिश्च द्विजोत्तम ||११८||

सिंहाच्च कर्कटे याते पस्चिमां वर्जयेद्दिशम् |
शुभयोगे शुभं ब्रूयादशुभे त्वशुभं फलम् ||११९||

शूरश्चौरश्च मेषांशे लक्ष्मीवांश्च वृषांशके |
मिथुनांशे भवेज्ज्ञानी कर्कांशे नृपतिर्भवेत् ||१२०||

सिंहांशे राजमान्यश्च कन्यांशे पण्डितो भवेत् |
तुलांशे राजमन्त्री स्याद् वृश्चिकांशे च निर्धनः ||१२१||

चापांशे ज्ञानसम्पन्नो मरकांशे च पापकृत् |
कुम्भांशे च वणिक्कर्मा मीनांशे धनधान्यवान् ||१२२||

देहो जीवोऽथवा युक्तो रविभौमार्किराहुभिः |
एकैकयोगे मृत्युः स्याद् बहुयोगे तु का कथा ||१२३||

क्रूरैर्युक्ते तनौ रोगं जीवे युक्ते महद् भयम् |
आधी रोगो भवेद् द्वाभ्या.मपमृत्युस्र्तिभिर्भवेत् ||१२४||

चतुर्भिर्मृतिमापन्नो देहे जीवेऽशुभैर्युते |
युगपद्देहजीवौ च क्रूरग्रहयुतौ तदा ||१२५||

राजचोरादिभीतिश्च मृतिश्चापि न संशयः |
वह्निवाधा रवौ ज्ञेया क्षीणेन्दौ च जलाद् भयम् ||१२६||

कुजे शस्त्रकृता पीडा वायुवाधा बुधे भवेत् |
गुल्मवाधा शनौ ज्ञेया राहौ केतौ विषाद् भयम् ||१२७||

देहजीवगृहे यातो बुधो जीवोऽथवा भृगुः |
सुखस्म्पत्कराः सर्वे रोगशोकविनाशनाः ||१२८||

मिश्रगृहैश्च संयुक्ते मिश्रं फलमवाप्नुयात् |
पापक्षेत्रदशाकाले देहजीवौ तु दुःखितौ |

शुभक्षेत्रदशाकाले शुभं भवति निश्चितम् ||१२९||
शुभयुक्ताशुभक्षेत्रदशा मिश्रफला स्मृता |

क्रूरयुक्तशुभक्षेत्रदशा मिश्रफला तथा ||१३०||
जनानां जन्मकाले तु यो राशिस्तनुभावगः |

तस्य चक्रदशाकाले देहारोग्यं सुखं महत् ||१३१||
शुभे पूर्णसुखं पापे देहे रोगादिसम्भवः |

स्वोच्चादिगतखेटाढ्ये राज्यमानधनाप्तयः ||१३२||
धनभावे च यो राशिस्तस्य चक्रदशा यदा |

तदा सुभोजन.म् पुत्रस्त्रिसुखं च धनाप्तयः ||१३३||
विद्याप्तिर्वाक्पटुत्वं च सुगोष्ठ्या कालयापनम् |

शुभर्क्षे फलमेवं स्यात् पापभे फलमन्यथा ||१३४||
तृतीयभावराशेस्तु कालचक्रदशा यदा |

तदा भ्रातृसुखं शौर्यं धैर्यं चापि महत्सुखम् ||१३५||
स्वर्णाभरणवस्त्राप्तिः सम्मानं राजसंसदि |

शुभर्क्षे फलमेवं स्यात् पापर्क्षे फलमन्यथा ||१३६||
सुखभावगतर्क्षस्य कालचक्रदशा यदा |

तदा बन्धुसुखं भूमिगृहराज्यसुखाप्तयः ||१३७||
आरोग्यमर्थलाभश्च वस्त्रवाहनजं सुखम् |

शुभर्क्षे शोभनं ज्ञेयं पापभे फलमन्यथा ||१३८||
सुतभावगतर्क्षस्य कालचक्रदशा यदा |

सुतस्त्रीराज्यसौख्याप्तिरारोग्यं मित्रसंगमः ||१३९||
विद्याबुद्धियशोलाभो धैर्यं च विक्रमोदयः |

शुभराशौ शुभं पूर्णं पापर्क्षे फलमन्यथा ||१४०||
रिपुभावगतर्क्षस्य कालचक्रदशा यदा |

तदा चोरादिभूपाग्निविषशस्त्रभयं महत् ||१४१||
प्रमेहगुल्मपण्ड्वादिरोगाणामपि संभवः |

पापर्क्षे फलमेवं स्यात् शुभर्क्षे मिश्रमादिशेत् ||१४२||
जायाभावगतर्क्षस्य कालचक्रदशा यदा |

तदा पाणिग्रहः पत्नीपुत्रलाभादिकं सुखम् ||१४३||
कृषियोधनवस्त्राप्तिर्नृपपूजा महद्यशः |

शुभराशौ फलं पूर्णं पापराशौ च तद्दलम् ||१४४||
मृत्युभावस्थितर्क्षस्य कालचक्रदशा तदा |

स्थाननाशं महद् दुःखं बन्धुनाशं धनक्षयम् ||१४५||
दारिद्र्यमन्नविद्वोपमरिभीतिं च निर्दिशेत् |

पापराशौ फलं पूर्णं शुभराशौ च तद्दलम् ||१४६||
धर्मभावगतर्क्षस्य कालचक्रदशा यदा |

तदा पुत्रकलत्रार्थकृषिगेहसुखं वदेत् ||१४७||
सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् |

शुभराशौ शुभं पूर्णं पापराशौ च तद्दलम् ||१४८||
कर्मभावगतर्क्षस्य कालचक्रदशा यदा |

राज्याप्तिर्भूपसम्मानं पुत्रदारादिजं सुखम् ||१४९||
सत्कर्मफलमैश्वर्यं सद्गोष्ठ्या कालयापनम् |

शुभराशौ फलं पूर्णं पापराशौ च मिश्रितम् ||१५०||
लाभभावस्थितर्क्षस्य कालचक्रदशा यदा |

पुत्रस्त्रीबन्धुसौख्याप्तिर्भूपप्रीतिर्महत्सुखम् ||१५१||
धनवस्त्राप्तिरारोग्यं सतां सङ्गश्च जायते |

शुभराशौ फलं पूर्णं पापराशौ च खण्डितम् ||१५२||
व्ययभावगतर्क्षस्य कालचक्रदशा तदा |

उद्योगभङ्गमालस्यं देहपीडां पदच्युतिम् ||१५३||
दारिद्यं कर्मवैफल्यं तथा व्यर्थव्ययं वदेत् |

पापराशौ फलं त्वेवं शुभराशौ च तद्दलम् ||१५४||
लग्नादिव्ययपर्यन्तं भानां चरदशां ब्रुवे |

तस्मात् तदीशपर्यन्तं संख्यामत्र दशां विदुः ||१५५||
मेषादित्रित्रिभैर्ज्ञेयं पदमोजपदे क्रमात् |

दशाब्दानयने कार्या गणना व्युत्क्रमात् समे ||१५६||
वृश्चिकाधिपती द्वौ च केतुभौमौ स्मृतौ द्विज |

शनिराहु च कुम्भस्य स्वामिनौ परिकीर्तितो ||१५७||
द्विनाथक्षेत्रयोरत्र क्रियते निर्णयोऽधुना |

द्वावेवाधिपती विप्र युक्तौ स्वर्क्षे स्थितौ यदि ||१५८||
वर्ष द्वादशकं तत्र न चेदेकादि चिन्तयेत् |

एकः स्वक्षेत्रयोऽन्यस्तु परत्र यदि संस्थितः ||१५९||
तदाऽन्यत्र स्थितं नाथं परिगृह्य दशां नयेत् |

द्वावप्यन्यर्क्षगौ तौ चेत् तमोर्मध्ये च यो बली ||१६०||
तत एव दशा ग्राह्या क्रमाद् वोत्क्रमतो द्विजः |

बलस्याऽत्र विचारे स्यादग्रहात् सग्रहो बली ||१६१||
द्वावेव सग्रहौ तौ चेत् बली तत्राधिकग्रहः |

ग्रहयोगसमानत्वे ज्ञेयं राशिबलाद् बलम् ||१६२||
ज्ञेयाश्चरस्थिरद्वन्द्वाः क्रमतो बलशालिनः |

राशिसत्त्वसमानत्वे बहुवर्षो बली भवेद् ||१६३||
एकः स्वोच्चगतश्चाऽन्यः परत्र यदि संस्थितः |

गृह्णीयादुच्चखेटस्थं राशिमन्यं विहाय वै ||१६४||
उच्चखेटस्य सद्भावे वर्षमेकं च निक्षिपेत् |

तथैव नीचखेटस्य वर्षमेकं विशोधयेत् ||१६५||

एवं सर्वं समालोच्य जातकस्य फलं वदेत् ||१६६||

क्रमादुत्क्रमतो वाऽपि धर्मभावपदक्रमात् |
लग्नराशिं समारभ्य विज्ञश्चरदशां नयेत् ||१६७||

अथाऽहं संप्रवक्ष्यामि स्थिरसंज्ञां दशां द्विज |
चरे सप्त स्थिरे चाऽष्टौ द्वन्द्वे नव समाः स्मृताः ||१६८||

स्थिरत्वाच्च दशाब्दानां स्थिराख्येति निगद्यते |
ब्रह्मखेटाश्रितर्क्षादिर्दशेयं परिवर्तते ||१६९||

योऽसौ ब्रह्मग्रहः प्रोक्तः कथं स ज्ञायते मुने |
इति स्पष्टतरं ब्रूहि कृपाऽस्ति यदि ते मयि ||१७०||

षष्ठाष्टव्ययनाथेषु यो बली विषमर्क्षगः |
पृष्ठस्थितो भवेद् ब्रह्मां बलिनो लग्नजाययोः ||१७१||

कारकादष्टमेशो वा ब्रह्माऽप्यष्टभावगः |
शनौ पाते च ब्रह्मत्त्वे ब्रह्मा तत्षष्ठखेचरः ||१७२||

बहवो लक्षणक्रान्ता ज्ञेयस्तेष्वधिकांशकः |
अंशसाम्ये बलाधिक्याद् विज्ञेयो ब्रह्मखेचरः ||१७३||

योगार्धे च दशामानं द्वयोर्योगार्धसम्मितम् |
लग्नसप्तमप्राण्यादिर्दशेयं च प्रवर्तते ||१७४||

लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् |
ततः केन्द्रादिसंस्थानां राशीनाञ्च बलक्रमात् ||१७५||

कारकादपि राशीनां खेटानां चैवमेव हि |
दशाब्दाश्चरवज्ज्ञेयाः खेटानां च स्वभावधि ||१७६||

द्विराश्यधिपक्षेटस्य गण्येदुभयावधि |
उभयोर्धिक संख्या कारकस्य दशा समाः ||१७७||

आत्मकारकमारभ्य कारकाख्यदशा क्रमात् |
लग्नात् कारकपर्यन्तं संख्यामत्र दशां विदुः ||१७८||

मण्डूकापरपर्याया त्रिकूटाख्यदशा द्विज |
लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् ||१७९||

ततः क्रमेणौजराशौ समे नेया तथोऽत्क्रमात् |
त्रिकूटानां च विज्ञेयाः स्थिरवच्च दशा समाः ||१८०||

निर्याणस्य विचारार्थं कैश्चिछूलदशा स्मृता |
लग्नसप्तमतो मृत्युभयोर्यो बलवान् भवेत् ||१८१||

तदादिर्विषमे विप्र क्रमादुत्क्रमतः समे |
दशाब्दाः स्थिरवत्तत्र बलिमारकभे मृतिः ||१८२||

जन्मलग्नत्रिकोणेषु यो राशिर्बलवान् भवेत् |
तमार्भ्य नयेद् धीमान् चरिपर्यायवद् दशाम् ||१८३||

क्रमादुत्क्रमतो ग्राह्यं त्रिकोणं विषमे समे |
त्रिकोणाख्यदशा प्रोक्ता समा नाथावसानकाः ||१८४||

लग्नाद् धर्मस्य तद्दृष्टराशीनां च दशास्ततः |
दशमस्य च तद्दृष्टराशीनां च नयेत् पुनः ||१८५||

एकादशस्य तद्दृष्टराशीनां स्थिरवत् समाः |
प्रवृत्ता दृग् वशाद्यस्माद् दृग्दशेयं ततः स्मृता ||१८६||

चरे व्युत्क्रमतो ग्राह्या दृग्योग्याः स्थिरभे क्रमात् |
विषमे क्रमतो द्वन्द्वे राशयो व्युत्क्रमात् समे ||१८७||

ऋक्षे लग्नादिराशीनां दशा राशिदशा स्मृता |
भयातं रविभिर्निघ्नं भभोगविहृतं फलम् ||१८८||

राश्याद्यं लग्नराश्यादौ योज्यं द्वादशशेषितम् |
तदारभ्य क्रमादोजे दशा ज्ञेयोत्क्रमात् समे ||१८९||

दशाब्दा भुक्तभागघ्ना त्रिंशता विहृताह् फलम् |
भुक्तं वर्षादिकं ज्ञेयं भोग्यं मानाद् विशोधितम् ||१९०||

अकारादीन् स्वरान् पञ्च प्रथमं विन्यसेत् क्रमात् |
कादिहान्तांल्लिखेद् वर्णान् स्वराधो ङञणोज्झितान् ||१९१||

तिर्यक् पंक्तिक्रमेणैव पञ्चपञ्चविभागतः |
न प्रोक्ता ङञणा वर्णा नामादौ सन्ति ते नहि ||१९२||

चेद् भवन्ति तदा ज्ञेया गजडास्ते यथाक्रमात् |
यत्र स्वरे स्वनामाद्यवर्णः स्यात् तत्स्वरादयः ||१९३||

क्रमात् पंच दशाधीशाः द्वादशद्वादशाब्दकाः |
स्वराणां च क्रमाज्ज्ञेयाः दशास्वन्तर्दशादयः ||१९४||

पूर्वमेव मया प्रोक्ता वर्णदाख्या दशा द्विज |
इदानीं शम्भुना प्रोक्ता कथ्यते योगिनी दशा ||१९५||

मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा |
उल्का सिद्धा संकटा च योगिन्योऽष्टौ प्रकीर्तिताः ||१९६||

मङ्गलातोऽभवच्चन्द्रः पिङ्गलातो दिवाकरः |
धन्यातो देवपूज्योऽभूद् भ्रामरीतोऽभवत् कुजः ||१९७||

भर्दिकातो बुधो जातस्तथोल्कातः शनैश्चरः |
सिद्धातो भार्गवि जातः संकटातस्तमोऽभवद् ||१९८||

जन्मर्क्ष च त्रिभिर्युक्तं वसुभिर्भागमाहरेत् |
एकादिशेषे विज्ञेया योगिन्योः मङ्गलादिकाः ||१९९||

एकाद्येकोत्तरा ज्ञेयाः क्रमादासां दशासमाः |
नक्षत्रयातभोगाभ्यां भुक्तं भोग्यं च साधयेत् ||२००||

येषां यदायुः संप्रोक्तं पैण्डमांशं निसर्गजम् |
तक्षत् तेषां दशा ज्ञेया पैण्डी चांशी निसर्गजा ||२०१||

बली लग्नार्कचन्द्राणां यत्तस्य प्रथमा दशा |
तत्केन्द्रादिगतानां च ज्ञेया बलवशात्ततः ||२०२||

अष्टवर्गबलेनैषां फलानि परिचिन्तयेत् |
अष्टवर्गदशाश्चैताः कथिताः पूर्वसूरिभिः ||२०३||

परायुर्द्वादशो भागस्तस्य सन्ध्या प्रकीर्तिता |
तन्मिता लग्नभादीनां क्रमात् सन्ध्यादशा स्मृता ||२०४||

सन्ध्या रसगुणा कार्या चन्द्रवह्निहृता फलम् |
संस्थाप्यं प्रथमे कोष्ठे तदर्धं त्रिषु विन्यसेत् ||२०५||

त्रिभागं वसुकोष्ठेषु विन्यस्य तत्फलं वदेत् |
एवं द्वादशभावेषु पाचकानि प्रकल्पयेत् ||२०६||

विंशत्तरिदशेवाऽत्र कैश्चित् तारादशा स्मृता |
आशंकुरागुशबुकेश्वादिस्थानेषु तारकाः ||२०७||

अन्मसम्पत्विपत्क्षेमप्रत्यरिः साधको बधः |
मैत्रं परममैत्रं च केन्द्रस्थबलिनो ग्रहात् ||२०८||

ज्ञेया तारादशा विप्र नामतुल्यफलप्रदा |
यस्य केन्द्रे स्थितः खेटो दशेयं तस्य कीर्तिता ||२०९||

इति ते कथिता विप्र दश भेदा अनेकधा |
एतदन्तर्दशाभेदान् कथयिष्यामि चाग्रतः ||२१०||

-