बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४३ (अथायुर्दायाध्यायः)

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ४४ →


  अथायुर्दायाध्यायः ||४३||

धनाध्नाख्ययोगौ च कथितौ भवता मुने |
नराणामायुषो ज्ञानं कथयस्व महामते ||१||

साधु पृष्टं त्वया विप्र जनानां च हितेच्छया |
कथयाम्यायुषो ज्ञानं दुर्ज्ञेयं यत् सुरैरपि ||२||

आयुर्ज्ञानविभेदास्तु बहुभिर्बहुधोदिताः |
तेषां सारांशमादाय प्र्वदामि तवाऽग्रतः ||३||

स्वोच्चनीचादिसंस्थित्या ग्रहा आयुःप्रदायकाः |
स्वस्ववीर्यवशैर्नैवं नक्षत्राण् च राशयः ||४||

पिण्डायुः प्रथमं तत्र ग्रहस्थितिवशादहम् |
कथयामि द्विजश्रेष्ठ श्रणुष्वेकाग्रमानसः ||५||

क्रमात् सूर्यादिखेटेषु स्वस्वोच्चस्थानगेष्विह |
नन्देन्दवस्तच्वमितास्तिथयोऽर्काः शरेन्दवः ||६||

प्रकृयतो विंशतिश्चाब्दा आयुःपिण्डाः प्रकीर्तिताः |
नीचगेष्वेतदर्धञ्च ज्ञेयं मध्येऽनुपाततः ||७||

स्वच्चशुद्धौ ग्रहः शोध्यः षड्भादूनो भमण्ड्लात् |
स्वपिण्डगुणितो भक्तो भादिमानेन वत्सराः ||८||

अस्तगस्तु हरेत्स्वार्ध विना शुक्रशनैश्चरौ |
वक्रचारं विना त्र्यांशां शज्ञुराशौ हरेद् ग्रहः ||९||

सर्वार्धत्रिचतुःपञ्चषष्ठभागं क्रमाद् ग्रहः |
व्ययाद्वामं स्थितः पापो हरेत् सौम्यश्च तद्दलम् ||१०||

एकभे तु बहुष्वेको हरेत्स्वांशां बली ग्रहः |
नाऽत्र क्षीणस्य चन्द्रस्य पापत्वं मुनिभिः स्मृतम् ||११||

लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा |
भाज्या मण्डललिप्ताभिर्लब्धं वर्षादि शोधयेत् ||१२||

स्वायुषो लग्नगे सूर्ये मङ्गले च शनैश्चरे |
तदर्धं शुभसंदृष्टे पातयेद् द्विजसत्तम ||१३||

लग्नराशिसमाश्चाब्दा भागाद्यैरनुपाततः |
मासादिका इतीच्छन्ति लग्नायुः केऽपि कोविदाः ||१४||

लग्नादायोंऽशतुल्यः स्यादन्तरे चाऽनुपाततः |
तत्पतौ बलसंयुक्ते राशितुल्यं च भाघिपे ||१५||

अथ विप्र निसर्गायुः खेटानां कथयाम्यहम् |
चन्द्रारज्ञसितेज्यार्कशनीनां क्रमशोब्दका ||१६||

एकद्वयंकनखा धृत्यः कृतिः पंचाशदेव हि |
जन्मकालात् क्रमाज् ज्ञेया दशाश्चैता निसर्गजाः ||१७||

अथां्शायु सलग्नानां खेटानां कथयाम्यहम् |
नवांश्राशितुल्यानि खेटो वर्षाणि यच्छति ||१८||

भादिं खगं खगैः सूर्यैर्हत्वा तद्भगणादिकम् |
कृत्वाऽर्क्रशेषितं ज्ञेयमब्दाद्यंशायुषः स्फुटम् ||१९||

पिण्डायुरिव तत्रापि हानिं कुर्याद् विचक्षणः |
अत्राऽपरो विशेषोऽपि कैम्चिद् विज्ञैरुदाहृतः ||२०||

साधितायुः खगे स्वोच्चे स्वर्क्षे वा त्रिगुणं स्मृतम् |
द्विगुणं स्वनवांशस्थे स्वद्रेष्काणे तथोत्तमे ||२१||

उभयत्र गते खेटे कार्यं त्रिगुणमेव हि |
हानिद्वयेऽर्धहानिः स्यादित्यायुः प्रस्फुटं नृणाम् ||२२||

एवं संसाध्य चान्येषां हन्यात् स्वस्वपरायुषा |
नृणां परायुषा भक्त्वा तेषामायुः स्फुटं भवेत् ||२३||

अथायुः परमं वक्ष्ये नानाजातिसमुद्भवम् |
अनन्तसंख्यं देवानामृषीणां च द्विजोत्तम ||२४||

गृध्रोलूक्शुकध्वांक्षसर्पाणां च सहस्रकम् |
श्येनवानरभल्लुकमण्डूकानां शतत्रयम् ||२५||

पंचशदुत्तरशतं राक्षसानां प्रकीर्तितम् |
नगणां कुञ्जराणां च विंशोत्तरशतं तथा ||२६||

द्वात्रिंशद् घोटकानाञ्च पंचविंशत् खरोष्ट्रयोः |
वृषाणां महिषाणां च चतुर्विंशतिवत्सरम् ||२७||

विंशत्यायुर्मयूराणां छागादीनां च षोडश |
हंसानां पंचनव च पिकानां द्वादशाब्दकाः ||२८||

शुनां पारावतानां च कुक्कुटानां द्वादशाब्दकाः |
बुद्बुदाद्यण्डजानां च परायुः सप्तवत्सराः ||२९||

यदेतदधुना प्रोक्तं त्रिधायुद्विजसत्तम |
तेषु किञ्च कदा ग्राह्यमिति ते कथयाम्यहम् ||३०||

विलग्नपे बलोपेते शुभदृष्टेंश्शसम्भवभ् |
रवौ पिंडोद्भवं ग्राह्यं चन्द्रे नैसर्गिकं तथा ||३१||

बलसाम्ये द्वयोर्योगदलमायुः प्रकीर्तितम् |
त्रयाणां त्रियुतेस्त्र्यंशसमं ज्ञेयं द्विजोत्तम ||३२||

अथाऽन्यदपि वक्ष्यामि श्र्रिणु त्वं द्विजसत्तम |
कैश्चिल्लग्नाष्टमेशाभ्यां मन्देन्दुभ्यां तथैव च ||३३||

लग्नहोराविलग्नाभ्यां स्फुटमायुः प्रकीर्तितम् |
आदौ लग्नाष्टमेशाभ्यां योगमेकं विचिन्तयेत् ||३४||

द्वितीयं मन्दचन्द्राभ्यां योगं पश्येद् द्विजोत्तम |
लग्नहोराविलग्नाभ्यां तृतीयं परिचिन्तयेत् ||३५||

चरराशौ स्थितौ द्वौ चित् तदा दीर्घमुदाहृतम् |
एकः स्थिरेऽपरो द्वन्द्वे दीर्घमायुस्तथापि हि ||३६||

एकश्चरे स्थिरेऽन्यश्चेत् तदामध्यमुदाहृतम् |
द्वौ वा द्वन्द्वे स्थितौ विप्र मध्यमायुस्तथापि च ||३७||

एकश्चरेऽपरो द्वन्द्वे द्वौ वा स्थिरगतौ तदा |
जातकस्य तदाऽल्पायुर्ज्ञेयमेवं द्विजोत्तम ||३८||

योगत्रयेण योगाभ्यां सिद्धं यद् ग्राह्यमेव तत् |
योगत्रयविसंवादे लग्नहोराविलग्नतः ||३९||

लग्ने वा सप्तमे चन्द्रे ग्राह्यं मन्देन्दुतस्तदा |
ह्रासो वृद्धिश्च कक्ष्याया विचिन्त्या सर्वदा बुधैः ||४०||

दीर्घे योगत्रयेणैवं नखचन्द्रसमाब्दकाः |
योगद्वयेन वस्वाशा योगैकेन रसांककाः ||४१||

मध्ये योगत्रयेणैवं खाष्टतुल्याब्दकाः स्मृताः |
द्व्यगा योगद्वयेनाऽत्रयोगैकेनाब्धिषण्मिताः ||४२||

अल्पे योगत्रयेणाऽत्रद्वात्रिंशन्मितवत्सराः |
योगद्वयेन षट्त्रिंशात् योगैकेन च खाब्धयः ||४३||

एवं दीर्घसमाल्पेषु खाब्धयो रसवह्नयः |
खण्डा दन्तमितास्तेभ्यः स्फुटमायुः प्रसाधयेत् ||४४||

पूर्ण राश्यादिगे चान्ते हानिर्मध्येऽनुपाततः |
योगकारकखेटांशयोगस्तत्संख्यया हृतः ||४५||

लब्धांशास्तु यथाप्राप्तखण्डघ्नास्त्रिंशतोद्धृताः |
लब्धवर्षादिभिर्हीनं प्राप्तायुः प्रस्फुटं भवेत् ||४६||

योगहेतौ शनौ कक्ष्याह्रासोऽन्यैर्वृद्धिरुच्यते |
न स्वर्क्षतुङ्गगे नो वा पापमात्रयुतेक्षिते ||४७||

लग्नसप्तमगे जीवे शुभमात्रयुतेक्षिते |
कथितस्यायुषो विप्र कक्ष्यावृद्धिः प्रजायते ||४८||

अनायुश्चेद् भवेदल्पमल्पान्मध्यं प्रजायते |
मध्यमाज्जायते दीर्घं दीर्घायुश्चेत्ततोऽधिकम् ||४९||

योगहेतौ गुरवेवं कक्ष्यावृद्धेश्च लक्षणम् |
एतस्माद् वैपरीत्येन कक्ष्याह्रासः शनौ भवेत् ||५०||

आयुषो बहुधा भेदाः कथिता भवताऽधुना |
कतिधा सा कदाऽनायुरमितायुः कदा भवेत् ||५१||

बालारिष्टं योगारिष्टमल्पं मध्यञ्च दीर्घकम् |
दिव्यं चैवाऽमितं चैवं सप्तधायुः प्रकीर्तितम् ||५२||

बालारिष्टे समा अष्टौ योगारिष्टे च विंशतिः |
द्वात्रिंशद् वत्ररा अल्पे चतुष्षष्टिस्तु मध्यमे ||५३||

विंशाधिकश्तं दीर्घे दिव्ये वर्षसहस्रकम् |
तदूर्ध्वममितं पुण्यैरमितैराप्यते जनैः ||५४||

चन्द्रेज्यौ च कुलीरांगे ज्न्! असिअतु केन्द्रसंस्थितौ |
अन्ये त्र्यायारिगाः खेटा अमितायुस्तदा भवेत् ||५५||

सौम्याः केन्द्रत्रिकोणस्थाः पापास्त्र्यायारिगास्तथा |
शुभराशौ स्थिते रन्ध्रे दिव्यमायुस्तदा भवेत् ||५६||

गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके |
त्रिकोणे कर्कटे लग्ने युगान्तायुस्तदा द्विज ||५७||

देवलोकांशके मन्दे कुजे पारावतांशके |
गुरौ सिंहासनांशेऽङ्गे जातो मुनिसमो भवेत् ||५८||

सुयोगैर्वर्ध्यते ह्यायुः कुयोगैर्हीयते तथा |
अतो योगानहं वक्ष्ये पूर्णमध्याल्पकारकान् ||५९||

केन्द्रे शुभग्रहैर्युक्ते लग्नेशे च शुभान्विते |
सन्दृष्टे गुरुणा वाऽपि पूर्णमायुयुस्तदा भवेत् ||६०||

केन्द्रस्थिते विलग्नेशे गुरुशुक्रसमन्विते |
ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ||६१||

उच्चस्थितैस्त्रिभिः खेटैर्लग्नरन्ध्रशसंयुतैः |
अष्टमे पापहीने च पूर्णमायुर्विनिर्दिशेत् ||६२||

अष्टमस्थैस्त्रिभि खेटैः स्वोच्चमित्रस्ववर्गगैः |
लग्नेशे बलसंयुक्ते दीर्घमायुस्तदा भवेत् ||६३||

स्वभोच्चस्थेन केनापि नभौगेन समन्वितः |
अष्टमेशः शनिर्वापि दीर्घमायुर्विनिर्दिशेत् ||६४||

त्रिषडायगतैः पापैः शुभैः केन्द्रत्रिकोणगैः |
लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत् ||६५||

षट्सप्तरन्ध्रभवेषु शुभखेटयुतेषु च |
त्रिभवेषु च पापेषु पूर्णमायुर्विनिर्दिशेत् ||६६||

शत्रुव्ययगताः पापा लग्नेशो यदि केन्द्रगः |
रविमित्रं च रन्ध्रेशः पूर्णमायुस्तथापि हि ||६७||

आयुः स्थानस्थिताः पापाः कर्मेशः स्वोच्चगो यदा |
तथापि दीर्घमायु स्यात् विज्ञेयं द्विजसत्तम ||६८||

द्विस्वभावगृहे लग्ने लग्नेशे केन्द्रसंस्थिते |
स्वोच्चराशित्रिकोणे वा दीर्घमायुर्विनिर्दिशेत् ||६९||

द्विस्वभावगृहे लग्ने लग्नेशाद् बलसंयुतात् |
द्वौ पापौ यदि केन्द्रस्थौ दीर्घमायुस्तदा भवेत् ||७०||

लग्नाष्टमेशयोर्मध्ये यः खेटः प्रबलो भवेत् |
तस्मिन् केन्द्रगते दीर्घ मध्यं पणफरस्थिते ||७१||

आपोक्लिमे स्थिते स्वल्पमायुर्भवति निश्चितम् |
लग्नेशे च रवेर्मित्रे दीर्घंमायुः समे समम् ||७२||

शत्रौ स्वल्पं वदेदित्थमष्टमेशादपि स्मृतम् |
मित्रमध्याऽरिभावस्थे तस्मिन्नेवं फलं वदेत् ||७३||

सहजाधीशभूपुत्रौ द्वौ रन्ध्रेशशनैश्चरौ |
अस्तौ वा पापदृग्युक्तौ स्वल्पमायुः प्रयच्छतः ||७४||

षष्ठेऽष्टमे व्यये वाऽपि लग्नेशे पापसंयुते |
स्व पायुरनपत्यो वा शुभदृग्योगवर्जिते ||७५||

चतुष्ट्यगते पापे शुभदृष्टिविवर्जिते |
बलहीने विग्लनेशे स्वल्पमायुर्विनिर्दिशेत् ||७६||

व्ययार्थौ पापसंयुक्तौ शुभदृग्योगवर्जितौ |
स्वल्पमायुस्तदा ज्ञेयं निर्विशंकं द्विजोत्तम ||७७||

लग्नरन्ध्रेशयोरेवं दुःस्थयोर्बलहीनयोः |
स्वल्पमायुर्बुधैर्ज्ञेयं मिश्रयोगाच्च मध्यमम् ||७८||

-