बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४२ (दारिद्रय्योगाध्यायः)
दिखावट
(अध्यायः ४२ (दारिद्रय्योगाध्यायः) इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ४१ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ४३ → |
अथ दारिद्रय्योगाध्यायः ||४२|| बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने | दरिद्रजन्मदान् योगान् कृपया कथय प्रभो ||१|| लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते | मारकेशयुते दृष्टे निर्धनो जायते नरः ||२|| लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते | मारकेशेन युग्दृष्टे धनहीनः प्रजायते ||३|| लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते | मारकेशयुते दृष्टे जातो वै निर्धनो भवेत् ||४|| षष्ठाष्टमव्ययगते लग्नपे पापसंयुते | धनेशे रिपुभे नीचे राजवंश्योऽपि निर्धनः ||५|| त्रिकेशेन समायुक्ते पापदृष्टे विलग्नपे | शनियुक्तेऽधवा सौम्यैरदृष्टे निर्धनो नरः ||६|| मन्त्रेशो धर्मनाथश्च क्रमात् षष्ठव्ययस्थितौ | दृष्टौ चेन्मारकेशेन निर्धनो जायते नरः ||७|| पापग्रहे लग्नगते राज्यधर्माधिपौ विना | मारकेशयुते दृष्टे जातः स्यन्निर्धनो भवेत् ||८|| त्रिकेशा यत्र भावस्था तद्भावेशास्त्रिकस्थिताः | पापदृष्टयुत बालो दुःखाक्रान्तश्च निर्धनः ||९|| चन्द्राक्रान्तनवंशेशो मारकेशयुतो यदि | मारकस्थानगो वाऽपि जातोऽत्र निर्धनो नरः ||१०|| लग्नेशलग्नभागेशौ रिश्फरन्ध्रारिगौ यदि | मारकेशयुतौ दृष्टौ जातोऽसौ निर्धनो नरः ||११|| शुभस्थानगताः पापाः पापस्थानगताः शुभाः | निर्धनो जायते बालो भोजनेन प्रपीडितः ||१२|| कोणेशदृष्टिहीना ये त्रिकेशैः संयुता ग्रहाः | ते सर्वे स्वदशाकाले धनहानिकराः स्मृताः ||१३|| कारकाद् वा विलग्नाद् वा रन्ध्रेरिष्फे द्विजोत्तम | कारकाङ्गपयोदृष्ट्या धनहीनः प्रजायते ||१४|| कारकेशो व्ययं स्वस्मात् लग्नेशो लग्नतो व्ययम् | वीक्षते चेत् तदा बालो व्ययशीलो भवेद्ध्रुवम् ||१५|| अथ दारिद्र्ययोगांस्त् कथयामि सभङ्गकान् | धनसंस्थौ तु भौमार्की कथितौ धननाशकौ ||१६|| बुधेक्षितौ महावित्तं कुरुतो नात्र संशयः | निःस्वतां कुरुते तत्र रविर्नित्यं यमेक्षितः ||१७|| महाधनयुतं ख्यातं शन्यदृष्टः करोत्यसौ | शनिश्चापि रवेर्दृष्ट्या फलमेवं प्रयच्छति ||१८|| -