बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४३ (अथायुर्दायाध्यायः)
दिखावट
(अध्यायः ४३ (अथायुर्दायाध्यायः) इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ४२ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ४४ → |
अथायुर्दायाध्यायः ||४३|| धनाध्नाख्ययोगौ च कथितौ भवता मुने | नराणामायुषो ज्ञानं कथयस्व महामते ||१|| साधु पृष्टं त्वया विप्र जनानां च हितेच्छया | कथयाम्यायुषो ज्ञानं दुर्ज्ञेयं यत् सुरैरपि ||२|| आयुर्ज्ञानविभेदास्तु बहुभिर्बहुधोदिताः | तेषां सारांशमादाय प्र्वदामि तवाऽग्रतः ||३|| स्वोच्चनीचादिसंस्थित्या ग्रहा आयुःप्रदायकाः | स्वस्ववीर्यवशैर्नैवं नक्षत्राण् च राशयः ||४|| पिण्डायुः प्रथमं तत्र ग्रहस्थितिवशादहम् | कथयामि द्विजश्रेष्ठ श्रणुष्वेकाग्रमानसः ||५|| क्रमात् सूर्यादिखेटेषु स्वस्वोच्चस्थानगेष्विह | नन्देन्दवस्तच्वमितास्तिथयोऽर्काः शरेन्दवः ||६|| प्रकृयतो विंशतिश्चाब्दा आयुःपिण्डाः प्रकीर्तिताः | नीचगेष्वेतदर्धञ्च ज्ञेयं मध्येऽनुपाततः ||७|| स्वच्चशुद्धौ ग्रहः शोध्यः षड्भादूनो भमण्ड्लात् | स्वपिण्डगुणितो भक्तो भादिमानेन वत्सराः ||८|| अस्तगस्तु हरेत्स्वार्ध विना शुक्रशनैश्चरौ | वक्रचारं विना त्र्यांशां शज्ञुराशौ हरेद् ग्रहः ||९|| सर्वार्धत्रिचतुःपञ्चषष्ठभागं क्रमाद् ग्रहः | व्ययाद्वामं स्थितः पापो हरेत् सौम्यश्च तद्दलम् ||१०|| एकभे तु बहुष्वेको हरेत्स्वांशां बली ग्रहः | नाऽत्र क्षीणस्य चन्द्रस्य पापत्वं मुनिभिः स्मृतम् ||११|| लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा | भाज्या मण्डललिप्ताभिर्लब्धं वर्षादि शोधयेत् ||१२|| स्वायुषो लग्नगे सूर्ये मङ्गले च शनैश्चरे | तदर्धं शुभसंदृष्टे पातयेद् द्विजसत्तम ||१३|| लग्नराशिसमाश्चाब्दा भागाद्यैरनुपाततः | मासादिका इतीच्छन्ति लग्नायुः केऽपि कोविदाः ||१४|| लग्नादायोंऽशतुल्यः स्यादन्तरे चाऽनुपाततः | तत्पतौ बलसंयुक्ते राशितुल्यं च भाघिपे ||१५|| अथ विप्र निसर्गायुः खेटानां कथयाम्यहम् | चन्द्रारज्ञसितेज्यार्कशनीनां क्रमशोब्दका ||१६|| एकद्वयंकनखा धृत्यः कृतिः पंचाशदेव हि | जन्मकालात् क्रमाज् ज्ञेया दशाश्चैता निसर्गजाः ||१७|| अथां्शायु सलग्नानां खेटानां कथयाम्यहम् | नवांश्राशितुल्यानि खेटो वर्षाणि यच्छति ||१८|| भादिं खगं खगैः सूर्यैर्हत्वा तद्भगणादिकम् | कृत्वाऽर्क्रशेषितं ज्ञेयमब्दाद्यंशायुषः स्फुटम् ||१९|| पिण्डायुरिव तत्रापि हानिं कुर्याद् विचक्षणः | अत्राऽपरो विशेषोऽपि कैम्चिद् विज्ञैरुदाहृतः ||२०|| साधितायुः खगे स्वोच्चे स्वर्क्षे वा त्रिगुणं स्मृतम् | द्विगुणं स्वनवांशस्थे स्वद्रेष्काणे तथोत्तमे ||२१|| उभयत्र गते खेटे कार्यं त्रिगुणमेव हि | हानिद्वयेऽर्धहानिः स्यादित्यायुः प्रस्फुटं नृणाम् ||२२|| एवं संसाध्य चान्येषां हन्यात् स्वस्वपरायुषा | नृणां परायुषा भक्त्वा तेषामायुः स्फुटं भवेत् ||२३|| अथायुः परमं वक्ष्ये नानाजातिसमुद्भवम् | अनन्तसंख्यं देवानामृषीणां च द्विजोत्तम ||२४|| गृध्रोलूक्शुकध्वांक्षसर्पाणां च सहस्रकम् | श्येनवानरभल्लुकमण्डूकानां शतत्रयम् ||२५|| पंचशदुत्तरशतं राक्षसानां प्रकीर्तितम् | नगणां कुञ्जराणां च विंशोत्तरशतं तथा ||२६|| द्वात्रिंशद् घोटकानाञ्च पंचविंशत् खरोष्ट्रयोः | वृषाणां महिषाणां च चतुर्विंशतिवत्सरम् ||२७|| विंशत्यायुर्मयूराणां छागादीनां च षोडश | हंसानां पंचनव च पिकानां द्वादशाब्दकाः ||२८|| शुनां पारावतानां च कुक्कुटानां द्वादशाब्दकाः | बुद्बुदाद्यण्डजानां च परायुः सप्तवत्सराः ||२९|| यदेतदधुना प्रोक्तं त्रिधायुद्विजसत्तम | तेषु किञ्च कदा ग्राह्यमिति ते कथयाम्यहम् ||३०|| विलग्नपे बलोपेते शुभदृष्टेंश्शसम्भवभ् | रवौ पिंडोद्भवं ग्राह्यं चन्द्रे नैसर्गिकं तथा ||३१|| बलसाम्ये द्वयोर्योगदलमायुः प्रकीर्तितम् | त्रयाणां त्रियुतेस्त्र्यंशसमं ज्ञेयं द्विजोत्तम ||३२|| अथाऽन्यदपि वक्ष्यामि श्र्रिणु त्वं द्विजसत्तम | कैश्चिल्लग्नाष्टमेशाभ्यां मन्देन्दुभ्यां तथैव च ||३३|| लग्नहोराविलग्नाभ्यां स्फुटमायुः प्रकीर्तितम् | आदौ लग्नाष्टमेशाभ्यां योगमेकं विचिन्तयेत् ||३४|| द्वितीयं मन्दचन्द्राभ्यां योगं पश्येद् द्विजोत्तम | लग्नहोराविलग्नाभ्यां तृतीयं परिचिन्तयेत् ||३५|| चरराशौ स्थितौ द्वौ चित् तदा दीर्घमुदाहृतम् | एकः स्थिरेऽपरो द्वन्द्वे दीर्घमायुस्तथापि हि ||३६|| एकश्चरे स्थिरेऽन्यश्चेत् तदामध्यमुदाहृतम् | द्वौ वा द्वन्द्वे स्थितौ विप्र मध्यमायुस्तथापि च ||३७|| एकश्चरेऽपरो द्वन्द्वे द्वौ वा स्थिरगतौ तदा | जातकस्य तदाऽल्पायुर्ज्ञेयमेवं द्विजोत्तम ||३८|| योगत्रयेण योगाभ्यां सिद्धं यद् ग्राह्यमेव तत् | योगत्रयविसंवादे लग्नहोराविलग्नतः ||३९|| लग्ने वा सप्तमे चन्द्रे ग्राह्यं मन्देन्दुतस्तदा | ह्रासो वृद्धिश्च कक्ष्याया विचिन्त्या सर्वदा बुधैः ||४०|| दीर्घे योगत्रयेणैवं नखचन्द्रसमाब्दकाः | योगद्वयेन वस्वाशा योगैकेन रसांककाः ||४१|| मध्ये योगत्रयेणैवं खाष्टतुल्याब्दकाः स्मृताः | द्व्यगा योगद्वयेनाऽत्रयोगैकेनाब्धिषण्मिताः ||४२|| अल्पे योगत्रयेणाऽत्रद्वात्रिंशन्मितवत्सराः | योगद्वयेन षट्त्रिंशात् योगैकेन च खाब्धयः ||४३|| एवं दीर्घसमाल्पेषु खाब्धयो रसवह्नयः | खण्डा दन्तमितास्तेभ्यः स्फुटमायुः प्रसाधयेत् ||४४|| पूर्ण राश्यादिगे चान्ते हानिर्मध्येऽनुपाततः | योगकारकखेटांशयोगस्तत्संख्यया हृतः ||४५|| लब्धांशास्तु यथाप्राप्तखण्डघ्नास्त्रिंशतोद्धृताः | लब्धवर्षादिभिर्हीनं प्राप्तायुः प्रस्फुटं भवेत् ||४६|| योगहेतौ शनौ कक्ष्याह्रासोऽन्यैर्वृद्धिरुच्यते | न स्वर्क्षतुङ्गगे नो वा पापमात्रयुतेक्षिते ||४७|| लग्नसप्तमगे जीवे शुभमात्रयुतेक्षिते | कथितस्यायुषो विप्र कक्ष्यावृद्धिः प्रजायते ||४८|| अनायुश्चेद् भवेदल्पमल्पान्मध्यं प्रजायते | मध्यमाज्जायते दीर्घं दीर्घायुश्चेत्ततोऽधिकम् ||४९|| योगहेतौ गुरवेवं कक्ष्यावृद्धेश्च लक्षणम् | एतस्माद् वैपरीत्येन कक्ष्याह्रासः शनौ भवेत् ||५०|| आयुषो बहुधा भेदाः कथिता भवताऽधुना | कतिधा सा कदाऽनायुरमितायुः कदा भवेत् ||५१|| बालारिष्टं योगारिष्टमल्पं मध्यञ्च दीर्घकम् | दिव्यं चैवाऽमितं चैवं सप्तधायुः प्रकीर्तितम् ||५२|| बालारिष्टे समा अष्टौ योगारिष्टे च विंशतिः | द्वात्रिंशद् वत्ररा अल्पे चतुष्षष्टिस्तु मध्यमे ||५३|| विंशाधिकश्तं दीर्घे दिव्ये वर्षसहस्रकम् | तदूर्ध्वममितं पुण्यैरमितैराप्यते जनैः ||५४|| चन्द्रेज्यौ च कुलीरांगे ज्न्! असिअतु केन्द्रसंस्थितौ | अन्ये त्र्यायारिगाः खेटा अमितायुस्तदा भवेत् ||५५|| सौम्याः केन्द्रत्रिकोणस्थाः पापास्त्र्यायारिगास्तथा | शुभराशौ स्थिते रन्ध्रे दिव्यमायुस्तदा भवेत् ||५६|| गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके | त्रिकोणे कर्कटे लग्ने युगान्तायुस्तदा द्विज ||५७|| देवलोकांशके मन्दे कुजे पारावतांशके | गुरौ सिंहासनांशेऽङ्गे जातो मुनिसमो भवेत् ||५८|| सुयोगैर्वर्ध्यते ह्यायुः कुयोगैर्हीयते तथा | अतो योगानहं वक्ष्ये पूर्णमध्याल्पकारकान् ||५९|| केन्द्रे शुभग्रहैर्युक्ते लग्नेशे च शुभान्विते | सन्दृष्टे गुरुणा वाऽपि पूर्णमायुयुस्तदा भवेत् ||६०|| केन्द्रस्थिते विलग्नेशे गुरुशुक्रसमन्विते | ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ||६१|| उच्चस्थितैस्त्रिभिः खेटैर्लग्नरन्ध्रशसंयुतैः | अष्टमे पापहीने च पूर्णमायुर्विनिर्दिशेत् ||६२|| अष्टमस्थैस्त्रिभि खेटैः स्वोच्चमित्रस्ववर्गगैः | लग्नेशे बलसंयुक्ते दीर्घमायुस्तदा भवेत् ||६३|| स्वभोच्चस्थेन केनापि नभौगेन समन्वितः | अष्टमेशः शनिर्वापि दीर्घमायुर्विनिर्दिशेत् ||६४|| त्रिषडायगतैः पापैः शुभैः केन्द्रत्रिकोणगैः | लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत् ||६५|| षट्सप्तरन्ध्रभवेषु शुभखेटयुतेषु च | त्रिभवेषु च पापेषु पूर्णमायुर्विनिर्दिशेत् ||६६|| शत्रुव्ययगताः पापा लग्नेशो यदि केन्द्रगः | रविमित्रं च रन्ध्रेशः पूर्णमायुस्तथापि हि ||६७|| आयुः स्थानस्थिताः पापाः कर्मेशः स्वोच्चगो यदा | तथापि दीर्घमायु स्यात् विज्ञेयं द्विजसत्तम ||६८|| द्विस्वभावगृहे लग्ने लग्नेशे केन्द्रसंस्थिते | स्वोच्चराशित्रिकोणे वा दीर्घमायुर्विनिर्दिशेत् ||६९|| द्विस्वभावगृहे लग्ने लग्नेशाद् बलसंयुतात् | द्वौ पापौ यदि केन्द्रस्थौ दीर्घमायुस्तदा भवेत् ||७०|| लग्नाष्टमेशयोर्मध्ये यः खेटः प्रबलो भवेत् | तस्मिन् केन्द्रगते दीर्घ मध्यं पणफरस्थिते ||७१|| आपोक्लिमे स्थिते स्वल्पमायुर्भवति निश्चितम् | लग्नेशे च रवेर्मित्रे दीर्घंमायुः समे समम् ||७२|| शत्रौ स्वल्पं वदेदित्थमष्टमेशादपि स्मृतम् | मित्रमध्याऽरिभावस्थे तस्मिन्नेवं फलं वदेत् ||७३|| सहजाधीशभूपुत्रौ द्वौ रन्ध्रेशशनैश्चरौ | अस्तौ वा पापदृग्युक्तौ स्वल्पमायुः प्रयच्छतः ||७४|| षष्ठेऽष्टमे व्यये वाऽपि लग्नेशे पापसंयुते | स्व पायुरनपत्यो वा शुभदृग्योगवर्जिते ||७५|| चतुष्ट्यगते पापे शुभदृष्टिविवर्जिते | बलहीने विग्लनेशे स्वल्पमायुर्विनिर्दिशेत् ||७६|| व्ययार्थौ पापसंयुक्तौ शुभदृग्योगवर्जितौ | स्वल्पमायुस्तदा ज्ञेयं निर्विशंकं द्विजोत्तम ||७७|| लग्नरन्ध्रेशयोरेवं दुःस्थयोर्बलहीनयोः | स्वल्पमायुर्बुधैर्ज्ञेयं मिश्रयोगाच्च मध्यमम् ||७८|| -