बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४१ (विशेषधनयोगाऽध्यायः)

विकिस्रोतः तः
← अध्यायः ४० ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ४२ →


 
 अथ विशेषधनयोगाऽध्यायः ||४१||

अथाऽतः संप्रवक्ष्यामि धनयोगं विशेषतः |
यस्मिन् योगे समुत्पन्नो निश्चितो धनवान् भवेत् ||१||

पण्चमे भृगुजक्षेत्रे तस्मिन् शुक्रेण संयुते |
लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः ||२||

पंचमे तु बुधक्षेत्रे तस्मिन् बुधयुतो सति |
चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः ||३||

पण्चमे च रविक्षेत्रे तस्मिन् रवियुते सति |
लाभे शनीन्दुजीवाढ्ये बहुद्रव्यस्य नायकः ||४||

पंचमे तु शनिक्षेत्रे तस्मिन् शनियुते सति |
लाभे रवीन्दुसंयुक्ते बहुद्रव्यस्य नायकः ||५||

पंचमे तु गुरुक्षेत्रे तस्मिन् गुरुयुते सति |
लाभे चन्द्रसुते जातो बहुद्रव्यस्य नायकः ||६||

पंचमे तु कुजक्षेत्रे तस्मिन् कुजयुते सति |
लाभस्थे भृगुपुत्रे तु बहुद्रव्यस्य नायकः ||७||

पंचमे तु शशिक्षेत्रे तस्मिन् शशियुते सति |
शनौ लाभस्थिते जातो बहुद्रव्यस्य नायकः ||८||

भानुक्षेत्रगते लग्ने तस्मिन् भानुयुते पुनः |
भौमेन गुरुणा युक्ते दृष्टे जातो युतो धनैः ||९||

चन्द्रक्षेत्रगते लग्ने तस्मिन् चन्द्रयुते सति |
बुधेन गुरुणा युक्ते दृष्टे जातो धनी भवेत् ||१०||

भौमक्षेत्रे गते लग्ने तस्मिन् भौमेन संयुते |
सौम्यशुक्रार्कजैर्युक्ते दृष्टे श्रीमान्नरो भवेत् ||११||

बुधक्षेत्रगते लग्ने तस्मिन् बुधयुते सति |
शनिजीवयुते दृष्टे जातो धनयुतो भवेत् ||१२||

गुरुक्षेत्रगते लग्ने तस्मिन् गुरुयुते सति |
बुधभौमयुते दृष्टे जायते धनवान्नरः ||१३||

भृगुक्षेत्रगते लग्ने तस्मिन् भृगुयुते सति |
शनिसौम्ययुते दृष्टे यो जातः स धनी भवेत् ||१४||

शनिक्षेत्रगते लग्ने तस्मिन् शनियुते सति |
भौमेन गुरुणा युक्ते दृष्टे जातो धनैर्युतः ||१५||

धनदौ धर्मधीनाथौ ये वा ताभ्यां युता ग्रहाः |
तेऽपि स्वस्वदशाकाले धनदा नाऽत्र संशयः ||१६||

ग्रहाणामुक्तयोगेषु क्रूरसौम्यविभागतः |
बलाबलविवेकेन फलमूह्यं विचक्षणैः ||१७||

केन्द्रेशः पारिजातस्थस्तदा दाता भवेन्नरः |
उत्तमे ह्युत्तमो दाता गोपुरे पुरुषत्वयुक् ||१८||

सिंहासने भवेन्मान्यः शूरः पारावतांशके |
सभाध्यक्षो देवलोके ब्रह्मलोके मुनिर्मत |
ऐरावतांशके तृष्टो दिग्योगो नैव जायते ||१९||

पारिजाते सुताधीशे विद्या चैव कुलोचिता |
उत्तमे चोत्तमा ज्ञेया गोपुरे भुवनांकिता ||२०||

सिंहासने तथा वाच्या साचिव्येन समन्विता |
पारावते च विज्ञेया ब्रह्मविद्या द्विजोत्तम ||२१||

सुतेशे देवलोकस्थे कर्मयोगश्च जायते |
उपासना ब्रह्मलोके भक्तिस्त्वरावतांशके ||२२||

धर्मेशे पारिजातस्थे तीर्थकृत्त्वत्र जन्मनि |
पूर्वजन्मन्यपि ज्ञेयस्तीर्थकृच्चोत्तमांशके ||२३||

गौपुरे मखकर्ता च परे चैवाऽत्र जन्मनि |
सिंहासने भवेद्वीरः सत्यवादी जितेन्द्रियः ||२४||

सर्वधर्मान् परित्यज्य ब्रह्मैकपदमाश्रितः |
पारवते च परमो हंअश्चैवात्र जन्मनि ||२५||

लगुडी वा त्रिदण्डी स्याद्देवलोके न संशयः |
ब्रह्मलोके शक्रतदं याति कृत्वाऽश्वमेधकम् ||२६||

ऐरावते तु धर्मात्मा स्वयं धर्मो भविष्यति |
श्रीरामः कुन्तिपुत्राद्यो यथा जातो द्विजोत्तम ||२७||

विष्णुस्थानं च केन्द्रं स्याल्लक्ष्मीस्थानं त्रिकोणकम् |
तदीशयोश्च सम्बन्धाद्राजयोगः पुरोदितः ||२८||

पारिजाते स्थितौ तौ चेन्नृपो लोकानुरक्षकः |
उत्तमे चोत्तमो भूपो गजवाजिरथादिमान् ||२९||

गोपुरे नृपशार्दूलः पूजितांध्रिर्नृपैर्भवेत् |
सिंहासने चक्रवर्ती सर्वभूमिप्रपालकः ||३०||

अस्मिन् योगे हरिश्चन्द्रो मनुश्चैवोत्तमस्तथा |
बलिर्वैश्वानरो जातस्तथान्ये चक्रवर्तिनः ||३१||

वर्तमानयुगे जातस्तथा राजा युधिष्ठिरः |
भविता शालिवाहाद्यस्तथैव द्विजसत्तम ||३२||

पारावतांशकेऽप्येवं जाता मन्वादयस्तथा |
विष्णोः सर्वेऽवताराश्च जायन्ते देवलोकके ||३३||

ब्रह्मलोकके तु ब्रह्माद्या जायन्ते विश्वपालकाः |
ऐरावतांशके जातः पूर्व स्वायंभुवो मनुः ||३४||

-