बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४१ (विशेषधनयोगाऽध्यायः)
दिखावट
← अध्यायः ४० | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ४२ → |
अथ विशेषधनयोगाऽध्यायः ||४१|| अथाऽतः संप्रवक्ष्यामि धनयोगं विशेषतः | यस्मिन् योगे समुत्पन्नो निश्चितो धनवान् भवेत् ||१|| पण्चमे भृगुजक्षेत्रे तस्मिन् शुक्रेण संयुते | लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः ||२|| पंचमे तु बुधक्षेत्रे तस्मिन् बुधयुतो सति | चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः ||३|| पण्चमे च रविक्षेत्रे तस्मिन् रवियुते सति | लाभे शनीन्दुजीवाढ्ये बहुद्रव्यस्य नायकः ||४|| पंचमे तु शनिक्षेत्रे तस्मिन् शनियुते सति | लाभे रवीन्दुसंयुक्ते बहुद्रव्यस्य नायकः ||५|| पंचमे तु गुरुक्षेत्रे तस्मिन् गुरुयुते सति | लाभे चन्द्रसुते जातो बहुद्रव्यस्य नायकः ||६|| पंचमे तु कुजक्षेत्रे तस्मिन् कुजयुते सति | लाभस्थे भृगुपुत्रे तु बहुद्रव्यस्य नायकः ||७|| पंचमे तु शशिक्षेत्रे तस्मिन् शशियुते सति | शनौ लाभस्थिते जातो बहुद्रव्यस्य नायकः ||८|| भानुक्षेत्रगते लग्ने तस्मिन् भानुयुते पुनः | भौमेन गुरुणा युक्ते दृष्टे जातो युतो धनैः ||९|| चन्द्रक्षेत्रगते लग्ने तस्मिन् चन्द्रयुते सति | बुधेन गुरुणा युक्ते दृष्टे जातो धनी भवेत् ||१०|| भौमक्षेत्रे गते लग्ने तस्मिन् भौमेन संयुते | सौम्यशुक्रार्कजैर्युक्ते दृष्टे श्रीमान्नरो भवेत् ||११|| बुधक्षेत्रगते लग्ने तस्मिन् बुधयुते सति | शनिजीवयुते दृष्टे जातो धनयुतो भवेत् ||१२|| गुरुक्षेत्रगते लग्ने तस्मिन् गुरुयुते सति | बुधभौमयुते दृष्टे जायते धनवान्नरः ||१३|| भृगुक्षेत्रगते लग्ने तस्मिन् भृगुयुते सति | शनिसौम्ययुते दृष्टे यो जातः स धनी भवेत् ||१४|| शनिक्षेत्रगते लग्ने तस्मिन् शनियुते सति | भौमेन गुरुणा युक्ते दृष्टे जातो धनैर्युतः ||१५|| धनदौ धर्मधीनाथौ ये वा ताभ्यां युता ग्रहाः | तेऽपि स्वस्वदशाकाले धनदा नाऽत्र संशयः ||१६|| ग्रहाणामुक्तयोगेषु क्रूरसौम्यविभागतः | बलाबलविवेकेन फलमूह्यं विचक्षणैः ||१७|| केन्द्रेशः पारिजातस्थस्तदा दाता भवेन्नरः | उत्तमे ह्युत्तमो दाता गोपुरे पुरुषत्वयुक् ||१८|| सिंहासने भवेन्मान्यः शूरः पारावतांशके | सभाध्यक्षो देवलोके ब्रह्मलोके मुनिर्मत | ऐरावतांशके तृष्टो दिग्योगो नैव जायते ||१९|| पारिजाते सुताधीशे विद्या चैव कुलोचिता | उत्तमे चोत्तमा ज्ञेया गोपुरे भुवनांकिता ||२०|| सिंहासने तथा वाच्या साचिव्येन समन्विता | पारावते च विज्ञेया ब्रह्मविद्या द्विजोत्तम ||२१|| सुतेशे देवलोकस्थे कर्मयोगश्च जायते | उपासना ब्रह्मलोके भक्तिस्त्वरावतांशके ||२२|| धर्मेशे पारिजातस्थे तीर्थकृत्त्वत्र जन्मनि | पूर्वजन्मन्यपि ज्ञेयस्तीर्थकृच्चोत्तमांशके ||२३|| गौपुरे मखकर्ता च परे चैवाऽत्र जन्मनि | सिंहासने भवेद्वीरः सत्यवादी जितेन्द्रियः ||२४|| सर्वधर्मान् परित्यज्य ब्रह्मैकपदमाश्रितः | पारवते च परमो हंअश्चैवात्र जन्मनि ||२५|| लगुडी वा त्रिदण्डी स्याद्देवलोके न संशयः | ब्रह्मलोके शक्रतदं याति कृत्वाऽश्वमेधकम् ||२६|| ऐरावते तु धर्मात्मा स्वयं धर्मो भविष्यति | श्रीरामः कुन्तिपुत्राद्यो यथा जातो द्विजोत्तम ||२७|| विष्णुस्थानं च केन्द्रं स्याल्लक्ष्मीस्थानं त्रिकोणकम् | तदीशयोश्च सम्बन्धाद्राजयोगः पुरोदितः ||२८|| पारिजाते स्थितौ तौ चेन्नृपो लोकानुरक्षकः | उत्तमे चोत्तमो भूपो गजवाजिरथादिमान् ||२९|| गोपुरे नृपशार्दूलः पूजितांध्रिर्नृपैर्भवेत् | सिंहासने चक्रवर्ती सर्वभूमिप्रपालकः ||३०|| अस्मिन् योगे हरिश्चन्द्रो मनुश्चैवोत्तमस्तथा | बलिर्वैश्वानरो जातस्तथान्ये चक्रवर्तिनः ||३१|| वर्तमानयुगे जातस्तथा राजा युधिष्ठिरः | भविता शालिवाहाद्यस्तथैव द्विजसत्तम ||३२|| पारावतांशकेऽप्येवं जाता मन्वादयस्तथा | विष्णोः सर्वेऽवताराश्च जायन्ते देवलोकके ||३३|| ब्रह्मलोकके तु ब्रह्माद्या जायन्ते विश्वपालकाः | ऐरावतांशके जातः पूर्व स्वायंभुवो मनुः ||३४|| -