बुद्धचरितम्/दशमः सर्गः
← नवमः सर्गः | बुद्धचरितम् दशमः सर्गः अश्घोषविरचितम् |
एकादशः सर्गः → |
स राजवत्सः पृथुपीनवक्षास् तौ हव्यमन्त्राधिकृतौ विहाय
उत्तीर्य गङ्गां प्रचलत्तरंगां श्रीमद्गृहं राजगृहं जगाम ।। १०.१ ।।
शैलैः सुगुप्तं च विभूषितं च धृतं च पूतं च शिवैस्तपोदैः
पञ्चाचलाङ्कं नगरं प्रपेदे शान्तः स्वयंभूरिव नाकपृष्ठं ।। १०.२ ।।
गाम्भीर्यं ओजश्च निशाम्य तस्य वपुश्च दीप्तं पुरुषानतीत्य
विसिस्मिये तत्र जनस्तदानीं स्थानुव्रतस्येव वृषध्वजस्य ।। १०.३ ।।
तं प्रेक्ष्य योऽन्येन ययौ स तस्थौ (यस्तत्र यश्चात्र )तस्थौ पथि सोऽन्वगच्छथ्
द्रुतं ययौ (यः स जगाम धीरं सदयं सधीरं यः कश्चिदास्ते स्म स चोत्पपात ।। १०.४ ।।
कश्चित्तं आनर्च जनः कराभ्यां सत्कृत्य कश्चिच्छिरसा ववन्दे
स्निग्धेन कश्चिद्वचसाभ्यनन्दन् (नैनं नैवं )जगामाप्रतिपूज्य कश्चिथ् ।। १०.५ ।।
तं जिह्रियुः प्रेक्ष्य विचित्रवेषाः प्रकीर्णवाचः पथि मौनं ईयुः
धर्मस्य साक्षादिव (संनिकर्षे संनिकर्षान् न कश्चिदन्यायमतिर्बभूव ।। १०.६ ।।
अन्यक्रियाणां अपि राजमार्गे स्त्रीणां नृणां वा बहुमानपूर्वं
(तं देवकल्पं तदेव कल्पं )नरदेव(सूनुं सूत्रं निरीक्षमाणा न (ततर्प तु तस्य )दृष्टिः ।। १०.७ ।।
भ्रुवौ ललाटं मुखं (ईक्षणे ईक्षणं )वा वपुः करौ वा चरणौ गतिं वा
यदेव यस्तस्य ददर्श तत्र तदेव (तस्याथ बबन्ध तस्यानुबबन्ध )चक्षुः ।। १०.८ ।।
दृष्ट्वा (च सोर्णशुभोर्ण)भ्रुवं आयताक्षं ज्वलच्छरीरं शुभजालहस्तं
तं भिक्षु(वेषं वेशं )क्षितिपालनार्हं संचुक्षुभे राजगृहस्य लक्ष्मीः ।। १०.९ ।।
श्रेण्योऽथ भर्ता मगधाजिरस्य (बाह्याद्वाह्याद्)विमानाद्विपुलं जनौघं
ददर्श पप्रच्छ च तस्य हेतुं ततस्तं अस्मै पुरुषः शशंस ।। १०.१० ।।
ज्ञानं परं वा पृथिवीश्रियं वा विप्रैर्य उक्तोऽधिगमिष्यतीति
स (एष एव )शाक्याधिपतेस्तनूजो निरीक्ष्यते प्रव्रजितो जनेन ।। १०.११ ।।
ततः श्रुतार्थो (मनसागतास्थो मनसा गतार्थो राजा बभाषे पुरुषं तं एव
विज्ञायतां क्व प्रतिगच्छतीति तथेत्यथैनं पुरुषोऽन्वगच्छथ् ।। १०.१२ ।।
अलोलचक्षुर्युगमात्रदर्शी निवृत्तवाग्यन्त्रितमन्दगामी
चचार भिक्षां स तु भिक्षुवर्यो निधाय गात्राणि चलं च चेतः ।। १०.१३ ।।
आदाय भैक्षं च यथोपपन्नं ययौ गिरेः प्रस्रवणं विविक्तं
न्यायेन तत्राभ्यवहृत्य चैनन् महीधरं पाण्डवं आरुरोह ।। १०.१४ ।।
तस्मिन्नवौ लोध्रवनोपगूढे मयूरनादप्रतिपूर्णकुञ्जे
काषायवासाः स बभौ नृसूर्यो यथोदयस्योपरि बालसूर्यः ।। १०.१५ ।।
(तत्रैनं तत्रैवं )आलोक्य स राजभृत्यः श्रेण्याय राज्ञे कथयां चकार
संश्रुत्य राजा स च बाहुमान्याथ् तत्र प्रतस्थे निभृतानुयात्रः ।। १०.१६ ।।
स पाण्डवं पाण्डवतुल्यवीर्यः शैलोत्तमं शैलसमानवर्ष्मा
मौलीधरः सिंहगतिर्नृसिंहश् चलत्सटः सिंह इवारुरोह ।। १०.१७ ।।
(ततः स्म चलस्य )तस्योपरि शृङ्गभूतं शान्तेन्द्रियं पश्यति बोधिसत्त्वं
पर्यङ्कं आस्थाय विरोचमानं शशाङ्कं उद्यन्तं इवाभ्र(कुञ्जात्कूटात्) ।। १०.१८ ।।
तं रूपलक्ष्म्या च शमेन चैव धर्मस्य निर्माणं इवोपविष्टं
सविस्मयः प्रश्रयवान्नरेन्द्रः स्वयंभुवं शक्र इवोपतस्थे ।। १०.१९ ।।
तं न्यायतो (न्यायविदां वरिष्ठं न्यायवतां वरिष्ठः समेत्य पप्रच्छ च धातुसाम्यं
स चाप्यवोचत्सदृशेन साम्ना नृपं मनःस्वास्थ्यं अनामयं च ।। १०.२० ।।
ततः शुचौ वारणकर्णनीले शिलातले (संनिषसाद असौ निषसाद )राजा
(उपोपविश्यानुमतश्नृपोपविश्यानुमतश्)च तस्य भावं विजिज्ञासुरिदं बभाषे ।। १०.२१ ।।
प्रीतिः परा मे भवतः कुलेन क्रमागता चैव परीक्षिता च
जाता विवक्षा (स्ववयो सुत या )यतो मे तस्मादिदं स्नेहवचो निबोध ।। १०.२२ ।।
आदित्यपूर्वं विपुलं कुलं ते नवं वयो दीप्तं इदं वपुश्च
कस्मादियं ते मतिरक्रमेण भैक्षाकए एवाभिरता न राज्ये ।। १०.२३ ।।
गात्रं हि ते लोहितचन्दनार्हं काषायसंश्लेषं अनर्हं एतथ्
हस्तः प्रजापालनयोग्य एष भोक्तुं न चार्हः परदत्तं अन्नं ।। १०.२४ ।।
तत्स्ॐय राज्यं यदि पैतृकं त्वं स्नेहात्पितुर्नेच्छसि विक्रमेण
न च (क्रमं क्षमं )मर्षयितुं मतिस्ते (भुङ्क्ष्वार्धं भुक्त्वार्धं )अस्मद्विषयस्य शीघ्रं ।। १०.२५ ।।
एवं हि न स्यात्स्वजनावमर्दः कालक्रमेणापि शमश्रया श्रीः
तस्मात्कुरुष्व प्रणयं मयि त्वं सद्भिः सहीया हि सतां समृद्धिः ।। १०.२६ ।।
अथ त्विदानीं कुलगर्वितत्वाद् अस्मासु विश्रम्भगुणो न तेऽस्ति
(व्यूढान्यनीकानि व्यूहान्यनेकानि )विगाह्य (बाणैर्वाणैर् मया सहायेन (परान्पराञ्)जिगीष ।। १०.२७ ।।
तद्बुद्धिं अत्रान्यतरां वृणीष्व धर्मार्थकामान्विधिवद्भजस्व
व्यत्यस्य (रागादिह रागादि ह )हि त्रिवर्गं प्रेत्येह च (भ्रंशं विभ्रंशं )अवाप्नुवन्ति ।। १०.२८ ।।
यो ह्यर्थधर्मौ परिपीड्य कामः स्याद्धर्म(कामौ काम्ये )परिभूय चार्थः
कामार्थयोश्चोपरमेण धर्मस् त्याज्यः स कृत्स्नो यदि (काङ्क्षितोऽर्थः काङ्क्षितार्थः ) ।। १०.२९ ।।
तस्मात्त्रिवर्गस्य निषेवणेन त्वं रूपं एतत्सफलं कुरुष्व
धर्मार्थकामाधिगमं ह्यनूनं नृणां अनूनं पुरुषार्थं आहुः ।। १०.३० ।।
तन्निष्फलौ नार्हसि कर्तुं एतौ पीनौ भुजौ चापविकर्षणार्हौ
मान्धातृवज्जेतुं इमौ हि योग्यौ (लोकानपि त्रीनिह लोकानि हि त्रीणि हि )किं पुनर्गां ।। १०.३१ ।।
स्नेहेन खल्वेतदहं ब्रवीमि नैश्वर्यरागेण न विस्मयेन
इमं हि दृष्ट्वा तव भिक्षु(वेषं वेशं जातानुकम्पोऽस्म्यपि चागताश्रुः ।। १०.३२ ।।
यावत्स्ववंशप्रति(रूप रूपं रूपरूपं न ते जराभ्येत्यभिभूय भूयः
तद्भुङ्क्ष्व भिक्षाश्रमकाम कामान् कालेऽसि कर्ता प्रियधर्म धर्मं [Pआदसबन्द्च्दरे एछन्गेदिन्.] ।। १०.३३ ।।
शक्नोति जीर्णः खलु धर्मं आप्तुं कामोपभोगेष्वगतिर्जरायाः
अतश्च यूनः कथयन्ति कामान् मध्यस्य वित्तं स्थविरस्य धर्मं ।। १०.३४ ।।
धर्मस्य चार्थस्य च जीवलोके प्रत्यर्थिभूतानि हि यौवनानि
संरक्ष्यमानान्यपि दुर्ग्रहाणि कामा यतस्तेन (पथा यथा )हरन्ति ।। १०.३५ ।।
वयांसि जीर्णानि (विमर्शवन्ति विमर्शयन्ति धीराण्यवस्थानपरायणानि
अल्पेन यत्नेन शमात्मकानि भवन्त्य(गत्यैव गत्येव )च लज्जया च ।। १०.३६ ।।
अतश्च लोलं विषयप्रधानं प्रमत्तं अक्षान्तं अदीर्घदर्शि
बहुच्छलं यौवनं अभ्यतीत्य निस्तीर्य कान्तारं इवाश्वसन्ति ।। १०.३७ ।।
तस्मादधीरं चपलप्रमादि नवं वयस्तावदिदं व्यपैतु
कामस्य पूर्वं हि वयः शरव्यं न शक्यते रक्षितुं इन्द्रियेभ्यः ।। १०.३८ ।।
अथो चिकीर्षा तव धर्म एव यजस्व यज्ञं कुलधर्म एषः
यज्ञैरधिष्ठाय हि नाकपृष्ठं ययौ मरुत्वानपि नाकपृष्ठं ।। १०.३९ ।।
सुवर्णकेयूरविदष्टबाहवो मणिप्रदीपोज्ज्वलचित्रमौलयः
नृपर्षयस्तां हि गतिं गता मखैः श्रमेण यां एव महर्षयो ययुः ।। १०.४० ।।
इत्येवं मगधपतिर्((वचो )बभाषे यः सम्यग्वलभिदिव (ब्रुवन्बभासे ध्रुवं बभाषे ) ।।
तच्छ्रुत्वा न स (विचचाल विचचार )राजसूनुः कैलासो गिरिरिव नैकचित्रसानुः ।। १०.४१ ।।
इति (श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृते श्रेण्याभिगमनो नाम दशमः सर्गः -- १० --