बुद्धचरितम्/एकादशः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← दशमः सर्गः बुद्धचरितम्
एकादशः सर्गः
अश्घोषविरचितम्
द्वादशः सर्गः →

अथैवं उक्तो मगधाधिपेन सुहृन्मुखेन प्रतिकूलं अर्थं
स्वस्थोऽविकारः कुलशौचशुद्धः शौद्धोदनिर्वाक्यं इदं जगाद ।। ११.१ ।।

नाश्चर्यं एतद्भवतो (विधानं अभिधातुं जातस्य हर्यङ्ककुले विशाले
यन्मित्रपक्षे तव मित्रकाम स्याद्वृत्तिरेषा परिशुद्धवृत्तेः ।। ११.२ ।।

असत्सु मैत्री स्व(कुलानुवृत्ता कुलानुरूपा न तिष्ठति श्रिरिव विक्लवेषु
पूर्वैः कृतां प्रीतिपरंपराभिस् तां एव सन्तस्तु विवर्धयन्ति ।। ११.३ ।।

ये चार्थकृच्छ्रेषु भवन्ति लोके समानकार्याः सुहृदां मनुष्याः
मित्राणि तानीति परैमि बुद्ध्या स्वस्थस्य वृद्धिष्विह को हि न स्याथ् ।। ११.४ ।।

एवं च ये द्रव्यं अवाप्य लोके मित्रेषु धर्मे च नियोजयन्ति
अवाप्तसाराणि धनानि तेषां भ्रष्टानि नान्ते जनयन्ति तापं ।। ११.५ ।।

सुहृत्तया चार्यतया च राजन् (खल्वेष यो मां प्रति निश्चयस्विभाव्य मां एव विनिश्चयस्)ते
अत्रानुनेष्यामि सुहृत्तयैव ब्रूयां अहं नोत्तरं अन्यदत्र ।। ११.६ ।।

अहं जरामृत्युभयं विदित्वा मुमुक्षया धर्मं इमं प्रपन्नः
बन्धून्प्रियानश्रुमुखान्विहाय प्रागेव कामानशुभस्य हेतून् ।। ११.७ ।।

नाशीविषेभ्यो (हि अपि )तथा बिभेमि नैवाशनिभ्यो गगनाच्च्युतेभ्यः
न पावकेभ्योऽनिलसंहितेभ्यो यथा भयं मे विषयेभ्य (एव एभ्यः ) ।। ११.८ ।।

कामा ह्यनित्याः कुशलार्थचौरा रिक्ताश्च मायासदृशाश्च लोके
आशास्यमाना अपि मोहयन्ति चित्तं नृणां किं पुनरात्मसंस्थाः ।। ११.९ ।।

कामाभिभूता हि न यान्ति शर्म त्रिपिष्टपे किं (बत वत )मर्त्यलोके
कामैः सतृष्णस्य हि नास्ति तृप्तिर् यथेन्धनैर्वातसखस्य वह्नेः ।। ११.१० ।।

जगत्यनर्थो न समोऽस्ति कामैर् मोहाच्च तेष्वेव जनः प्रसक्तः
तत्त्वं विदित्वैवं अनर्थभीरुः प्राज्ञः स्वयं कोऽभिलषेदनर्थं ।। ११.११ ।।

समुद्रवस्त्रां अपि गां अवाप्य पारं जिगीषन्ति महार्णवस्य
लोकस्य कामैर्न वितृप्तिरस्ति पतद्भिरम्भोभिरिवार्णवस्य ।। ११.१२ ।।

देवेन वृष्टेऽपि हिरण्यवर्षे द्वीपान्(समग्रांश्समुद्रांश्)चतुरोऽपि जित्वा
शक्रस्य चार्धासनं अप्यवाप्य मान्धातुरासीद्विषयेष्वतृप्तिः ।। ११.१३ ।।

भुक्त्वापि राज्यं दिवि देवतानां शतक्रतौ वृत्रभयात्प्रनष्टे
दर्पान्महर्षीनपि वाहयित्वा कामेष्वतृप्तो नहुषः पपात ।। ११.१४ ।।

ऐडश्च राजा त्रिदिवं विगाह्य नीत्वापि देवीं वशं उर्वशीं तां
लोभादृषिभ्यः कनकं जिहीर्षुर् जगाम नाशं विषयेष्वतृप्तः ।। ११.१५ ।।

बलेर्महेन्द्रं नहुषं महेन्द्राद् इन्द्रं पुनर्ये नहुषादुपेयुः
स्वर्गे क्षितौ वा विषयेषु तेषु को विश्वसेद्भाग्यकुलाकुलेषु ।। ११.१६ ।।

चीराम्बरा मूलफलाम्बुभक्षा जटा वहन्तोऽपि भुजंगदीर्घाः
यैर्(नान्यअन्य)कार्या मुनयोऽपि भग्नाः कः कामसंज्ञान्मृगयेत शत्रून् ।। ११.१७ ।।

उग्रायुधश्चोग्रधृतायुधोऽपि येषां कृते मृत्युं अवाप भीष्माथ्
चिन्तापि तेषां अशिवा वधाय (सद्तद्)वृत्तिनां किं पुनरव्रतानां ।। ११.१८ ।।

आस्वादं अल्पं विषयेषु मत्वा संयोजनोत्कर्षं अतृप्तिं एव
सद्भ्यश्च गर्हां नियतं च पापं कः कामसंज्ञं विषं (आददीत आससाद ) ।। ११.१९ ।।

कृष्यादिभिः (कर्मभिरर्दितानां धर्मभिरन्वितानां कामात्मकानां च निशम्य दुःखं
स्वास्थ्यं च कामेष्वकुतूहलानां कामान्विहातुं क्षमं आत्मवद्भिः ।। ११.२० ।।

ज्ञेया विपत्कामिनि कामसंपथ् सिद्धेषु कामेषु मदं ह्युपैति
मदादकार्यं कुरुते न कार्यं येन क्षतो दुर्गतिं अभ्युपैति ।। ११.२१ ।।

यत्नेन लब्धाः परिरक्षिताश्च ये विप्रलभ्य प्रतियान्ति भूयः
तेष्वात्मवान्याचितकोपं एषु कामेषु विद्वानिह को रमेत ।। ११.२२ ।।

अन्विष्य चादाय च जाततर्षा यानत्यजन्तः परियान्ति दुःखं
लोके तृणोल्कासदृशेषु तेषु कामेषु कस्यात्मवतो रतिः स्याथ् ।। ११.२३ ।।

अनात्मवन्तो हृदि यैर्विदष्टा विनाशं अर्छन्ति न यान्ति शर्म
क्रुद्धोग्रसर्पप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्याथ् ।। ११.२४ ।।

अस्थि (क्षुधार्ता क्षुधार्त्ता )इव सारमेया भुक्त्वापि यान्नैव भवन्ति तृप्ताः
जीर्णास्थिकङ्कालसमेषु तेषु कामेषु कस्यात्मवतो रतिः स्याथ् ।। ११.२५ ।।

ये राजचौरोदकपावकेभ्यः साधारणत्वाज्जनयन्ति दुःखं
तेषु प्रविद्धामिषसंनिभेषु कामेषु कस्यात्मवतो रतिः स्याथ् ।। ११.२६ ।।

यत्र स्थितानां अभितो विपत्तिः शत्रोः सकाशादपि बान्धवेभ्यः
हिंस्रेषु तेष्वायतनोपमेषु कामेषु कस्यात्मवतो रतिः स्याथ् ।। ११.२७ ।।

गिरौ वने चाप्सु च सागरे च (यान्यद्)भ्रंशं (अर्छन्ति विलङ्घमानाः अर्छन्त्यभिलङ्घमानाः ) ।।
तेषु द्रुमप्राग्रफलोपमेषु कामेषु कस्यात्मवतो रतिः स्याथ् ।। ११.२८ ।।

(तीव्रैः तीर्थैः )प्रयत्नैर्विविधैरवाप्ताः क्षणेन ये नाशं इह प्रयान्ति
स्वप्नोपभोगप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्[Vएर्सेस्११.२९ अन्द्११.३० अरे एछन्गेदिनेद्. .] ।। ११.२९ ।।

यानर्चयित्वापि न यान्ति शर्म विवर्धयित्वा परिपालयित्वा
अङ्गार(कर्षूकर्ष)प्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्याथ् ।। ११.३० ।।

विनाशं ईयुः कुरवो यदर्थं वृष्ण्यन्धका (मेखलमैथिल)दण्डकाश्च
(सूनासिशूलासि)काष्ठप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्याथ् ।। ११.३१ ।।

सुन्दोपसुन्दावसुरौ यदर्थं अन्योअन्यवैरप्रसृतौ विनष्टौ
सौहार्दविश्लेषकरेषु तेषु कामेषु कस्यात्मवतो रतिः स्याथ् ।। ११.३२ ।।

(येषां कृते वारिणि पावके कामान्धसंज्ञाः कृपया व के [सिच्] )च क्रव्यात्सु (चात्मानं नात्मानं )इहोत्सृजन्ति
सपत्नभूतेष्वशिवेषु तेषु कामेषु कस्यात्मवतो रतिः स्याथ् ।। ११.३३ ।।

(कामार्थं अज्ञः कामान्धसंज्ञः )कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि
कामार्थं आशाकृपणस्तपस्वी (मृत्युं श्रमं चार्छति मृत्युश्रमं चार्हति )जीव(लोकः लोके ) ।। ११.३४ ।।

गीतैर्ह्रियन्ते हि मृगा वधाय रूपार्थं अग्नौ शलभाः पतन्ति
मत्स्यो गिरत्यायसं आमिषार्थी तस्मादनर्थं विषयाः फलन्ति ।। ११.३५ ।।

कामास्तु भोगा इति (यन्मतिः यन्मतं )स्याद् (भोगा भोग्या )न केचित्परिगण्यमानाः
वस्त्रादयो द्रव्यगुणा हि लोके दुःखप्रतीकार इति प्रधार्याः ।। ११.३६ ।।

इष्टं हि तर्षप्रशमाय तोयं क्षुन्नाशहेतोरशनं तथैव
वातातपाम्ब्वावरणाय वेश्म कौपीनशीतावरणाय वासः ।। ११.३७ ।।

निद्राविघाताय तथैव शय्या यानं तथाध्वश्रमनाशनाय
तथासनं स्थानविनोदनाय स्नानं मृजारोग्यबलाश्रयाय ।। ११.३८ ।।

दुःखप्रतीकारनिमित्तभूतास् तस्मात्प्रजानां विषया न (भोगाः भोग्याः ) ।।
अश्नामि भोगानिति कोऽभ्युपेयाथ् प्राज्ञः प्रतीकारविधौ (प्रवृत्तः प्रवृत्तान्) ।। ११.३९ ।।

यः पित्तदाहेन विदह्यमानः शीतक्रियां भोग इति व्यवस्येथ्
दुःखप्रतीकारविधौ प्रवृत्तः कामेषु कुर्यात्स हि भोगसंज्ञां ।। ११.४० ।।

कामेष्वनैकान्तिकता च यस्माद् अतोऽपि मे तेषु न भोगसंज्ञा
यए एव भावा हि सुखं दिशन्ति तए एव दुःखं पुनरावहन्ति ।। ११.४१ ।।

गुरूणि वासांस्यगुरूणि चैव सुखाय (शीते गीते )ह्यसुखाय (घर्मे धर्मे ) ।।
चन्द्रांशवश्चन्दनं एव चोष्णे सुखाय दुखाय भवन्ति शीते ।। ११.४२ ।।

द्वंद्वानि सर्वस्य यतः प्रसक्तान्य् अलाभलाभप्रभृतीनि लोके
अतोऽपि नैकान्तसुखोऽस्ति कश्चिन् नैकान्तदुःखः पुरुषः प्र्ठिव्यां ।। ११.४३ ।।

दृष्ट्वा (विमिश्रां च मिश्रां )सुखदुःकतां मे राज्यं च दास्यं च मतं समानं
नित्यं हसत्येव हि नैव राजा न चापि संतप्यतए एव दासः ।। ११.४४ ।।

आज्ञा नृपत्वेऽभ्यधिकेति (यत्स्यान्यस्माथ् महान्ति दुःखान्यत एव राज्ञः
आसङ्गकाष्ठप्रतिमो हि राजा लोकस्य हेतोः परिखेदं एति ।। ११.४५ ।।

राज्ये नृपस्त्यागिनि (बह्ववङ्क)मित्रे विश्वासं आगच्छति चेद्विपन्नः
अथापि विश्रम्भं उपैति नेह किं नाम सौख्यं चकितस्य राज्ञः ।। ११.४६ ।।

यदा च जित्वापि महीं समग्रां वासाय दृष्टं पुरं एकं एव
तत्रापि चैकं भवनं निषेव्यं श्रमः परार्थे ननु राजभावः ।। ११.४७ ।।

राज्ञोऽपि (वासोयुगं वासे युगं )एकं एव क्षुत्संनिरोधाय तथान्नमात्रा
शय्या तथैकासनं एकं एव शेषा विशेषा नृपतेर्मदाय ।। ११.४८ ।।

तुष्ट्यर्थं एतच्च फलं यदीष्टं ऋतेऽपि राज्यान्मम तुष्टिरस्ति
तुष्टौ च सत्यां पुरुषस्य लोके सर्वे विशेषा ननु निर्विशेषाः ।। ११.४९ ।।

तन्नास्मि कामान्प्रति संप्रतार्यः (क्षेमं क्षेमे )शिवं मार्गं अनुप्रपन्नः
स्मृत्वा सुहृत्त्वं तु पुनः पुनर्मां ब्रूहि प्रतिज्ञां खलु (पालयेति पालयन्ति ) ।। ११.५० ।।

न ह्यस्म्यमर्षेण वनं प्रविष्टो न शत्रुबाणैरवधूतमौलिः
कृतस्पृहो नापि फलाधिकेभ्यो गृह्णामि नैतद्वचनं यतस्ते ।। ११.५१ ।।

यो दन्दशूकं कुपितं भुजंगं मुक्त्वा व्यवस्येद्धि पुनर्ग्रहीतुं
दाहात्मिकां वा ज्वलितां तृणोल्कां संत्यज्य कामान्स पुनर्भजेत ।। ११.५२ ।।

अन्धाय यश्च स्पृहयेदनन्धो बद्धाय मुक्तो विधनाय (चाढ्यः वाढ्यः ) ।।
उन्मत्तचित्ताय च कल्यचित्तः स्पृहां स कुर्याद्विषयात्मकाय ।। ११.५३ ।।

(भैक्षोपभोगीति च भिक्षोपभोगी वर )नानुकम्प्यः कृती जरामृत्युभयं तितीर्षुः
इहोत्तमं शान्तिसुखं च यस्य परत्र दुःखानि च संवृतानि ।। ११.५४ ।।

लक्ष्म्यां महत्यां अपि वर्तमानस् तृष्णाभिभूतस्त्वनुकम्पितव्यः
प्राप्नोति यः शान्तिसुखं न चेह परत्र (दुःखैः दुःखं )प्रतिगृह्यते च ।। ११.५५ ।।

एवं तु वक्तुं भवतोऽनुरूपं सत्त्वस्य वृत्तस्य कुलस्य चैव
ममापि वोढुं सदृशं प्रतिज्ञां सत्त्वस्य वृत्तस्य कुलस्य चैव ।। ११.५६ ।।

अहं हि संसार(शरेण रसेन )विद्धो विनिःसृतः (शान्तिं शान्तं )अवाप्तुकामः
नेच्छेयं आप्तुं त्रिदिवेऽपि राज्यं निरामयं किं (बत वत )मानुषेषु ।। ११.५७ ।।

त्रिवर्गसेवां नृप यत्तु कृत्स्नतः परो मनुष्यार्थ इति त्वं आत्थ मां
अनर्थ इत्य्(एव ममात्र दर्शनं आत्थ ममार्थदर्शनं क्षयी त्रिवर्गो हि न चापि तर्पकः ।। ११.५८ ।।

पदे तु यस्मिन्न जरा न (भीर्न रुङ्भीरुता न जन्म नैवोपरमो न (चाधयः वाधयः ) ।।
तं एव मन्ये पुरुषार्थं उत्तमं न विद्यते यत्र पुनः पुनः क्रिया ।। ११.५९ ।।

यदप्यवोचः परिपाल्यतां जरा नवं वयो गच्छति विक्रियां इति
अनिश्चयोऽयं चपलं हि दृश्यते जराप्यधीरा धृतिमच्च यौवनं ।। ११.६० ।।

स्वकर्मदक्षश्च (यदान्तको यदा तु को )जगद् वयःसु (सर्वेष्ववशं विकर्षति सर्वेषु च संविकर्षति ) ।।
विनाशकाले कथं अव्यवस्थिते जरा प्रतीक्ष्या विदुषा शमेप्सुना ।। ११.६१ ।।

जरायुधो व्याधिविकीर्णसायको यदान्तको व्याध (इवाशिवः इवाश्रितः )स्थितः
प्रजामृगान्भाग्यवनाश्रितांस्तुदन् वयःप्रकर्षं प्रति को मनोरथः ।। ११.६२ ।।

(अतो सुतो )युवा वा स्थविरोऽथवा शिशुस् तथा त्वरावानिह कर्तुं अर्हति
यथा भवेद्धर्मवतः (कृतात्मनः कृपात्मनः प्रवृत्तिरिष्टा विनिवृत्तिरेव वा ।। ११.६३ ।।

यदात्थ (चापीष्टवा दीप्त)फलां कुलोचितां कुरुष्व धर्माय मखक्रियां इति
नमो मखेभ्यो न हि कामये सुखं परस्य दुःख(क्रियया यदिष्यते क्रिययापदिश्यते ) ।। ११.६४ ।।

परं हि हन्तुं विवशं फलेप्सया न युक्तरूपं करुणात्मनः सतः
क्रतोः फलं यद्यपि शाश्वतं भवेथ् तथापि कृत्वा किं (उ यत्क्षयात्मकं उपक्षयात्मकं ) ।। ११.६५ ।।

भवेच्च धर्मो यदि नापरो विधिर् व्रतेन शीलेन मनःशमेन वा
तथापि नैवार्हति सेवितुं क्रतुं विशस्य यस्मिन्परं उच्यते फलं ।। ११.६६ ।।

इहापि तावत्पुरुषस्य तिष्ठतः प्रवर्तते यत्परहिंसया सुखं
तदप्यनिष्टं सघृणस्य धीमतो भवान्तरे किं (बत वत )यन्न दृश्यते ।। ११.६७ ।।

न च प्रतार्योऽस्मि फलप्रवृत्तये भवेषु राजन्रमते न मे मनः
लता इवाम्भोधरवृष्टिताडिताः प्रवृत्तयः सर्वगता हि चञ्चलाः ।। ११.६८ ।।

इहागतश्चाहं इतो दिदृक्षया मुनेरराडस्य विमोक्षवादिनः
प्रयामि चाद्यैव नृपास्तु ते शिवं वचः (क्षमेथा मम तत्त्वक्षमेथाः शमतत्त्व)निष्ठुरं ।। ११.६९ ।।

(अवेन्द्रवद्अथेन्द्रवद्)दिव्यव शश्वदर्कवद् गुणैरव श्रेय इहाव गां अव
अवायुरार्यैरव सत्सुतानव श्रियश्च राजन्नव धर्मं आत्मनः ।। ११.७० ।।

हिमारिकेतूद्भव(संभवान्तरे संप्लवान्तरे यथा द्विजो याति विमोक्षयंस्तनुं
हिमारि(शत्रुक्षयशत्रुं क्षय)शत्रु(घातने घातिनस् तथान्तरे याहि (विमोक्षयन्विमोचयन्)मनः ।। ११.७१ ।।

नृपोऽब्रवीत्साञ्जलिरागतस्पृहो यथेष्टं (आप्नोतु आप्नोति )भवानविघ्नतः
अवाप्य काले कृतकृत्यतां इमां ममापि कार्यो भवता त्वनुग्रहः ।। ११.७२ ।।

स्थिरं प्रतिज्ञाय तथेति पार्थिवे ततः स वैश्वंतरं आश्रमं ययौ
परिव्रजन्तं (तं उदीक्ष्य समुदीक्ष्य )विस्मितो नृपोऽपि (वव्राज पुरिं गिरिव्रजं च प्रापुरिमं गिरिं व्रजन्) ।। ११.७३ ।।

इति (श्रीबुद्धचरिते महाकाव्ये (अश्वघोषकृते कामविगर्हणो नामैकादशः सर्गः -- ११ --