सामग्री पर जाएँ

प्रकाशसंहिता/प्रथमपरिच्छेदः/अध्यायः ५

विकिस्रोतः तः
← प्रथमपरिच्छेदः, अध्यायः ४ प्रकाशसंहिता
अध्यायः ५
[[लेखकः :|]]
प्रथमपरिच्छेदः, अध्यायः ६ →

श्रीहंस उवाच

ज्ञानेन्द्रियाणि पञ्चानि पञ्चकर्मेन्द्रियाणि च ।
रजोभागगतान्येषु श्रोत्रमा(त्रं)द्यं विशिष्यते ।। ५.१ ।।

श्रावणास्याद्यभक्तेस्तु साधकत्वाद्गुणाधिकं ।
त्वक्चर्मगोलके सर्वदेहगे समु(पाश्रिता)पस्थिता ।। ५.२ ।।

कुष्ठभङुरपामाद्याः त्वक्दोषाः परिकीर्तिताः ।
अव्यक्तादि स्पर्शदोषशून्याः शीतोष्णपूर्वकाः ।। ५.३ ।।

स्पर्शास्तद्विषयाः प्रोक्ताः वायुतेजोम्बुभूमयः ।
पदार्थाः केचनगुणाः सत्वगिन्द्रियगोचराः ।। ५.४ ।।

त्वक्स्पर्शौ प्रकृतिस्थौ द्वौ नित्यौ स्थूलावनित्यकौ ।
तज्जन्यौ प्राकृतौ वायुसंश्रयौ नश्वरौ मतौ ।। ५.५ ।।

इन्द्रियाणान्तु विषयाः गुणामात्राः प्रकीर्तिताः ।
ज्ञानात्मकानां ते सर्वे द्विविधाः परिकीर्तिताः ।। ५.६ ।।

विष्णुवैष्णवसेवायै अनुकूलाःशुभा मताः ।
अशुभाः प्रतिकूलाश्च पुनस्ते त्रिविधा मताः ।। ५.७ ।।

मुक्तियोग्याश्रिता नित्याः नित्यसृतिषु मध्यमाः ।
तमोयोग्याश्रिता नीचास्तत्तद्योग्यसुसाधनैः ।। ५.८ ।।

नीचमध्योत्तमस्थानप्रापकाः क्रमयोगतः ।
जीवस्वरूपभूतानि मनोमात्रेन्द्रियाणि च ।। ५.९ ।।

तत्स्वरूपाणि नित्यानि उत्तमेषु शुभान्यपि ।
उत्तमा मुक्तियोग्यास्तु नित्यबद्धास्तु मध्यमाः ।। ५.१० ।।

अधमास्तु तमोयोग्याः मनोमात्रादयस्तथा ।
स्वारूपिकाश्चलिङ्गस्थाः अनित्याः स्थूलदेहगाः ।। ५.११ ।।

विष्णोरमायाब्रह्मादि मुक्तानां क्रमयोगतः ।
मनोमात्रेन्द्रियज्ञानसुखधैर्यबलादयः ।। ५.१२ ।।

स्वरूपाण्येवविष्णोस्तु नित्यव्याप्तानि कृत्स्नशः ।
स्वतन्त्राणि स्वतन्त्रस्य (कर्माणि तु)पुरुषस्य महात्मनः ।। ५.१३ ।।

स्वस्वरूपस्थितौ यस्य ज्ञानेकर्मण्यपि स्फुटं ।
सर्वस्वरूपचेष्टासु परापेक्षा न यस्य हि ।। ५.१४ ।।

स स्वन्तन्त्र इति प्रोक्तः स विष्णुर्नेतरः क्वचित् ।
अव्यक्ततत्कार्यमय देहशून्यारमापि हि ।। ५.१५ ।।

तच्चित्तेन्द्रियमात्रास्तु नित्या व्याप्ता स्वरूपका(काः) ।
विष्ण्वैकवशगास्तस्याः हर्यपेक्षासदस्ति हि ।। ५.१६ ।।

परापेक्षयुतत्वात्सा अस्वतन्त्रा प्रकीर्तिता ।
ब्रह्मादिमुक्तामुक्तानां अस्वतन्त्र्यमनादितः ।। ५.१७ ।।

सिद्धमेव स्वरूपे च ज्ञाने कर्मण्यपि स्फुटं ।
नीचानीचस्वरूपाणां उत्तमोत्तमचेतसां ।। ५.१८ ।।

प्रसादतः प्रवृत्तिर्हि ज्ञानभक्त्यादि चाखिलं ।
ज्ञानाज्ञानतमोमोक्षाः नित्यानित्यजडस्य च ।। ५.१९ ।।

नोत्पत्तिनाशौ जीवानां त्रिविधानां समस्तशः ।
स्वरूपदुःखद्वेषेर्ष्या चिन्तासन्तापपूर्वकाः ।। ५.२० ।।

न मुक्तानां देहयोगो यावत्तेषां भयादिकं ।
भयादीनि च योग्येभ्यः उत्तमेष्वल्पमेव च ।। ५.२१ ।।

ज्ञानं मुक्तिरयोग्यस्य न च स्वप्नेपि दृश्यते ।
स्वरूपाज्ञानतमसी योग्यानां न कदाचन ।। ५.२२ ।।

सृष्टिं स्थितिं संहृतिं च नियतिं जगतोस्य तु ।
ज्ञानाज्ञाने तमोमोक्षौ विष्णुनैव विदो विदुः ।। ५.२३ ।।

ब्रह्मादीनां स्वरूपन्तु अत्यन्ताणुतमं मतं ।
तदिन्द्रियाणि सूक्ष्माणि सूक्ष्माण्येव स्थिराणि तु ।। ५.२४ ।।

चक्षुर्गोलकगं नेत्रं रूपग्राह्यमतीन्द्रियं ।
नित्यमव्यक्तगं स्थूलमनित्यं जन्यमक्षि च ।। ५.२५ ।।

स्वरूपनेत्रकलितं नित्यानित्ये अक्षिणी उभे ।
ज्ञानप्रदे साक्षिसंज्ञे सर्वस्वारूपकेन्द्रियं ।। ५.२६ ।।

उक्तानां वक्ष्यमाणानां इन्द्रियाणां समग्रशः ।
स्वारूपेन्द्रियसाहाय्यं विना शक्तिर्नविद्यते ।। ५.२७ ।।

वृद्धिं हानिं च लभते गुणैर्देषैः स्वरूपतः ।
साक्षीन्द्रियन्तु योग्यानां स्वोत्तमद्रोहतां विना ।। ५.२८ ।।

तत्रापीषत्कुतश्चित्तु तत्सर्वं कुण्ठितं भवेत् ।
पटलं कामिला काचः प्रतिदीधिति सङ्गतिः ।। ५.२९ ।।

नेत्ररोगं व्रणाद्याश्च पैत्यप्रतिहतास्तथा ।
अक्षिभ्रमणशैत्याद्याः नेत्रदोषाः प्रकीर्तिताः ।। ५.३० ।।

आरस्थत्वं दूरगत्वं सौक्ष्मं च व्यवधानतः ।
स्थितिः समानाभिघातः अर्थदोषाः प्रकीर्तिताः ।। ५.३१ ।।

निर्देषविषया ये च निर्देषेक्षणगोचराः ।
शुक्लं रक्तं श्वेतपीतहरितादीनि कृत्स्नशः ।। ५.३२ ।।

चित्रादीनि स्वरूपाणि चक्षुषो विषयाणि च ।
उद्भूतरूपसंयुक्ताः तेजोवार्भूमयात्मका ।। ५.३३ ।।

चक्षुषो विषयाः प्रोक्ताः केचित्सूर्योदयोऽमराः ।
जिह्वा गोलकगं प्राहुः रसनेन्द्रियमुत्तमं ।। ५.३४ ।।

अतीन्द्रियमरुच्याद्यास्तद्धोषास्फोटकादयः ।
कषायश्च कटुस्तिक्तः लवणो मधुराम्लकौ ।। ५.३५ ।।

तथा चित्ररसश्चेति रसनेन्द्रियगोचराः ।
दोषहीनस्य च रसज्ञानं जनयति स्फुटं ।। ५.३६ ।।

ज्ञानं जनयति क्षिप्रं प्राकृतंप्रकृतिस्थितं ।
दुष्टा पर्युषिता यामहीना पूतियुता रसाः ।। ५.३७ ।।

सदोषा रससम्बन्धे रसना ज्ञानदा न हि ।
भूमयांमया अर्थाः रसनेन्द्रियगोचराः ।। ५.३८ ।।

घ्राणगोलकगं प्रोक्तं नासिकेन्द्रियमूर्जितं ।
पीनसाद्याः घ्राणदोषाः गन्धग्राहेन्द्रियं मतं ।। ५.३९ ।।

व्यामिश्राद्याः दोषभागाः गन्धदोषाः प्रकीर्तिताः ।
वक्त्रगोलकगं प्रोक्तं वागिन्द्रियमतीन्द्रियं ।। ५.४० ।।

नित्यानित्यवचांस्तस्य सत्यासत्यवचांसि च ।
वचांसि युक्तायुक्तानि गीर्वाणप्राकृतानि च ।। ५.४१ ।।

मूकत्वादि महादोषहीनवाग्गोचराणि च ।
गद्गदत्वास्पष्टताद्याः वाग्दोषाः परिकीर्तिताः ।। ५.४२ ।।

हस्तगोलकगं प्राहुः पाणीन्द्रियमतीन्द्रियं ।
व्यङ्गुलत्वादयस्तस्य दोषाः निर्देषामिन्द्रियं ।। ५.४३ ।।

गृह्णाती(व)ह परत्रापि यद्धितः स्वात्मनः सदा ।
भूमयारत्नहेमाद्या बह्वर्था विषयामताः ।। ५.४४ ।।

अश्मयाश्च तथाभावाः हस्तयोर्विषयामताः ।
कण्टकोच्छिष्टपाषाणवृश्चिकाद्या अनिष्टदाः ।। ५.४५ ।।

हेया अर्थाश्च हस्ताभ्यां परित्याज्याः सदा मताः ।
सानिष्टदं हितकरं हस्तयोर्हितदं मतं ।। ५.४६ ।।

अङ्घ्रिगोलकगं प्राहुः पादेन्द्रियमलं बुधाः ।
पङ्गुत्वाद्याः अङ्घ्रिदोषाः निर्देषगतिसाधनं ।। ५.४७ ।।

स्वारूपिगं प्रकृतिगं प्राकृतं त्रिविधं मतं ।
येनेन्द्रियेण यत्कर्मक्रियते साधुभिःसदा ।। ५.४८ ।।

तत्तस्य विषयः प्रोक्तः तन्नामेन्द्रिय गोचरं ।
पक्वापक्वं च भुक्तं च वातं जीर्णं च कुक्षिगं ।। ५.४९ ।।

कालेन विपरीतन्तु शकृदित्युच्यते बुधैः ।
तादृगर्थोत्सर्गसंज्ञो पायोर्विषयमीरितं ।। ५.५० ।।

भगन्धरादयो मूलव्रणाद्याः पायुसंस्थिताः ।
दोषाः निरोधातिसाराः पायोर्न यदि कार्यकृथ् ।। ५.५१ ।।

स्त्रीपुंसोर्भगमेढ्रादि गोलकस्थं ह्यतीन्द्रियं ।
उपस्थशिश्नसंज्ञे द्वे इन्द्रिये दोषवर्जिते ।। ५.५२ ।।

रत्युत्सृतौ प्रभवतः असृक्शुक्लाश्रयौ मतौ ।
मेहव्रणाद्याः तद्धोषाः निर्देषं स्वार्थसाधकं ।। ५.५३ ।।

प्रकृतं प्राकृतं चैव स्वरूपेन्द्रिय संयुतं ।
अर्थक्रियाकारि तद्धि नान्यथा भवति ध्रुवं ।। ५.५४ ।।

ज्ञानेन्द्रियाणि पञ्चापि पञ्चकर्मेन्द्रियाणि च ।
रजः परिच्छेदगानि भिन्नशक्तियुतानि च ।। ५.५५ ।।

ज्ञानेन्द्रियाणां विषयाः क्रमाच्छब्दादयोमताः ।
शब्दस्पर्शारूपरसगन्धास्ते च गुणामताः ।। ५.५६ ।।

मात्रातमः परिच्छेद पञ्चभूतान्तरामताः ।
भूतानि मात्रा गर्भेषु लीनाहुर्मनीषिणः ।। ५.५७ ।।

भावरूपाज्ञानगतं पञ्चकं गुणगर्भकं ।
मात्रासु लीनभूतेषु संस्थितं भावपञ्चकं ।। ५.५८ ।।

तमोमोहमहामोहतामिश्रान्धतामिस्रकाः ।
तमः शब्दगतं प्राहुः मोहः स्पर्शगतो मतः ।। ५.५९ ।।

महामोहो रूपगतः तामिश्रो रसगोमतः ।
गन्धे अन्धतामिस्राख्यस्त एते भावरूपकाः ।। ५.६० ।।

एतानि प्रकृतिस्थानि नित्याण्यणुतराणि च ।
स्थूलानि भूतव्यक्तानि अनित्यान्यामनन्ति हि ।। ५.६१ ।।

जीवस्वरूपं नैवते तद्विभिन्नं लिङ्गदेहगं ।
जीवस्वरूपविज्ञानाच्छादकं परिकीर्तितं ।। ५.६२ ।।

तत्साधनाद्व्यञ्जमानस्वरूपज्ञानबाधकं ।
तमः स्वरूपज्ञानस्य विपरीतप्रवर्तकं ।। ५.६३ ।।

यो मोहः स उपदेशेपि महामोहोऽनिवर्तयेत् ।
विद्वेषकारणं प्राहुः तामिश्रमुपदेष्टृषु ।। ५.६४ ।।

कुयुक्तिभिः क्वागम्यैश्च गाढाज्ञानैकसाधनं ।
अन्धतामिश्रसंज्ञाख्यं अनाद्यज्ञानमीरितं ।। ५.६५ ।।

अनादिकालमारभ्यानन्तानन्ताणुमात्रकाः ।
केशाद्यायुततुल्याल्पस्वरूपाह्यात्मगोचराः ।। ५.६६ ।।

तत्तत्स्वरूपकाकार हरिणाबिम्बरूपिणा ।
रक्षिताः प्रलये सृष्टा नित्यं तदनपायिना ।। ५.६७ ।।

एतत्कल्पादिभावीनां तत्तकल्पेषु वै क्रमात् ।
सृज्याः विलक्षणास्तुल्याः अतुल्यास्त्रिविधात्मकाः ।। ५.६८ ।।

जीवाः अनादितः सर्वेप्यस्वतन्त्रा रमावशाः ।
प्रकृत्यात्मकलिङ्गेन बद्धाः श्रीहरिकुक्षिगाः ।। ५.६९ ।।

लये सृष्टौ हरिःसृष्टाः अण्डाद्बहिरथान्तरे ।
सात्विकानीचमध्याश्च अन्तः सृज्या अतात्विकाः ।। ५.७० ।।

निरंशामर्त्यगन्धर्वपूर्वाः सर्वे तृणान्तिकाः ।
योग्या नित्यसृतिस्थाश्च तमो योग्याश्च कृत्स्नशः ।। ५.७१ ।।

सर्वेपि लिङ्गसम्बद्धा ये ते जीवा न चान्यथा ।
तेपि पूर्वानन्तकाल्पेष्वेवं स्वोचित साधनैः ।। ५.७२ ।।

मुक्ताः मध्यास्तमः प्राप्ताः सन्ति श्रीहरिगर्भगाः ।
नैषां क्वापि क्वचित्पूर्तिर्भविता नियमाद्धरेः ।। ५.७३ ।।

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चमोऽध्यायः